कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे ॥
कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से । वो॒चेम॑ । शम्ऽत॑मम् । ह्द॒े ॥
कत् कदा रुद्राय एतन्नामकाय देवाय शंतमम् अतिशयेन सुखकरं स्तोत्रं वोचेम पठेम । कीदृशाय । प्रचेतसे प्रकृष्टज्ञानयुक्ताय मीळ्हुष्टमाय सेक्तृतमाय अभीष्टकामवर्षायेत्यर्थः । तव्यसे अतिशयेन प्रवृद्धाय हृदे अस्मदीयहृन्निष्ठाय ॥ कत् कदा । अन्त्यलोपश्छान्दसः । रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः। ‘रोदेर्णिलुक्च' ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । प्रचेतसे । ‘ चिती संज्ञाने'। प्रकृष्टं चेततीति प्रचेताः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । मीळ्हुष्टमाय । अतिशयेन मीढ्वान् मीळ्हुष्टमः । दाश्वान् साह्वान् मीढ्वांश्च ' इति क्वसुप्रत्ययान्तो निपातितः । तमपि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । ‘ शासिवसिघसीनां च ' इति षत्वम् । तव्यसे । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अतिशयेन तविता तवीयान् । तुश्छन्दसि ' इति ईयसुन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ' इति तृलोपः । ईयसुन ईकारलोपछान्दसः । नित्त्वादाद्युदात्तत्वम् । वोचेम ।' वच परिभाषणे '। लिङयाशिष्यङ्' ।' वच उम्' इति उमागमः। यासुटः स्वरेण एकार उदात्तः । हृदे। ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृदादेशः । ‘ ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥
“When may we repeat a most grateful hymn to the wise, the most bountiful and mighty Rudra, who is (cherished) in our hearts?”
WHAT shall we sing to Rudra, strong, most bounteous, excellently wise,
That shall be dearest to his heart?
What might we say to Rudra, the provident, the most generous, the very powerful;
what might we say that is most wealful to his heart?
Was sagen wir dem gnädigsten, dem weisen, starken Rudra nun, Was für sein Herz das liebste ist?
Was sollen wir dem Rudra, dem Klugen, Belohnendsten, Stärksten sagen, das seinem Herzen am meisten zusagt!
Что можем мы сказать Рудре,
Прозорливцу, самому щедрому, сильнейшему, –
Самого радостного для (его) сердца?
यथा॑ नो॒ अदि॑ति॒: कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥
यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ । यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥
अदितिः भूमिः नः अस्माकं रुद्रियं रुद्रसंबन्धि भेषजं यथा येन प्रकारेण सिध्यति करत् तथा करोतु । किंच यथा येन प्रकारेण पश्वे अस्मदीयाश्वमहिषादिपशवे नृभ्यः अस्मदीयपुरुषेभ्यो विशेषेण गवे गोजातये हितं रुद्रियं सिध्यति तथा करोतु । किंच तोकाय अस्मदीयापत्याय रुद्रियं यथा सिध्यति तथा करोतु । भेषजस्य रुद्रसंबन्धित्वं मन्त्रान्तरे समाम्नातं - ‘ या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी' (तै. सं. ४. ५. १०. १ ) इति । गवादिविषयभेषजं चान्यत्र स्पष्टमाम्नातं- भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजं सुभेषजम् ' ( तै. सं. १. ८. ६. १) इति ॥ करत् । डुकृञ् करणे'। लङि व्यत्ययेन शप् । यद्वा । लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । लुङि • कृमृदृरुहिभ्यश्छन्दसि' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः। अद्ययोः पक्षयोः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । तृतीये तु व्यत्ययेन । यद्वृत्तयोगादनिघातः । पश्वे। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ घेर्ङिति' (पा. सू. ७. ३. १११ ) इति गुणाभावः । यणादेशः । नृभ्यः । ‘ नृ चान्यतरस्याम् (पा. सू. ६. १. १८४ ) इति विभक्त्युदात्तत्वाभावः । गवे। ‘ सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । रुद्रियम् । रुद्रशब्दात् तस्येदमित्यर्थे घप्रत्ययः ॥
“By which earth may (be induced to) grant the gifts of Rudra to our cattle, our people, our cows, and our progeny.”
That Aditi may grant the grace of Rudra to our folk, our kine,
Our cattle and our progeny;
So that for our livestock and men Aditi will create Rudrian power, likewise for our kine,
likewise for our offspring.
Dass unsern Heerden Aditi den Männern, Kindern und dem Rind Verschaffen möge Rudra's Gunst,
Auf das Aditi unserem Vieh, den Männern, dem Rind, auf das sie unserem Samen das rudrische Heilmittel verschaffe;
...Чтобы сделала нам Адити
Для охоты, для мужей, чтобы для коров,
Чтобы для потомства – (целебное средство) Рудры!
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति । यथा॒ विश्वे॑ स॒जोष॑सः ॥
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति । यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥
मित्रो वरुणः च नः अस्मान् यथा येन प्रकारेण चिकेतति अनुग्राह्यत्वेन जानाति। रुद्रः अपि यथा चिकेतति । सजोषसः समानप्रीतयः विश्वे सर्वे देवाः यथा चिकेतन्ति तथा भवत्विति शेषः । यद्वा । यथाशब्दोपेतमन्त्रद्वयस्य तथा कदा वोचेमेति पूर्वत्रान्वयः ॥ चिकेतति । कित ज्ञाने'। लेटि अडागमः। ‘ नाभ्यस्तस्य' (पा. सू. ७. ३.८७) इति गुणनिषेधो न भवति, ‘बहुलं छन्दसीति वक्तव्यम्' इति वचनात् । सार्वधातुकत्वाच्च ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सजोषसः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्तीति सजोषसः । ‘ समानस्य च्छन्दसि' इति सभावः । असुनो नित्त्वादुत्तरपदस्याद्युदात्तत्वम् । तदेव कृदुत्तरपदप्रकृतिस्वरत्वेन शिष्यते ॥
“By which Mitra and Varuṇa, and Rudra and all the gods, being gratified, may show us (favour).”
That Mitra and that Varuna, that Rudra may remember us,
Yea, all the Gods with one accord.
So that Mitra and Varuṇa will be attentive to us, likewise Rudra,
likewise all (the gods) in concert.
Dass Mitra und dass Varuna, dass Rudra auf uns habe Acht, Und alle Götter gleichgesinnt.
Auf das Mitra und Varuna, auf das Rudra unser gedenke und alle Götter einmütig.
...Чтобы нас Митра (и) Варуна,
Чтобы Рудра (нас) заметил,
Чтобы все (боги) единодушные!
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् । तच्छं॒योः सु॒म्नमी॑महे ॥
गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् । तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥
'रुद्रम् अभिलक्ष्य वयं शंयोः बृहस्पतिपुत्रस्य संबन्धि तत् प्रसिद्धं सर्वप्रजाभ्यो हितं सुम्नं सुखम् ईमहे याचामहे । कीदृशं रुद्रम्। गाथपतिं स्तुतिपालकं मेधपतिं यज्ञपालकं जलाषभेषजं सुखरूपौषधोपेतम्। यद्वा । उदकरूपौषधोपेतम् । उदकं हि रुद्रनामाभिमन्त्रितं सत् औषधं भवति ॥ गाथपतिम् । गाथा इति वाङ्नाम, ‘ गाथा गणः ' ( नि. १. ११. ३७ ) इति तन्नामसु पठितत्वात् । वायूपायाः स्तुतेः पतिर्गाथपतिः । ‘कै गै रै शब्दे'। ‘ आदेचः' इति आत्वम् । ‘ उषिकुषिगार्तिभ्यस्थन्' इति थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' इति पूर्वपदस्य ह्रस्वत्वम् । ‘ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘ मरुद्वृधादीनां छन्दस्युपसंख्यानम् ' इति पूर्वपदान्तोदात्तत्वम् । मेधपतिम् । पूर्ववत् । जलाषभेषजम् । ‘जनी प्रादुर्भावे'। जायन्ते इति जाः । ‘ अन्येष्वपि दृश्यते' (पा. सू. ३. २. १०१ ) इति दृशिग्रहणात् केवलादपि डप्रत्ययः । लाषः । ‘ लष कान्तौ । कान्तिरभिलाषः। भावे घञ् । जानां लाषो यस्मिन् तज्जलाषं सुखम् । जलाषरूपं भेषजं यस्मिन् रुद्रे स जलाषभेषजः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंयोः । ‘ कंशंभ्याम्' ( पा. सू. ५, २. १३८) इति मत्वर्थीयो युस्प्रत्ययः । ‘ सिति च' (पा. सू. १. ४. १६) इति पदसंज्ञायाम् अनुस्वारपरसवर्णौ । प्रत्ययस्वरः ॥
“We ask the felicity of Śaṃyu, from Rudra, the encourager of hymns, the protector of sacrifices, possessed of medicaments that confer delight.”
To Rudra Lord of sacrifice, of hymns and balmy medicines,
We pray for joy and health and strength.
To the lord of songs, the lord of ritual offerings, to Rudra whose remedies are healing [?]
we plead for the favor of luck and lifetime.
Den Sangesherrn, den Opferherrn, Rudra mit linder Arzenei, Den flehn um Heil und Segen wir,
Den Herrn des Gesanges, den Herrn des Opfers Rudra mit kühlender Arzenei bitten wir um diese Huld des Heilsamen,
Повелителя песни, повелителя жертвы –
Рудру с успокаивающим целебным средством
Мы просим об этой милости для блага и счастья,
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते । श्रेष्ठो॑ दे॒वानां॒ वसु॑: ॥
यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते । श्रेष्ठः॑ । दे॒वानाम् । वसुः॑ ॥
यः रुद्रः सूर्यः इव शुक्रः सूर्यवद्दीप्तिमान् हिरण्यमिव रोचते। यथा सर्वेषां प्राणिनां हिरण्यं प्रीतिकरं भवति तथा रुद्रोऽपि । स च देवानां सर्वेषां मध्ये श्रेष्ठः वसुः निवासहेतुश्च ॥ रोचते । ‘ रुच दीप्तावभिप्रीत्यां च ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । श्रेष्ठः । प्रशस्यतरः । प्रशस्यशब्दात् इष्टनि प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६० ) इति श्रादेशः । नित्त्वादाद्युदात्तत्वम् । वसुः । वासयति सर्वमिति वसुः । ‘वस निवासे' । अन्तर्भावितण्यर्थात् ' शृस्वृस्निहि°! इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥ ॥ २६ ॥
“Who is so brilliant as Śaṃyu, who gratifies like gold, the best of the gods, the provider of habitations?”
He shines in splendour like the Sun, refulgent as bright gold is he,
The good, the best among the Gods.
He who shines like the blazing sun, like gold,
as the best of the gods, as the good one
Der leuchtend wie die Sonne ist, der gute, der wie Gold erglänzt, Der beste aller Götter ist.
Der wie die helle Sonne, wie Gold glänzt, der beste der Götter, der Gütige.
(Того), кто сверкает, словно
Яркое солнце, словно золото,
(Кто) лучший из богов, добрый.
शं न॑: कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ । नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
शन् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ । नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥
नः अस्माकं संबन्धिभ्यः अर्वदादिभ्यः सुगं सुष्ठु गम्यं शं सुखं करति देवः करोति । अर्वते अश्वाय । अर्वञ्शब्दोऽश्वनाम, ‘अर्वा वाजी' (नि. १. १४. ३) इति तन्नामसु पाठात् । मेषाय मेषजातिपुरुषाय मेष्ये तज्जातीयस्त्रियै नृभ्यः पुरुषेभ्यः नारिभ्यः स्त्रीभ्यः गवे गोजातये ॥ करति । ‘डुकृञ् करणे' । व्यत्ययेन शप् । अर्वते । अर्ति गच्छतीत्यर्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । चतुर्थ्येकवचने ‘ अर्वणस्त्रसावनञः' इति नकारस्य तृआदेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । धातुस्वरः । मेषाय । ‘ मिष स्पर्धायाम् ' । पचाद्यच् ' देवसेनमेषादयः पचादिषु द्रष्टव्याः । इति वचनात् । मेष्ये । ‘ जातेरस्त्रीविषयादयोपधात् ' ( पा. सू. ४. १. ६३ ) इति ङीष्प्रत्ययः । प्रत्ययस्वरः । चतुर्थ्येकवचने आगमानुशासनस्यानित्यत्वात् आडागमाभावः । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् ।' उदात्तयणो हल्पूर्वात् ' इति तु न भवति, ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् । नृभ्यः। ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘ नृ चान्यतरस्याम्' इति प्रतिषेधः । नारिभ्यः । नृनरयोर्वृद्धिश्च (पा. सू. ४. १. ७३ ग.) इति शार्ग्३रवादिषु पाठात् ङीन्प्रत्ययः । नित्त्वादाद्युदात्तः। गवे। ‘ न गोश्वन्साववर्ण ' इति विभक्त्युदात्तस्य प्रतिषेधः ॥
“Who bestows easily-obtained happiness on our steeds, our rams, our ewes, our men, our women, and our cows?”
May he grant health into our steeds, wellbeing to our rams and ewes,
To men, to women, and to kine.
Will make weal for our steed and easy passage for our ram and ewe, for our men and women, for our cow.
Er schaffe unsern Rossen Heil und Glück dem Widder und dem Schaf, Den Männern, Weibern und dem Rind.
Er schaffe Heil unserem Roß, guten Fortgang dem Schafbock und der Schafmutter, den Männern und Frauen, dem Rinde.
Да сотворит он благо нашему коню,
Хороший путь барану (и) овце,
Мужам, женам, рогатому скоту!
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् । महि॒ श्रव॑स्तुविनृ॒म्णम् ॥
अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् । महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥
हे सोम देव नृणां पुरुषाणां शतस्य पर्याप्तां श्रियम् अस्मे अस्मासु अधि नि धेहि आधिक्येन स्थापय । तथा महि महत् तुविनृम्णं प्रभूतबलयुक्तं श्रवः अन्नम् अधि नि धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इति सप्तम्याः शेआदेशः । नृणाम् ।' नृ च ' ( पा. सू. ६. ४. ६ ) इति दीर्घप्रतिषेधः । ‘ नामन्यतरस्याम्' इति नाम उदात्तत्वम्। महीत्यादयो गताः ॥
“Soma, grant us prosperity more than (sufficient for) a hundred men, and much strength-engendering food.”
O Soma, set thou upon us the glory of a hundred men,
The great renown of mighty chiefs.
Upon us, Soma, set down the glory of a hundred men,
great, powerfully manly fame.
Leg' auf uns von hundert Männern Glück und Herrlichkeit, o Soma, Hohen Ruhm voll Männerkräften.
Leg auf uns, o Soma, die Herrlichkeit von hundert Männern, großen Ruhm, reich an Mannesmut!
О Сома, вложи в нас
Великолепие тысячи мужей,
Великую славу мощного мужества!
मा न॑: सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त । आ न॑ इन्दो॒ वाजे॑ भज ॥
मा । नः॒ । सो॒म॒ऽप॒रि॒बाधः॑ । मा । अरा॑तयः । जु॒हु॒र॒न्त॒ । आ । नः॒ । इ॒न्दो॒ इति॑ । वाजे॑ । भ॒ज॒ ॥
सोमपरिबाधः सोमस्य परितो बाधका यागरहिताः नः अस्मान् मा जुहुरन्त मा हिंसन्तु। तथा अरातयः शत्रवः मा जुहुरन्त। हे इन्दो सोम वाजे बलविषयेऽन्नविषये वा नः अस्मान् आ भज सर्वतः सेवस्व ॥ सोमपरिबाधः । सोमं परिबाधन्ते ये ते तादृशाः । ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अरातयः । ‘रा दाने '। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि क्तिन् । यद्वा। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। जुहुरन्त । ‘ हृ प्रसह्यकरणे'। व्यत्ययेनात्मनेपदम् । लङि जुहोत्यादित्वात् श्लुः । ‘ बहुलं छन्दसि' (पा. सू. ७. १. १०३ ) इति बहुलवचनात् इकारस्यापि? उत्वम् । द्विर्भावहलादिशेषौ ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् । अदभ्यस्तात् ' ( पा. सू. ७. १, ४) इति अदादेशाभावे सति ‘ झोऽन्तः इति अन्तादेशः । ‘ न माङयोगे ' इति अडभावः ॥
“Let not the adversaries of Soma, let not our enemies, harm us; cherish us, Indra, with (abundant) food.”
Let not malignities, nor those who trouble Soma, hinder us.
Indu, give us a share of strength.
Let neither obstructions nor hostilities deflect us, Soma.
O drop, give us a share in the prize.
Soma, lass nicht die Bedränger, nicht die Frevler uns verletzen, Theile Gut uns zu, o Indu.
Nicht sollen uns, o Soma, Fallstricke und Missgunst zu Fall bringen. Gib uns, o Trank, an dem Siegergewinn Anteil!
Да не повредят нам, о Сома,
Ни препятствия, ни враждебность!
О капля, дай нам долю в добыче!
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ । मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ । मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥
हे सोम ते तव संबन्धिन्यः याः प्रजाः सन्ति स्तोत्रं वा कुर्वन्ति ताः प्रजाः मूर्धा शिरःस्थानीयस्त्वं नाभा संनहनयुक्ते यज्ञगृहे वेनः कामयस्व । कीदृशस्य ते । अमृतस्य मरणरहितस्य परस्मिन्धामन्नृतस्य उत्तमे स्थान प्राप्तस्य । हे सोम आभूषन्तीः सर्वतस्त्वामलंकुर्वन्तीः प्रजाः वेदः जानीहि ॥ धामन् । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । नाभा । ‘ णह बन्धने । ‘ नहो भश्च' ( उ. सू. ४. ५६५ ) इति कर्मणि इञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । ‘सुपां सुलुक् ' इति सप्तम्या डादेशः । वेनः । ‘ वेनतिः कान्तिकर्मा' ( नि. २.६.४)। लेटि सिपि अडागमः । ‘ तिङ्ङतिङः' इति निघातः । आभूषन्तीः । ‘भूष अलंकारे ' । भौवादिकः । शपः पित्त्वादनुदात्तत्वम्, शतुश्च लसार्वधातुकस्वरेण । धातुस्वरेण आद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । वेदः । ‘ विद ज्ञाने '। लेटि सिपि अडागमः ॥ ॥ २७ ॥ ॥ ८ ॥
“Soma, who are immortal, and abide in an excellent dwelling, have regard for your subjects, when at their head in the hall of sacrifice you observe them (engaed in) decorating you.”
Soma! head, central point, love these; Soma! know these as serving thee,
Children of thee Immortal, at the highest place of holy law.
The creatures [=gods] that belong to you, the immortal one—as their head you seek them in the highest domain of truth [=heaven]
and in the navel (of the earth?) [=ritual ground], Soma. You will know them as the ones who attend upon (you), Soma.
The next group of hymns (I.44–50), attributed to Praskaṇva Kāṇva, the poet also of VIII.49 (the first Vālakhilya hymn) and IX.95, has the defining feature that all the hymns are related to a particular ritual litany, the Prātaranuvāka or “Early-Morning Recitation” (on which see Eggeling Śatapatha Brāhmaṇa 2: 229 n. 2; Hillebrandt 1897: 128; Keith 1925 I: 328). The gods to whom these Praskaṇva hymns are dedi
cated are those mentioned in the litany: Agni, particularly in his capacity as illumi nator of the early morning and conveyor of the dawn divinities, the Aśvins, Dawn, and the rising Sun.
Die, o ew'ger, deine Kinder, sind im höchsten Sitz des Rechtes, Lieb' sie, du ihr Haupt im Heimsitz; Soma, acht auf deine Diener.
Deine Kinder der Unsterblichkeit am höchsten Ursprungsort des Weltgesetzes, nach denen sollst du, Soma, als ihr Haupt an dem Nabel der Welt ausschauen und wissen, daß sie bereit sind, o Soma.
Твои дети бессмертия, те, что
На высшим месте (вселенского) закона, –
Наблюдай (за ними), о Сома, на пупе (мироздания) как (их) глава!
Ты должен знать, о Сома, что они внимательны (к людям).