अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
अ॒यम् । वा॒म् । मधु॑मत्ऽतमः । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःऽअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥
हे ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारौ अश्विना अश्विनौ वां युवयोः अयं पुरोवर्ती सोमः सुतः अभिषुतः। कीदृशः। मधुमत्तमः अतिशयेन माधुर्यवान्। तिरोअह्वयं तिरोभूते पूर्वस्मिन् दिने अभिषुतं तं सोमं पिबतम् । दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनानि धत्तं प्रयच्छतम् ॥ वाम् । ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ ' ( पा. सू. ८.१.२० )इति षष्ठीद्विवचनस्य वामादेशः । स चानुदात्तः । मधुमत्तमः। ‘मन ज्ञाने'। मन्यते इति मधु । ‘फलिपाटिनमि' इत्यादिना उप्रत्ययः । ‘नित्' इत्यनुवृत्तेराद्युदात्तत्वम्। धकारश्चान्तादेशः । अतिशयेन मधुमान् मधुमत्तमः । मतुप्तमपोः पित्त्वादनुदात्तत्वे पदस्वर एव शिष्यते । ऋतावृधा । वृधेरन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् । तिरोअह्न्यम् । अह्नि भवः अह्न्यः । भवे छन्दसि' इति यत् । अह्नष्टखोरेव' (पा. सू. ६. ४.१४५) इति नियमात् ‘नस्तद्धिते' इति टिलोपाभावः। ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति वचनात् ‘ये चाभावकर्मणोः '( पा. सू. ६. ४. १६८ ) इति प्रकृतिभावाभावे ‘अल्लोपोऽनः' इति अकारलोपः। तिरोहितः अह्न्यः तिरोअह्न्यः । ‘तिरोऽन्तर्धौ ' (पा. सू. १. ४. ७१) इति गतित्वेन निपातत्वात् अव्ययत्वे प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। दाशुषे। दाश्वान् साह्वान्” 'इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘वसोः संप्रसारणम् ' इति संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वम् ॥
“Aśvins, encouragers of sacrifice, this most sweet Soma is prepared for you; drink it of yesterday's expressing, and grant riches to the donor.”
ASVINS, for you who strengthen Law this sweetest Soma hath been shed.
Drink this expressed ere yesterday and give riches to him who offers it.
O you growing strong through truth, this most honey-filled soma has been pressed for you two.
Drink that (soma) aged overnight, Aśvins. Grant riches to the
pious man.
Hier ist der Soma euch gepresst, der süsseste, o heilige; O Ritter, diesen trinket, welcher gestern gor, gebt Schätze dem Verehrenden.
Dieser süßeste Soma ist für euch beide ausgepreßt, ihr Wahrheitsmehrer. Trinket ihn, Asvin, der einen Tag über gestanden hat!Bringet dem Spender Kleinode!
Вот вам самый сладкий
Выжатый сома, о вы двое, умножающие закон,
Пейте его (, бродящего) вторые сутки, о Ашвины.
Дайте сокровища почитающему (вас)!
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । सु॒ऽपेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ । कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म् ॥
हे अश्विना त्रिवन्धुरेण उन्नतानतरूपत्रिविधबन्धनकाष्ठयुक्तेन त्रिवृता अप्रतिहतगतितया लोकत्रये वर्तमानेन सुपेशसा शोभनसुवर्णयुक्तेन रथेन आ यात इहागच्छतम् । कण्वासः कण्वपुत्रा मेधाविन ऋत्विजो वा वां युवयोः अध्वरे यागे ब्रह्म स्तोत्ररूपं मन्त्रं हविर्लक्षणमन्नं वा कृण्वन्ति कुर्वन्ति । तेषां कण्वानां हवम् आह्वानं सु शृणुतं सुष्ठ्वादरेण शृणुतम् ॥ त्रिवन्धुरेण । बध्नन्तीति बन्धुराः । बन्धेः औणादिक उरन्प्रत्ययः । त्रयो बन्धुरा यस्यासौ त्रिबन्धुरः । त्रिचक्रादिषु पाठात् त्रिचक्रादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । त्रिवृता । त्रिषु लोकेषु वर्तते इति त्रिवृत् । क्विप् च ' इति क्विप् । सुपेशसा । पेश इति हिरण्यनाम । शोभनं पेशो यस्यासौ सुपेशाः । ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । शृणुतम् । ‘श्रु श्रवणे'। श्रुवः शृ च ' इति श्नुः; तत्संनियोगेन धातोः शृभावश्च । हवम् । ह्वयतेः ‘ भावेऽनुपसर्गस्य ' ( पा. सू. ३, ३. ७५ ) इति अप् । संप्रसारणं च गुणावादेशौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥
“Come, Aśvins, with your three-columned triangular car; the Kaṇvas repeat your praise at the sacrifice; graciously hear their invocation.”
Come, O ye Asvins, mounted on your triple car three-seated, beautiful of form
To you at sacrifice the Kanvas send the prayer: graciously listen to their call.
Journey here, Aśvins, by your triply turning chariot with its three standing places, with its beautiful adornment.
The Kaṇvas are creating a formulation for you at the rite. Listen well to their call!
O Ritter, kommt auf eurem schönen Wagen, der drei Sitze und drei Räder hat, Die Kanva's bringen euch Gebet beim Opferfest, vernehmet willig ihren Ruf.
Auf eurem dreisitzigen, dreiteiligen, schönverzierten Wagen kommet, Asvin! Die Kanva´s bereiten euch bei dem Opfer eine Erbauung, höret fein auf deren Ruf!
На трехместной, трехчастной, великолепно украшенной
Колеснице выезжайте, о Ашвины!
Канвы творят вам молитву на жертвенном празднестве
Прислушайтесь хорошенько к их зову!
अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥
अश्वि॑ना । मधु॑मत्ऽतमम् । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ । अथ॑ । अ॒द्य । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । दा॒स्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ॥
हे ऋतावृधा यज्ञस्य वर्धकौ अश्विनौ मधुमत्तमं सोमं पातं पिबतम् । हे दस्रा अश्विनौ सोमपानार्थम् अथ अस्मदाह्वानानन्तरम् अद्य अस्मिन् दिने रथे स्वकीये वसु बिभ्रता अस्मदुपयुक्तं धनं धारयन्तौ दाश्वांसं हविष्प्रदं यजमानम् उप गच्छतं समीपे प्राप्नुतम् ॥ बिभ्रता। ‘डुभृञ् धारणपोषणयोः '। शतरि जुहोत्यादित्वात् शपः श्लुः । ‘भृञामित्' इति अभ्यासस्य इत्वम् ॥ शतुर्ङित्त्वात् गुणाभावे यणादेशः ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
“Aśvins, encouragers of sacrifice, drink this most sweet Soma; approach today the giver of the offering, you who are of plural asing aspects and bearers of wealth.”
O Asvins, ye who strengthen Law, drink ye this sweetest Soma juice.
Borne on your wealth-fraught car come ye this day to him who offers, ye of wondrous deeds.
O Aśvins, growing strong through truth, drink the most
honey-filled soma.
Then today, wondrous ones, come to the pious man, bringing goods on your chariot.
O Ritter, trinkt den Soma denn, den süssesten, o heilige, Und bringt, o Helfer, Gut auf eurem Wagen heut, zu dem Verehrer kommt herbei.
Trinket den süßesten Soma, ihr Wahrheitsmehrer Asvin, drum kommt heute zu dem Spender und bringt auf dem Wagen Gutes mit, ihr Meister!
О Ашвины, самого сладкого
Сому пейте, о вы двое, умножающие закон,
А затем сегодня, о удивительные, везя добро на колеснице,
Приезжайте к почитающему (вас)!
त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥
त्रि॒ष्ऽसध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒ऽवे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् । कण्वा॑सः । वाम् । सु॒तऽसो॑माः । अ॒भिऽद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥
हे विश्ववेदसा सर्वज्ञावश्विनौ त्रिषधस्थे कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थानेष्ववस्थिते बर्हिषि दर्भे स्थित्वा मध्वा मधुरेण रसेन यज्ञं मिमिक्षतं सेक्तुमिच्छतम् । हे अश्विना वां युष्मदर्थं सुतसोमाः अभिषुतसोमयुक्ताः अभिद्यवः अभिगतदीप्तयः कण्वासः युवाम् उभौ हवन्ते आह्वयन्ते ॥ त्रिषधस्थे । त्रिषु स्थानेषु सह तिष्ठतीति त्रिषधस्थं बर्हिः ।' सुपि स्थः' इति कप्रत्ययः । ‘आतो लोप इटि च ' इति आकारलोपः । ‘सध मादस्थयोश्छन्दसि ' ( पा. सू. ६. ३. ९६ ) इति सहशब्दस्य सधादेशः । मध्वा । आगमानुशासनस्यानित्यत्वात् नुमभावः । ‘जसि च' इत्यत्र ‘ जसादिषु च्छन्दसि वावचनम् ' ( पा. सू. ७. ३. १०९. १ ) इति वचनात् नाभावाभावश्च । मिमिक्षतम् । मिह सेचने '। सनि ' एकाचः' इति इट्प्रतिषेधः ।' हलन्ताच्च' इति सनः कित्त्वात् लघूपधगुणाभावः । अभ्यासहलादिशेषौ । ढत्वकत्वषत्वानि । सुतसोमाः । सुतः सोमो यैः । बहुव्रीहिस्वरः । अभिद्यवः । द्युः इति अहर्नाम । तेन तत्संबन्धी प्रकाशो लक्ष्यते । अभिगता द्युम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पा. म. २. २. १८. ४) इति समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Omniscient Aśvins, stationed on the thrice-heaped sacred grass, sprinkle the sacrifice with the sweet juice; the illustrious Kaṇvas, with effused libations, invoke you.”
Omniscient Asvins, on the thrice-heaped grass bedew with the sweet juice the sacrifice.
The sons of Kanva, striving heavenward, call on you with draughts of Soma juice out-poured.
O you providing all possessions, mix the sacrifice with honey on the ritual grass, on which are three seats.
The heaven-bound Kaṇvas, having pressed soma for you, call upon you two, Aśvins.
Benetzt das Opfer auf der dreigetheilten Streu, allreiche ihr, mit Süssigkeit; Die Kanvasöhne, himmelstrebend rufen euch, o Ritter, Soma bringend her.
Auf dem dreisitzigen Barhis würzet das Opfer mit Süßigkeit, ihr Allwissende! Die dem Himmel zugetanen Kanva´s rufen euch, Asvin, bei ausgepreßtem Soma.
О всеведущие, на жертвенной соломе, разложенной в трех местах,
Медом окропите жертву!
Выжавшие сому, сияющие Канвы
Призывают вас, о Ашвины.
याभि॒: कण्व॑म॒भिष्टि॑भि॒: प्राव॑तं यु॒वम॑श्विना । ताभि॒: ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥
याभिः॑ । कण्व॑म् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ । ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥
हे अश्विना युवं युवामुभौ याभिः अभिष्टिभिः अपेक्षिताभिः रक्षाभिः कण्वं महर्षिं प्रावतं रक्षितवन्तौ हे शुभस्पती शोभनस्य कर्मणः पालकौ ताभिः रक्षाभिः अस्मान् अनुष्ठातॄन् सु अवतं सुष्ठु रक्षतम् । स्पष्टमन्यत् ॥ अभिष्टिभिः । आभिमुख्येनेष्यन्ते इति अभिष्टयः फलानि । ‘इषु इच्छायाम् ' । कर्मणि क्तिनि ' तितुन्न ' इत्यादिना इट्प्रतिषेधः । एमन्नादिषु च्छन्दसि पररूपं वक्तव्यम् ' (पा. सू. ६. १. ९४. ६) इति पररूपत्वम् ।' तादौ च ' इति गतेः प्रकृतिस्वरत्वम्। ‘उपसर्गाश्चाभिवर्ज्यम्' (फि. सू. ८१) इति अभिः अन्तोदात्तः । शुभस्पती । 'शुभ दीप्तौ । ‘क्विप् च ' इति क्विप् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । ‘सुबामन्त्रिते' इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥ ॥ १ ॥
“With such desired aids as you protected Kaṇva with, do you, cherish of pious acts, preserve us; encouragers of sacrifice, drink the Soma.”
O Asvins, with those aids wherewith ye guarded Kanva carefully,
Keep us, O Lords of Splendour: drink the Soma juice, ye strengtheners of holy law.
With what superior powers you helped Kaṇva, Aśvins,
with these help us, o lords of beauty! Drink the soma, o you growing strong through truth!
Mit solchen Hülfen steht uns bei, mit denen ihr dem Kanva einst Geholfen habt, ihr Ritter, o ihr Glanzesherrn, und trinkt den Soma, heilige!
Die nahen Hilfen, mit denen ihr Asvin dem Kanva beistandet, mit diesen stehet fein auch uns bei, ihr Meister der Schönheit! Trinket den Soma, ihr Wahrheitsmehrer!
(Те) поддержки, которыми Канву
Вы (некогда) поддержали, о Ашвины, –
Ими помогите теперь хорошенько нам, о повелители красоты!
Пейте сому, о вы двое, умножающие закон!
सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥
हे दस्रा दर्शनीयावश्विनौ सुदासे शोभनदानयुक्ताय राज्ञे पिजवनपुत्राय रथे वसु बिभ्रता युवां पृक्षः अन्नं वहतं प्रापितवन्तौ । समुद्रात् अन्तरिक्षात् । समुद्रम् इति अन्तरिक्षनाम। समुद्रः अध्वरम्' (नि. १. ३. १५) इति तन्नामसु' पाठात् । उत वा दिवस्परि अथवा स्वर्गात् पर्याहृत्य पुरुस्पृहं बहुभिः स्पृहणीयं रयिं धनम् अस्मे धत्तम् अस्मासु स्थापयतम् ॥ सुष्ठु ददातीति सुदाः । असुनि कृदुत्तरपदप्रकृतिस्वरत्वम् । दिवस्परि। ‘पञ्चम्याः परावध्यर्थे' (पा. सू. ८. ३. ५१) इति विसर्जनीयस्य सत्वम् । पुरुस्पृहम् ।' स्पृह ईप्सायाम् ' । चुरादिरदन्तः । पुरुभिः स्पृह्यते इति पुरुस्पृहः । कर्मणि घञ् । अतो लोपस्य स्थानिवत्त्वात् लघूपधगुणाभावः । ञित्स्वरेण उत्तरपदस्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरेण तदेव शिष्यते ॥
“Good-looking Aśvins, as you brought in your car, bearers of wealth, abundance to Sudās, so bring to us in the riches that many covet, whether from the firmament or the sky beyond.”
O Mighty Ones, ye gave Sudas abundant food, brought on your treasure-laden car;
So now vouchsafe to us the wealth which many crave, either from heaven or from the sea.
Wondrous Aśvins, convey nourishments to the very generous one, bringing goods on your chariot.
Whether from the sea or from heaven, grant much-desired wealth to us.
Dem Sudas fuhrt im Gut-beladnen Wagen ihr, hülfreiche Ritter, Nahrung zu, O gebet aus dem Himmel oder aus dem Meer den vielbegehrten Reichthum uns.
Bringet, ihr Meister Asvin, dem Freigebigen Gutes auf den Wagen und führet ihm Lebenskräfte zu! Schaffet uns Reichtum vom Meere oder vom Himmel herbei, vielbegehrten!
Везя на колеснице добро для щедрого, о удивительные,
Доставьте (ему) подкрепления!
Богатство с моря или с неба
Дайте нам – многожеланное!
यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑: ॥
यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ । अतः॑ । रथे॑न । सु॒ऽवृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥
हे नासत्या असत्यरहितावश्विनौ यत् यदि युवां परावति दूरदेशे स्थः वर्तेथे । यद्वा अथवा अधि तुर्वशे अधिके समीपे स्थः । अतः अस्माद्दूरात्समीपाद्वा सूर्यस्य रश्मिभिः साकं सूर्योदयकाले सुवृता शोभनवर्तनयुक्तेन रथेन नः अस्मान् प्रति आ गतं आगच्छतम् ॥ नासत्या। सत्सु भवौ सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ । “ नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । स्थः । ‘अस भुवि । ‘असोरल्लोपः' इति अकारलोपः । यद्वृत्तयोगादनिघातः । गतम् । गमेर्लोटि 'बहुलं छन्दसि' इति शपो लुक् । ‘अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥
“Nāsatyas, whether you abide far off or close at hand, come to us in your well-constructed car, with the rays of the sun.”
Nasatyas, whether ye be far away or close to Turvasa,
Borne on your lightly-rolling chariot come to us, together with the sunbeams come.
Nāsatyas, if you are in the far distance, or if you are with the Turvaśa, from there come to us by your smoothly rolling chariot, together with the rays of the sun.
Ob ferne ihr, o treue, seid, ob ihr bei Turvaça verweilt, So kommt von dort auf schnellem Wagen her zu uns, zusammen mit der Sonne Strahl.
Wenn ihr Nasatya´s in der Ferne oder wenn ihr bei Turvasa seid, so kommet von dort von da auf leichtem Wagen zu uns her, zugleich mit den ersten Strahlen der Sonne!
Когда, о Насатьи, (вы) вдалеке,
Или когда вы находитесь у Турваши,
Приезжайте оттуда к нам на быстроходной колеснице
Вместе с (первыми) лучами солнца!
अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥
अ॒र्वाञ्चा॑ । वा॒म् । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ ना । इत् । उप॑ । इष॑म् । पृ॒ञ्चन्ता॑ । सु॒ऽकृते॑ । सु॒ऽदान॑वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒ ॥
हे अश्विनौ अध्वरश्रियः यागसेविनः सप्तयः अश्वाः सवनेदुप अस्मद्नुष्ठेयानि त्रीणि सवनान्येवोपलक्ष्य अर्वाञ्चा अभिमुखौ वां युवां वहन्तु प्रापयन्तु । हे नरा अश्विनौ सुकृते सुष्ठु कर्मकारिणे सुदानवे शोभनदानयुक्ताय यजमानाय इषम् अन्नं पृञ्चन्ता संयोजयन्तौ युवां बर्हिः आ सीदतं दर्भं प्राप्नुतम् ॥ अर्वाञ्चा । सुपां सुलुक्° ' इति विभक्तेः आकारः । अध्वरश्रियः । अध्वरं श्रयन्तीति अध्वरश्रियः । क्विब्वचिप्रच्छि° ' ( उ. सू. २. २१५) इत्यादिना क्विप् दीर्घश्च । वहन्तु । • वह प्रापणे '। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । पादादित्वात् निघाताभावः । सवना । षुञ् अभिषवे'। अभिषूयते सोम एष्विति सवनानि । अधिकरणे ल्युट्। योरनादेशः । गुणावादेशौ । ‘लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । पृञ्चन्ता ।' पृची संपर्के । शतरि रुधादित्वात् श्नम् । असोरल्लोपः इति अकारलोपः । प्रत्ययस्वरः । सुकृते । ‘सुकर्मपाप ' (पा. सू. ३. २.८९) इत्यादिना करोतेः भूते काले क्विप् । 'हस्वस्य पिति ' (पा. सू. ६. १. ७१ ) इति तुक् । सुदानवे। शोभनं दानु दानं यस्यासौ सुदानुः । दानुशब्दो नुप्रत्ययान्त आद्युदात्तः । ‘आद्युदात्तं द्व्यच्छन्दसि' इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् । सीदतम् । ‘षद्लृ विशरणगत्यवसादनेषु' ॥
“Let your coursers, the grace of the sacrifice, bring you to be present at our rite; guides (of men) bestowing food upon the pious and liberal donor (of the offering), sit down on the sacred grass.”
So let your coursers, ornaments of sacrifice, bring you to our libations here.
Bestowing food on him who acts and gives aright, sit, Chiefs, upon the sacred grass.
Turning this way, let your team, the glory of the rite, convey you to our soma-pressings.
Replenishing refreshment for the good (ritual) performer, and
possessing good drops, sit here on the ritual grass, o men.
Es fahr euch her das Fest-verschönende Gespann, recht nahe zu den Tränken hier, Dem Frommen Labung schenkend, gabenreiche ihr, setzt euch, o Männer, auf die Streu.
Euch sollen zu den Trankspenden die Rosse heranfahren, die das Opfer verschönen. Dem Frommen und Freigebigen Speisegenuß in Fülle gebend setzet euch auf das Barhis, ihr Herren!
Пусть привезут вас сюда кони –
Украшение жертвенного празднества, прямо на выжимание (сомы)!
Переполняя питательной силой благочестивого (и) щедрого,
Садитесь на жертвенную солому, о два мужа!
तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा । येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्व॒: सोम॑स्य पी॒तये॑ ॥
तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे॑न । सूर्य॑ऽत्वचा । येन॑ । शश्व॑त् । ऊ॒हथुः॑ । दा॒शुषे॑ । वसु॑ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥
हे नासत्या सूर्यत्वचा सूर्यसंवृतेन सूर्यरश्मिसदृशेन वा तेन प्रसिद्धेन रथेन आ गतं आगच्छतम् । दाशुषे हविर्दत्तवते यजमानाय वसु धनं शश्वत् सर्वदा येन रथेन ऊहथुः प्रापितवन्तौ । तेन रथेनेति पूर्वत्रान्वयः । किमर्थमागमनमिति तदुच्यते । मध्वः मधुरस्य सोमस्य पीतये सोमपानार्थम् ॥ सूर्यत्वचा। ‘त्वच संवरणे' । त्वचति संवृणोतीति त्वक् रश्मिः । सूर्यस्य त्वगिव त्वग्यस्य । ‘सप्तम्युपमान ' ( पा. सू. २. २. २४. १२) इत्यादिना बहुव्रीहिः उत्तरपदलोपश्च । सूर्यशब्दः ‘ षू प्रेरणे' इत्यस्मात् क्यपि ‘राजसूयसूर्यः' इत्यादिना रुडागमसहितो निपातितः । ततः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण शिष्यते । ऊहथुः । वह प्रापणे'। लिटि ' असंयोगाल्लिट् कित् ' ( पा. सू. १. २. ५) इति लिटः कित्त्वे ‘वचिस्वपि' इत्यादिना संप्रसारणम् । अभ्यासहलादिशेषौ सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥
“Come, Nāsatyas, with your sun-clad chariot, in which you have ever conveyed wealth to the donor (of the offering), to drink of the sweet Soma.”
Come, O Nasatyas, on your car decked with a sunbright canopy,
Whereon ye ever bring wealth to the worshipper, to drink the Soma's pleasant juice.
Nāsatyas, come by your sun-skinned chariot,
by which you have ever conveyed goods to the pious man, in order to drink of the honeyed soma.
O Treue, auf dem Wagen kommt, der sonnengleiche Decke hat, Auf dem ihr immer dem Verehrer Güter bringt, zum Trunk des süssen Somasafts.
Kommet auf dem Wagen mit der sonnenhellen Haut, ihr Asvin, auf dem ihr immer wieder dem Spender Gutes gebracht habt, zum Trunk des süßen Soma!
О Насатьи, выезжайте на той
Колеснице с солнечной кожей,
На которой постоянно вы возили добро почитающему (вас)
На питье сладкого сомы!
उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे । शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥
उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ । शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥
पुरूवसू प्रभूतधनावश्विनौ अवसे अस्मद्रक्षणार्थम् उक्थेभिः उक्थैः शस्त्रैः अर्कैश्च अर्चनसाधनैः स्तोत्रैश्च अर्वाक् अस्मदाभिमुख्येन नि ह्वयामहे नितरामाह्वयामः । हे अश्विना कण्वानां कण्वपुत्राणां मेधाविनां वा प्रिये सदसि यज्ञस्थाने शश्वत् सर्वदा सोमं पपथुः हि कं युवां पीतवन्तौ खलु ॥ उक्थेभिः । ‘बहुलं छन्दसि' इति भिसः ऐसादेशाभावः । बहुवचने झल्येत् । इति एत्वम् । अर्कैः । ऋच स्तुतौ ' ।“ पुंसि संज्ञायां घः प्रायेण ' इति करणे घः। चजोः कु धिष्ण्यतोः' इति कुत्वम् । नि ह्वयामहे। 'निसमुपविभ्यो ह्वः' (पा. सू. १.३.३०) इत्यात्मनेपदम्।
“We invoke with chanted and recited hymns, the very affluent Aśvins, to be present for our protection. Have you not ever drunk the Soma in the favoured dwelling of the Kaṇvas?”
With lauds and songs of praise we call them down to us, that they, most rich, may succour us;
For ye have ever in the Kanvas' well-loved house, O Asvins, drunk the Soma juice.
With our recitations and chants we call the two bringing many goods down this way for their help,
for surely you have always drunk soma at the dear seat of the Kaṇvas, Aśvins.
Wir rufen euch durch Sprüche und Gesänge her, zur Hülfe, güterreiche euch, Denn in dem lieben Sitz der Kanvasöhne trankt den Soma ihr, o Ritter, stets.
Mit Lobgedichten und Preisliedern rufen wir die Schätzereichen herbei, denn immer wieder habt ihr Asvin an dem lieben Sitz der Kanvas Soma getrunken.
Гимнами и хвалебными песнями сюда на помощь
Мы призываем двоих богатых добром –
Ведь постоянно на излюбленном месте Канвов
Вы пили сому, о Ашвины!