ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः । स्तु॒षे वा॑मश्विना बृ॒हत् ॥
ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः । स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥
एषो एषैवास्माभिः परिदृश्यमाना प्रिया सर्वेषां प्रीतिहेतुः अपूर्व्या पूर्वेषु मध्यरात्रादिकालेषु विद्यमाना न भवति, किंतु इदानींतनी उषाः उषोदेवता दिवः द्युलोकस्य सकाशादागत्य व्युच्छति तमो वर्जयति । हे अश्विनौ वां युवां बृहत् प्रभूतं यथा भवति तथा स्तुषे स्तौमि ॥ स्तुषे । ‘ष्टुञ् स्तुतौ । तिङां तिङो भवन्ति' इति उत्तमैकवचनस्य मध्यमैकवचनादेशः । यद्वा । लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि' इति सिप् ॥
“The beloved Uṣas, until now unseen, scatters darkness from the sky; Aśvins, I greatly praise you.”
Now Morning with her earliest light shines forth, dear Daughter of the Sky:
High, Asvins, I extol your praise,
With none before her, this Dawn breaks, the beloved of heaven.
I shall sing aloft praise to you, Aśvins,
Des Himmels liebe Tochter glänzt die erste Morgenröthe hier, Ich preise hoch, o Ritter, euch,
Dort leuchtet die Morgenröte wie keine je zuvor auf, die liebe Tochter des Himmels. Laut preise ich euch, Asvin,
Вот эта небывалая заря
Ярко сверкает, приятная, с (высоты) неба.
Я восхваляю вас, Ашвины, высоко,
या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् । धि॒या दे॒वा व॑सु॒विदा॑ ॥
या । द॒स्रा । सिन्धु॑ऽमातरा । म॒नो॒तरा॑ । र॒यी॒णाम् । धि॒या । दे॒वा । व॒सु॒ऽविदा॑ ॥
या देवा यावुभावश्विनौ वक्ष्यमाणगुणयुक्तौ तौ स्तुषे इति पूर्वत्रान्वयः । कीदृशौ । दस्रा दस्रौ दर्शनीयौ सिन्धुमातरा समुद्रमातृकौ । यद्यपि सूर्याचन्द्रमसावेव समुद्रजौ तथाप्यश्विनोः केषांचिन्मते तद्रूपत्वात् तथात्वम् । रयीणां धनानां मनोतरा मनसा तारयितारौ धिया कर्मणा वसुविदा निवासस्थानस्य लम्भयितारौ ॥ मनोतरा । मनसा तरतः इति मनोतरौ । तरतेः अन्तर्भावितण्यर्थात् ‘ऋदोरप्' इति अप् । पूर्वपदान्तस्य सकारस्य रुत्वे सति छान्दसम् उत्वम्। रयीणाम् । नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । धिया। सावेकाचः०' इति विभक्तेरुदात्तत्वम् । वसुविदा । वसूनि निवासस्थानानि विन्देते इति वसुविदौ । ‘क्विप् च ' इति क्विप् ॥
“Who are divine, of plural asing appearance, children of the sea, willing dispensers of wealth, and granters of dwellings (in recompense of) pious acts.”
Sons of the Sea, mighty to save discoverers of riches, ye
Gods with deep thought who find out wealth.
Who are wondrous, whose mother is the River Sindhu, who are mindful of riches—
the gods finding goods through insight.
Die Stromessöhne hülfereich, die Götter, welche reichen Schatz Zuweisen, gerne Gut verleihn.
Die beiden Meister, Söhne der Sindhu, die Ausdenker der Reichtümer, die Götter, die durch ihre Einsicht Schätze finden.
Вас обоих, удивительных, (тех,) чья мать Синдху,
Выдумщиков сокровищ,
Двух богов, мыслью находящих блага.
व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ । यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥
हे अश्विनौ वां युवयोः संबन्धी रथः जूर्णायां नानाशास्त्रैः स्तुतायाम् अधि विष्टपि स्वर्गलोके यत् यदा विभिः अश्वैः पतात् पतति गच्छति तदानीं वां युवयोः ककुहासः स्तुतयः वच्यन्ते अस्माभिरुच्यन्ते ॥ वच्यन्ते । ब्रवीतेर्यकि ‘ब्रुवो वचिः' (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ संप्रसारणाच्च' इत्यत्र ‘वा छन्दसि' इत्यनुवृत्तेः परपूर्वत्वस्य पाक्षिकत्वात् यणादेशः । प्रत्ययस्वरः । ककुहासः । ककुभं शृङ्गे विदुः प्रधाने च ' इत्यभिधानात् प्राधान्याभिधायिना ककुप्शब्देन तत्प्रतिपादिकाः स्तुतयो लक्ष्यन्ते । हत्वं छान्दसम् । ‘आज्जसेरसुक्' इति असुक् । जूर्णायाम् । “ जॄष् वयोहानौ' । अत्र स्तुत्यर्थो धातूनामनेकार्थत्वात् । निष्ठायां ‘श्न्युकः किति ' इति इट्प्रतिषेधः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । ‘रदाभ्याम् । (पा. सू. ८. २. ४२ ) इति निष्ठानत्वम् । प्रत्ययस्वरः । विभिः । वी गत्यादौ । वियन्ति गच्छन्तीति वयः अश्वाः । औणादिको डिप्रत्ययः । पतात् । ‘पत्लृ गतौ '। लेटि आडागमः । ‘इतश्च लोपः' इति इकारलोपः ॥
“Since your chariot proceeds, (drawn) by your steeds, above the glorious heavens, your praises are proclaimed (by us).”
Your giant coursers hasten on over the region all in flames,
When your car flies with winged steeds.
Your lead (animals) twist and turn upon the (sea’s) broken surface, when your chariot will fly with its birds.
Es springen eure Rosse schnell dort auf der alten Stätte hin, Wenn eur beschwingter Wagen fliegt.
Eure Buckeltiere schweben über die morsche Fläche hin, wenn euer Wagen mit den Vögeln dahinfliegen soll.
Ваши горбатые буйволы мчатся галопом
По зыбкой поверхности,
Когда летит ваша колесница, (влекомая) птицами.
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा । पि॒ता कुट॑स्य चर्ष॒णिः ॥
ह॒विषा॑ । जा॒रः । अ॒पाम् । पिप॑र्ति । पपु॑रिः । न॒रा॒ । पि॒ता । कुट॑स्य । च॒र्ष॒णिः ॥
हे अश्विनौ देवौ अपां जारः स्वकीयतापेनोदकानां जरयिता सूर्यः हविषा अस्मद्दत्तेन पिपर्ति देवान् पूरयति । उदिते सूर्ये हविष्प्रदानात् सूर्यस्य पूरकत्वं द्रष्टव्यम् । अतः सूर्योदयकाले युवाभ्यामागन्तव्यमित्यर्थः । कीदृशो जारः । पपुरिः उक्तक्रमेण पूरणस्वभावः पिता पालकः कुटस्य चर्षणिः कर्मणो द्रष्टा । अत्र निरुक्तं- हविषापां जरयिता पिपर्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः' (निरु. ५, २४ ) इति ॥ जारः। जयतीति जारः आदित्यः । ‘दारजारौ कर्तरि णिलुक् च ' ( पा. सू. ३. ३. २०.४ ) इति घञन्तो निपातितः। ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् । अपाम् ।' उडिदम्' इति विभक्तेरुदात्तत्वम् । पिपर्ति । पॄ पालनपूरणयोः'। तिपि जुहोत्यादित्वात् शपः श्लुः। ‘अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । अनुदात्ते च ' इति अभ्यस्तस्याद्युदात्तत्वम् । पपुरिः । ‘आदृगमहन ' इति किन्प्रत्ययः । लिड्वद्भावात् कित्त्वे सिद्धेऽपि पुनः कित्करणसामर्थ्यात् ' ऋच्छत्यॄताम् ( प. सू. ७. ४. ११) इति गुणाभावः। ‘उदोष्ठ्यपूर्वस्य ' इति उत्वम्। नित्त्वादाद्युदात्तत्वम् ॥
“(Aśvins); guides; the sun, (the evaporator) of the waters, the nourisher, the protector and beholder of the (solemn) rite, nourishes (the gods) with our oblation.”
He, liberal, lover of the flood, Lord of the House, the vigilant,
Chiefs! with oblations feeds you full.
By the oblation the lover of the waters, the carrier, carries
across, o men—
he, the father and boundary of the house [?],
Der Wasser Buhle füllt mit Trank, o Männer, euch der füllende, Des Hauses Herr, der emsige.
Der Buhle der Wasser, der hinüberbringende, bringt durch das Opfer euch, ihr Herren, über das Wasser herüber, der Vater des ......,
С помощью жертвы любовник вод,
Перевозчик перевозит (вас), о два мужа,
(Он) отец горы, подвижный,
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा । पा॒तं सोम॑स्य धृष्णु॒या ॥
आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒ऽव॒च॒सा॒ । पा॒तम् । सोम॑स्य । धृ॒ष्णु॒ऽया ॥
हे मतवचसा अभिमतस्तोत्रौ नासत्या अश्विनौ वां युवयोः मतीनां बुद्धीनाम् आदारः प्रेरको यः सोमोऽस्ति सोमस्य तं सोमं पातं युवां पिबतम् । कीदृशं सोमम् । धृष्णुया धर्षणशीलम् । मदकरत्वेन तीव्रमित्यर्थः ॥ आदारः। ‘दृङ् आदरे । आदारयतीति आदारः।' दारजारौ कर्तरि णिलुक्च' इति घञ्प्रत्ययः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मतीनाम् । 'नामन्यतरस्याम् इति नाम उदात्तत्वम् । मतवचसा । मतमभिमतं स्तोत्ररूपं वचो ययोस्तौ । ‘सुपां सुलुक्' इति विभक्तेः आकारः । पातम् । ‘पा पाने '।' बहुलं छन्दसि' इति शपो लुकि सति ‘पाघ्रा ' इत्या दिना पिबादेशो न भवति । सोमस्य । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। धृष्णुया। ‘सुपां सुलुक्' इति विभक्तेः याजादेशः ॥ ॥ ३३ ॥
“Nāsatyas, accepting our praises, partake of the exhilarating Soma, the animator of your minds.”
Ye have regard unto our hymns, Nasatyas, thinking of our words:
Drink boldly of the Soma juice.
The one paying heed [?] to (our) conceptions for the sake of you two, o Nāsatyas, you for whom (these) words are conceived:
“Drink boldly of the soma.”
Hier ist, der euren Sinn erschliesst, die, treue, ihr Gebet vernehmt, Vom Soma trinkt mit kühnem Sinn.
Der für euch das Tor der Gedanken aufsprengt, ihr Nasatya´s, die ihr der Worte gedenkt: Trinkt tapfer vom Soma!
(Он-)проламыватель (врат) мыслей для вас,
О Насатьи, о вы, помышляющие о словах (молитвы).
Смело напейтесь сомы!
या न॒: पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः । ताम॒स्मे रा॑साथा॒मिष॑म् ॥
या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः । ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥
हे अश्विना ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता या इट् अन्नं नः अस्मान् पीपरत् पारयेत् तृप्तिं प्रापयेत् । किं कृत्वा । तमः दारिद्र्यरूपमन्धकारं तिरः अन्तर्हितं विनष्टं कृत्वा ताम् इषं तादृशमन्नम् अस्मे अस्मभ्यं रासाथां युवां दत्तम् ॥ पीपरत् ।' पॄ पालनपूरणयोः । ण्यन्तात् लुङि चङि णिलोपः । उपधाह्रस्वत्वद्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः।‘चङ्यन्यतरस्याम्' (पा. सू. ६.१. २१८) इति उपोत्तमस्य धात्वकारस्योदात्तत्वे प्राप्ते व्यत्ययेन अभ्यासस्योदात्तत्वम् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । अस्मे । 'सुपां सुलुक्' इति चतुर्थीबहुवचनस्य शेआदेशः । रासाथाम् । रा दाने '। छान्दसे प्रार्थनायां लुङि व्यत्ययेनात्मनेपदम् । च्लेः सिच् । ‘एकाचः' इति इट्प्रतिषेधः । पूर्ववत् अडभावः । ‘तिङ्ङतिङः' इति निघातः ॥
“Aśvins, grant us that invigorating food which may satisfy us, having dispelled the gloom (of want).”
Vouchsafe to us, O Asvin Pair, such strength as, with attendant light,
May through the darkness carry us.
The light-bringing refreshment that will carry us across the darkness, Aśvins—
give that to us.
O schenket solche Labung uns, o Ritter, welche glanzbegabt, Uns führet durch die Finsterniss.
Das lichtreiche Labsal, das uns über die Finsternis hinwegbringen soll, das gewähret uns, ihr Asvin!
Та, (несущая свет), что переправит нас,
О Ашвины, через мрак, –
Дайте нам ее – (эту) питательную силу!
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे । यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ॥
हे अश्विना मतीनां स्तुतीनां पाराय गन्तवे पारं गन्तुं नावा नौरूपेण गमनसाधनेन नः अस्मान् प्रति आ यातं समुद्रमध्यादागच्छतम् । भूमावागन्तुं रथं भवदीयं युञ्जाथां साश्वं कुरुतम् ॥ नावा। सावेकाचः' इति विभक्तेरुदात्तत्वम् । गन्तवे । ‘तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । युञ्जाथाम् । ‘युजिर् योगे'। लोटि आथामि रुधादित्वात् श्नम् । 'श्नसोरल्लोपः' इति अकारलोपः । प्रत्ययस्वरः ॥
“Come as a ship, to bear us over an ocean of praises; harness, Aśvins, your car.”
Come in the ship of these our hymns to bear you to the hither shore
O Asvins, harness ye the car.
Travel here by the boat of our conceptions to go to the far shore! Hitch up your chariot, Aśvins!
Kommt her auf der Gebete Schiff, dass ihr ans andre Ufer dringt, Schirrt euren Wagen, Ritter, an.
Kommt auf dem Schiff unserer Gedanken, um ans andere Ufer zu gelangen. Schirret euren Wagen an, ihr Asvin!
Приезжайте на ладье наших мыслей,
Чтобы отправиться на тот берег!
Запрягайте, о Ашвины, колесницу!
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथ॑: । धि॒या यु॑युज्र॒ इन्द॑वः ॥
अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ । धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः ॥
हे अश्विनौ वां युवयोः दिवस्पृथु द्युलोकादपि विस्तीर्णम् अरित्रं गमनसाधनं नौरूपं सिन्धूनां समुद्राणां तीर्थे अवतरणप्रदेशे विद्यते इति शेषः । रथः च भूमौ गन्तुं विद्यते । इन्दवः सोमाः धिया भवद्विषयेण कर्मणा युयुज्रे युक्ता बभूवुः ॥ अरित्रम् ।’’ ऋ गतौ ' । ‘अर्तिलूधूसूखनसहचर इत्रः' (पा. सू. ३. २. १८४) इति करणे इत्रप्रत्ययः । प्रत्ययस्वरः । दिवः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । तीर्थे । 'तॄ प्लवनतरणयोः' । पातॄतुदिवचिरिचिसिचिभ्यस्थक्' (उ. सू. २. १६४) इति थक् । 'ऋत इद्धातोः' इति इत्वम् । ‘हलि च' इति दीर्घः । युयुज्रे । लिटि ‘इरयो रे ' (पा. सू. ६. ४. ७६ ) इति इरेचो रेआदेशः ॥
“Your vessel, vaster than the sky, stops on the seashore; your chariot (waits on the land); the drops (of Soma) are expressed for yor worship.”
The heaven's wide vessel is your own on the flood's shore your chariot waits
Drops, with the hymn, have been prepared.
Your oar is broader than heaven; your chariot is at the ford of the rivers; through our insight the soma drops have been hitched up.
Breit ist des Himmels Ruder euch, der Wagen an der Ströme Furt, Der Soma durch Gebet geschirrt.
Euer Ruder ist breiter als der Himmel, euer Wagen steht am Landungsplatz der Flüsse. Mit Kunst wurden die Somatränke angeschirrt.
Весло для вас, широкое, – у (брода) неба;
У брода рек – колесница.
Молитвой запряжены капли (сомы).
दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे । स्वं व॒व्रिं कुह॑ धित्सथः ॥
दि॒वः । क॒ण्वा॒सः॒ । इन्द॑वः । वसु॑ । सिन्धू॑नाम् । प॒दे । स्वम् । व॒व्रिम् । कुह॑ । धि॒त्स॒थः॒ ॥
हे कण्वासः कण्वपुत्राः । यद्वा । मेधाविन ऋत्विजः । अश्विनावित्थं पृच्छतेति शेषः । कथमिति तदुच्यते । दिवः द्युलोकसकाशात् इन्दवः सूर्यरश्मयः प्रादुर्भूताः । सिन्धूनाम् अपां वृष्टिरूपाणां स्यन्दनस्वभावानां पदे स्थानेऽन्तरिक्षे वसु अस्मदादिनिवासहेतुभूतमुषःकालीनं ज्योतिराविर्भूतमिति शेषः । अस्मिन्नवसरे युवां स्वं वव्रिं स्वकीयं रूपं कुह धित्सथः कुत्र स्थापयितुमिच्छथः । अत्रागत्य प्रदर्शनीयमिति तात्पर्यार्थः ॥ कुह ।' वा ह च च्छन्दसि ' ( पा. सू. ५. ३. १३) इति किंशब्दात् सप्तम्यर्थे हप्रत्ययः ।' कु तिहोः ' ( पा. सू. ७. २. १०४ ) इति किमः कुः । धित्सथः । ‘डुधाञ् धारणपोषणयोः'। सनि मीमाघुरभलभशकपतपदामच इस्' (पा. सू. ७. ४. ५४) इति आकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य ' (पा. सू. ७. ४, ५८ ) इति अभ्यासलोपः । ‘सः स्यार्थधातुके '(पा, सू. ७. ४, ४९ ) इति सकारस्य तकारः ॥
“Kaṇvas (ask this of the Aśvins); (How) do the rays (of the sun proceed) from the sky? (How) does the dawn (rise) in the region of the waters? Where do you desire to manifest your own person ns?”
Kanvas, the drops are in the heaven; the wealth is at the waters' place:
Where will ye manifest your form?
O Kaṇvas, (in the track) of heaven are the soma drops; in the track of the rivers is what is good.
Where do you two desire to place that cloak of yours?
O Kanva's, Himmelstränke sind und Güter an der Ströme Ort, Wohin, o Ritter, setzt ihr euch?
Am Orte des Himmels sind die Somatropfen, ihr Kanva´s, am Orte der Flüsse das Gute. Wohin beabsichtigt ihr eure natürliche Körperform zu legen?
(На месте) неба, о Канвы, – капли (сомы),
Добро – на месте рек.
Куда хотите вы поместить свое укрытие?
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑: । व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
अभू॑त् । ऊँ॒ इति॑ । भाः । ऊँ॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ । वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः ॥
भा उ सूर्यस्य दीप्तिस्तु अंशवे उषःकालीनरश्मिसिद्ध्यर्थम् अभूदु प्रादुर्भूतैव । सूर्यः च हिरण्यं प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्च असितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा जिह्वया स्वकीयया ज्वालया व्यख्यत् प्रकाशितवान् । तस्मादयमश्विनोर्युवयोरागमनकाल इत्यर्थः ॥ अभूत् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधः । हिरण्यं प्रति ।' प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इति प्रते: कर्मप्रवचनीयत्वम् । ‘कर्मप्रवचनीययुक्ते द्वितीया' (पा. सू. २. ३. ८) इति द्वितीया । अख्यत् । ‘चक्षिङ् व्यक्तायां वाचि' । लुङि ‘चक्षिङः ख्याञ् ' इति ख्याञादेशः ॥ ॥ ३४ ॥
“There was light to irradiate the dawn; the sun (rose) like god; the fire shone with darkened flames.”
Light came to lighten up the branch, the Sun appeared as it were gold:
And with its tongue shone forth the dark.
Radiance has come into being for the soma plant: the sun, counterpart to gold!
The black one [=the fire in the coals] has peered out with his tongue.
Licht ward dem Somasaft zu Theil als eine Sonne hell wie Gold, Schwarz an der Zunge flammt die Glut.
Licht ist der Somapflanze geworden: Die Sonne kommt dem Golde gleich. Mit der Zunge blickte jetzt der Schwarze durch.
Вот возник свет для сомы:
Солнце подобно золоту.
Черный стал проглядывать языком (своим).
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या । अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
अभू॑त् । ऊँ॒ इति॑ । पा॒रम् । एत॑वे । पन्था॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया । अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥
ऋतस्य सूर्यस्य पारमेतवे रात्रेः पारभूतमुदयाद्रिं गन्तुं पन्थाः मार्गः साधुया समीचीनः अभूदु निष्पन्न एव । दिवः द्योतनात्मकस्य सूर्यस्य स्रुतिः प्रसृता दीप्तिः वि अदर्शि विशेषेण दृष्टा । तस्मादश्विनौ युवाभ्यामागन्तव्यम् । एतवे । इण् गतौ'। ‘तुमर्थे सेसेन्' इति तवेन्प्रत्ययः। साधुया। ‘सुपां सुलुक्' इति विभक्तेः याजादेशः । अदर्शि। कर्मणि लुङि च्लेः चिणादेशः । ‘चिणो लुक्' (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । स्रुतिः । स्रु गती'। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् ॥
“A fit path was made for the sun to go beyond the boundary (of night); the radiance of the luminary became visible.”
The path of sacrifice was made to travel to the farther goal:
The road of heaven was manifest.
And the path of truth has come into being to lead right to the far shore. The course of heaven has appeared.
Es ist des Opfers Pfad gebahnt, um bis ans Ziel auf ihm zu gehn, Und sichtbar ist des Himmels Steg.
Der rechte Weg ist bereitet, um glücklich ans andere Ufer zu gelangen; die Straße des Himmels ist sichtbar geworden.
Вот возник путь закона,
Чтобы прямо двигаться на тот берег.
Показалась тропинка неба.
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति । मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ । मदे॑ । सोम॑स्य । पिप्र॑तोः ॥
जरिता स्तोता अश्विनोः संबन्धि तत्तदित् पुनः पुनः कृतं सर्वमपि अवः अस्मद्विषयं रक्षणं प्रति भूषति प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । मदे हर्षे निमित्तभूते सति सोमस्य पिप्रतोः सोमं पूरयतोः ॥ भूषति । ‘ भूष अलंकारे' । भौवादिकः । पिप्रतोः । ‘पॄ पालनपूरणयोः' । पृ इत्येके। अस्माल्लटः शतृ । जुहोत्यादित्वात् शपः श्लुः। द्विर्भावोरदत्वहलादिशेषाः । ‘अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । शतुर्ङित्त्वात् गुणाभावे यणादेशः । ‘अभ्यस्तानमादिः ' इत्याद्युदात्तत्वम् ॥
“The worshipper acknowledges whatever boon he receives from the Aśvins, satiate with the enjoyment of Soma.”
The singer of their praise awaits whatever grace the Asvins give,
who save when Soma gladdens them.
The singer awaits each and every help of the Aśvins
at the exhilarating drink of soma for the two who carry across.
Ja, diese Huld des Ritterpaars, das Hülfe bringt im Somarausch, Verherrlichet der Sänger stets.
Der Sänger erwartet gerade diese Gunst der Asvin immer wieder, die im Rausche des Soma hinaushelfen.
И любую помощь Ашвинов
Певец восхваляет в ответ,
(Помощь тех), кто спасает в опьянении сомой.
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा । म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
वा॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा । म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥
हे शंभू सुखस्य भावयितारावश्विनौ मनुष्वत् मनाविव विवस्वति परिचरणवति यजमाने ववसाना निवासशीलौ युवां सोमस्य पीत्या सोमस्य पाननिमित्तं गिरा स्तुतिनिमित्तं च आ गतम् आगच्छतम् ॥ ववसाना । वस निवासे । ‘ताच्छील्यवयोवचन' (पा. सू. ३.२.१२९) इति ताच्छीलिकः चानश् । 'बहुलं छन्दसि' इति शपः श्लुः। अन्येषामपि दृश्यते' इति संहितायामभ्यासस्य दीर्घत्वम् ॥ ‘सुपां सुलुक्' इति विभक्तेः आकारः । चितः' इत्यन्तोदात्तत्वम् । पीत्या । ‘पा पाने'। 'स्थागापापचो भावे' इति भावे क्तिन् । घुमास्था' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् । तृतीयैकवचने यणादेशे ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । मनुष्वत् । ‘मन ज्ञाने'। मन्यते जानातीति मनुः । बहुलवचनात् औणादिक उसिप्रत्ययः । तत्र तस्येव' इति सप्तम्यर्थे वतिः । प्रत्ययस्वरः । गतम् । गमेर्लोटि' बहुलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः ॥
“Causers of felicity, co-dwellers with your worshipper, as with Manu come hither to drink of Soma, and (accept) our praise.”
Ye dwellers with Vivasvan come, auspicious, as to Manu erst;
come to the Soma and our praise.
Having clothed yourselves with the drink of soma and with song in the company of Vivasvant,
come here, o you who are good luck, as at the time of Manu!
Die ihr bei dem Vivasvat wohnt, durch Lied und Somatrunk gelockt,Kommt heilvoll wie zu Manus her.
Ihr, die ihr bei dem Opferer mit Somatrank und Lied zugedeckt werdet, kommet, Glückbringende, wie zu Manu!
О вы двое, облекающиеся у жреца
В питье сомы и хвалебную песнь,
Придите, о приносящие благо, как к Ману!
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् । ऋ॒ता व॑नथो अ॒क्तुभि॑: ॥
यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् । ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥
हे अश्विनौ परिज्मनोः परितो गन्त्रोः युवोः युवयोरुभयोः श्रियम् अनु आगमनरूपां शोभामनुसृत्य उषाः उपाचरत् उषःकालदेवता इहागच्छतु । युवयोरागतयोः सतोः पश्चादागतेत्यर्थः । युवां च अक्तुभिः रात्रिभिः ऋता यज्ञगतानि हवींषि वनथः कामयेथे संभजेथे ॥ युवोः। युष्मच्छब्दात् षष्ठीद्विवचनस्य ‘सुपां सुपो भवन्ति' इति षष्ठीद्विवचनादेशः । अत आदेशविषयत्वात् ' योऽचि' इति यत्वाभावः । ‘शेषे लोपः '। परिज्मनोः । परितः अजतो गच्छत इति परिज्मानौ ।' श्वन्नुक्षन् ' इत्यादिना अजतेः मनिन्प्रत्ययान्तो निपातितः । ऋता । शेश्छन्दसि° ' इति शेर्लोपः । वनथः । ‘वन षण संभक्तौ । तिङ्ङतिङः' इति निघातः ॥
“May Uṣas follow the lustre of your approach, circumambient Aśvins, and may you be plural ased with the oblations offered by night.”
O circumambient Asvins, Dawn follows the brightness of your way:
Approve with beams our solemn rites.
Dawn has followed your glory as you circle the earth.
You will win the truths in the nights.
Es folget eurer Schönheit nach, umwandernde, das Morgenroth; Wenn's hell wird, habt ihr Opfer gern.
Euer, der Umherziehenden, Schönheit zog die Usas nach. In den Nächten gewinnet ihr die rechten Wege.
Вслед за вашей красотой Ушас
Потянулась, когда вы странствовали вокруг.
Вы любите жертвенные возлияния по ночам.
उ॒भा पि॑बतमश्विनो॒भा न॒: शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभि॑: ॥
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् । अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिभिः॑ ॥
हे अश्विना उभा युवामुभौ पिबतं सोमपानं कुरुतम् । तत ऊर्ध्वम् उभा युवामुभौ अविद्रियाभिः प्रशस्ताभिः ऊतिभिः रक्षाभिः नः अस्मभ्यं शर्म सुखं य“च्छतम् ॥ पिबतम् । ‘पा पाने '। लोटि शपि ‘पाघ्रा' इत्यादिना पिबादेशः । ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य (पा. म. ७. ३.७८.२; परिभा.९२) इति वचनात् लघूपधगुणाभावः । यद्वा । आद्युदात्तोऽदन्तः पिबादेशः । ‘तिङ्ङतिङः ' इति निघातः । यच्छतम् । दाण् दाने '। लोटि शपि ‘पाघ्रा ' इत्यादिना यच्छादेशः । अविद्रियाभिः । ‘द्रा कुत्सायां गतौ । विपूर्वादस्माद्भावे औणादिकः किः। आतो लोप इटि च ' इति आकारलोपः । विद्रिर्निन्दा । तद्विरोधिनी अविद्रिः स्तुतिः । तां यान्तीत्यविद्रियाः । ‘अन्येभ्योऽपि दृश्यन्ते' इति विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊतिभिः । अवतेः क्तिनि ' ज्वरत्वर' इत्यादिना ऊठ्। ऊतियूति' इत्यादिना क्तिन उदात्तत्वम् ॥ ॥ ३५ ॥
“Aśvins, may you both drink (the oblation), and bestow upon us happiness, through your irreproachable protection.”
Drink ye of our libations, grant protection, O ye Asvins Twain,
With aids which none may interrupt.
Aśvins, both of you—drink! Both of you—offer protection to us through your unbreakable help!
So trinkt, ihr beiden Ritter, nun, gewährt uns beide euern Schutz, Durch Huld, die unzerstörbar ist.
Trinkt beide, Asvin, gewähret uns beide Schirm durch lückenlosen Schutz!
Оба пейте, о Ашвины!
Оба дайте нам защиту
(Вашими) нерушимыми поддержками!