उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥
उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒ऽयन्तः॑ । त्वा॒ । ई॒म॒हे॒ । उप॑ । प्र । य॒न्तु॒ । म॒रुतः॑ । सु॒ऽदान॑वः । इन्द्र॑ । प्रा॒सूः । भ॒व॒ । सचा॑ ॥
हे ब्रह्मणस्पते एतन्नामक देव उत्तिष्ठ अस्मदनुग्रहाय त्वदीयनिवासादुत्थानं कुरु। देवयन्तः देवान् कामयमाना वयं त्वा त्वाम् ईमहे याचामहे । सुदानवः शोभनदानयुक्ताः मरुतः उप प्र यन्तु समीपे प्रकर्षेण गच्छन्तु । हे इन्द्र त्वं सचा ब्रह्मणस्पतिना सह प्राशूः सोमस्य प्राशको भव । यद्वा वृत्रस्य हिंसको भव ॥ उत्तिष्ठ । ऊर्ध्वकर्मत्वात् आत्मनेपदाभावः (पा. सू. १. ३. २४)। ब्रह्मणस्पते। ‘ सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । देवयन्तः । देवानात्मन इच्छन्तः । ‘सुप आत्मनः क्यच्' । न च्छन्दस्यपुत्रस्य' इति ईत्वस्येव दीर्घस्यापि निषेधः, अश्वाघस्यात् ' इति पुनरात्वविधानसामर्थ्यात् । ईमहे इत्यादयो गताः । प्राशूः । ‘ शॄ हिंसायाम् । प्रकर्षेण आ समन्तात् शृणाति हिनस्तीति प्राशूः । ‘ बहुलं छन्दसि' (पा. सू. ७. १. १०३ ) इति उत्वम्। ‘ र्वोरुपधाया दीर्घः' । कृदुत्तरपदप्रकृतिस्वरत्वम् । भव ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् ॥
“Rise us, Brhmaṇaspati; devoted to the gods, we solicit you, bounteous Maruts, be nigh at hand; Indra, be a partaker fo the libation.”
O BRAMANASPATI, stand up: God-serving men we pray to thee.
May they who give good gifts, the Maruts, come to us. Indra, most swift, be thou with them.
Rise up, o Lord of the Sacred Formulation. Seeking the gods, we beseech you:
let the Maruts of good drops come forth; o Indra, swelling with strength, keep (them) company.
Erhebe dich, Gebetesherr, dich flehn wir an mit frommem Sinn; Es schreite her die Marutschar, die reichlich schenkt, auch, Indra, du sei unser Gast.
Erhebe dich, Brahmanaspati! Gottverlangend wenden wir uns an dich. Die Gabenscheuen Marut sollen herkommen; Indra, sei du als Hauptmann dabei!
Поднимись, о Брахманаспати!
Мы, любящие богов, обращаемся к тебе.
Пусть приедут сюда Маруты, щедро дарящие!
О Индра, будь вместе с (нами) как предводитель!
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥
त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः॑ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते । सु॒ऽवीर्य॑म् । म॒रु॒तः॒ । आ । सु॒ऽअश्व्य॑म् । दधी॑त । यः । वः॒ । आ॒ऽच॒क्रे ॥
हे सहसस्पुत्र बलस्य बहुपालक ब्रह्मणस्पते । ‘पुत्रः पुरु त्रायते निपरणाद्वा' (निरु. २.११ ) इति निरुक्तम् । 'मर्त्यः मनुष्यः हिते शत्रुषु प्रक्षिप्ते धने निमित्तभूते सति त्वामित् त्वामेव उपब्रूते हि समीपं प्राप्य स्तौति खलु । तद्धनसंपादनाय प्रार्थयते इत्यर्थः । हे मरुतः यः धनार्थी मर्त्यः वः युष्मान् ब्रह्मणस्पतिसहितान् आचके स्तौति स मर्त्यः स्वश्व्यं शोभनाश्वयुक्तं सुवीर्यं शोभनवीर्ययुक्तं च धनं दधीत धारयेत् ॥ सहसस्पुत्र । ब्रह्मणस्पते इतिवत् ' षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । उपब्रूते । ‘ हि च' इति निघातप्रतिषेधः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । हिते । निष्ठायां दधातेर्हिः' इति हिरादेशः । सुवीर्यम् । शोभनं वीर्यं यस्येति बहुव्रीहौ ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । स्वश्व्यम् । अश्वानां समूहोऽश्वीयम् । ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम् ' (पा. सू. ४.२.४८) इति समूहार्थे छप्रत्ययः । छस्य ईयादेशः । शोभनमश्वीयं यस्य तत् स्वश्व्यम् । ईकारलोपश्छान्दसः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । दधीत । सीयुटः सकारलोपे सति ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । पादादित्वात् निघाताभावः । आचके । ‘ कै गै रै शब्दे'। ‘ आदेचः' इति आत्वम्। लिटि द्विर्वचने अभ्यासस्य ह्रस्वचुत्वे । ‘ आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥
“Man celebrates you, son of strength, for the wealth abandoned (by the foe). Maruts, may be who praises you obtain wealth, yielding excellent steeds and eminent vigour.”
O Son of Strength, each mortal calls to thee for aid when spoil of battle waits for him.
O Maruts, may this man who loves you well obtain wealth of good steeds and hero might.
For it is just you, o son of strength [=Indra], that the mortal implores when the stake is set.
O Maruts, whoever loves you, he would acquire the possession of good heroes and good horses.
Denn dich, o Sohn der Stärke, ruft der Sterbliche bei ausgesetztem Kampfpreis an, Besitz an Rossen, Maruts, und an Heldenschar erlangt der Mann, der euch gefällt.
Denn dich, du Sohn der Kraft, ruft der Sterbliche an, wenn Gewinn auf dem Spiel steht. Die Meisterschaft, guten Roßbesitz soll erwerben, wer euer begehrt, ihr Marut.
Ведь это к тебе, о сын силы, взывает
Смертный, когда сделана ставка.
Богатство из героев, из коней, о Маруты,
Пусть получит тот, кто вас (всегда) любил!
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ । अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥
ब्रह्मणस्पतिः देवः प्रैतु अस्मान प्राप्नोतु । सूनृता देवी प्रियसत्यरूपा वाग्देवता प्र एतु अस्मान् प्राप्नोतु । देवाः ब्रह्मणस्पत्यादयो देवताः वीरं शत्रुं निःशेषेण दूरे प्रेरयन्तु । तं नर्यं मनुष्येभ्यो हितं पङ्क्तिराधसं ब्राह्मणोक्तहविष्पङ्क्त्यादिभिः समृद्धं यज्ञं प्रति नः अस्मान् अच्छ आभिमुख्येन नयन्तु ॥ प्रैतु । ' एङि पररूपम् ' (पा. सू. ६. १. ९४) इति पररूपे प्राप्ते ' एत्येधत्यूठ्सु' ( पा. सू. ६. १. ८९ ) इति वृद्धिः । देव्येतु इत्यत्र ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् । नर्यम् । नरेभ्यो हितम् । प्राक्क्रीतीय उगवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः ( पा. सू. ५. १. २ )। पङ्क्तिराधसम् । पङ्क्तिभी राध्नोतीति पङ्क्तिराधाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च। यज्ञम् । यजयाच° ' इत्यादिना यजतेर्नङ्॥
“May Brahmaṇaspati approach us; may the goddess, speaker of truth, approach us; may the gods (drive away) every adversary, and present, conduct us to the sacrifice which is beneficial to man, and (abounds) with respectably-presented offerings.”
May Brahmanaspati draw nigh, may Sunrta the Goddess come,
And Gods bring to this rite which gives the five-fold gift the Hero, lover of mankind.
Let the Lord of the Sacred Formulation go forth, let the goddess Liberality go forth
to the hero belonging to men, whose gifts come in fives. Let the gods lead our sacrifice.
Vor schreite der Gebetesherr, die reiche Göttin schreite vor, Zum starken Mann, der fünffach spendet, führe uns der Götter Schar das Opferwerk.
Brahmanaspati soll sich aufmachen, die Göttin Großmut soll sich aufmachen zu dem mannhaften Herrn, der fünffach beschenkt. Die Götter sollen unser Opfer geleiten.
Пусть выйдет вперед Брахманаспати!
Пусть выйдет вперед богиня Сунрита!
Пусть к сильному (мужу), приносящему пятеричные дары герою
Боги поведут эту нашу жертву!
यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: । तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥
यः । वा॒घते॑ । ददा॑ति । सू॒नर॑म् । वसु॑ । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ । तस्मै॑ । इळा॑म् । सु॒ऽवीराम् । आ । य॒जा॒म॒हे॒ । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥
यः यजमानः वाघते ऋत्विजे सूनरं सुष्ठु नेतव्यं वसु धनं ददाति सः यजमानो ब्रह्मणस्पतेः प्रसादात् 'अक्षिति क्षयरहितं श्रवः अन्नं धत्ते धारयति । तस्मै तादृशयजमानाय इळाम् एतन्नामधेयां मनोः पुत्रीं ‘ इळा वै मानवी यज्ञानूकाशिन्यासीत् ' (तै. ब्रा. १.१.४.४ ) इति श्रुत्यन्तरात्। आ यजामहे वयं ऋत्विजः सर्वतो यजामः । कीदृशीमिळाम् । सुवीरां शोभनैर्वीरैर्भटैर्युक्तां सुप्रतूर्तिं सुष्ठु प्रकर्षेण हिंसाकारिणीम् अनेहसं केनाप्यहिंस्याम् ॥ ददाति । अनुदात्ते च ' (पा. सू. ६. १. १९० ) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगदनिघातः । सूनरम् । सुखेन नीयते इति सूनरम् । • ईषद्दुःसुषु° ' इति खल् ।' निपातस्य च ' इति उपसर्गस्य दीर्घत्वम् । अक्षिति । क्षयो नास्त्यस्येति अक्षिति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।' नञ्सुभ्याम् ' इति तु ' सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् न प्रवर्तते । श्रवः । श्रूयते इति श्रवः । श्रु श्रवणे'। असुनो नित्त्वादाद्युदात्तत्वम् । सुवीराम् । शोभना वीरा यस्याः सा सुवीरा ताम्। वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम्। सुप्रतूर्तिम् । तुर्वी हिंसार्थः । प्रपूर्वादस्मात् भावे क्तिन् । शोभना प्रतूर्तिः शत्रूणां हिंसनं यस्याः सा ताम् । परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । क्रत्वादिर्वा द्रष्टव्यः । अनेहसम् । न हन्यते इति अनेहाः। नञि हन एह च ' ( उ. सू. ४. ६६३ ) इत्यसुन्प्रत्ययो धातोः एहादेशश्च । ‘ नलोपो नञः ' (पा. सू. ६. ३. ७३ ) इति नकारस्य लोपः । ‘ तस्मान्नुडचि' (पा. सू. ६. ३. ७४ ) इति नुट् ॥
“He who presents to the ministrant (priest) wealth fit to be accepted, enjoys inexhaustible abundance; for him we worship, Iḷā, attended by brave warriors, inflicting much injury, receiving none.”
He who bestows a noble guerdon on the priest wins fame that never shall decay.
For him we offer sacred hero-giving food, peerless and conquering easily.
Who gives to the cantor liberal goods, he acquires imperishable fame; for him we win through sacrifice faultless refreshment bringing good heroes and advancing well.
Wer freudenreiches Gut dem Beter spendet, dem wird Ruhm zu Theil, der nie vergeht, Dem schaffen opfernd heldenreiche Labe wir, die siegreich ist und unbedroht.
Wer dem Priester echtes Gut schenkt, der erwirbt unvergänglichen Ruhm. Für ihn erbitten wir den Segen guter Mannen, die tüchtig voranstreben, fehlerlos sind.
Кто жрецу дает прекрасное добро,
Тот приобретает нерушимую славу.
Для него мы испрашиваем с помощью жертвы подкрепление
Приносящее героев, прорывающихся вперед, защищающих от нападения.
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥
प्र । नू॒नम् । ब्रह्म॑णः । पतिः॑ । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑म् । यस्मि॑न् । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां॑सि । च॒क्रि॒रे ॥
ब्रह्मणस्पतिः देवः उक्थ्यं शस्त्रयोग्यं मन्त्रं नूनम् अवश्यं प्र वदति होतृमुखे स्थितः सन् प्रब्रूते । यस्मिन् मन्त्रे इन्द्रादयश्च सर्वे देवाः ओकांसि स्थानानि चक्रिरे । तादृशं सर्वदेवप्रतिपादकं मन्त्रमिति पूर्वत्रान्वयः ॥ मन्त्रम् । मत्रि गुप्तभाषणे ' । पचाद्यच् । वृषादिषु पाठादाद्युदात्तत्वम् । उक्थ्यम् उक्थार्हम्। छन्दसि च ' इत्यर्थे यप्रत्ययः । यद्वा । ‘ भवे छन्दसि ' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् । यतोऽनावः' इत्याद्युदात्तत्वाभावे व्यत्ययेन ‘तित्स्वरितम् ' इति स्वरितत्वम् । ओकांसि । ‘ उच समवाये । समवयन्त्यत्रेति अधिकरणे औणादिकोऽसुन् । बहुलग्रहणात् कुत्वं द्रष्टव्यमिति ‘ओक उचः के ' इत्यत्र वृत्तौ इत्युक्तम् (का. ७. ३. ६४ )। चक्रिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ २० ॥
“Verily Brahmaṇaspati proclaims the sacred prayer, in which the divinities, Indra, Varuṇa, Mitra and Aryaman, have made their abode.”
Now Brahmanaspati speaks forth aloud the solemn hymn of praise,
Wherein Indra and Varuna, Mitra, Aryaman, the Gods, have made their dwelling place.
Now the Lord of the Sacred Formulation proclaims the mantra worthy to be spoken,
in which Indra, Varuṇa, Mitra, Aryaman, and the gods have made
their home.
Nun stimmet der Gebetesherr ein preisbegabtes Spruchlied an, An welchem Indra und die Götter sich erfreun, Varuna, Mitra, Arjaman.
Jetzt hebt Brahmanaspati das zum Preis bestimmte Dichterwort an, an dem Indra, Varuna, Mitra, Aryaman, die Götter ihr Behagen haben.
Вот сейчас Брахманаспати
Исполняет стих, заключающий в себе хвалу,
В котором Индра, Варуна, Митра, Арьяман,
Боги находят удовольствие.
तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् । इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥
तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्भुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् । इ॒माम् । च॒ । वाच॑म् । प्रति॒ऽहर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥
हे देवाः ब्रह्मणस्पतिप्रभृतयः तमित् तमेव इन्द्रादिसर्वदेवताप्रतिपादकं मन्त्रं विदथेषु यज्ञेषु वोचेम वयमृत्विजो ब्रवाम । कीदृशम् । शंभुवं सुखस्य भावयितारम् अनेहसम् अहिंसनीयं दोषरहितम् । हे नरः नेतारो देवाः इमाम् अस्माभिरुच्यमानां मन्त्ररूपां वाचं प्रतिहर्यथ च । यूयं कामयध्वे चेत् तर्हि विश्वेत् सर्वापि वामा वननीया वाक् वः युष्मान् अश्नवत् व्याप्नुयात् ॥ वोचेम । वच परिभाषणे ' । आशीर्लिङि ‘ लिङ्याशिष्यङ्' इति अङ् । ‘ वच उम्' इत्युमागमः । ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् “ लिङः सलोपोऽनन्त्यस्य ' इति यासुटः सकारस्य लोपः । ‘ अतो येयः' इति इयादेशः । आद्गुणः । तिङ्ङतिङः' इति निघातः । विदथेषु ।' विद् ज्ञाने । विद्यते फलसाधनत्वेन ज्ञायते इति विदथो यज्ञः । ‘ रुविदिभ्यां कित्' ( उ. सू. ३. ३९५ ) इति अथप्रत्ययः । शंभुवम् । भवतेः अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् ।' ओः सुपि ' (पा. सू. ६. ४. ८३ ) इति यणादेशस्य ' न भूसुधियोः ' ( पा. सू. ६. ४. ८५ ) इति प्रतिषेधः । मन्त्रादयो गताः । प्रतिहर्यथ । ‘ हर्य गतिकान्त्योः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । इमां च इत्यत्र चशब्दश्चेदर्थः। चणिति निपातान्तरं न च समुच्चयाद्यर्थः। तेन • निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण° ' ( पा. सू. ८. १. ३० ) इति निघातप्रतिषेधः । अश्नवत् । ‘ अशू व्याप्तौ ' । लेटि अडागमः। व्यत्ययेन परस्मैपदम् । ‘इतश्च लोपः' इति इकारलोपः । ‘ इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन ' ( का. ६. ४. ७७ ) इति गुणः ॥
“Let us recite, gods, that felicitous and faultless prayer at sacrifices; if you, leaders, desire (to hear) this prayer, then will all that is to be spoken reach unto you.”
May we in holy synods, Gods! recite that hymn, peerless, that brings felicity.
If you, O Heroes, graciously accept this word, may it obtain all bliss from you.
Just that would we speak at the rites—the faultless mantra that brings good fortune, o gods.
And if you gladly receive this speech, o noble men [=gods], it will attain all things of yours worth winning.
Lasst, Götter, uns bei Festen sprechen diesen Spruch, der heilvoll, unvergleichlich ist, Und nehmet freundlich dieses Wort, o Männer, an, euch eile alles Schöne zu.
Dieses Dichterwort wollen wir vortragen bei den Opfern, das zusagende, fehlerlose, ihr Götter. Und so ihr Herren diese Rede gern aufnehmet, so wird sie alles Gute erreichen.
Вот этот стих мы хотим исполнить на местах жертвенных раздач,
Благословенный, о боги, защищающий от нападения.
Если вы примете с радостью эту речь, о мужи,
Она добудет вам все желанное.
को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥
कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् । प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥
देवयन्तं देवान् कामयमानं जनं कः अश्नवत् ब्रह्मणस्पतिव्यतिरिक्तः को नाम देवो व्याप्नुयात् । तथा वृक्तबर्हिषम् अनुष्ठानाय छिन्नबर्हिषं यजमानं कः नाम अन्यो देवोऽश्नवत् । दाश्वान् हविर्दत्तवान् यजमानः पस्त्याभिः मनुष्यैर्ऋत्विग्भिः सह प्रप्र अस्थित देवयजनदेशं प्रति प्रस्थितवान्। अन्तर्वावत् अन्तःस्थितबहुधनोपेतम् । यद्वा । अन्तःस्थितपुत्रपौत्रादिप्रयुक्तबहुविधवागुपेतं क्षयं निवासस्थानं गृहं दधे धृतवान् भवति ॥ देवयन्तम् इत्यादयो गताः । प्रप्र । ‘ प्रसमुपोदः पादपूरणे' (पा. सू. ८. १. ६) इति प्रशब्दस्य द्विर्भावः । ‘ अनुदात्तं च ' इत्याम्रेडितानुदात्तत्वम् । अस्थित ।' ष्ठा गतिनिवृत्तौ । लुङि • समवप्रविभ्यः स्थः ' ( पा. सू. १. ३. २२ ) इत्यात्मनेपदम् । स्थाध्वोरिच्च ' ( पा. सू. १. २. १७ ) इति धातुसिचोः इत् । कित्त्वे ‘ह्रस्वादङ्गात्' (पा.सू. ८. २. २७) इति सलोपः। अन्तर्वावत्। ‘वा गतिगन्धनयोः' । अन्तर्वान्ति गच्छन्तीति अन्तर्वाः पुत्रपश्वादयः । आतो मनिन्' इत्यादिना विच् । तदस्यास्ति' इति मतुप्। मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । वावदीतेः क्विप् । क्षयम् । क्षियन्ति निवसन्त्यस्मिन्निति क्षयः। 'पुंसि संज्ञायाम्” इत्यधिकरणे घः। ‘ क्षयो निवासे' इत्याद्युदात्तत्वम् ॥
“Who, (except Brahmaṇaspati), may approach the man who is devoted to the gods, by whom the clipped sacred grass is spread; the giver of the oblation has proceeded with the priests (to the hall of sacrifice), for he has a dwelling (abounding) internally with precious things.”
Who shall approach the pious? who the man whose sacred grass is trimmed?
The offerer with his folk advances more and more: he fills his house with precious things.
Who can attain to the man who seeks the gods, and who to the man whose ritual grass has been twisted?
The pious man has advanced ever further through his abodes; he has made his own dwelling place pregnant.
Wer reichet an den frommen Mann, wer an den Streu bereitenden? Der Gottesfürcht'ge ragt an Haus und Hof hervor, und hat darinnen sichern Sitz.
Wer vermöchte den gottergebenen Mann zu erreichen, wer den, der das Barhis umgelegt hat?Mit den Strömen ist der Opferspender immer weiter gezogen. Das dazwischen liegende Land hat er zu seinem Wohnsitz gemacht:
Кто может угнаться за человеком, любящим богов?
Кто – за человеком, разложившим жертвенную солому?
Почитающий богов продвинулся далеко вперед по рекам.
Он сделал местом (своего) поселения (область) между (ними).
उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिण॑: ॥
उप॑ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति॑ । राज॑ऽभिः । भ॒ये । चि॒त् । सु॒ऽक्षि॒तिम् । द॒धे॒ । न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒ऽध॒ने । न । अर्भे॑ । अ॒स्ति॒ । व॒ज्रिणः॑ ॥
ब्रह्मणस्पतिर्देवः क्षत्रं बलम् उप पृञ्चीत स्वात्मनि संपृक्तं कुर्यात् । ततः राजभिः वरुणादिभिः सह हन्ति शत्रून् मारयति । भये चित् भीतिहेतौ युद्धेऽपि सुक्षितिं दधे सुष्ठु निवासस्थैर्यं धारयति न तु पलायते । वज्रिणः वज्राद्यायुधवतः अस्य ब्रह्मणस्पतेः महाधने प्रभूतधननिमित्ते युद्धे वर्ता प्रवर्तयिता अन्यः कोऽपि न अस्ति स्वयमेव प्रवर्तते इत्यर्थः । महाधने इति संग्रामनाम, ‘महाधने समीके' (नि.२. १७. ४१ ) इति तन्नामसु पाठात् । तथा तरुता तरणस्योल्लङ्घनस्य कर्ता अन्यः कोऽपि न अस्ति । तथैव अर्भे स्वल्पे युद्धेऽप्यन्यः प्रवर्तयिता न अस्ति । पृञ्चीत।' पृची संपर्के'। लिङि रुधादित्वात् श्नम् । श्नसोरल्लोपः' इति अकारलोपः। प्रत्ययस्वरः । क्षत्रं पृञ्चीत राजभिर्हन्ति चेति समुच्चयलक्षणस्य चार्थस्य दर्शनात् ‘चादिलोपे विभाषा ' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । हन्तीत्येषा द्वितीयापि तिङः परत्वात् न निहन्यते । सुक्षितिम् । शोभना क्षितिः सुक्षितिः । ‘ मन्क्तिन' इत्यादिना उत्तरपदान्तोदात्तत्वम् । वर्ता । वर्ततेर्वृणोतेर्वा तृचि आगमानुशासनस्यानित्यत्वात् इडभावः । तरुता । ‘ तॄ प्वनतरणयोः । ‘ ग्रसितस्कभित°! (पा. सू. ७.२.३४ ) इत्यादिना तृचि उडागमो निपातितः। 'चितः' इत्यन्तोदात्तत्वम् । महाधने। महच्च तद्धनं च महाधनम्। 'आन्महतः' ( पा. सू. ६. ३. ४६ ) इति आत्वम् । तेन शब्देन तद्धेतुभूतः संग्रामो लक्ष्यते । अर्भे । ‘ ऋ गतौ ' । अर्तिगॄभ्यां भन्' ( उ. सू. ३. ४३२ ) इति भन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २१ ॥
“Let Brahmaṇaspati concentrate his strength associated with the regal (divinities), he slays (the foe); in the time of danger he maintains his station; armed with the thunderbolt, there is no encourager nor discourager of him in a great battle or a small.”
He amplifies his lordly might, with kings he slays: e'en mid alarms he dwells secure
In great or lesser fight none checks him, none subdues,--the wielder of the thunderbolt.
He should inseminate his dominion. Together with the kings [=Ādityas], he smites: even in peril he has established a good dwelling for himself. There exists no one to obstruct, no one to overcome the one who wields the mace, be the stake great or small.
Er mehrt die Herrschaft, schlägt durch Fürsten jeden Feind, hat sichern Sitz auch in Gefahr; Ist er bewehrt, schlägt keiner ihn noch wehrt ihn ab, in grosser nicht und kleiner Schlacht.
Er möge seine Herrschaft mehren; er schlägt den Feind mit den Königen; auch in der Gefahr schafft er sich sichern Wohnsitz. Für ihn, der der Keulenträger Indra ist, gibt es im großen und kleinen Kampf keinen Wehrer noch Überwinder.
Пусть он умножает (свое) владычество! С помощью царей он разбивает (врага).
Даже среди опасности он устраивает себе надежное место,
Для него, громовержца, нет того, кто помешал бы (ему),
(Нет) того, кто победил бы (его) – при большой ставке или при малой!