अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य । आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुध॑: ॥
अग्ने॑ । विव॑स्वत् । उ॒षसः॑ । चि॒त्रम् । राधः॑ । अ॒म॒र्त्य॒ । आ । दा॒शुषे॑ । जा॒त॒ऽवे॒दः॒ । व॒ह॒ । त्वम् । अ॒द्य । दे॒वाम् । उ॒षः॒ऽबुधः॑ ॥
हे अग्ने त्वम् उषसः उषोदेवतायाः सकाशात राधः धनं दाशुषे हविर्दत्तवते यजमानाय आ वह आनीय प्रापय । सोऽग्निर्विशेष्यते । अमर्त्य मरणरहित जातवेदः जातानां वेदितः । तमेतं शब्दं यास्को व्याचष्टे-’ जातवेदाः कस्मात् । जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो जातविद्यो वा जातप्रज्ञानो यत्तज्जातः पशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसर्पन्तीति च ' ( निरु. ७. १९ ) इति । कीदृशं राधः । विवस्वत् विशिष्टनिवासोपेतं चित्रं नानाविधम् । किंच अद्य अस्मिन् दिने उषर्बुधः उषःकाले प्रबुद्धान् देवान् आ वह ॥ विवस्वत् । विवासनं विवः तद्युक्तम् । वस निवासे । विपूर्वात् अन्तर्भावितण्यर्थात् संपदादिलक्षणो भावे क्विप् । ‘ तदस्यास्ति' इति मतुप्। मादुपधायाः इति वत्वम् । तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । वृषादित्वादाद्युदात्तत्वम् । राधः । ‘ राध साध संसिद्धौ । राध्नोत्यनेनेति राधो धनम् । करणेऽसुन् । नित्त्वादाद्युदात्तत्वम् । दाशुषे । ‘ दाशृ दाने '। ' दाश्वान् साह्वान्” ' इति क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसि ' इति षत्वम् । जातवेदः । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् । यद्वा । वेद इति धननाम । जातं धनं यस्य स तादृशः । आमन्त्रितनिघातः । वह ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । देवान् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । उषर्बुधः । उषसि बुध्यन्ते इत्युषर्बुधः । ‘ बुध अवगमने '।' क्विप् च ' इति क्विप् । रोः उत्वाभावश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Agni, who are immortal, and cognisant of all begotten things, bring from the dawn to the donor (of the oblation) wealth of many sorts, with an excellent habitation; bring hither today the gods awaking with the morning.”
IMMORTAL Jatavedas, thou many-hued fulgent gift of Dawn,
Agni, this day to him who pays oblations bring the Gods who waken with the morn.
Agni, at the rising of the dawn 1 bring splendid wealth, immortal Gâtavedas, to the worshipper, (and bring hither) to-day the gods awakening with the dawn.
Agni, immortal one—the bright benefit radiating from Dawn:
convey it here to the pious man, o Jātavedas; convey here today the gods who wake at dawn.
O Agni, Wesenkenner, fahr das lichte, glänzende Geschenk Des Morgenroths dem Frommen zu, unsterblicher, die frühe wachen Götter heut.
Unsterblicher Agni, bring der Usas morgendliche, ansehnliche Gabe; bring du heute dem Opferspender die frühwachen Götter her, o Jatavedas!
О Агни, (привези) сверкающий
Яркий дар Ушас, о бессмертный!
Привези сегодня ты, Джатаведас, к почитателю
Богов, пробуждающихся на заре!
जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् । स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥
जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒ऽवाहनः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् । स॒ऽजूः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । सु॒ऽवीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥
हे अग्ने त्वं जुष्टत्वादिविशेषगुणयुक्तः असि । जुष्टः सेवितः दूतः देवानां वार्ताहारः हव्यवाहनः हविषो वोढा अध्वराणां क्रतूनां रथीः रथस्थानीयः । तथा च मन्त्रान्तरं ब्राह्मणेनैव व्याख्यातं’ रथीरध्वराणामित्याहैष हि देवरथः' (तै. सं. २. ५. ९. २ ) इति । ब्राह्मणान्तरं च-’ रथीरध्वराणामित्याह रथो ह वा एष भूतो देवेभ्यो हव्यं वहति' इति । तादृशस्त्वम् अश्विभ्यां देवताभ्यां उषसा देवतया च सजूः सहितो भूत्वा सुवीर्यं शोभनवीर्योपेतं बृहत् प्रभूतं श्रवः अन्नम् अस्मे धेहि अस्मासु प्रक्षिप ॥ जुष्टः । ‘जुषी प्रीतिसेवनयोः । ‘ नित्यं मन्त्रे ' (पा.सू.६, १.२१०) इत्याद्युदात्तत्वम् । असि । सिपि “ तासस्त्योर्लोपः' (पा. सू. ७. ४. ५०) इति सलोपः । ‘ हि च ' इति निघातप्रतिषेधः । हव्यवाहनः । हव्यं वहतीति हव्यवाहनः । ‘ हव्येऽनन्तःपादम् । ( पा. सू. ३. २. ६६ ) इति ञ्युट् । योरनादेशः । ञित्त्वादाद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वादाष्टमिकनिघाताभावः । रथीः। रथशब्दात् स्वार्थिक ईकारप्रत्ययः । अध्वराणाम् । ध्वरो नास्त्येष्विति बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः ॥
“For you, Agni, are the accepted messenger of the gods, the bearer of oblations, the vehicle of sacrifices; associated with Uṣas and the Aśvins, bestow upon us abundant and invigorating food.”
For thou art offering-bearer and loved messenger, the charioteer of sacrifice:
Accordant with the Asvins and with Dawn grant us heroic strength and lofty fame.
For thou art the accepted messenger, the bearer of sacrificial food, O Agni, the charioteer of worship. United with the two Asvins and with the Dawn bestow on us abundance of valiant heroes, and high glory.
For you are the delightful messenger, conveyor of oblations, o Agni, charioteer of the ceremonies.
Jointly with the Aśvins and with Dawn establish in us good heroism and lofty fame.154 I.44
Denn du bist holder Bote, der die Tränke fährt, der Opfer Fährmann, Agni, du; Vereint den Rittern und der Morgenröthe, gib uns Heldenkraft und hohen Ruhm.
Denn du bist der erwünschte Bote, der Opferführer, Agni, der Wagenlenker der Opfer. Im Verein mit den beiden Asvin, mit Usas verschaff uns die Meisterschaft, hohen Ruhm!
Ведь ты желанный вестник, везущий жертву,
О Агни, колесничий жертвенных празднеств.
Вместе с Ашвинами (и) Ушас богатство из прекрасных мужей
Нам дай (и) высокую славу!
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् । धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रिय॑म् ॥
अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒ऽप्रि॒यम् । धू॒मऽके॑तुम् । भाःऽऋ॑जीकम् । विऽउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ॥
अद्य अस्मिन् दिने अग्निं वृणीमहे प्रार्थयामहे । कीदृशम् । दूतं वार्ताहारं वसुं निवासहेतुं पुरुप्रियं बहूनां प्रियं धूमकेतुं धूमरूपध्वजयुक्तं भाऋजीकं प्रसिद्धभासालंकृतम् । ‘ भाऋजीकः प्रसिद्धभाः ' (निरु. ६.४) इति यास्कवचनम् । व्युष्टिषु उषःकालेषु यज्ञानां यजमानानाम् अध्वरश्रियं यागसेविनम् ॥ अद्य ।' निपातस्य च ' इति दीर्घत्वम् । पुरूणां प्रियः पुरुप्रियः । ‘ समासस्य इत्यन्तोदात्तत्वम्। धूमकेतुम् । इषियुधीन्धि°' (उ. सू. १. १४२) इत्यादिना धूमशब्दो मक्प्रत्ययान्तः अन्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भाऋजीकम् । ‘ऋज गतिस्थानार्जनोपार्जनेषु' । ‘ ऋजेश्च ' ( उ. सू. ४. ४६२ ) इति ईकन्प्रत्ययः । कित्त्वस्यानुवर्तनात् गुणाभावः । भासः । प्रकाशस्य ऋजीकः प्रार्जयिता । ‘ आद्युदात्तंप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्' इति पूर्वपदाद्युदात्तत्वम् । यद्वा । भासोऽर्जनं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्युष्टिषु । ‘उछी विवासे । विवासो वर्जनम् । विशेषेणोच्छ्यन्ते तमसा वर्ज्यन्ते इति व्युष्टयः उषःकालाः। कर्मणि क्तिन् । ‘ तितुत्र' ' इत्यादिना इट्प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । ‘ तादौ च°' इति पूर्वपदप्रकृतिस्वरत्वम् । यणादेशे ‘ उदात्तस्वरितयोर्यणः° ' इति परस्यानुदात्तस्य स्वरितत्वम् । अध्वरश्रियम् । अध्वरं श्रयते इत्यध्वरश्रीः । क्विब्वचि° ' ( उ. सू. २. २१५) इत्यादिना क्विप्प्रत्ययः; तत्संनियोगेन संप्रसारणाभावो दीर्घश्च। द्वितीयैकवचने ‘ अचि श्नुधातु ' इत्यादिना इयङादेशः ॥
“We select today Agni, the messenger, the giver of dwellings, the beloved of many, the smoke-bannered, the light-shedding, the protector of the worship of the worshipper at the break of day.”
As messenger we choose to-day Agni the good whom many love,
Smoke-bannered spreader of the light, at break of day glory of sacrificial rites.
We choose to-day as our messenger Agni, the Vasu, the beloved of many, whose banner is smoke, whose … 1 is light, at the dawning of the day, the beautifier of sacrifices 2.
Today we choose as messenger Agni the good one, dear to many, whose beacon is smoke, but who is foamy with radiance when the dawns break, the glory of the ceremonies, of the sacrifices.
Zum Boten wählen heute wir den guten liebsten Agni uns; Der früh den Rauch als Fahne schwingt, von Licht erstrahlt, der alle Opfer festlich schmückt.
Heute erwählen wir zum Boten den guten, viellieben Agni, den rauchfahnigen, glanzerhöhten, im Frühlicht, der den Dienst der Opfer verschönt.
Сегодня мы выбираем вестником
Доброго Агни многолюбимого,
Чье знамя – дым, чей свет – украшение,
(Того, кто) на рассвете – краса жертвенных празднеств, жертвоприношений.
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ । दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥
श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थिम् । सुऽआ॑हुतम् । जुष्टम् । जना॑य । दा॒शुषे॑ । दे॒वान् । अच्छ॑ । यात॑वे । जा॒तऽवे॑दसम् । अ॒ग्निम् । ई॒ळे॒ । विऽउ॑ष्टिषु ॥
व्युष्टिषु उषःकालेषु देवान् इतरान् सर्वदेवान् अच्छ आभिमुख्येन यातवे गन्तुम् अग्निं देवम् ईळे स्तौमि । कीदृशम् । श्रेष्ठम् अतिशयेन प्रशस्तं यविष्ठं युवतमम् अतिथिं सततगमनक्षमं स्वाहुतं सुष्ठु आ समन्तात् होमाधिकरणं दाशुषे हविर्दत्तवते जनाय यजमानाय जुष्टं प्रीतं जातवेदसं जातानां वेदितारम् ॥ यविष्ठम् । युवशब्दात इष्ठनि ' स्थूलदूर ' इत्यादिना यणादेः परस्य लोपः । पूर्वस्य च गुणः । अवादेशः । नित्त्वादाद्युदात्तत्वम् । अतिथिम् । अत सातत्यगमने '। ‘ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिनी इथिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । स्वाहुतम् । ‘ हु दानादनयोः '। आहूयतेऽस्मिन्निति आहूतः ।' सुः पूजायाम् ' (पा. सू. १. ४. ९४ ) इति सुशब्दस्य कर्मप्रवचनीयसंज्ञायां ‘स्वती पूजायाम् ' (पा. म. २. २. १८.४ ) इति समासः। अव्ययपूर्वपदप्रकृतिस्वरत्वम् । न च गतिकारकोपपदात्कृत् ' इति गतेः प्रकृतिस्वरत्वम् , अस्य सुशब्दस्य गतिसंज्ञाया बाधितत्वात् ॥
“I praise Agni at the break of day, the best and youngest (of the gods), the guest (of man), the universally-invoked, who is friendly to the man that offers (oblations), who knows all that are born, that he may go (to bring) the other divinities.”
Him noblest and most youthful, richly worshipped guest, dear to the men who offer gifts,
Him, Agni Jatavedas, I beseech at dawn that he may bring the Gods to us.
I magnify at the dawning of the day Agni Gatavedas, the best, the youngest guest, the best receiver of offerings, welcome to pious people, that he may go to the gods 1.
The fairest, the youngest guest, well-libated, delightful to the pious folk—
I reverently invoke Agni Jātavedas when the dawns break, to journey to the gods.
Den herrlichsten, den jüngsten, schöngetränkten Gast, willkommen bei dem frommen Mann, Den Wesenkenner Agni bitt' am Morgen ich, zu fahren nach den Göttern hin.
Den vornehmsten, den jüngsten Gast, der gut mit Schmalz begossen wird, der dem opferspendenden Manne erwünscht ist, den Agni Jatavedas rufe ich im Frühlicht auf, daß er zu den Göttern fahre.
Лучшего, самого юного гостя, хорошо окропленного (жертвенным маслом),
Желанного для почитающего (его) человека,
Агни-Джатаведаса я призываю на рассвете,
Чтобы он отправился к богам!
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन । अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥
स्त॒वि॒ष्यामि॑ । त्वाम् । अ॒हम् । विश्व॑स्य । अ॒मृ॒त॒ । भो॒ज॒न॒ । अग्ने॑ । त्रा॒तार॑म् । अ॒मृत॑म् । मि॒ये॒ध्य॒ । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ ॥
हे अमृत मरणरहित विश्वस्य भोजन कृत्स्नस्य जगतः पालक हव्यवाहन हविषो वोढः मियेध्य यज्ञार्ह एवंविध हे अग्ने विश्वस्य त्रातारं सर्वस्य जगतो रक्षकम् अमृतं मरणरहितं यजिष्ठम् अतिशयेन यष्टारं त्वामहम् अनुष्ठाता स्तविष्यामि स्तुतिं करिष्यामि ॥ स्तविष्यामि । ‘ष्टुञ् स्तुतौ' । व्यत्ययेन इडागमः। आगमानुदात्तत्वे प्रत्ययस्वरः । भोजन । कर्मफलं भोजयतीति भोजनः । नन्द्यादिलक्षणो ल्युः । त्रातारम् ।' त्रैङ् पालने'। ‘आदेचः' इति आत्वम् । तृचि • एकाच उपदेशे ' इति इट्प्रतिषेधः । अमृतम् । नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मियेध्य । इयागमश्छान्दसः। यजिष्ठम् । यष्टृशब्दात् ‘तुश्छन्दसि' इति इष्टन्प्रत्ययः । ‘तुरिष्ठेमेयःसु' इति तृलोपः ॥ ॥२८॥
“Agni, immortal sustainer of the universe, bearer of oblations, deserving of adoration, I will praise you, who are exempt from death, the preserver of the sacrificer.”
Thee, Agni, will I glorify, deathless nourisher of the world,
Immortal, offering-bearer, meet for sacred food, preserver, best at sacrifice.
I shall praise thee, O food on which everything lives, immortal one 1, Agni, the immortal protector, O holy god, the best sacrificer, O bearer of sacrificial food.
I will praise you—o immortal nurturer of all—
as immortal guardian—o Agni, partaker of the ritual meal—as best sacrificer—o conveyor of the oblation.
Dich will ich preisen, Ewiger, o Agni, der du alles nährst, Als besten Opfrer, der unsterblich Schutz verleiht, der Speisen nimmt und Tränke fährt.
Ich will dich preisen, du unsterblicher Erlaber der ganzen Welt, den unsterblichen Schirmer, du festlicher Agni, den besten Opferer, du Opferführer.
Я буду прославлять тебя,
О бессмертный подкрепитель всего (мира),
О Агни, достойный жертвенной пищи, бессмертного спасителя,
Самого юного, о везущий жертву!
सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒: स्वा॑हुतः । प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥
सु॒शंसः॑ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु॑ऽजिह्वः । सुऽआ॑हुतः । प्रस्क॑ण्वस्य । प्र॒ऽति॒रन् । आयुः॑ । जी॒वसे॑ । न॒म॒स्य । दैव्य॑म् । जन॑म् ॥
हे यविष्ठ्य युवतमाग्ने त्वं गृणते स्तुवते यजमानार्थं सुशंसः सुष्ठु शंसनीयः मधुजिह्वः मादयितृज्वालः स्वाहुतः सुष्ठु आभिमुख्येन हुतः सन् बोधि अस्मदभिप्रायं बुध्यस्व । किंच प्रस्कण्वस्य एतनामकस्य कण्वपुत्रस्य महर्षेः । ‘प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवः' (निरु. ३. १७) इति यास्कवचनात् । तस्य जीवसे जीवनार्थम् आयुः प्रतिरन् प्रकर्षेण वर्धयन् दैव्यं देवसंबन्धिनं जनं नमस्य पूजय ॥ सुशंसः । ‘ शंसु स्तुतौ । भावे घञ् । शोभनः शंसो यस्यासौ सुशंसः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । बोधि । ‘ बुध अवगमने '। लोटो हिः । ‘ बहुलं छन्दसि । इति विकरणस्य लुक् ।' हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः । ‘ वा छन्दसि ' इति अपित्त्वस्य विकल्पितत्वात् लघूपधगुणः । धातोरन्त्यलोपश्छान्दसः । गृणते। ‘गॄ शब्दे । लटः शतृ । 'क्र्यादिभ्यः श्ना' । ‘ श्नाभ्यस्तयोरातः' इति आकारलोपः । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । यविष्ठ्य । गतम् । प्रस्कण्वस्य । प्रभूतिरुत्पत्तिः कण्वाद्यस्य स प्रस्कण्वः । ‘प्रस्कण्वहरिश्चन्द्रावृषी ' (पा. सू. ६. १. १५३) इति सुडागमो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रतिरन् । प्रपूर्वस्तिरतिर्वर्धनार्थः। नमस्य। नमोवरिवश्चित्रङः क्यच्' (पा. सू. ३. १. १९) इति पूजार्थे क्यच् । प्रत्ययस्वरः। अन्येषामपि दृश्यते । इति संहितायां दीर्घत्वम् । दैव्यम् ।' देवाद्यञञौ ' ( पा. सू. ४. १. ८५. ३ ) इति तस्येदमित्यर्थे प्राग्दीव्यतीयो यञ्प्रत्ययः ॥
“Juvenile Agni, whose flames delight, who ar euniversally invoked, and are praised (by us) on behalf of the worshipper, understand (our wishes), and granting Praskaṇva to live a lengthened life, do honour to the divine man.”
Tell good things to thy praiser, O most youthful God, as richly worshipped, honey-tongued,
And, granting to Praskanva lengthened days of life, show honour to the Heavenly Host.
Be kind-spoken to him who praises thee, O youngest god, honey-tongued, the best receiver of offerings. Lengthening Praskanva's life, that he may reach old age, do homage 1 to the host of the gods.
Be one who is good for the singer to laud, o youngest one, one whose tongue is honey when well-libated.
Lengthening the lifetime of Praskaṇva to live, do homage to the divine folk.
Sei wohlgesinnt dem Preisenden, o jüngster du, mit süsser Zunge, schön getränkt, Verlängre dem Praskanva seine Lebenszeit und bete an der Götter Stamm.
Sei einer, der dem Sänger Schönes sagt, du Jüngster, mit Honig auf der Zunge, wenn du gut mit Schmalz begossen bist. Des Praskanva Tage zum Leben verlängernd, huldige dem göttlichen Volke!
Будь благовещающим певцу, о юнейший,
Сладкоязычным, (когда) ты хорошо окроплен (маслом)!
Продлевая для жизни срок Прасканвы,
Поклоняйся божественному роду!
होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ । स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥
होता॑रम् । वि॒श्वऽवे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ । सः । आ । व॒ह॒ । पु॒रु॒ऽहू॒त॒ । प्रऽचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत् ॥
होतारं होमनिष्पादकं विश्ववेदसं सर्वज्ञं त्वामग्निं विशः प्रजाः सम् इन्धते हि सम्यग्दीपयन्ति खलु । हे पुरुहूत बहुभिराहूत अग्ने सः त्वं प्रचेतसः प्रकृष्टज्ञानयुक्तान् देवान् इह कर्मणि द्रवत् क्षिप्रम् आ वह आभिमुख्येन प्रापय । द्रवत् इति क्षिप्रनाम, ‘द्रवत् ओषम्' (नि. २. १५. ३ ) इति तन्नामसु पाठात् ॥ विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वानि वेदांसि यस्यासौ विश्ववेदाः । ‘बहुव्रीहौ विश्व संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । इन्धते । ञिइन्धी दीप्तौ । ‘ श्नसोरल्लोपः' इति अकारलोपः । ‘ श्नान्नलोपः । प्रत्ययस्वरः । ' हि च ' इति निघातप्रतिषेधः ॥
“All people kindle you, Agni, the sacrificer, the omniscient; do you, Agni, who are invoked by many, quickly bring hither the sapient deities.”
For the men, Agni, kindle thee as all possessor and as Priest;
So Agni, much-invoked, bring hither with all speed the Gods, the excellently wise,
The clans kindle thee, the all-possessing Hotri: therefore conduct hither speedily, much-invoked Agni, the provident gods.
Because the clans together kindle you as Hotar who provides all possessions [/possesses all knowledge],
o much-invoked Agni, bring the discerning gods here at a run—
Denn dich entflammt der Menschen Schar, den Priester, der du alles weisst; So fahr, o Agni, vielgerufner, eilig nun die weisen Götter zu uns her,
Denn dich zünden die Clangenossen gemeinsam an, den allwissenden Hotri. Fahre, du vielgerufener Agni, die klugen Götter eilig hierher,
Хотара всеведущего,
Тебя зажигают члены племени – все вместе.
Привези сюда, о обильно окропляемый (маслом)
Агни, прозорливых богов – быстро:
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑: । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥
स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥
हे स्वध्वर शोभनयागयुक्ताग्ने व्युष्टिषु उषःकालेषु सवित्रादीन् देवान् आवह इत्यनुवर्तते । स्वध्वर इत्याहवनीयाग्नेः संबोधनम् । अग्निम् इति हविष उद्देश्यं देवतान्तरमुच्यते । सुतसोमासः अभिषुतसोमाः कण्वासः मेधाविन ऋत्विजः हव्यवाहं हविषः प्रापकमाहवनीयं त्वाम् इन्धते दीपयन्ति ॥ व्युष्टिषु । ' उछी विवासे । विवासो वर्जनम् । व्युच्छ्यते तमसा वर्ज्यते इति व्युष्टिः उषःकालः। कर्मणि क्तिनि ‘तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् । संहितायाम् ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । क्षपः । क्षपा इति रात्रिनाम । ङसि ' आतो धातोः ' (पा. सू. ६. ४. १४० ) इत्यत्र आत इति योगविभागात् आकारलोपः । सुतसोमासः । सुतः सोमो यैः । ‘ निष्ठा ' (पा. सू. २. २. ३६) इति पूर्वनिपातः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। हव्यवाहम् । हव्यं वहतीति हव्यवाट् ।' वहश्च ' इति ण्विप्रत्ययः ॥
“Object of holy rites, (bring hither) on the dawn following the night, Savitā, Uṣas and Aśvins, Bhaga and Agni; the Kaṇvas pouring out libations, kindle the water of the burnt offering.”
At dawn of day, at night, Usas and Savitar, the Asvins, Bhaga, Agni's self:
Skilled in fair rites, with Soma poured, the Kanvas light thee, the oblation-wafting God.
Savitri, the Dawn, the two Arvins, Bhaga, Agni 1, at the dawning (of the day), (at the end) of night 2. The Kanvas, having pressed Soma, inflame thee, the bearer of sacrificial food, O best performer of worship.
Savitar, Dawn, the Aśvins, Bhaga. Through the nights, when the dawns break,
the Kaṇvas, their soma pressed, kindle you, Agni, as conveyor of the oblation, o you of good ceremony.
Die Ritter, Bhaga, Savitar, das Morgenroth, die Kanva's zünden Agni dich Des Morgens an, dir Soma bringend, und bei Nacht, den Opferfährmann, festlicher!
Savitri, Usas, die beiden Asvin, Bhaga, Agni, im Frühlicht der Nacht. Die Kanvas zünden dich, den Opferfahrer, bei ausgepreßtem Soma an, du Wohlopfernder.
Савитара, Ушас, Ашвинов, Бхагу,
Агни, когда рассвет сменяет ночь.
Канвы, выжимая сому, зажигают тебя,
Везущего жертву, о прекрасно совершающий обряд.
पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ । उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृश॑: ॥
पतिः॑ । हि । अ॒ध्व॒राणा॑म् । अग्ने॑ । दू॒तः । वि॒शाम् । असि॑ । उ॒षः॒ऽबुधः॑ । आ । व॒ह॒ । सोम॑ऽपीतये । दे॒वान् । अ॒द्य । स्वः॒ऽदृशः॑ ॥
हे अग्ने विशां प्रजानां संबन्धिनो येऽध्वरा यागास्तेषां पतिः पालकस्त्वं दूतः असि हि देवानां वार्ताहारो भवसि खलु । उषर्बुधः उषःकाले प्रबुद्धान् स्वर्दृशः सूर्यदर्शिनो देवान् अद्य अस्मिन् दिने सोमपीतये सोमपानार्थम् आ वह आभिमुख्येन प्रापय ॥ असि । ' हि च ' इति निघातप्रतिषेधः । सोमपीतये ।‘पा पाने '। ‘ स्थागापापचो भावे ' (पा. सू. ३. ३. ९५)इति भावे क्तिन् । 'घुमास्था०' इति ईत्वम्। सोमस्य पीतिः। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम्। स्वर्दृशः । सुष्ठु अर्ति गच्छतीति स्वरादित्यः। अर्तः ‘अन्येभ्योऽपि दृश्यन्ते' इति विच् । तं पश्यन्तीति स्वर्दृशः। ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“You, Agni, are the protector of the sacrifices of the people, and the messenger (of the gods); bring hither today the gods awaking at dawn, and contemplating the sun, to drink the Soma juice.”
For, Agni, Lord of sacrifice and messenger of men art thou:
Bring thou the Gods who wake at dawn who see the light, this day to drink the Soma juice.
As thou, O Agni, art the lord of worship, the messenger of the clans, conduct hither to-day the gods awakening with the dawn, of sun-like aspect, that they may drink Soma.
For you are the master of the ceremonies, Agni, the messenger of the clans.
Convey here today the gods who wake at dawn, who look like the sun, for soma-drinking.
Denn du bist ja der Opfer Herr, der Menschen Bote, Agni, du; Die frühe wachen Götter fahre heute her, zum Somatrunk die himmlischen.
Denn du bist der Herr der Opfer, Agni, der Bote der Clangenossen. Fahr heute die frühwachen Götter zum Somatrunk her, deren Auge die Sonne ist !
Ведь ты господин на жертвенных празднествах,
О Агни, ты вестник племен.
Сегодня на питье сомы привези богов,
Пробуждающихся на заре, (богов), чей глаз – солнце.
अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
अग्ने॑ । पूर्वाः॑ । अनु॑ । उ॒षसः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । दी॒देथ॑ । वि॒श्वऽद॑र्शतः । असि॑ । ग्रामे॑षु । अ॒वि॒ता । पु॒रःऽहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः ॥
हे विभावसो विशिष्टप्रकाशनरूपधनवन् अग्ने विश्वदर्शतः सवैर्दर्शनीयस्त्वं पूर्वाः उषसः अनु अतीतानुषःकालाननुलक्ष्य दीदेथ दीप्तवानसि। तादृशस्त्वं ग्रामेषु जननिवासस्थानेषु अविता असि रक्षको भवसि । यज्ञेषु अनुष्ठेयकर्मसु पुरोहितः वेदेः पूर्वस्यां दिश्यवस्थितः मानुषः असि ऋत्विग्यजमानानां मनुष्याणां हितोऽसि ॥ दीदेथ । दीदेतिश्छान्दसो दीप्तिकर्मा । आगमानुशासनस्य अनित्यत्वात् इडभावः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' (का. ६. १. ८. १ ) इति वचनात् द्विर्वचनाभावः । विश्वदर्शतः विश्वैर्दर्शनीयः । भृमृदृशि° ' इत्यादिना दृशेः अतच् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ( पा. सू. ६. २. १०६. २ )। पुरोहितः । ‘ पूर्वाधरावराणामसि पुरधवश्चैषाम् ' ( पा. सू. ५, ३. ३९ ) इति असिप्रत्ययान्तः पुरस्शब्दः । ‘ तद्धितश्चासर्वविभक्तिः । (पा. सू. १. १. ३८) इति अव्ययत्वात् ' पुरोऽव्ययम् ' ( पा. सू. १. ४. ६७ ) इति गतिसंज्ञायां सत्यां गतिसमासे ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २९ ॥
“Resplendent Agni, visible to all, you have blazed after many preceding dawns, you are the protector (of people) in villages, you are the associate of man plural ced on the east (of the altar).”
Thou shonest forth, O Agni, after former dawns, all visible, O rich in light.
Thou art our help in battle-strife, the Friend of man, the great high priest in sacrifice.
Agni, rich in splendour! thou hast shone after the former dawns, visible to all. Thou art the guardian in the hamlets, the Purohita; thou be- longest to men at the sacrifices 1.
O Agni rich in radiance, through the earlier dawns you have shone visible to all.
You are the helper set in front among the settlements; you are the descendant of Manu (set in front) at the sacrifices.
Denn frühem Morgen strahltest du, o Agni, nach, allsichtbar, strahlenreicher du, Ein Helfer den Gemeinden und Hauspriester du der Menschen bei dem Opferfest.
Agni ! Du hast an allen früheren Morgen geleuchtet, du Glanzreicher, allsichtbar. Du bist in den Dörfern der Schirmherr und Vogt, du bist der Anwalt bei den Opfern, von Manu, den Menschen dazu bestimmt.
О Агни яркосияющий, ты светил
На протяжении прежних зорь, о приятный для всех на вид.
Ты – защитник в деревнях, ты поставлен во главе
На жертвоприношениях, (ты,) близкий человеку.
नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् । म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम् ॥
नि । त्वा॒ । य॒ज्ञस्य॑ । साध॑नम् । अग्ने॑ । होता॑रम् । ऋ॒त्विज॑म् । म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्रऽचे॑तसम् । जी॒रम् । दू॒तम् । अम॑र्त्यम् ॥
हे अग्ने देव मनुष्वत् यथा मनुर्यागदेशे निदधाति तद्वद्वयं त्वां नि धीमहि अत्र स्थापयामः। कीदृशम् । यज्ञस्य साधनं यज्ञनिष्पादकं होतारमृत्विजं ऋतौ वसन्तादिके यष्टारं प्रचेतसं प्रकृष्टज्ञानयुक्तं जीरं शत्रूणां वयोहानिकरं दूतं देवानां दूतस्थानीयम् अमर्त्यं मरणरहितम्॥ मनुष्वत् औणादिकोसिप्रत्ययान्तो मनुस्शब्दः । तेन तुल्यं क्रिया चेद्वतिः ' (पा. सू. ५. १. ११५ ) इति बतिप्रत्ययः । अयस्मयादित्वेन भत्वात् रुत्वाद्यभावः । धीमहि । 'डुधाञ् धारणपोषणयोः '। लिङि अभ्यासलोपश्छान्दसः। जीरम् । जु इति सौत्रो धातुः । ‘ जोरी च' ( उ. सू. २. १८१ ) इति रक्प्रत्ययः । कात्यायनस्त्वाह-रकि ज्यः संप्रसारणे जीरेति ( पा. सू. १. १. ४. ६ ) ॥
“We plural ce you, Agni, as Manu plural ced you, who are the implement of sacrifice, the invoker, the ministering priest, very wise, the destroyer (of foes), immortal, the messenger (of the gods).”
Like Manu, we will stablish thee, Agni, performer of the rite,
Invoker, ministering Priest, exceeding wise, the swift immortal messenger.
O Agni, let us put thee down (on the altar) as Manus did, O god, to be the performer of the sacrifice, the Hotri, the wise priest, the quick immortal messenger.
O Agni, as the furtherer of the sacrifice, as the Hotar seasonably sacrificing
would we install you, just as Manu did, o god—and as the discerning, quick, immortal messenger.
Wie Manus setzen wir, o Gott, dich als den Opferfördrer ein, Als Priester, Agni, und als rechten Opferer, als schnellen, ew'gen Boten dich.
Wir setzen dich ein, Agni, als Ausrichter des Opfers, als Hotri-Priester, o Gott, wie man getan hat, dich den Klugen, den flinken Boten, den unsterblichen.
Мы помещаем тебя как исполнителя жертвы,
О Агни, как хотара, регулярно жертвующего,
Как (это было при) Ману, как прозорливого,
Резвого вестника, бессмертного, о бог.
यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य॑म् । सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जन्ते अ॒र्चय॑: ॥
यत् । दे॒वाना॑म् । मि॒त्र॒ऽम॒हः॒ । पु॒रःऽहितः । अन्त॑रः । यासि॑ । दू॒त्य॑म् । सिन्धोः॑ऽइव । प्रऽस्व॑नितासः । ऊ॒र्मयः॑ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ ॥
हे मित्रमहः मित्राणां पूजकाग्ने यत् यदा पुरोहितः त्वं वेदेः पूर्वस्यां दिशि स्थापितः अन्तरः देवयजनमध्ये वर्तमानः सन् देवानां दूत्यं दूतकर्म यासि प्राप्नोषि, तदानीम् अग्नेः तव अर्चयः दीप्तयः भ्राजन्ते दीप्यन्ते । तत्र दृष्टान्तः। सिन्धोरिव । यथा समुद्रस्य प्रस्वनितासः प्रकृष्टध्वनियुक्ताः ऊमर्यः तरङ्गा भ्राजन्ते तद्वत् ॥ मित्रमहः । ‘ मह पूजायाम् ' । मित्रैर्ऋत्विग्भिर्मह्यते पूज्यते इति मित्रमहाः । औणादिकोऽसुन् । यासि । यद्वृत्तयोगादनिघातः । दूत्यम् । दूतस्य कर्म दूत्यम् । ‘ दूतस्य भागकर्मणी' (पा. सू. ४. ४. १२०) इति यत्प्रत्ययः। सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् ' यतोऽनावः' इत्याद्युदात्तत्वाभावे ‘ तित्स्वरितम् ' इति स्वरितत्वम् । प्रस्वनितासः । स्यमु स्वन ध्वन शब्दे'। भावे निष्ठा । प्रकृष्टं स्वनितं येषां ते प्रस्वनिताः । असुगागमः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊर्मयः । ‘ अर्तेरूच्च' ( उ. सू. ४. ४८४ ) इति मिप्रत्ययः ॥
“When, cherisher of friends, you are present as the Purohita at a sacrifice, and discharge the mission of the gods, then your flames roar like the resounding billows of the ocean.”
When as the Gods' High Priest, by many loved, thou dost their mission as their nearest Friend,
Then, like the far-resounding billows of the flood, thy flames, O Agni, roar aloud.
When thou, the Purohita of the gods, who art great like Mitra, goest on thy errand as messenger in their midst, then the flames of Agni shine like the roaring waves of the Sindhu 1.
When as the one set in front for the gods, their intimate, you undertake their mission, o you of Mitra’s might,
the beams of your fire flash like the clamorous waves of a river.
Wenn als der Götter Priester, freudenreicher du als bester Freund auf Botschaft gehst, Dann strahlen, wie wenn Meereswogen brausend gehn, o Agni, deine Flammen auf.
Wenn du als Anwalt der Götter, du wie Mitra geehrter, als ihr Vertrauter den Botendienst tust, dann erglänzen die Flammen des Agni wie die Wellen der Sindhu erbrausend.
Когда поставленный во главе богов, о великий, как Митра,
Близкий (людям и богам), ты исполняешь службу вестника,
Словно шумные волны Синдху,
Сверкают языки пламени Агни.
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः । आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
श्रु॒धि । श्रु॒त्ऽक॒र्ण॒ । वह्नि॑ऽभिः । दे॒वैः । अ॒ग्ने॒ । स॒याव॑ऽभिः । आ । सी॒द॒न्तु॒ । ब॒र्हिषि॑ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒ऽयावा॑नः । अ॒ध्व॒रम् ॥
हे श्रुत्कर्ण श्रवणसमर्थाभ्यां कर्णाभ्यां युक्त अग्ने श्रुधि अस्मदीयं वचनं शृणु । यः मित्रः देवो यश्व अर्यमा ये चान्ये प्रातर्यावाणः प्रातःकाले देवयजनं गच्छन्तो देवास्तैः सर्वैः सयावभिः आहवनीयाग्निना त्वया समानगतिभिरन्यैः वह्निभिर्देवैः सह अध्वरं क्रतुमुद्दिश्य बर्हिषि दर्भे आ सीदन्तु उपविशन्तु ॥ श्रुधि । ‘ श्रु श्रवणे '। श्रुशृणु° ' इत्यादिना हेर्धिरादेशः। ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । श्रुत्कर्ण । शृणोतीति श्रुत् । क्विपि तुगागमः । श्रुतौ कर्णौ यस्यासौ श्रुत्कर्णः । वह्निभिः ।' वह प्रापणे '। ' वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्' इति निप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । सयावभिः । समानं यान्तीति सयावानः । ‘ या प्रापणे '। ‘ आतो मनिन् ' इति वनिप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रातर्यावाणः । पूर्ववत् ‘ प्रातिपदिकान्तनुम्विभक्तिषु च ' ( पा. सू. ८. ४. ११ ) इति णत्वम् ॥
“Agni, with sharp ears, hear me; let Mitra and Aryaman, and Aryaman, and (other) early-stirring deities, with all the accompanying oblation-bearing gods, sit down at the sacrifice upon the sacred grass.”
Hear, Agni, who hast ears to hear, with all thy train of escort Gods;
Let Mitra, Aryaman, seeking betimes our rite, seat them upon the sacred grass.
Agni with thy attentive ears, hear me, together with the gods driven (on their chariots) 1 who accompany thee. May Mitra and Aryaman sit down on the sacrificial grass, they who come to the ceremony early in the morning.
Listen, you with listening ears, along with your passengers, the gods who travel with you, o Agni.
Let them sit on the ritual grass—Mitra, Aryaman, and those who travel early to the ceremony.
O Agni hör, erhörender, begleitet von dem Götterzug; Lass auf die Streu sich setzen Mitra, Arjaman, die früh erscheinen zu dem Fest.
Höre hörenden Ohres mit den zu Wagen fahrenden Göttern, den Mitkommenden, o Agni ! Auf das Barhis soll sie sich setzen, Mitra, Aryaman, am Morgen zum Opfer kommend.
Прислушайся, о чуткий ухом Агни, вместе с богами -
Возницами (жертвы), сопровождающими тебя!
Пусть усядутся на жертвенную солому Митра, Арьяман (и другие),
Выезжающие утром на жертвенное празднество!
शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुत॑: सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑: । पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥
शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒ऽदान॑वः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तऽव्र॑तः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ॥
मरुतः देवाः स्तोमम् अस्मदीयं स्तोत्रं शृण्वन्तु । कीदृशाः । सुदानवः सुष्ठु फलस्य दातारः अग्निजिह्वाः अग्निर्जिह्वास्थानीयो मुख्यो येषु मरुत्सु तादृशाः ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकाः । तथा धृतव्रतः गृहीतकर्मा वरुणः देवः अश्विभ्यां देवाभ्याम् उषसा देवतया सजूः सह सोमं पिबतु ॥ सुदानवः । डुदाञ् दाने'। दाभाभ्यां नुः ' ( उ. सू. ३. ३१२) इति भावे नुप्रत्ययः। दानुशब्द आद्युदात्तः । शोभनं दानु येषाम् ।' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अग्निजिह्वाः । अग्नेर्जिह्वायामवस्थिताः हविर्भाज इत्यर्थः । तात्स्थ्यात् ताच्छब्द्यम् । अग्निर्जिह्वास्थानीयो येषां ते । छान्दसमन्तोदात्तत्वम् । ऋतावृधः । ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः । वृधेः अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् ॥ ॥ ३० ॥
“Let the munificent Maruts, who have tongues of fire, and are encouragers of sacrifice, hear our praise; let the rite-fulfilling Varuṇa, with the Aśvins, and with Uṣas, drink the Soma juice.”
Let those who strengthen Law, who bountifully give, the life-tongued Maruts, hear our praise.
May Law-supporting Varuna with the Asvins twain and Usas, drink the Soma juice.
May the Maruts, they who give rain, the fire-tongued increasers of Rita, hear my praise. May Varuna, whose laws are firm, drink the Soma, united with the two Asvins and with the Dawn!
Let them listen to the praise—the Maruts of good drops, whose tongue is Agni, strong through truth.
Let him drink the soma—Varuṇa of steadfast commandment, jointly with the Aśvins and with Dawn.
Es hör das Lob die reiche heil'ge Marutschar, die mit des Agni Zunge trinkt, Den Soma trinke Varuna, des Rechtes Hort, mit Uschas und dem Ritterpaar.
Den Lobgesang sollen die Gabenschönen Marut hören, deren Zunge Agni ist, die Mehrer der Wahrheit. Varuna, der die Gebote aufrecht hält, soll den Soma trinken im Verein mit den Asvin, mit Usas.
Пусть услышат хвалу Маруты, щедро дающие,
Чей язык – Агни, умножающие закон!
Пусть Варуна, чей обет крепок, пьет сому
Вместе с Ашвинами и Ушас!