सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् । सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥
सम् । पू॒ष॒न् । अध्व॑नः । ति॒र॒ । वि । अंहः॑ । वि॒ऽमु॒चः॒ । न॒पा॒त् । सक्ष्व॑ । दे॒व॒ । प्र । नः॒ । पु॒रः ॥
हे पूषन् जगत्पोषक पृथिव्यभिमानिदेव अध्वनः मार्गात् सं तिर अस्मानभीष्टस्थानं सम्यक् प्रापय । अंहः विघ्नहेतुं पाप्मानं वि तिर विनाशय । पूषा विशेष्यते । विमुचो नपात् जलविमोचहेतोर्मघस्य पुत्र । नपात् इति पुत्रनाम, ‘नपात् प्रजा ' ( नि. २. २. १३) इति तन्नामसु पाठात् । श्रुत्यन्तरे अद्भ्यः पृथिवी' इति जलात् भूम्युत्पत्तिः श्रूयते । तथा अन्यत्रापि उदकसारत्वं पृथिव्याः श्रूयते - तद्यदपां सार आसीत्तत्समहन्यत सा पृथिव्यभवत् । इति । मेघस्य जलधारित्वादुदकपुत्र एव मेघपुत्रो भवति । न च पृथिव्या मेघपुत्रत्वे पूष्णः किमायातमिति वाच्यं , पृथिव्या एव पूषत्वात् । तथा च श्रुत्यन्तरे कस्यचिन्मन्त्रस्य ब्राह्मणमेवमाम्नायते --पूषाध्वनः पात्वित्याहेयं वै पूषा ' इति । तन्निर्वचनं चान्यत्रैवमाम्नायते - इयं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किं च ' (श. ब्रा. १४. ४. २. २५) इति । हे देव पूषन् नः पुरः अस्माकं पुरतः प्र सक्ष्व प्रसक्तो भव । पुरतो गच्छेत्यर्थः ॥ विमुचो नपात् । उदकं विमुञ्चतीति विमुङ् मेघः । ‘क्विप् च ' इति क्विप् । न पातयति कुलमिति नपात् पुत्रः । नञ्पूर्वात् पातयतेः क्विप् ।' नभ्राण्नपात् इस्यादिना नञः प्रकृतिभावः । ‘सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । सक्ष्व। ‘ षच सेवने'। अनुदात्तेत्त्वादात्मनेपदम् । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । ‘तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । प्र णः । ‘ उपसर्गाद्बहुलम् इति नसो णत्वम् । पुरः । उक्तम् ॥
“Pūṣanm convey us over the road, remove the wicked (obsructer of the way). Son of the cloud, deity, go before us.”
SHORTEN our ways, O Pusan, move aside obstruction in the path:
Go close before us, cloud-born God.
O Pūṣan pass along the roads, Free us, son of release, from care. Guide us, going before, O god.
Traverse the roads with (us), Pūṣan, and (release) constraint from (us), o child of release.
Go forth before us to victory, o god.
Geh, Puschan, mit uns auf dem Weg, verscheuch, Verscheucher, die Gefahr, Und schreite uns voran, o Gott.
Pusan! Begeh die Wege, entferne Ungemach, du Kind der Einkehr! Geh uns als Geleitsmann voran, o Gott!
О Пушан, пройди по дорогам!
Про(гони) опасность, о сын избавления!
Иди с (нами), о бог, вперед, возглавляя нас!
यो न॑: पूषन्न॒घो वृको॑ दु॒:शेव॑ आ॒दिदे॑शति । अप॑ स्म॒ तं प॒थो ज॑हि ॥
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः॑ । दुः॒शेव॑ । आ॒ऽदिदे॑शति । अप॑ । स्म॒ । तम् । प॒थः । ज॒हि॒ ॥
हे पूषन् यः प्रतिपक्षी नः अस्मान् आदिदेशति अनेन मार्गेण गन्तव्यम्' इत्येवमाज्ञापयति । कीदृशः। अघः आहन्ता वृकः अस्मदीयस्य धनस्य आदाता अपहर्तेत्यर्थः । दुःशेवः सेवितुं दुःशको । दुष्टसुखो वा । तं तादृशं प्रतिपक्षिणं पथः मार्गात् अप जहि स्म अवश्यमपाकुरु॥ वृकः। ‘ कुक वृक आदाने '। वर्कते इति वृकः । इगुपधलक्षणः कः । वृषादित्वादाद्युदात्तत्वम् । दुःशेवः । दुष्टं शेवं यस्यासौ दुःशेवः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा । दुःखेन सेव्यते इति दुःशेवः । वर्णव्यत्ययेन सकारस्य शकारः । ईषद्दुःसुषु ' इति खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आदिदेशति । ‘ दिश अतिसर्जने '। लेटि अडागमः । ‘ बहुलं छन्दसि' इति शपः श्लुः । ‘ बहुलं छन्दसीति वक्तव्यम्' (पा. सू. ७. ३. ८७. २) इति वचनात् ‘ नाभ्यस्तस्याचि' (पा. सू. ७. ३. ८७ ) इति लघूपधगुणप्रतिषेधाभावः । पथः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
“If a wicked (adversary), Pūṣan, a robber, or one who delights in evil, points out to us (the way we ought not to go), do you drive him from the road.”
Drive, Pusan, from our road the wolf, the wicked inauspicious wolf,
Who lies in wait to injure us.
The wicked, ill-intentioned wolf, Pūṣan, that lies in wait for us. Him from our path smite thou away.
The evil, malevolent wolf that will set his sights on us, o Pūṣan,
smite him away, as always, from the path.
Welch schlimmer Wolf, welch Bösewicht, o Puschan, auf uns lauern mag, Den schlage fort von unserm Pfad.
Den bösen, unheilvollen Wolf, der uns bedroht, o Pusan, den jage von dem Wege fort!
(Тот) лютый волк, о Пушан,
Что нам угрожает, свирепый –
Убей ты его, (прогнав) прочь с дороги!
अप॒ त्यं प॑रिप॒न्थिनं॑ मुषी॒वाणं॑ हुर॒श्चित॑म् । दू॒रमधि॑ स्रु॒तेर॑ज ॥
अप॑ । त्यम् । प॒रि॒ऽप॒न्थिन॑म् । मु॒षी॒वाण॑म् । हु॒रः॒ऽचित॑म् । दू॒रम् । अधि॑ । स्रु॒तेः । अ॒ज॒ ॥
त्यं तादृशं पूर्वोक्तगुणयुक्तं स्रुतेः मार्गात् अधि दूरम् अत्यन्तदूरदेशं प्रति अप अज अपगमय । कीदृशम् । परिपन्थिनं मार्गप्रतिबन्धकं मुषीवाणं तस्कररूपम् । मुषीवा इति तस्करस्य नाम, ‘मुषीवान् मलिम्लुचः' (नि. ३. २४. ११) इति तन्नामसु पाठात् । हुरश्चितं कौटिल्यानां संचेतारम् ॥ परिपन्थिनम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५. २. ८९ ) इति शत्रावभिधेये इनिप्रत्ययान्तो निपातितः । मुषीवाणम् । ‘मुष स्तेये '। मोषणं मुषिः। औणादिको भावे किप्रत्ययः । मुषिं वनति संभजते इति मुषीवा । ' वन षण संभक्तौ । अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच्प्रत्ययः । ‘ सर्वनामस्थाने चासंबुद्धौ ' (पा. सू. ६. ४. ८) इति दीर्घः। अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । हुरश्चितम् । ‘हुर्छा। कौटिल्ये'। संपदादिलक्षणो भावे क्विप् । राल्लोपः' इति छकारलोपः । हुरश्चिनोतीति हुरश्चित् । चिनोतेः क्विपि तुगागमः । ‘ तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्रुतेः । स्रु गतौ ।' क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । चितः' इत्यन्तोदात्तत्वम् । अज ।“ अज गतिक्षेपणयोः ॥
“Drive him far away, apart fom the road, the hinderer of our journey, a thief, a deceiver.”
Who lurks about the path we take, the robber with a guileful heart:
Far from the road chase him away.
The robber lurking round our path, Who there against us mischief plots. Far from the track drive him away.
Drive away this highwayman, the robber who knows the crooked ways, to a distance far from our route.
Den Wegelagerer, den Dieb, der Frevel sinnt, den jage du Von unserm Steige weit hinweg.
Treib den Wegelagerer, den Räuber, der die Schleichwege kennt, von der Straße weit weg!
(Прогони) прочь того разбойника!
Грабителя, замышляющего засады,
Прогони далеко прочь с тропинки!
त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् । प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥
त्वम् । तस्य॑ । द्व॒या॒विनः॑ । अ॒घऽशं॑सस्य । कस्य॑ । चि॒त् । प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु॑षिम् ॥
हे पूषन् त्वं तस्य चोरस्य तपुषिं परसंतापकं देहं पदाभि तिष्ठ भवदीयेन पादेनाक्रम्य तिष्ठ । कीदृशस्य । द्वयाविनः प्रत्यक्षापहारः परोक्षापहारश्चेति यद्द्वयं तद्युक्तस्य अघशंसस्य अस्मास्वघमनिष्टं शंसतः । अघशंस इति तस्करनाम, ‘मलिम्लुचः अघशंसः वृकः' (नि. ३.२४.१३) इति तन्नामसु पाठात् । कस्य चित् अनिर्दिष्टविशेषस्य कस्यापि ॥ द्वयाविनः । द्वयमस्यास्तीति द्वयावी । ‘ बहुलं छन्दसि ' (पा. सू. ५. २. १२२) इति मत्वर्थीयो विनिः । ‘ अन्येषामपि दृश्यते ' इति दीर्घत्वम् । अघशंसस्य । अघे पापे शंसो मनस्यभिलाषो यस्य सोऽयमघशंसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तपुषिम् । तापयत्यनेन अन्यमिति तपुषिः । औणादिक उषिन्प्रत्ययः । बहुलवचनात् इकारस्य न इत् संज्ञा । नित्त्वादाद्युदात्तत्वम् ॥
“Trample with your feet upon the mischievous (body) of that evil-minded pilferer of both (what is present and what is absent), whoever he be.”
Tread with thy foot and trample out the firebrand of the wicked one,
The double-tongued, whoe'er he be.
Tread under foot the burning brand Of crafty and malignant men, The miscreants whoe'er they be.
The double-dealing utterer of evil, whoever he is—
with your foot stamp on his scorching (weapon).
Des falschen Mannes Feuerbrand,des Bösewichts, wer es auch sei,Den tritt mit deinem Fusse aus.
Tritt das Brandgeschoß des doppelzüngigen Verleumders, wer er auch sei, mit dem Fuße aus!
Ты у этого двоедушного,
Злоречивого, кем бы он ни был,
Затопчи ногой головню!
आ तत्ते॑ दस्र मन्तुम॒: पूष॒न्नवो॑ वृणीमहे । येन॑ पि॒तॄनचो॑दयः ॥
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ । येन॑ । पि॒तॄन् । अचो॑दयः ॥
हे मन्तुमः ज्ञानवन् दस्र दर्शनीय यद्वा वैर्युपक्षयकारिन् पूषन् ते त्वदीयं तत् अवः तादृशं रक्षणम् आ वृणीमहे सर्वतः प्रार्थयामहे । येन रक्षणेन पितॄन् अङ्गिरःप्रभृतीन पितृदेहान् अचोदयः प्रेरितवानसि । तद्रक्षणमिति पूर्वत्रान्वयः ॥ दस्र । ' दसि दंसनदर्शनयोः' ।' स्फायितञ्चि° ' इत्यादिना रक्। आगमानुशासनस्यानित्यत्वात् नुमभावः । यद्वा।' दसु उपक्षये ' इत्यस्मादन्तर्भावितण्यर्थात् पूर्ववत् रक् । मन्तुमः । ‘ मन ज्ञाने '। कमिमनिजनि' (उ. सू. १. ७२ ) इत्यादिना भावे तुप्रत्ययः । मन्तुर्ज्ञानमस्यास्तीति मन्तुमान् । संबुद्धौ ‘ मतुवसो रुः' इति रुत्वम् । अचोदयः । ‘ चुद संचोदने ' । चौरादिकः ॥ ॥ २४ ॥
“Sagacious and handsome Pūṣan, we solicit of you that protection wherewith you have encouraged the patriarchs.”
Wise Pusan, Wonder-Worker, we claim of thee now the aid wherewith
Thou furtheredst our sires of old.
Pūṣan, that help of thine we claim, O wonder-working, sapient god, Wherewith our fathers thou didst aid.
We choose that help of yours, o wondrous counselor Pūṣan,
with which you spurred on our forefathers.
Um solchen Beistand flehn wir dich, hülfreicher, weiser Puschan, an, Mit dem du unsern Vätern halfst.
Diesen Beistand von dir erbitten wir, du ratreicher Meister Pusan, mit dem du unsere Väter ermutigt hast.
Мы хотим заручиться той твоей помощью,
О удивительный, многомудрый Пушан,
Которой ты вдохновлял (наших) отцов.
अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम । धना॑नि सु॒षणा॑ कृधि ॥
अधः॑ । नः॒ । वि॒श्व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवाशीमत्ऽतम । धना॑नि । सु॒ऽसना॑ । कृ॒धि॒ ॥
हे विश्वसौभग कृत्स्नधनयुक्त यद्वा कृत्स्नसौभाग्ययुक्त हिरण्यवाशीमत्तम अतिशयेन सुवर्णमयायुधवन् पूषन् अध पूर्वोक्तास्मदीयप्रार्थनानन्तरं नः अस्माकं धनानि सुवर्णमणिमुक्तादीनि सुषणा सुष्ठु दानयुक्तानि कृधि कुरु ॥ अध। अथशब्दे धत्वं छान्दसम् । ‘ निपातस्य च ' इति संहितायां दीर्घत्वम् । विश्वसौभग । ‘सुभगान्मत्रे' इत्युद्गात्रादिषु पाठाद्भावे अञ् । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इत्युत्तरपदवृद्धौ प्राप्तायां सत्यां सर्वविधीनां छन्दसि विकल्पितत्वादुत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् (का. ७. २. १९) । विश्वानि सौभगानि यस्यासौ विश्वसौभगः । आमन्त्रितनिघातः । हिरण्यवाशीमत्तम । हिरण्यमयी वाशी । तदेषामस्तीति हिरण्यवाशीमन्तः । अतिशयेन हिरण्यवाशीमान् हिरण्यवाशीमत्तमः । आमन्त्रितनिघातः । सुषणा । वन षण संभक्तौ ' । सुखेन संभज्यन्ते इति सुषणानि । “ ईषद्दुःसुषु' इति खल् । ‘शेश्छन्दसि' इति शेर्लोपः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृधि । ‘डुकृञ् करणे'। ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“Therefore do you, who are possessed of all prosperity and well-equipped with golden weapons, bestow upon us riches that may be liberally distributed.”
So, Lord of all prosperity, best wielder of the golden sword,
Make riches easy to be won.
Thou, lord of all prosperity, Best wielder of the golden axe. Make easy wealth for us to gain.
Now then, o you who bring every good fortune, who are the foremost wielder of the golden axe,
make the stakes easy for us to win.
Und lass, o allbeglückender, der stets du trägst die goldne Axt, Uns Beut' erlangen sonder Müh.
Nun mach uns die Siegespreise leicht zu gewinnen, der du alle Glücksgüter hast, du erster Träger des goldenen Beils!
Сделай же, чтобы (нам) было легко завоевать богатства,
О ты, у кого все блага,
О лучший из носителей золотого топора!
अति॑ नः स॒श्चतो॑ नय सु॒गा न॑: सु॒पथा॑ कृणु । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
अति॑ । नः । स॒श्चतः॑ । न॒य॒ । सु॒ऽगा । नः॒ । सु॒ऽपथा॑ । कृ॒णु॒ । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥
सश्चतः अस्मद्बाधनाय प्राप्नुवतः शत्रून् नः अति अस्मानतिक्रम्य नय अन्यत्र प्रापय । नः अस्मान् सुगा सुष्ठु गन्तुं शक्येन सुपथा शोभनमार्गेण कृणु गन्तॄन् कुरु । हे पूषन् इह अध्वनि क्रतुं प्रज्ञानमस्मद्रक्षणरूपं विदः जानीहि ॥ सश्चतः । ‘ ग्लुञ्च षस्ज गतौ ' इत्यत्र सश्चिमप्येके पठन्तीति धातुवृत्तावुक्तम् । अस्मात् लटः शतृ । ' बहुलं छन्दसि ' इति शपो लुक् । प्रत्ययस्वरेण शतुरुदात्तत्वम् । ‘शतुरनुमः' इति विभक्त्युदात्ताभावश्छान्दसः । सुगा । सुष्ठु गच्छन्त्यत्रेति सुगः । ‘ सुदुरोरधिकरणे ' इति गमेर्डप्रत्ययः । ‘ सुपां सुलुक् ' इति तृतीयाया आकारः । सुपथा। शोभनेन पथा। न पूजनात् ' (पा. सू. ५. ४. ६९ ) इति समासान्तप्रतिषेधः । परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । ‘ क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वं न भवति अबहुव्रीहित्वात् । तत्र हि बहुव्रीहौ इति वर्तते । कृणु ।' कृवि हिंसाकरणयोः '। ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः । ‘उतश्च प्रत्ययात्' इति हेर्लुक् । विदः । विद ज्ञाने'। लेटि अडागमः। ‘ इतश्च लोपः' इति इकारलोपः ॥
“Lead us past our opponents; conduct us by an easy path; know, Pūṣan, how to protect us on this (journey).”
Past all pursuers lead us, make pleasant our path and fair to tread:
O Pusan, find thou power for this.
Past our pursuers lead us, make Fair paths, easy for us to tread. Thus, Pūṣan, show in us thy might.
Lead us across the parched places. Make easy passages, easy pathways for us.
– Pūṣan, here you will find the resolve.
Führ über Feinde uns hinweg, mach alles gangbar und gebahnt, Gib hier uns, Puschan, Rüstigkeit.
Führ uns über die Mängel hinweg, mach uns gute, gangbare Wege! O Pusan, schaff hierfür Rat!
Проведи нас через выморочные (места)!
Создай нам хорошие, легкопроходимые пути!
О Пушан, найди нам здесь силу духа!
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
अ॒भि । सु॒ऽयव॑सम् । न॒य॒ । न । न॒व॒ऽज्वा॒रः । अध्व॑ने । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥
हे पूषन् सुयवसं शोभनतृणोपलक्षितं सर्वौषधियुक्तं देशम् अभि नय अस्मानभितः प्रापय । अध्वने मार्गाय नवज्वारः नूतनः संतापः न भवत्विति शेषः । मार्गे गच्छतामस्माकमिदानींतनः क्लेशः कोऽपि मा भूदित्यर्थः । गतार्थमन्यत् ॥ सूयवसम्। शोभनं यवसं यस्मिन् देशे स सूयवसो देशः । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम् । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् क्रत्वादिर्वा द्रष्टव्यः । नवज्वारः । ‘ ज्वर रोगे'। भावे घञ् । नवश्चासौ ज्वारो नवज्वारः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“Lead us where there is abundant fodder; let there be no extreme heat by the way; Pūṣan, know to protect us on this (journey).”
Lead us to meadows rich in grass: send on our way no early heat:
O Pusan, find thou power for this.
Lead us to pastures rich in grass, Send on the road no early heat. Thus, Pūṣan, show in us thy might.
Lead us to good pasture, with no new suffering on the road.
– Pūṣan, here you will find the resolve.
Zu fetten Weiden führe uns, nicht neues Leid sei auf der Fahrt, Gib hier uns, Puschan, Rüstigkeit.
Für zu guter Weide, nicht komme zu der Reise neue Aufregung. O Pusan, schaff hierfür Rat!
Отведи на хорошее пастбище!
(Да) не (нападет) на нас новая лихорадка в пути!
О Пушан, найди нам здесь силу духа!
श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
श॒ग्धि । पू॒र्धि । प्र । यं॒सि॒ । च॒ । शि॒शी॒हि । प्रासि॑ । उ॒दर॑म् । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥
हे पूषन् शग्धि अस्माननुग्रहीतुं शक्तो भव । पूर्धि अस्मद्गृहं धनेन पूरय। किंच प्र यंसि अन्यदप्यपेक्षितं वस्तु प्रयच्छ। शिशीहि अस्मान् सर्वेषु मध्ये तीक्ष्णीकुरु तेजस्विनः कुरु इत्यर्थः । उदरम् अस्मदीयं प्रासि मृष्टान्नेन सोमरसेन वा पूरय । अन्यत् पूर्ववत् ॥ शग्धि । ‘शक्लृ शक्तौ । लोटो हिः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । हुझल्भ्यो हेर्धिः ' इति धिरादेशः । हेरपित्त्वात् प्रत्ययस्वरेणोदात्तत्वम् । पूर्धि । ‘पॄ पालनपूरणयोः । ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः ॥ पूर्ववद्विकरणस्य लुक् । ‘ उदोष्ठ्यपूर्वस्य ' इति उत्वम् । ‘ हलि च ' इति दीर्घः । तिङः परत्वात् निघाताभावः। यंसि। ‘ यम उपरमे। लोडर्थे लटि पूर्ववद्विकरणस्य लुक् । निघातः । शिशीहि । ‘ शो तनूकरणे'। लोटि ‘ बहुलं छन्दसि ' ( पा. सू. ७. ४. ७८ ) इति अभ्यासस्य इत्वम् । 'ई हल्यघोः' इति ईत्वम् । प्रत्ययस्वरः । प्रासि । प्रा पूरणे'। अदादित्वात् शपो लुक् । सिपः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥
“Be favourable to us, fill us (with abundance), give us (all goood things), sharpen us (with vigour), fill our bellies, Pūṣan, know how to protect us on this (journey).”
Be gracious to us, fill us full, give, feed us, and invigorate:
O Pusan, find thou power for this.
Strive! Give and proffer! Sharpen up! Fill the belly!
– Pūṣan, here you will find the resolve.
O schenke, fülle, spende uns und stärke, mache voll den Leib, Gib hier uns, Puschan, Rüstigkeit.
Bemüh dich, gib in Fülle und spende, gib einen Ansporn, fülle den Bauch! O Pusan, schaff hierfür Rat!
Постарайся, дай в изобилии, пожертвуй,
Воспламени (нас,) наполни живот!
О Пушан, найди нам здесь силу духа!
न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि । वसू॑नि द॒स्ममी॑महे ॥
न । पू॒षण॑म् । मे॒था॒म॒सि॒ । सू॒क्तैः । अ॒भि । गृ॒णी॒म॒सि॒ । वसू॑नि । द॒स्मम् । ई॒म॒हे॒ ॥
पूषणं देवं न मेथामसि वयं न तु निन्दामः । किंतु सूक्तैः वेदगतैः अभि गृणीमसि सर्वत्र स्तुमः । दस्मं दर्शनीयं पूषणं प्रति वसूनि धनानि ईमहे याचामहे ॥ मेथामसि । ‘ मेथृ मेधाहिंसनयोः । लटि इन्दतो मसि' इति मस इकारागमः । सूक्तैः । सुष्ठु स्तुवते देवताः प्रकाशयन्तीति सूक्तानि । ' क्तिच्क्तौ च संज्ञायाम् ' इति कर्तरि क्तः । ‘वचिस्वपि°' इत्यादिना संप्रसारणम् । थाथादिस्वरः । यद्वा । कर्मणि निष्ठा । ‘ सूपमानात् क्तः ' ( पा. सू. ६. २. १४५ ) इत्युत्तरपदान्तोदात्तत्वम् । गृणीमसि । गॄ शब्दे'। ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । इदन्तो मसिः। दस्मम् । ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक् ' ( उ. सू. १. १४२) इति मक्प्रत्ययः ॥ ॥ २५ ॥
“We do not censure Pūṣan, but praise him with hymns; we solicit the good-looking (Pūṣan) for riches.”
No blame have we for Pusan; him we magnify with songs of praise:
We seek the Mighty One for wealth.
We wrangle not with Pūṣan, him We call upon with songs of praise: For wealth we seek the wondrous god.
We do not oppose Pūṣan; we greet him with hymns.
We beg the wondrous one for goods.
Nie reizen Puschan wir zum Zorn, wir preisen ihn mit schönem Wort, Den thät'gen bitten wir um Gut.
Wir machen dem Pusan keine Vorwürfe, wir beloben ihn mit wohlgesetzten Worten. Wir bitten den Meister um Schätze.
Мы не задеваем Пушана.
Мы восхваляем его в гимнах.
О благах мы просим удивительного.