यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नू चि॒त्स द॑भ्यते॒ जन॑: ॥
यम् । रक्ष॑न्ति । प्रऽचे॑तसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः॑ ॥
प्रचेतसः प्रकृष्टज्ञानयुक्ताः वरुणादयो देवाः यं यजमानं रक्षन्ति सः जनः यजमानः नू चित् क्षिप्रमेव दभ्यते दभ्नोति शत्रून् हिनस्ति । प्रचेतसः । प्रकृष्टं चेतो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नू चित् ।' ऋचि तुनुघ° ' इत्यादिना दीर्घः । दभ्यते । दम्भु दम्भे । व्यत्ययेन श्यन् आत्मनेपदं च ॥
“The man whom the wise Varuṇa, Mitra and Aryaman protect quickly subdues (his foes).”
NE'ER is he injured whom the Gods Varuna, Mitra, Aryaman,
The excellently wise, protect.
Whom they guard—the attentive Varuṇa, Mitra, and Aryaman— that person is never deceived.
Dem Mann, den Mitra, Varuna und Arjaman mit weisem Sinn Beschirmen, dem geschieht kein Leid.
Wen Varuna, Mitra, Aryaman, die Klugen, beschützen, der Mann kommt niemals zu Schaden.
Кого охраняют прозорливцы –
Варуна, Митра, Арьяман,
Тот человек на обман никогда не попадается.
यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः । अरि॑ष्ट॒: सर्व॑ एधते ॥
यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥
यं यजमानं पिप्रति वरुणोदयो देवा धनैः पूरयन्ति । तत्र दृष्टान्तः। बाहुतेव। स्वकीयो बाहुवर्गोऽपेक्षितं धनमानीय यथा पूरयति तद्वत् । तथा यं मर्त्यं मनुष्यं यजमानं रिषः हिंसकात् पान्ति रक्षन्ति सः सर्वः यजमानः अरिष्टः केनाप्यहिँसितः सन् एधते वर्धते ॥ बाहुतेव। बाहुता बाहुत्वम् । भाववाचिनानेन शब्देन बाहवस्तदाश्रया लक्ष्यन्ते । यद्वा । समूहार्थे तल्प्रत्ययो द्रष्टव्यः। ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पिप्रति । ‘ पॄ पालनपूरणयोः'। पृ इत्येके । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । पान्ति । तिङः परत्वात् पादादित्वाद्वा निघाताभावः । रिषः । ‘ रिष हिंसायाम् । क्विप् च ' इति क्विप् । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । अरिष्टः । ‘ रिष हिंसायाम् । एकाचः० ' इति इट्प्रतिषेधः । व्रश्चादिना षस्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Hw whom they heap (with riches), as if (collected) by his own arms; the man whom they defend from the malignant; every such man, safe from injury, prospers.”
He prospers ever, free from scathe, whom they, as with full hands, enrich,
Whom they preserve from every foe.
The mortal whom they carry across as if in their arms and protect from harm,
he thrives, unharmed and whole.
Wen sie beschützen vor dem Feind und leiten wie mit eigner Hand, Der Mann gedeiht ganz unversehrt.
Wen sie wie auf dem Arm hinübertragen und vor Schaden behüten, der Sterbliche gedeiht ganz und unversehrt.
Кого они словно на руках переносят,
Спасают смертного от вреда,
(Тот) процветает, целый и невредимый.
वि दु॒र्गा वि द्विष॑: पु॒रो घ्नन्ति॒ राजा॑न एषाम् । नय॑न्ति दुरि॒ता ति॒रः ॥
वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् । नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥
राजानः वरुणादयः एषां स्वकीययजमानानां पुरः पुरस्तात् दुर्गा गन्तुं दुःशकानि शत्रुनगराणि वि घ्नन्ति विशेषेण नाशयन्ति । तथा द्विषः शत्रूनपि वि घ्नन्ति। तथा दुरिता यजमानसंबन्धीनि दुरितानि तिरः नयन्ति विनाशं प्रापयन्ति ॥ दुर्गा । दुःखेन गच्छन्त्यत्रेति दुर्गाणि । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८. ३ ) इति गमेर्डप्रत्ययः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । पुरः । कालवाचिनः पूर्वशब्दात् सप्तम्यर्थे ‘पूर्वाधरावराणाम् ' (पा. सू. ५. ३. ३९ ) इति असिप्रत्ययः, तत्संनियोगेन पूर्वशब्दस्य पुरादेशश्च । प्रत्ययस्वरः । घ्नन्ति । हन्तेर्लटि अदादित्वात् शपो लुक् । ‘गमहन' इत्यादिना उपधालोपः । हो न्तेः' (पा. सू. ७. ३. ५४ ) इति घत्वम् । अन्तादेशस्योपदेशवचनादाद्युदात्तत्वम् । पादादित्वादनिघातः ॥
“The kings (Varuṇa etc.) first destroy their strongholds, and then the foes of those (who worship him), and put aside their evil deeds.”
The Kings drive far away from him his troubles and his enemies,
And lead him safely o'er distress.
The kings [=Ādityas] smash apart the hard places, apart the hostilities in front of them;
they lead across difficult ways.
Vor ihm vertreiben Ungemach und Feind hinweg die Könige, Und führen durch Gefahren ihn.
Vor ihnen zerstreuen die Könige die Fährlichkeiten, die Anfeindungen; sie führen über die Gefahren hinweg.
(Эти) цари сокрушают перед ними
Препятствия в пути, враждебные замыслы.
Они проводят (их) сквозь опасности.
सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः ॥
सु॒ऽगः । पन्था॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते । न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥
हे आदित्यासः ऋतं यते यज्ञं गच्छते भवत्समूहाय पन्थाः मार्गः सुगः सुष्ु। गन्तुं शक्यः अनृक्षरः कण्टकरहितश्च । अत्र अस्मिन् कर्मणि वः युष्माकम् अवखादः अवमन्तव्यः खादो जुगुप्सितहविर्विशेषः न अस्ति । तस्मादिहागन्तव्यमित्यर्थः ॥ सुगः । सुदुरोरधिकरणे ' इति गमेर्डप्रत्ययः । पन्थाः । ‘ पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । अनृक्षरः । ‘ ऋषी गतौ' ऋषन्ति अन्तर्गच्छन्ति इति ऋक्षरा कण्टकाः । ‘ तन्यृषिभ्यां क्सरन्' (उ. सू. ३. ३५५) इति क्सरन्प्रत्ययः । कित्त्वाद्गुणाभावः । कत्वपत्वे । यास्कस्त्वाह- ‘ ऋक्षरः कण्टक ऋच्छतेः' (निरु. ९. ३२ ) इति । न विद्यन्ते ऋक्षरा अस्मिन्निति अनृक्षरः। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । आदित्यासः । अदितेः पुत्रा आदित्याः । ‘ दित्यदित्यादित्य° ' (पा. सू. ४. १.८५) इत्यादिना ण्यप्रत्ययः । ‘ आज्जसेरसुक्'। आमन्त्रिताद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यते । ‘ इण् गतौ ' । लटः शतृ । अदादित्वात् शपो लुक् । इणो यण् ' ( पा. सू. ६. ४. ८१ ) इति यणादेशः । ‘शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । अवखादः । खादृ भक्षणे'। भावे घञ् । अवमतः खादोऽवखादः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“Ādityas, to you repairing to the sacrifice, the path is easy and free from thorns; no unworthy oblation is here prepared for you.”
Thornless, Adityas, is the path, easy for him who seeks the Law:
With him is naught to anger you.
The path is easy to go on and harmless to men for the one going to truth. There is no fissure there for you.
Dem Frommen, o Aditja's, ist gebahnt der Pfad und dornenlos, Und eure Strafe naht ihm nicht.
Gangbar, dornenlos ist der Weg für den recht Wandelnden, ihr Aditya´s. Auf ihm gibt es für euch keine Ermüdung?
Легок путь без шипов,
Для идущего по закону, о Адитьи.
Нет там изнурения благодаря вам.
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र व॒: स धी॒तये॑ नशत् ॥
यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था । प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥
हे नरः नेतारः आदित्याः यं यज्ञम् ऋजुना पथा अविकलेन मार्गेण नयथ पारं प्रापयथ सः यज्ञः वः धीतये युष्मत्पानायोपभोगाय प्र नशत् प्राप्नोतु ॥ नयथ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १.८८) इति टिलोपः । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' (पा. सू. ६. १. १६१ ) इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने' ।' आदेचः इति आत्वम् । क्तिचि ‘घुमास्था ' इति ईत्वम् । नशत् । नशतिर्गत्यर्थः। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः ॥ ॥ २२ ॥
“Ādityas, guides, may the sacrifice which you come to by a straight path, be to you for your gratification.”
What sacrifice, Adityas, ye Heroes guide by the path direct,--
May that come nigh unto your thought.
The sacrifice that you lead along the straight path, o superior men, Ādityas,
that will reach you for insight.
Welch Opfer auf dem rechten Pfad ihr Männer, ihr Aditja's, führt, Das dringt zu euren Herzen hin.
Das Opfer, das ihr Herren Aditya´s auf richtigem Wege leitet, das kommt euch ganz nach eurem Sinn.
(Та) жертва, которую вы ведете, о мужи
Адитьи, верным путем,
Она достигает вас для (усиления нашей) молитвы.
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ । अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥
हे आदित्याः सः तादृशो भवद्भिरनुगृहीतः मर्त्यः मनुष्यो यजमानः अस्तृतः केनाप्यहिंसितः सन् रत्नं रमणीयं विश्वं वसु सर्वं धनम् अच्छ आभिमुख्येन गच्छति प्राप्नोति । उत अपि च त्मना आत्मना स्वेन सदृशं तोकम् अपत्यं गच्छति ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः ' (पा. सू. ६. ४. १४१ ) इति आकारलोपः । अच्छ। ‘ निपातस्य च ' इति दीर्घत्वम् । अस्तृतः । स्तृञ् हिंसायाम् । न स्तृतोऽस्तृतः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“That mortal (whom you favour), exempt from harm, obtains all valuable wealth, and offspring like himself.”
That mortal, ever unsubdued, gains wealth and every precious thing,
And children also of his own.
That mortal attains to treasure and to goods, to a whole lineage along with his life,
as one who cannot be laid low.
Der Mann gelanget unverletzt zu jedem Gut und reichen Schatz Und auch zu grosser Kinderschar.
Der Sterbliche gelangt zu Belohnung, zu Gut - sein ganzer Same und er selbst - nie zu Fall gebracht.
Этот смертный достигает
Награды, имущества – сам и все потомство, –
Не повергнутый ниц.
क॒था रा॑धाम सखाय॒: स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः । महि॒ प्सरो॒ वरु॑णस्य ॥
क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः । महि॑ । प्सरः॑ । वरु॑णस्य ॥
हे सखायः सखिभूता ऋत्विजः मित्रादीनां त्रयाणां महि महत् प्सरः रूपम् । अतस्तदनुरूपं स्तोमं स्तोत्रं कथा केन प्रकारेण राधाम साधयामः॥ कथा । ‘था हेतौ च च्छन्दसि' (पा. सू. ५. ३. २६) इति किंशब्दात् प्रकारवचनेषु प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञायां किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । प्रत्ययस्वरः । राधाम । ‘राध साध संसिद्धौ'। लेटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तिङ्ङतिङः ' इति निघातः । स्तोमम् । ष्टुञ् स्तुतौ । ‘ अर्तिस्तुसु° ' इत्यादिना भावे मन् । नित्त्वादाद्युदात्तत्वम् । अर्यम्णः । षष्ठ्येकवचने ‘ अल्लोपोऽनः' इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महि । ‘ मह पूजायाम् । औणादिक इन्प्रत्ययः । प्सरः। ‘ प्सा भक्षणे । प्साति भक्षयतीति प्सरो रूपम् । औणादिको डरप्रत्ययः ॥
“How, my friends, shall we recite priase (worthy) of the great glory of Mitra, Varuṇa and Aryaman?”
How, my friends, shall we prepare Aryaman's and Mitra's laud,
Glorious food of Varuna?
O comrades, how shall we bring to success our praise song for Mitra and Aryaman,
a great delight for Varuṇa?
Wie gelingt uns recht, ihr Freunde, Arjaman's und Mitra's Loblied, Für den Varuna ein Labsal?
Wie können wir, o Genossen, das Loblied auf Mitra und Aryaman richtig treffen, einen Hochgenuß für Varuna?
Как нам достойно приготовить, о друзья,
Восхваление Митры, Арьямана,
Великий праздник Варуны?
मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् । सु॒म्नैरिद्व॒ आ वि॑वासे ॥
मा । वः॒ । घ्नन्त॑म् । मा । शप॑न्तम् । प्रति॑ । वो॒चे॒ । दे॒व॒ऽयन्त॑म् । सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥
हे मित्रादयो देवाः देवयन्तं देवान् कामयमानं यजमानं यः शत्रुर्हन्ति घ्नन्तं तादृशं शत्रुं वः युष्मभ्यं मा प्रति वोचे दुरुक्तकथनभीत्याहं न कथयामि। तथा यजमानं यः शत्रुः शपति तमपि शपन्तं मा प्रति वोचे भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु सुम्नैरित् धनैरेव वः युष्मान् आ विवासे सर्वतः परिचरामि ॥ घ्नन्तम् । हन्तीति घ्नन् ।' गमहन ' इत्यादिना उपधालोपः । ‘ हो हन्तेः' इति कुत्वे प्रत्ययस्वरः । शपन्तम् । ‘ शप आक्रोशे '। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । वोचे । ब्रूञ् व्यक्तायां वाचि'। माङि लुङि इटि ‘ब्रुवो वचिः ' ( पा. सू. २.
४. ५३ ) इति वचिः । अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः । ‘वच उम्' इत्युमागमः । ‘ न माङ्योगे' इति अडभावः । देवयन्तम् । ‘सुप आत्मनः क्यच् ' । न च्छन्दस्यपुत्रस्य' इति ईत्वप्रतिषेधः । सुम्नैः । ‘ म्ना अभ्यासे । सुष्ठु म्नायतेऽभ्यस्यते इति सुम्नम् । ‘ आतश्चोपसर्गे' (पा. सू. ३. १. १३६ ) इति कप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः । विवासे ॥ विवासतिः परिचरणकर्मा (नि. ३. ५. १० )॥
“I do not denounce to you him who assails or reviles the man devoted to the gods. I rather propitiate you with offered wealth.”
I point not out to you a man who strikes the pious, or reviles:
Only with hymns I call you nigh.
Let me not respond to the man who smites or curses you, (as if) to one devoted to the gods;
by benevolent thoughts alone will I seek to win you.
Nicht den Mörder, nicht den Flucher, nur den Frommen will ich preisen, Suche eure Gunst durch Lieder.
Ich will nicht vor euch dem, der den Gottergebenen schlägt oder flucht, mit Gleichem erwidern. Mit freundlichen Worten nur will ich euch gewinnen.
Не стану я изобличать перед вами
Как убивающего и проклинающего (человека,) преданного богам!
Только дружескими словами я хочу вас привлечь к себе.
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः । न दु॑रु॒क्ताय॑ स्पृहयेत् ॥
च॒तुरः॑ । चि॒त् । दद॑मानात् । बि॒भी॒यात् । आ । निऽधा॑तोः । न । दुः॒ऽउ॒क्ताय॑ । स्पृ॒ह॒ये॒त् ॥
घ्नन्तं शपन्तं च मा प्रतिवोचे इति यदुक्तं तत्रोपपत्तिरुच्यते । दुरुक्ताय न स्पृहयेत् दुष्टं वाक्यं न कामयेत् किंतु दुरुक्तात् बिभीयात् । तत्रावशिष्टो मन्त्रभागः सर्वोऽपि दृष्टान्तः । चित् इत्युपमार्थे वर्तते । अक्षद्यूतं कुर्वतोरुभयोर्मध्ये यः पुमान् चतुरः चतुःसंख्याकान् कपर्दकान् ददमानात् ददतो हस्ते धारयतः पुरुषात् आ निधातोः कपर्दकनिपातपर्यन्तं बिभीयात् अस्य जयो भविष्यति न भविष्यति इत्यन्यो भीतिं प्राप्नुयात् । अत्र यथा भयं तथा दुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । तस्मादहं घ्नन्तं शपन्तं मा प्रतिवोचे इत्यभिप्रायः । अत्र निरुक्तं - चतुरोऽक्षान् धारयत इति तद्यथा कितवाद्बिभीयादेवमेव दुरुक्ताद्बिभीयान्न दुरुक्ताय स्पृहयेत्' (निरु. ३. १६) इति ॥ चतुरः । ‘ चतुरः शसि ' ( पा. सू. ६. १. १६७ ) इति विभक्तेः पूर्वस्योदात्तत्वम् । ददमानात्। ‘दद दाने'। अत्र धारणार्थः । शपः पित्त्वादनुदात्तत्वम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वेन शानजनुदात्तः । धातुस्वर एव शिष्यते । बिभीयात् ।' ञिभी भये '। लिङि जुहोत्यादित्वात् शपः श्लुः । यासुट उदात्तत्वम् । पादादित्वात् निघाताभावः । निधातोः । निपूर्वात् दधातेः 'सितनिगमि° ' ( उ. सू. १. ६९) इत्यादिना भावे तुन्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । ‘ तादौ च°' इति गतिस्वरो न भवति ‘अतौ' इति पर्युदस्तत्वात् । दुरुक्ताय । ‘स्पृहेरीप्सितः ' ( पा. सू. १. ४. ३६ ) इति संप्रदानसंज्ञायां • चतुर्थी संप्रदाने ' ( पा. सू. २. ३. १३) इति चतुर्थी । स्पृहयेत् । ‘ स्पृह ईप्सायाम् ' । चुरादिरदन्तः । अतो लोपस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥ ॥ २३ ॥
“For he (the worshipper) loves not, but fears to speak evil (of any one), as a gamester fears (his adversary) holding the four (dice), until they are thrown.”
Let him not love to speak ill words: but fear the One who holds all four
Within his hand, until they fall.
(A gambler) should be afraid, right up till (the cards) are laid on (the table), that (his opponent) may be holding four (aces).
One should not go eagerly after evil speech.
Den, der die vier Würfel heget, scheue man, noch eh' der Wurf fällt; Nicht verlange nach Geschwätz man.
Man soll sich davor fürchten wie der Spieler bis zum Auflegen vor den, der die Vier in der Hand hat; man soll nicht Lust an böser Rede haben.
Подобно тому, как держащего в руках четверку (партнер)
Должен бояться до самого раскладывания костей (, так и дурную речь).
Нельзя стремиться к дурной речи!