सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ । जु॒हू॒मसि॒ द्यवि॑द्यवि ॥
सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ । जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥
सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिन्द्रम् ऊतये अस्मद्रक्षार्थं द्यविद्यवि प्रतिदिनं जुहूमसि आह्वयामः। आह्वाने दृष्टान्तः। गोदुहे गोधुगर्थं सुदुघामिव सुष्ठु दोग्ध्रीं गामिव । यथा लोके गोः यो दोग्धा तदर्थं तस्याभिमुख्येन दोहनीयां गामाह्वयति तद्वत् । ‘वस्तोः' इत्यादिषु द्वादशसु अहर्नामसु ‘द्यविद्यवि ' ( नि. १. ९. १२) इति पठितम् ॥ सुरूपकृत्नुम् । करोतीति कृत्नुः । ‘कृहनिभ्यां क्नुः । (उ. सू. ३. ३१०)। कित्त्वाद्गुणाभावः। तकारोपजनश्छन्दसः। समासान्तोदात्तः। ऊतये। अवतेर्धातोः ‘उदात्तः' इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तो निपातितः । सुदुघाम् । सुष्ठु दुग्धे इति सुदुघा । ‘दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप्प्रत्ययो हकारस्य च धकारः । कित्त्वाद्गुणाभावः। कपः पित्त्वादनुदात्तत्वे धातुस्वरेण उकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति इवसमासे स एव स्वरः। गां दोग्धीति गोधुक् । 'सत्सूद्विष° ' ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । ह्वयतेर्लंडुत्तमपुरुषबहुवचने ‘बहुलं छन्दसि' (पा. सू. २. ४, ७६ ) इति शपः श्लुः । ‘अभ्यस्तस्य च ' ( पा. सू. ६. १. ३३ ) इत्यभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणम् ।' संप्रसारणाञ्च' (पा. सू. ६. १. १०८) इति परपूर्वत्वम् । हलः ' (पा. सू. ६. ५. २) इति दीर्घः । ततः ‘ श्लौ' (पा. सू. ६. १. १० ) इति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा. सू. ७. ४. ५९ ), चुत्वजश्त्वे ( पा. सू. ७. ४. ६२; ८. ४. ५३ )। इदन्तो मसिः ' ( पा. सू. ७. १. ४६ ) इति इकारागमः । प्रत्ययस्वरेण मकारस्योदात्तत्वम् । द्यविद्यवि । द्योशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति द्विर्भावः । तस्य परमाम्रेडितम् ' ( पा. सू. ८. १. २) अनुदात्तं च ' (पा. सू. ८. १. ३) इति द्वितीयस्यानुदात्तत्वम् ॥
“Day by day we invoke the doer of good works for our protection, as a good cow for the milking (is called by the milker).”
As a good cow to him who milks, we call the doer of fair deeds,
To our assistance day by day.
The one who assumes a good form for help—like a good milk-cow for a cow-milker—
do we call upon every day.
Ihn rufen wir, der schönes wirkt, uns zum Genusse Tag für Tag, Wie man die Kuh zum Melken ruft.
Wenn er seine gute Gestalt annimmt, rufen wir ihn zum Beistand Tag für Tag wie die gute Melkkuh für den Melker.
Каждый день мы призываем на помощь
Принявшего прекрасный облик,
Как хорошо доимую корову – для доения.
उप॑ न॒: सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब । गो॒दा इद्रे॒वतो॒ मद॑: ॥
उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ । गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥
हे सोमपाः सोमस्य पातरिन्द्र सोमं पातु नः अस्मदीयानि सवना त्रीणि सवनानि प्रति उप समीपे आ गहि आगच्छ । आगत्य च सोमस्य सोमं पिब । रेवतः धनवतस्तव मदः हर्षः गोदा इत् गोप्रद एव । त्वयि हृष्टे सति अस्माभिर्गावो लभ्यन्ते इत्यर्थः ॥ उप । निपातत्वदाद्युदात्तः । सवना । सूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् ( पा. सू. ३. ३. ११७ )। सुपो डादेशः टिलोपश्च । ‘लिति' (पा. सू. ६. १. १९३ ) इति प्रत्ययात् पूर्वस्य अकारस्योदात्तत्वम् । गहि । गमेः ‘बहुलं छन्दसि ' ( पा. सू. २, ४, ७३ ) इति शपो लुक् । हेर्ङित्त्वात् “ अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना मकालोपः । अतो हेः ' ( पा. सू. ६. ४. १०५ ) इति आभाच्छास्त्रीये लुकि कर्तव्ये ‘असिद्धवदत्रा भात्' ( पा. सू. ६. ४. २२) इति आभाच्छास्त्रीयो मकारलोपोऽसिद्धवद्भवति । सोमपाः । ‘आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति निघातः । तस्याविद्यमानवत्त्वेऽपि पूर्वापेक्षया ‘तिङ्ङतिङः' इति पिबेत्यस्य निघातः । न च पूर्वस्यापि पराङ्गवद्भावेनाविद्यमानवत्त्वम् , असामर्थ्येन तदभावात् । गां ददातीति गोदाः । ‘क्विप् च ' ( पा. सू. ३. २. ७६ ) इति क्विपं परमपि सरूपं बाधित्वा प्रतिपदविधित्वात् । अतो मनिन्व्ननिध्वनिपश्च' (पा. सू. ३. २. ७४ ) इति विच् । क्विपि हि ‘घुमास्था° ' ( पा. सू. ६. ४. ६६ ) इत्यादिना धातोः आकारस्य ईत्वं स्यात् । रेवान् । रयिर्धनमस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुप ' (पा. सू. ६. १. १७६ ) इति मतुप् उदात्तः । छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । ‘रयेर्मतौ बहुलं छन्दसि ' (पा. सू. ६. १. ३७. ६ ) इति संप्रसारणपरपूर्वत्वे गुणश्च । मदः । ‘मदोऽनुपसर्गे' (पा. सू. ३. ३. ६७ ) इति अप् । पित्त्वादनुदात्तः ॥
“Drinker of the Soma juice, come to our (daily) rites, and drink of the libation; the satisfaction of (you who are) the bestower of riches, is verily (the cause of) the gift of cattle.”
Come thou to our libations, drink of Soma; Soma-drinker thou!
The rich One's rapture giveth kine.
Come here to our pressings. Drink of the soma, soma-drinker.
It’s a rich man’s exhilaration that gives cows.
Zu unsern Opfern komm herbei, den Soma, Somatrinker, trink; Denn Rinder schenkt des reichen Rausch.
Komm zu unseren Trankopfern; trink, du Trinker des Soma! Rinderverschenkend ist der Rausch des Reichen.
Приди на наши выжимания (сомы)!
Испей сомы, о пьющий сому!
Ведь опьянение богатого сулит дарение коров.
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् । मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । मा । नः॒ । अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥
अथ सोमपानानन्तरं हे इन्द्र ते तव अन्तमानाम् अन्तिकतमानामतिशयेन समीपवर्तिनां सुमतींना शोभनमतियुक्तानां शोभनप्रज्ञानां पुरुषाणां मध्ये स्थित्वा विद्याम वयं त्वां जानीयाम । यद्वा । सुमतीनां शोभनबुद्धीनां कर्मानुष्ठानविषयाणां लाभार्थमित्यध्याहारः । बुद्धिलाभाय त्वां स्मरेमेत्यर्थः । त्वमपि नः अति मा ख्यः अस्मानतिक्रम्य अन्येषां त्वत्स्वरूपं मा प्रकथय । किंतु आ गहि अस्मानेवागच्छ ॥ अथ इति निपात आद्युदात्तः । ‘निपातस्य च ' ( पा. सू. ६. ३. १३६) इति दीर्घत्वम् । अन्तमानाम् । अतिशयेनान्तिका इति अतिशायने तमप् ( पा. सू. ५. ३. ५५ )। ‘तमे तादेश्च ' ( पा. सू. ६. ४. १४९. ९) इति तादिलोपः । अन्तोऽस्यास्तीति अन्तिकः समीपः । ‘अत इनिठनौ' (पा. सू. ५. २. ११५ ) इति ठन् । नित्त्वादाद्युदात्तः । दूरोत्कर्षस्य ह्यवसानं नास्ति । सामीप्योत्कर्षस्य पुनर्यो यस्य समीपः स एव तस्यान्त इत्यन्तवत्वात् समीपमन्तिकमुच्यते । विद्याम। वेत्तेर्लिङि ‘यासुट् परस्मैपदेषूदात्तो ङिच्च' (पा. सू. ३. ४. १०३ ) इति यासुट् उदात्तः । पादादित्वात् ‘ तिङ्ङतिङः' इति न निघातः । सुमतीनाम् । मतिशब्दे क्तिनन्तेऽपि ‘मन्त्रे वृषइषपचमनविदभूवीरा उदात्तः ' (पा. सू. ३. ३. ९६ ) इति इकार उदात्तः । शोभना मतिर्येषां ते सुमतय इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरापवादेन ‘नञ्सुभ्याम् ' (पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तः । शोभना मतयः सुमतय इति कर्मधारयेऽप्यव्ययपूर्वपदप्रकृतिस्वरापवादः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्ततैव। अतो मतुपि ह्रस्वादन्तोदात्ताच्च सुमतिशब्दात् परस्य नामो ‘नामन्यतरस्याम्' (पा. सू. ६. १. १७७ ) इत्युदात्तत्वम् । ख्यः । ‘ख्या प्रकथने' इत्यस्य लुङि सिपि ‘अस्यतिवक्तिख्यातिभ्योऽङ्' (पा. सू. ३. १. ५२ ) इति च्लेरडादेशः । अतो लोप इटि च' (पा. सू. ६. ४. ६४ ) इत्याकारलोपः । ‘इतश्च ' ( पा. सू. ३. ४. १०० ) इति इकारलोपो रुत्वविसर्गौ। ‘न माङ्योगे' (पा. सू. ६. ४. ७४ ) इत्यडभावः । गहि । गमेः ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३ ) इति शपो लुकि हेर्ङित्वात् “ अनुदात्तोपदेश'(पा. सू. ६. ४. ३७ ) इति मकारलोपस्य • असिद्धवदत्रा भात्' (पा. सू. ६. ४. २२ ) इति असिद्धत्वात् अतो हेः' (पा. सू. ६. ४. १०५) इति लुक् न भवति ॥
“We recognize you in the midst of the right-minded, who are nearest to you; come to us; pass us not by to reveal (yourself to others).”
So may we be acquainted with thine innermost benevolence:
Neglect us not, come hitherward.
Then might we know your favors up close.
Do not look past us—come here!
Dann mögen wir, o Indra, bald erfahren deine höchste Huld; Nicht übersieh uns, komme her.
Dann wollen wir deine vertraulichsten Gnadenbeweise erfahren. Übersieh uns nicht, komm her!
Тогда мы хотим сподобиться
Твоих высших милостей.
Не прогляди нас! Приди!
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् । यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒पः॒ऽचित॑म् । यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥
अत्र यजमानं प्रति होता. ब्रूते । हे यजमान त्वम् इन्द्रं परेहि इन्द्रस्य समीपे गच्छ । गत्वा च विपश्चितं मेधाविनं होतारं मां पृच्छ । असौ होता सम्यक् स्तुतवान् न वा इत्येवं प्रश्नं कुरु । यः इन्द्रः ते तव यजमानस्य सखिभ्यः ऋत्विग्भ्यः वरं श्रेष्ठं धनपुत्रादिकम् आ समन्तात् प्रयच्छतीति शेषः । तादृशमिन्द्रमिति पूर्वत्रान्वयः । पुनरपि कीदृशम् । विग्रं मेधाविनम् अस्तृतम् अहिंसितम् । “ विप्रः ' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु विग्रविपश्चिच्छब्दौ पठितौ (नि. ३. १५. २, १६ ) ॥ विग्रम् । वृषादित्वादाद्युदात्तः । अस्तृतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इन्द्रशब्दे ‘ऋज्रेन्द्राग्र° ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्त्वादाद्युदात्तः । सखिभ्यः । ‘समाने ख्यश्चोदात्तः' ( उ. सू. ४. ५७६ ) इति समाने उपपदे ख्यातेरिण् । ‘डित् ' इत्यनुवृत्तेस्तस्य डित्त्वात् टिलोपश्च (पा. सू. ६. ४. १४३)। तत्संनियोगेन यलोपः। उपपदस्योदात्तत्वम् । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (पा. सू. ६. ३. ८४ ) इति सभावः । अतः सखिशब्द आद्युदात्तः । व्रियते इति वरः । ‘ग्रहवृदृनिश्चिगमश्च ' ( पा. सू. ३. ३. ५८ ) इलि अप् । तस्य पित्त्वात् धातुस्वर एव ॥
“Go, worshipper, to the wise and uninjured Indra, who bestows the best (of blessings) on your friends, and ask him of the (fitness of the) learned (priest who recites his praise).”
Go to the wise unconquered One, ask thou of Indra, skilled in song,
Him who is better than thy friends.
Go away! Ask Indra, spirited and indestructible, attentive to poetic inspiration,
who is your choice from among your comrades.
Zum unbesiegten starken geh, den weisen Indra flehe an, Der deiner Freunde bester ist.
Geh hin, frag den Weisen nach dem schnellen, unüberwindlichen Indra, wer dir lieber als alle Freunde ist.
Пойди спроси мудреца
О быстром, неодолимом Индре,
Который для тебя – лучший из друзей.
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत । दधा॑ना॒ इन्द्र॒ इद्दुव॑: ॥
उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चित् । आ॒र॒त॒ । दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥
नः अस्माकं संबन्धिन ऋत्विज इति शेषः । ते ब्रुवन्तु इन्द्रं स्तुवन्तु । उत अपि च हे निदः निन्दितारः पुरुषाः निः आरत इतो देशान्निर्गच्छत । अन्यतश्चित् अन्यस्मादपि देशान्निर्गच्छत । कीदृशा ऋत्विजः । इन्द्रे दुवः परिचर्या दधानाः कुर्वाणाः । इच्छब्दोऽवधारणे । सर्वदा परिचर्यां कुर्वन्त एव तिष्ठन्त्वित्यर्थः ॥ निन्दन्तीति निदः । ‘णिदि कुत्सायाम् । क्विपि नुमभावश्छान्दसः । सुपोऽनुदात्तत्वात् धातुस्वरः । आमन्त्रितत्वेऽपि वाक्यान्तरत्वेन स्ववाक्यगतपदादपरत्वात् न निघात इत्याद्युदात्तत्वमेव । अन्यतः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । चित् इति अपिशब्दार्थे। तेन न केवलमितः, इतो निर्गत्यान्यतोऽपि निर्गच्छतेति गम्यते । स एष धात्वर्थयोः संबन्धः आरत इति लुङा द्योत्यते । स हि धातुसंबन्धाधिकारे विधीयते । आरत । अर्तेः ‘छन्दसि लुङ्लङलिटः ' (पा. सू. ३. ४. ६ ) इति लोडर्थे लुङ् । मध्यमबहुवचनस्य तादेशः ।' सर्तिशास्त्यर्तिभ्यश्च' ( पा. सू. ३. १. ५६ ) इति च्लेरङादेशः । 'ऋदृशोऽङि गुणः' (पा. सू. ७. ४. १६ ) इति गुणः । आडागमः । दधानाः । शानचश्चित्त्वात् प्राप्तमन्तोदात्तं बाधित्वा परत्वात् ‘अभ्यस्तानामादिः ' (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दुवः । नब्विषयस्यानिसन्तस्य ' ( फि. सू. २६ ) इत्याद्युदात्तः ॥
“Let our ministers, earnestly performing his worship, exclaim, Depart your revilers from hence and every other plural ce (where he is adored).”
Whether the men who mock us say, Depart unto another place,
Ye who serve Indra and none else;
And let scorners say to us, “You have missed out on the rest
in placing your friendship in Indra alone.”
Mag spottend sagen unser Feind: "Kein andrer kümmert sich um sie; Drum feiern Indra sie allein."
Mögen doch unsere Tadler sagen: "Ihr habt euch um alles andere gebracht, indem ihr nur für Indra euch ereifert";
И пусть хулители наши говорят:
А другого-то вы лишились,
Оказывая почтение только Индре.
उ॒त न॑: सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑: । स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ । स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥
हे दस्म शत्रूणामुपक्षपयितरिन्द्र त्वदनुग्रहात् अरिः उत शत्रवोऽपि नः अस्मान् सुभगान् । शोभनधनोपेतान् वोचेयुः उच्यासुः । कृष्टयः मनुष्या अस्मन्मित्रभूता वदन्तीति किमु वक्तव्यमिति शेषः । ततो धनसंपन्ना वयम् इन्द्रस्य शर्मणि इन्द्रप्रसादलब्धे सुखे स्यामेत् भवेमैव । ‘मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु • रयिः क्षत्रं भगः ' ( नि. २. १०. १०) इति पठितम् । ‘मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु ‘कृष्टयः ' (नि. २. ३. ७ ) इति पठितम् ॥ उत । एवमादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तः । सुभगान् । भगशब्दस्य क्रत्वादिषु पाठात् ‘नञ्सुभ्याम् ' (पा. सू. ६.२. १७२ ) इत्युत्तरपदान्तोदात्तत्वं बाधित्वा ‘क्रत्वादयश्च ' ( पा. सू. ६. २. ११८) इत्युत्तरपदाद्युदात्तत्वम् । संहितायां ‘दीर्घादटि समानपादे ' (पा. सू. ८. ३. ९) इति नकारस्य रुत्वम् । भोभगो' ( पा. सू. ८. ३. १७ ) इति यत्वम् । ‘लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९) इति यलोपः । तस्यासिद्धवत्त्वात् न पुनः संधिकार्यम् । ‘अतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इत्याकारस्य सानुनासिकता। अरिः । वचनव्यत्ययः । ‘अच इः ' ( उ. सू. ४, ५७८) इति इप्रत्ययान्तः । प्रत्ययस्वरेणान्तोदात्तः । वोचेयुः उच्यासुः । ‘वच परिभाषणे ' इत्यस्मात् आशीर्लिंङि झेर्जुसादेशे ( पा. सू. ३. ४. १०८) लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङ्प्रत्यये ‘वच उम्' ( पा. सू. ७. ४. २०) इत्युमागमः । गुणः। ‘किदाशिषि' (पा. सू. ३. ४. १०४ ) इति यासुट्। ‘छन्दस्युभयथा ' (पा. सू. ३. ४. ११७ ) इति लिङादेशस्य सार्वधातुकत्वात् ' लिङः सलोपोऽनन्त्यस्य' (पा. सू. ७. २. ७९) इति सकारलोपः । ‘अतो येयः' (पा. सू. ७. २. ८० )। ‘आद्गुणः ' (पा. सू. ६. १. ८७ )। अङोऽदुपदेशाल्लसार्वधातुकस्वरेण लिङोऽनुदात्तत्वम् । अङ्प्रत्ययस्वर एव शिष्यते । तेन सह इकारस्य गुणः 'एकादेश उदात्तेनोदात्तः ' ( पा. ८. २. ५) इत्युदात्तः । दस्म । 'दसु उपक्षये' इत्यस्मात् अन्तर्भावितण्यर्थात् ' इषियुधीन्धिदसिश्याधूसूभ्यो मक् ' ( उ. सू. १. १४२ )। पदात्परत्वादामन्त्रितनिघातः । कृष्टयः । ‘क्तिच्क्तौ च संज्ञायाम् ' (पा. सू. ३. ३. १७४ ) इति क्तिचि मनुष्यनामत्वात् ' चितः ' (पा. सू. ६. १. १६३) इत्यन्तोदात्तः । स्याम ।' अस भुवि । श्नसोरल्लोपः ' ( पा. सू. ६. ४. १११ )। यासुट उदात्तत्वम् । पादादित्वादनिघातः । शर्मणि । ‘शॄ हिंसायाम्। हिनस्ति दुःखमिति शर्म! ' अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५) इति मनिन् । 'नेड्वशि कृति ' (पा. सू. ७.२. ८) इति इट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् ॥
“Destroyer of foes, let our enemies say we are prosperous; let men (congratulate us); may we ever abide, in the felicity (derived from the favour) of Indra.”
Or whether, God of wondrous deeds, all our true people call us blest,
Still may we dwell in Indra's care.
But (even) a stranger—(indeed all) the separate peoples—would say we have a good portion, o wondrous one.
(For) we would be in the protection of Indra alone.
Und glücklich mögen, mächtiger! die Freundesstämme nennen uns, Nur wenn wir sind in Indra's Schutz.
Traget ihn auf, für den raschen Indra den raschen Soma, der das Opfer verschönt, den männerberauschenden, eiligst den Freudenergötzer!
(И) чужой, и (наши) люди, о удивительный,
Пусть назовут нас счастливыми:
Только у Индры мы хотели бы быть под защитой!
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् । प॒त॒यन्म॑न्द॒यत्स॑खम् ॥
आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाद॑नम् । प॒त॒यत् । म॒न्द॒यत्ऽस॑खम् ॥
ईम् इति निपात इदंशब्दार्थे वर्तते । हे यजमान आशवे कृत्स्नसोमयागव्याप्तायेन्द्राय ईम् आ भर इमं सोममाहर। कीदृशं सोमम् । आशुं सवनत्रयव्याप्तं यज्ञश्रियं यज्ञस्य संपद्रूपं नृमादनं नॄणामृत्विग्यजमानानां हर्षहेतुं पतयत् पतयन्तं कर्मणि प्राप्नुवन्तं मन्दयत्सखम् । य इन्द्रो मन्दयति यजमानान् हर्षयति तस्मिन्निन्द्रे सखिभूतोऽयं सोमः । तत्प्रीतिहेतुत्वात् तृप्तिहेतुत्वाद्वा ॥ आशुम् ।' कृवापाजिमिस्वदिसाध्यशूभ्य उण् ( उ. सू. १. १ ) इति उण् । प्रत्ययस्वरः । आशवे । पूर्ववत् । यज्ञश्रियम् ।' समासस्य ' (पा. सू. ६.१.२२३) इत्यन्तोदात्तः । माद्यन्तेऽनेनेति मादनः । ‘करणाधिकरणयोश्च ' (पा. सू. ३. ३. ११७ ) इति ल्युट् । तस्य लित्त्वात् पूर्व आकार उदात्तः । ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९ ) इति स एव शिष्यते । पतयत् । पतेरदन्तस्य चौरादिको णिच् (पा. सू. ३. १. २५ )। अतो लोपः (पा. सू. ६. ४. ४८.)। तस्य स्थानिवत्वात् (पा. सू. १. १. ५६ ) उपधाया वृद्ध्यभावः (पा. सू. ७. २. ११६ )। लटः शत्रादेशः । तस्य ‘छन्दस्युभयथा ' (पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन शबभावात् ' 'अदुपदेशात् ' (पा.सू. ६. १. १८६ ) इति निघाताभावेन प्रत्ययाद्युदात्तत्वमेव भवति । आर्धधातुकत्वेऽपि सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति ‘णेरनिटि ' (पा. सू. ६. ४. ५१ ) इति णिलोपाभावः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यमो लुक् । 'न लुमता' (पा. सू. १. १. ६३) इति प्रत्ययलक्षणनिषेधात् ‘ उगिदचाम् ' (पा. सू. ७. १. ७० ) इति न नुम् । एवं मन्दयच्छब्दोऽन्तोदात्तः । मन्दयतीन्द्रे सखा । ‘सप्तमी '(पा. सू. २. १. ४०) इति योगविभागात् समासः । तत्पुरुषे तुल्यार्थ° ' (पा. सू. ६. २. २) इति सप्तमीपूर्वपदप्रकृतिस्वरत्वम् ॥
“Offer to Indra, the pervader (of every rite of libation), the juice that is present (at the three ceremonies), the grace of the sacrifice, the exhilarator of mankind, the perfecter of the act, the favourite of (that Indra) who gives happiness (to the offerer).”
Unto the swift One bring the swift, man-cheering, grace of sacrifice,
That to the Friend gives wings and joy.
Bring the swift to the swift—(bring soma), the glory of the sacrifice, causing exhilaration to men,
exhilarating our comrade [=Indra] in its flight.
Dem starken bring den starken Trank, der Opfer ziert und Männer labt, Den Freund beflügelt und berauscht.
Und mögen Standesherr und gewöhnliche Leute uns glücklich nennen, du Meister: wir möchten nur unter Indra´s Schutz sein.
Подай этого быстрого (сому) быстрому Индре,
(Его) украшающего жертву, опьяняющего мужей,
Летящего (к другу), радующего друга!
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः । प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भ॒वः॒ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥
हे शतक्रतो बहुकर्मयुक्तेन्द्र त्वम् अस्य सोमस्य संबन्धिनमंशं पीत्वा वृत्राणां वृत्रनामकासुरप्रमुखाणां शत्रूणां घनः अभवः हन्ताऽभूः । ततो वाजेषु संग्रामेषु वाजिनं संग्रामवन्तं स्वभक्तं प्रावः प्रकर्षेण रक्षितवानसि ॥ अस्य इति इदंशब्देन प्रयोगसमये पुरोदेशस्थः सोमो निर्दिश्यते न तु पूर्वप्रकृतः सोमः परामृश्यते । अतोऽनन्वादेशत्वात् नात्र ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' ( पा.सू. ३. ४. ३२) इत्यशादेशः । अतो न सर्वानुदात्तत्वं, किंतु त्यदाद्यत्वे ( पा. सू. ७. २. १०२) हलि लोपे (पा. सू. ७. २. ११३ ) अकारः प्रातिपदिकस्वरेणोदात्त इति ‘अन्तोदात्तात् ' इत्यनुवृत्तौ “ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा. सू. ६. १. १७१) इति विभक्तिरुदात्ता । पीत्वा । पिबतेः क्त्वाप्रत्यये घुमास्थादिना (पा. सू. ६.४. ६६ ) ईत्वम् । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यान्न परामन्त्रिताङ्गवद्भावः । घनः । ‘मूर्तौ घनः ' ( पा. सू. ३. ३. ७७ ) इति हन्तेर्धातोः काठिन्ये अप्प्रत्ययः । तदस्यास्तीति अर्शआदित्वात् (पा. सू. ५. २. १२७ ) अजन्तः । चित्त्वादन्तोदात्तः। वाजेषु । वृषादित्वादाद्युदात्तः । वाजिनम् । इनिप्रत्ययस्वरः ॥
“Having drunk, Śatakratu, of this (Soma juice), you became the slayer of the Vṛtras; you defend the warrior in battle.”
Thou, Satakratu, drankest this and wast the Vrtras' slayer; thou
Helpest the warrior in the fray.
Having drunk of this, o you of a hundred resolves, you became the bane of obstacles.
You helped the prizewinner to the prizes.94 I.5
Als, mächt'ger, du getrunken ihn, da wurdest du des Feinds Verderb Und halfst dem Kämpfer in dem Kampf.
Als du davon getrunken hattest, du Ratreicher, da wardst du ein Hammer der Feinde. Du halfst dem Sieggewinner in den Kämpfen um den Siegerpreis.
Испив его, о стосильный,
Ты стал убийцей врагов.
Только ты помог (в битвах) за награды рвущемуся к награде.
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो । धना॑नामिन्द्र सा॒तये॑ ॥
तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥
हे शतक्रतो बहुकर्मयुक्त यद्वा बहुप्रज्ञानयुक्त इन्द्र धनानां सातये संभजनार्थं वाजेषु युद्धेषु वाजिनं बलवन्तं त्वा पूर्वमन्त्रोक्तगुणयुक्तं त्वां वाजयामः अन्नवन्तं कुर्मः । ‘रणः' इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु • पौंस्ये महाधने वाजे अग्मन् ' (नि. २. १७. ४२ ) इति पठितम् । अष्टाविंशतिसंख्याकेष्वन्ननामसु 'अन्धः वाजः पाजः' (नि. २. ७. २ ) इति पठितम् । 'उरु तुबि' इत्यादिषु द्वादशसु बहुनामसु • शतं सहस्रम् ' ( नि. ३. १. ९ ) इति पठितम् । ‘अपः अप्नः ' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु ‘शक्म क्रतुः ' (नि. २. १. ११) इति पठितम् । ‘केतः केतुः' इत्यादिष्वेकादशसु प्रज्ञानामसु ‘क्रतुः असुः ' (नि. ३. ९. ५) इति पठितम् ॥ त्वा । ‘अनुदात्तं सर्वम् ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘त्वामौ द्वितीयायाः ' ( पा. सू. ८. १.२३) इति त्वादेशः । वाजेषु । ‘वज व्रज गतौ । वाजयति गमयति शरीरनिर्वाहम् अनेनेति वाजो बलमन्नं वा । ण्यन्तात् करणे घञ् । तत्र ञित्स्वरस्यापवादे ‘कर्षात्वतः०' (पा. सू. ६. १. १५९ ) इत्यन्तोदात्तत्त्वे प्राप्ते तस्याप्यपवादत्वेन ‘वृषादीनां च ' ( पा. सू. ६. १. १०३) इत्याद्युदात्तत्वम् । वाजयामः । वाजोऽस्यास्तीति वाजवान् । तं कुर्म इत्यर्थे ' तत्करोति तदचष्टे '(पा. सू. ३. १. २™. ५-६ ) इति णिच् ।' इष्ठवण्णौ प्रातिपदिकस्य' (पा. सू. ६. ४. १५५. १) इति तस्मिन् परत इष्ठवद्भावात् ‘विन्मतोर्लुक् ' ( पा. सू. ५. ३. ६५) इति मतुपो लुक् । ‘टे: ' (पा. सू. ६. ४. १५५ ) इत्यकारलोपः । णिचश्चित्वादन्तोदात्तत्वम् । शपः पित्वेनानुदात्तत्वम् । लसार्वधातुकस्वरेणा -
ख्यातस्याप्यनुदात्तत्वम्। पादादित्वात् ‘तिङ्ङतिङः' इति न निघातः । शतक्रतो । आमन्त्रितनिघातः । धनानाम् । ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६ ) इत्याद्युदात्तः । सातये । ‘उदात्तः इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च ' ( पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तः ॥
“We offer to you, Śatakratu, the mighty in battle, (sacrificial) food for the acquisition, Indra, of riches.”
We strengthen, Satakratu, thee, yea, thee the powerful in fight,
That, Indra, we may win us wealth.
We incite you, the prizewinner, to the prizes, o you of a hundred resolves,
to win the stakes, Indra.
Dich hier, den Kämpfer in dem Kampf erregen wir zum Kampf, o Held, 0 Indra, Beute zu empfahn.
Wir treiben dich, den Sieggewinner in den Siegeskämpfen, zum Siegen du Ratreicher, zum Gewinn von Schätzen, o Indra.
Тебя, рвущегося к награде (в битвах) за награды
Мы подгоняем к награде, о стосильный,
К захвату богатств, о Индра.
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ । तस्मा॒ इन्द्रा॑य गायत ॥
यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ । तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥
यः इन्द्रः रायः धनस्य अवनिः रक्षकः स्वामी वा तस्मा इन्द्राय गायत हे ऋत्विजस्तत्प्रीत्यर्थं स्तुतिं कुरुत । कीदृश इन्द्रः । महान् गुणैरधिकः सुपारः सुष्ठ कर्मणः पूरयिता सुन्वतः यजमानस्य सखा सखिवत् प्रियः ॥ रायः । ‘ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' ( पा. सू. ६. १. १७१ ) इति विभक्तेरुदात्तत्वम् । अवनिः । ‘अव रक्षणगतिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभाववृद्धिषु च' इत्यस्मात् 'अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । ( उ. सू. २. २५९ ) इत्यनिः । प्रत्ययाद्युदात्तत्वम् । सुपारः । ‘पॄ पालनपूरणयोः' इत्यस्मात् णिजन्तात् ' कर्तरि ' इत्यनुवृत्तौ पचाद्यच् (पा. सू. ३. १. १३४ )। ‘चितः' (पा. सू. ६. १. १६३ ) इत्यन्तोदात्तः । सुन्वतः । ‘शतुरनुमो नद्यजादी ' ( पा. सू. ६, १. १७३) इति विभक्तिरुदात्ता । सखा । ‘समाने ख्यश्चोदात्तः ' ( पा. सू. ४. ५७६ ) इति इण् प्रत्ययान्तः । तत्संनियोगेन यलोपः; सशब्दस्य चोदात्तः । डित्त्वात् टिलोपः । तस्मै । ‘अदिः' इत्यनुवृत्तौ त्यजितनियजिभ्यो डित् ' ( उ. सू. १. १२९ ) इति तनोतेः अदिप्रत्ययः । डित्त्वात् टिलोपे प्रत्ययस्वरेण तच्छब्द उदात्तः॥ त्यदाद्यत्वम् ।' एकादेश उदात्तेनोदात्त: ' (पा. सू. ८. २. ५) इत्युदात्तः । ‘सावेकाचस्तृतीयादिर्विभक्तिः' (पा.सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वे प्राप्ते प्रथमैकवचनेऽवर्णान्तत्वात् ‘न गोश्वन्साचवर्ण ' ( पा. सू. ६. १. १८२) इति निषेधः । इन्द्राय । इन्द्रशब्दो रन्प्रत्ययान्तो निपातितः । नित्त्वादाद्युदात्तः । ‘कर्मणा यमभिप्रैति स संप्रदानम् ' ( पा. सू. १. ४. ३२) इत्यत्र ‘क्रियाग्रहणं कर्तव्यम् ' ( पा. म. १. ४. ३२ ) इति वचनात् गानक्रियया प्राप्यत्वात् संप्रदानत्वेन चतुर्थी ॥ ॥ ८ ॥
“Sing unto that Indra who is the protector of wealth, the mighty, the accomplisher of good deeds, the friend of the offerer of the libation.”
To him the mighty stream of wealth, prompt friend of him who pours the juice,
yea, to this Indra sing your song.
He who is a great stream-bed of wealth but easy to cross, the comrade of the soma-presser—
to him, to Indra, sing!
Den Indra, der ein grosser Strom des Reichthums leichtdurchfahrbar ist, Und Freund des Frommen, den besingt.
Der ein großer Strom des Reichtums ist, der gut ans andere Ufer zu gutem Ende führende Freund der Somapressenden, diesem Indra lobsinget!
Кто великий поток богатства,
(Кто) друг, переправляющий на другой берег выжимающего (сому).
Этому Индре пойте (славу)!