स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः । स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
स॒ह । वा॒मेन॑ । नः॒ । उ॒षः॒ । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । स॒ह । द्यु॒म्नेन॑ । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । रा॒या । दे॒वि॒ । दास्व॑ती ॥
हे दुहितर्दिवः द्युदेवतायाः पुत्रि उषः उषःकालदेवते नः अस्मदर्थं वामेन धनेन सह व्युच्छ प्रभातं कुरु । हे विभावरि उषोदेवते बृहता प्रभूतेन द्युम्नेन अन्नेन सह व्युच्छ। हे देवि त्वं दास्वती दानयुक्ता सती राया पशुलक्षणेन धनेन सह व्युच्छ । उच्छ । ' उछी विवासे । दुहितर्दिवः । ‘ सुबामन्त्रिते पराङ्गवत्स्वरे ' इत्यत्र ‘परमपि च्छन्दसि ' ( पा. सू. २. १. २. ६ ) इति वचनात् दिवः इत्यस्य पूर्वाङ्गवद्भावे सति ‘ आमन्त्रितस्य च ' इति षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । बृहता । ‘ बृहन्महतोरुपसंख्यानम् ' इति विभक्तेरुदात्तत्वम् । विभावरि । ‘ भा दीप्तौ । ‘ आतो मनिन् ' इत्यादिना वनिप् । वनो र च' इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशः । संबुद्धौ हृस्वत्वम् । दास्वती । डुदाञ् दाने '। भावे असुन्प्रत्ययः । तदस्यास्तीति दास्वती । ‘ मादुपधायाः' इति मतुपो वत्वम् ।' उगितश्च ' इति ङीप् ॥
“Uṣas, daughter of heaven, dawn upon us with riches; diffuser of light, dawn upon us with abundant food; bountiful goddess, dawn upon with wealth (of cattle).”
DAWN on us with prosperity, O Usas, Daughter of the Sky,
Dawn with great glory, Goddess, Lady of the Light, dawn thou with riches, Bounteous One.
Along with a thing of value, dawn forth to us, Daughter of Heaven, along with lofty brilliance, radiant goddess, along with wealth, (you who are) rich in gifts.
Mit schönem Gut, o Morgenroth, o Himmelstochter leuchte uns, O strahlenreiche, du mit grosser Herrlichkeit, mit Reichthum, Göttin, Geberin!
Mit Glück leuchte uns auf, Usas, Tochter des Himmels, mit hohem Glanze, mit Reichtum freigebig, du strahlende Göttin!
Со (всем) дорогим (для нас), о Ушас,
Воссвети нам, о дочь неба,
С высоким блеском, о ярко сияющая,
С богатством, о богиня, – (ведь ты) богатая дарами!
अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे । उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥
अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्व॒ऽसु॒विदः॑ । भूरि॑ । च्य॒व॒न्त॒ । वस्त॑वे । उत् । ई॒र॒य॒ । प्रति॑ । मा॒ । सू॒नृताः॑ । उ॒षः॒ । चो॒द॒ । राधः॑ । म॒घोना॑म् ॥
अश्वावतीः बह्वश्वोपेताः गोमतीः बहुभिर्गोंभिर्युक्ताः विश्वसुविदः कृत्स्नस्य धनस्य सुष्ठु लम्भयित्र्यः उषोदेवताः वस्तवे प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवन्त प्राप्ताः । हे उषोदेवते मा प्रति मामुद्दिश्य सूनृताः प्रियहितवाचः उदीरय ब्रूहि। मघोनां धनवतां संबन्धि राधः धनं चोद अस्मदर्थं प्रेरय ॥ अश्वावतीः । ‘ मन्त्रे सोमश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा. सू. ६. ३. १३१ ) इति पूर्वपदस्य दीर्घत्वम् । वा छन्दसि ' इति पूर्वसवर्णदीर्घनिषेधस्य पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । च्यवन्त । ‘ च्युङ् गतौ । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि' इति अडभावः । वस्तवे। वस निवासे। तुमर्थे सेसेन्' इति तवेन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम् । ईरय। ईर गतौ कम्पने च'। हेतुमति णिच् । चोद।' चुद संचोदने । चौरादिकः। लोटि ‘छन्दस्युभयथा' इति शपः आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वात् निघाताभावः । मघोनाम् । षष्ठीबहुवचने ‘श्वयुवमघोनामतद्धिते' (पा. सू. ६. ४. १३३) इति संप्रसारणम् ॥
“Abounding with horses, abounding with kine, bestowers of every sort of wealth, (the divinities of morning) are possessed of much that is necessary for the habitations (of men); Uṣas, speak to me kind words; send us the affluence of the wealthy.”
They, bringing steeds and kine, boon-givers of all wealth, have oft sped forth to lighten us.
O Usas, waken up for me the sounds of joy: send us the riches of the great.
Possessing horses and cows, finding all goods in abundance, (the dawns) bestir themselves to shine.
Arouse liberalities toward me, o Dawn; stimulate the generosity of the benefactors.
An Rossen reich und Rindern, spendend alles Gut sind oft zum Leuchten sie genaht; So send' auch du mir reiches Gut, o Morgenroth; die Fürsten treib zum Schenken an.
Rossereich, rinderreich, alle Schätze verschaffend, geben sie sich viele Mühe, um aufzuleuchten. Hole für mich Schenkungen heraus, o Usas; sporne die Freigebigkeit der Lohnherren an!
Богатые конями, богатые коровами, легко все находящие (зори)
Стремятся сильно сиять.
Приведи в движение ко мне богатые дары, о Ушас,
Возбуди у щедрых дарителей готовность давать!
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् । ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यव॑: ॥
उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् । ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥
उषाः देवी उवास पुरा निवासमकरोत् प्रभातं कृतवतीत्यर्थः । च नु अद्यापि उच्छात् व्युच्छति प्रभातं करोति । कीदृशी देवी । रथानां जीरा प्रेरयित्री उषःकाले हि रथाः प्रेर्यन्ते । अस्याः उषसः आचरणेषु आगमनेषु ये रथाः दध्रिरे धृताः सज्जीकृता भवन्ति तेषां रथानामिति पूर्वत्रान्वयः । रथप्रेरणे दृष्टान्तः । श्रवस्यवः धनकामाः समुद्रे न यथा समुद्रमध्ये नावः सज्जीकृत्य प्रेरयन्ति तद्वत् ॥ उवास। ‘वस निवासे । णलि ‘ लिट्यभ्यासस्योभयेषाम् ' (पा. सू. ६. १. १७ ) इति अभ्यासस्य संप्रसारणम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । उच्छात् । लेटि आडागमः । ‘ इतश्च लोप: ' इति इकारलोपः । तुदादित्वात् शप्रत्ययः । आगमानुदात्तत्वे प्रत्ययस्वरः । उषाः इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य निघातो न भवति, ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' ( पा. सू. ८. १. १८. ५) इति वचनात् । जीरा । जु इतिं गत्यर्थः सौत्रो धातुः । ‘ जोरी च ' ( उ. सू. २. १८१ ) इति रक्प्रत्ययः । अस्याः । इदमोऽन्वादेशे॰ ' इति अशादेशोऽनुदात्तः विभक्तिरपि सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम्। आचरणेषु । चर गत्यर्थः । ‘ ल्युट् च ' (पा. सू. ३. ३. ११५ ) इति भावे ल्युट् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृति स्वरत्वम्। दध्रिरे । 'धृङ् अवस्थाने '। लिटः कित्त्वाद्गुणाभावे यणादेशः । चित्त्वादन्तोदात्तत्वम् । यच्छब्दयोगादनिघातः । श्रवस्यवः । श्रूयते इति श्रवो धनम् । असुन्। तदात्मन इच्छन्तीति श्रवस्यवः । ‘ सुप आत्मनः क्यच् । क्याच्छन्दसि ' इति उप्रत्ययः ॥
“The divine Uṣas has dwelt (in heaven of old); may she dawn today, the excitress of chariots which are harnessed at her coming, as those who are desirous of wealth (send ships) to sea.”
Usas hath dawned, and now shall dawn, the Goddess, driver forth of cars
Which, as she cometh nigh, have fixed their thought on her, like glory-seekers on the flood.
Dawn has dawned (before) and will dawn now—the lively goddess of the chariots.
Those who hold themselves (ready [for giving]) at her approaches, as those who seek fame on the sea hold themselves (firm),
Sie hat gestrahlt und strahle nun, die Morgengöttin, Treiberin Der Wagen, die die Bahn verfolgen, wenn sie naht, wie Schatzbegier'ge auf dem Meer.
Usas ist früher aufgeleuchtet und die Göttin wird auch jetzt aufleuchten, die Wagen in Bewegung setzend, die auf ihr Kommen gewartet haben wie die auf Ruhmestaten ausgehenden Seefahrer auf die Meeresflut.
Ушас светила (всегда), и теперь она будет светить,
Богиня – вдохновительница колесниц,
Которые держались наготове к ее приходам,
Как жаждущие добычи (мореходы) – (к выходу) в море.
उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रय॑: । अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ । अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥
हे उषः ते तव यामेषु गमनेषु सत्सु ये सूरयः विद्वांसः दानाभिज्ञाः दानाय धनादिदानार्थं मनः स्वकीयं प्र युञ्जते प्रेरयन्ति। दानशीला उदाराः प्रभवः प्रातःकाले दातुमिच्छन्तीत्यर्थः । एषां दातुमिच्छतां नृणां तत् नाम दानविषये लोकप्रसिद्धं नाम कण्वतमः अतिशयेन मेधावी कण्वः महर्षिः अत्राह अत्रैव उषःकाले गृणाति उच्चारयति । यो दातुमिच्छति यश्च नामग्रहणेन दातारं प्रशंसति तावुभावप्युषःकाले एव तथा कुरुत इत्युषसः स्तुतिः ॥ गृणाति । ‘गॄ शब्दे'। क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति हस्वत्वम् । नृणाम् । नामि ‘नृ च ' (पा. सू. ६. ४. ६ ) इति दीर्घप्रतिषेधः । नृ चान्यतरस्याम्' (पा. सू. ६. १. १८४ ) इति विभक्तेरुदात्तत्वम् ॥
“Uṣas, at your comings wise men turn their minds to benefactions; of these men, the most wise Kaṇva proclaims the fame.”
Here Kanva, chief of Kanva's race, sings forth aloud the glories of the heroes' names,--
The. princes who, O Usas, as thou comest near, direct their thoughts to liberal gifts.
And, o Dawn, those who at your journeys yoke their mind for giving— the patrons—
here (the poet) Kaṇva, the latest of Kaṇvas, sings their names, the names of those superior men.
Der Fürsten, die, o Morgenroth, bei deinem Nahn zum Schenken wenden ihren Sinn, Ja deren Namen preiset hier der Kanvaspross, der Männer Kanva-ähnlichster.
O Usas! Kanva, der erste der Kanva´s, preist hier den Namen der Männer die als freigebige Patrone bei deiner Ausfahrt ihren Sinn aufs Schenken einstellen.
О Ушас, те богатые жертвователи, что при выездах твоих запрягают
(Свою) мысль для дарения, –
Вот тут Канва, лучший из Канвов,
Воспевает имя этих людей.
आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती । ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिण॑: ॥
आ । घ॒ । योषा॑ऽइव । सू॒नरी॑ । उ॒षाः । या॒ति॒ । प्र॒ऽभु॒ञ्ज॒ती । ज॒रय॑न्ती । वृज॑नम् । प॒त्ऽवत् । ई॒य॒ते॒ । उत् । पा॒त॒य॒ति॒ । प॒क्षिणः॑ ॥
उषाः देवी प्रभुञ्जती प्रकर्षेण सर्वं पालयन्ती आ याति घ प्रतिदिनमागच्छति खलु । तत्र दृष्टान्तः । सूनरी सुष्ठु गृहकृत्यस्य नेत्री योषेव गृहिणीव । कीदृशी उषाः । वृजनं गमनशीलं जङ्गमं प्राणिजातं जरयन्ती जरां प्रापयन्ती । असकृदुषस्यावृत्तायां वयोहान्या प्राणिनो जीर्णा भवन्ति । किच उषःकाले पद्वत् पादयुक्तं प्राणिजातम् ईयते निद्रां परित्यज्य स्वस्वकृत्यार्थं गच्छति । किं च इयमुषाः पक्षिणः उत्पातयति। पक्षिणो ह्युषःकाले समुत्थाय तत्र तत्र व्रजन्ति ॥. घ । ऋचि तुनुघ°' इत्यादिना संहितायां दीर्घः । सुष्ठु नयतीति सूनरी । ‘ नॄ नये '। अच इः' इति इप्रत्ययः । गतिसमासे ‘ कृद्ब्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ' (परिभा. २८) इति वचनात् “ कृदिकारादक्तिनः' (पा. सू. ४. १. ४५ ग.) इति ङीष् । परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । ‘ निपातस्य च ' इति पूर्वपदस्य दीर्घः । प्रभुञ्जती । भुज पालनाभ्यवहारयोः ' । लटः शतृ । रुधादित्वात् श्नम्। ‘ श्वसोरल्लोपः' इति अकारलोपः। ‘ उगितश्च ' इति ङीप् ।' ‘ शतुरनुमः० ' इति नद्या उदात्तत्वम् । वृजनम् । वृजी वर्जने ' । वर्ज्यते इति वृजनं प्राणिजातम् । ‘ कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः',( उ. सू. २. २३९ ) इति क्युप्रत्ययः । कित्त्वात् , लघूपधगुणाभावः । योरनादेशे प्रत्ययस्वरः। पद्वत् । पत् पादः तदस्यातीति पद्वत् । ‘ झयः' इति मतुपो वत्वम् । व्यत्ययेन मतुप उदात्तत्वम् । न च ' स्वरविधौ व्यञ्जनमविद्यमानवत् ' (परिभा. ७९) इति व्यञ्जनस्य अविद्यमानवत्त्वे सति ‘ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वमिति वाच्यम् । ह्रस्वादित्त्येव सिद्धे पुनर्नुड्ग्रहणसामर्थ्यादेषा परिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ ) । इतरथा हि मरुत्वान् इत्यत्रापि मतुप उदात्तत्वं स्यात् ॥ ॥ ३ ॥
“Uṣas, nourishing (all), comes daily like a matron, the directress (of household duties), conducting all transient (creatures) to decay; (at her coming) each biped stirs and she wakes up the birds.”
Like a good matron Usas comes carefully tending everything:
Rousing all life she stirs all creatures that have feet, and makes the birds of air fly up.
Liberal-spirited Dawn drives here, giving delight like a maiden.
Wakening the footed community, she speeds along. She makes the
winged ones fly up.
Erfreuend kommt das Morgenroth, wie eine jugendliche Maid; Was Füsse hat, zum Werk erweckend eilet sie und treibt zum Flug die Vögel an.
Die Usas kommt Gutes tuend wie eine edle junge Frau. Die Schar dessen, was Füße hat, erweckend naht sie; die Vögel treibt sie zum Aufflug.
Вот, словно прекрасная женщина,
Приближается Ушас, доставляя наслаждение.
Она идет, пробуждая род двуногих,
По ее велению взлетают птицы.
वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिन॑: प॒दं न वे॒त्योद॑ती । वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
वि । या । सृ॒जति॑ । सम॑नम् । वि । अ॒र्थिनः॑ । प॒दम् । न । वे॒ति॒ । ओद॑ती । वयः॒ । नकिः॑ । ते॒ । प॒प्ति॒वांसः॑ । आ॒स॒ते॒ विऽउ॑ष्टौ वा॒जि॒नी॒ऽव॒ति॒ ॥
या देवता समनं समीचीनचेष्टावन्तं पुरुषं वि सृजति प्रेरयति । गृहारामादिचेष्टाकुशलान् पुरुषान् उषःकालः शयनादुत्थाप्य स्वस्वव्यापारे प्रेरयतीति प्रसिद्धम् । किंच उषा: अर्थिनः याचकान् वि सृजति । तेऽपि ह्युषःकाले समुत्थाय स्वकीयदातृगृहे गच्छन्ति । ओदती उषोदेवता पदं स्थानं न वेति न कामयते । उषःकालः शीघ्रं गच्छतीत्यर्थः । हे वाजिनीवति उषोदेवते ते व्युष्टौ त्वदीये प्रभातकाले पप्तिवांसः पतनयुक्ता वयः पक्षिणः नकिः आसते न तिष्ठन्ति । किंतु स्वस्वनीडाद्विनिर्गत्य गच्छन्तीत्यर्थः ॥ सृजति। ‘ सृज विसर्गे '। तुदादित्वात् शः । तस्य ङित्त्वात लघूपधगुणाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । ओदती । ‘ उन्दी क्लेदने । उनत्ति सर्वं नीहारेण इति ओदती उषाः । शतरि व्यत्ययेन शप् । व्यत्ययेन अनुनासिकलोपे लघूपधगुणः । ‘ उगितश्च' इति ङीप् । आगमानुशासनस्यानित्यत्वात् नुमभावः । शपः पित्त्वादनुदात्तत्वम्। शतुः अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । न च ‘ शतुरनुमः । इति नद्या उदात्तत्वम् , अन्तोदात्तात् शतुः परस्यास्तद्विधानात् । नकिष्टे । ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम् इति षत्वम् । पप्तिवांसः । ‘ पत्लृ गतौ । लिटः क्वसुः । क्रादिनियमात् प्राप्त इट् ‘ वस्वेकाजाद्धसाम् इति नियमात् न प्राप्नोति । तत्क्रियते सर्वविधीनां छन्दसि विकल्पितत्वात्। तनिपत्योश्छन्दसि' (पा. सू. ६. ४. ९९ ) इति उपधालोपः। ‘ द्विर्वचनेऽचि ' इति स्थानिवद्भावात् द्विर्भावः । प्रत्ययस्वरः । वाजिनीवति । वाजोऽन्नमस्या अस्तीति वाजिनी क्रिया । मत्वर्थीय इनिः । ‘ ऋन्नेभ्यः० ' इति ङीप् । तादृशी क्रिया यस्याः सा । तदस्यास्ति' इति मतुप् ।' संज्ञायाम् ' इति मतुपो वत्वम् ॥
“She animates the diligent, and sends clients (to their patrons); and shedder of dews, knows not delay; bestower of food, at your rising the soaring birds no longer suspend (their flight).”
She sends the busy forth, each man to his pursuit: delay she knows not as she springs.
O rich in opulence, after thy dawning birds that have flown forth no longer rest.
She who disperses the assembly, disperses the busy ones, she follows (them) like a track—she moist (with dew) [/lubricious].
The birds, having flown at your dawning, do not settle, o you who are rich in prize mares.
Sie treibt die Festversammlung, treibt die Händler an und wendet wallend nicht den Schritt; Bei deinem Leuchten halten nie die Vögel Rast in ihrem Flug, o reiche du!
Die die Schlacht entfesselt und die Geschäftigen aussendet, sie läuft gleichsam lüstern der Spur der Männer nach.
(Та,) что побуждает к встречам, по(буждает) (людей,) занятых делом,
Словно по следу (мужчин) идет, сладострастная.
Птицы не устают летать,
Когда ты загораешься, о щедрая наградами!
ए॒षायु॑क्त परा॒वत॒: सूर्य॑स्यो॒दय॑ना॒दधि॑ । श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
ए॒षा । अ॒यु॒क्त॒ । प॒रा॒ऽवतः॒ । सूर्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ । श॒तम् । रथे॑भिः । सु॒ऽभगा॑ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु॑षान् ॥
एषा उषोदेवी शतम् अयुक्त स्वकीयानां रथानां शतं योजितवती । सुभगा सौभाग्ययुक्ता इयम् उषाः परावतः दूरस्थात् सूर्यस्योदयनादधि सूर्योदयस्थानादधिकात् द्युलोकात् मानुषान् अभि मनुष्यानुद्दिश्य रथेभिः शतसंख्याकैः युक्तैः रथैः वि याति विशेषेण गच्छति ॥ अयुक्त। लुङि ‘ झलो झलि' (पा. सू. ८, २. २६) इति सिचो लोपः । उदयनात् । उदेत्यत्रेति उदयनम् । इण् गतौ । अधिकरणे ल्युट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुभगा। शोभनी भगो यस्याः सा । ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । मानुषान् । मनोः पुत्रा मानुषाः । ‘ मनोर्जातावञ्यतौ षुक् च ' इति अञ् षुगागमश्च । ञित्त्वादाद्युदात्तत्वम् ॥
“This auspicious Uṣas has harnessed (her vehicles) from afar, above the rising of the sun; and she comes gloriously upon man, with a hundred chariots.”
This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
This one has hitched herself up from out of the distance, from (the place of) the rising of the sun.
With a hundred chariots, this well-portioned Dawn drives out
toward men.
Sie hat von fern sich aufgemacht, dort von der Sonne Aufgang her, Mit hundert Wagen fährt sie zu den Menschen rings, die Morgenröthe, segensreich.
Sie hat (zur Fahrt) aus der Ferne angespannt, von der Sonne Aufgang her. Mit hundert Wagen zieht diese glückbringende Usas zu den Menschen aus.
Она запрягла коней издалека –
От восхода солнца.
Выезжает к людям
На сотне колесниц эта приносящая счастье Ушас.
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिध॑: ॥
विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ । अप॑ । द्वेषः॑ । म॒घोनी॑ । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥
विश्वं सर्वं जगत् जङ्गमं प्राणिजातम् अस्याः उषसः चक्षसे प्रकाशाय ननाम प्रह्वीभवति । रात्रौ तमसि निमग्नाः सर्वे जनास्तन्निवारयित्रीमुषसमुपलभ्य नमस्कुर्वन्तीत्यर्थः । कुतः । यस्मादेषा सूनरी सुष्ठु नेत्री अभिमतफलस्य प्रापयित्री उषाः ज्योतिष्कृणोति सर्वं प्रकाशयति । किंच मघोनी मघवती धनवती दिवः दुहिता द्युलोकसकाशादुत्पन्ना उषाः द्वेषः द्वेष्टन् अप उच्छत् अपवर्जयति । तथा स्रिधः शोषयितॄन् अप उच्छत् अपवर्जयति । तस्मादिष्टप्राप्त्यनिष्टपरिहारहेतुभूतामुषोदेवतां विश्वं जगन्नमस्करोतीत्यर्थः ॥ अस्याः । ‘ इदमोऽन्वादेशे० ' इति अशादेशः अनुदात्तः विभक्तिश्च सुप्त्वादनुदात्तेति सर्वांनुदात्तत्वम् । ननाम । संहितायाम् । अन्येषामपि दृश्यते ' इति अभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजानः इत्यादाविव पदकालेऽपि दीर्घः श्रूयेत । ज्योतिः । ‘ इणः षः ' इत्यनुवृत्तौ ‘ इसुसोः सामर्थ्ये ' ( पा. सू. ८, ३. ४४ ) इति विसर्जनीयस्य षत्वम् । द्वेषः । ‘ द्विष अप्रीतौ । अन्येभ्योऽपि दृश्यन्ते' इति विच् । लघूपधगुणः । मघोनी। मघं वनति संभजते इति मघोनी । ' श्वन्नुक्षन् ' इत्यादिना मघवञ्शब्दः कनिन्प्रत्ययान्तौ निपातितः । स्त्रियाम् ‘ ऋन्नेभ्यो ङीप्' इति ङीप् । भसंज्ञायां । श्वयुवमघोनामतद्धिते ' इति संप्रसारणम् । उच्छत् । ‘ उछी विवासे । विवासो वर्जनम् । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् । बहुलं ‘ छन्दस्यमाङ्योगेऽपि ' इति अडागमाभावः । स्रिधः । ‘ स्रिधु शोषणे'। क्विप् च ' इति क्विप् ॥
“All living beings adore her, that she may be visible; bringer of good, she lights up the world; the affluent daughter of heaven drives away the malevolent and disperses the absorbers (of moisture).”
To meet her glance all living creatures bend them down: Excellent One, she makes the light.
Usas, the Daughter of the Sky, the opulent, shines foes and enmities away.
Every moving creature bows before her gaze. The spirited one
creates light. Dawn, the bounteous Daughter of Heaven, dawns away hatred, away failures.
Es neigt die ganze Welt sich ihrem Anblick zu, die jugendliche schaffet Licht; Die reiche Himmelstochter strahle weg den Hass, die Feinde weg das Morgenroth.
Alles was lebt, beugt sich ihrem Anblick; Licht macht die Edle. Die freigebige Tochter des Himmels Usas soll die Anfeindung, die Fehlschläge hinweg leuchten.
Весь движущийся мир склонился пред ее видом.
Прекрасная создает свет.
Да про(гонит светом) враждебность щедрая дочь неба!
Да прогонит Ушас светом (наши) промахи!
उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः । आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
उषः॑ । आ । भा॒हि॒ । भा॒नुना॑ । च॒न्द्रेण॑ । दु॒हि॒तः॒ । दि॒वः॒ । आ॒ऽवह॑न्ती । भूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । वि॒ऽउ॒च्छन्ती॑ । दिवि॑ष्टिषु ॥
हे दिवः दुहितः द्युलोकस्य पुत्रि उषः उषोदेवते चन्द्रेण सर्वेषामाह्लादकेन भानुना प्रकाशेन आ समन्तात् भाहि प्रकाशस्व । किं कुर्वती । दिविष्टिषु दिवसेषु भूरि प्रभूतं सौभगं सौभाग्यम् अस्मभ्यम् आवहन्ती संपादयन्ती । तथा व्युच्छन्ती तमांसि वर्जयन्ती ॥ उषः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । दुहितर्दिवः । ‘ परमपि च्छन्दसि ' इति दिवः इत्यस्य परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । आवहन्ती । ङीप्शपौ पित्त्वादनुदातौ । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेणानुदात्तत्वम् । अतो धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । भूरि । प्रभवति न विनश्यतीति भूरि । ‘ अदिशदिभूशुभिभ्यः क्रिन्' (उ.सू. ४. ५०५) इति क्रिन् । नित्त्वादाद्युदात्तत्वम् । सुभगस्य भावः सौभगम् । सुभगान्मन्त्रे इति उद्गात्रादिषु पाठात् अञ्प्रत्ययः । ‘ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धौ प्राप्तायां ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् अत्रोत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् . ( का. ७, ३. १९ )। व्युच्छन्ती । ' उछी विवासे'। विवासो वर्जनम् । तौदादिकः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । दिविष्टिषु । दिव्शब्देन दिविष्ठः आदित्यो लक्ष्यते । तस्य इष्टयः एषणानि गमनानि येषु दिवसेषु ते दिविष्टयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Shine around, Uṣas, with cheering lustre, bringing us every day much happiness, and scattering darkness.”
Shine on us with thy radiant light, O Usas, Daughter of the Sky,
Bringing to us great store of high felicity, and beaming on our solemn rites.
O Dawn, be radiant here with your glittering radiance, o Daughter of Heaven,
conveying hither abundant good fortune for us, dawning forth at the rituals of daybreak.
O Himmelstochter strahle her mit hellem Glanz, o Morgenroth, Und führe du uns vieles schöne Glück herbei, aufleuchtend bei dem Opferfest.
Usas! Leuchte her mit deinem schimmernden Licht, Tochter des Himmels! Viel Glück bringe uns mit, wenn du bei den Opfern des heutigen Tages aufleuchtest!
О Ушас, сияй (своим) светлым
Сиянием, о дочь неба,
Привозя нам большое счастье,
Светя на жертвоприношениях, ищущих неба!
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ । सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । श्रु॒धि । चि॒त्र॒ऽम॒घे॒ । हव॑म् ॥
हे सूनरि उषोदेवि विश्वस्य प्राणिजातस्य प्राणनं चेष्टनं जीवनं प्राणधारणं च त्वे हि त्वय्येव वर्तते । यत् यस्मात् त्वं वि उच्छसि तमो वर्जयसि । हे विभावरि विशिष्टप्रकाशयुक्ते सा तादृशी त्वं नः अस्मान्प्रति बृहता प्रौढेन रथेन आयाहीति शेषः । तथा हे चित्रामघे विचित्रधनयुक्ते उषोदेवि नः अस्मदीयं हवम् आह्वानं श्रुधि शृणु ॥ प्राणनम् ।' अन चेष्टायाम् ।' ल्युट् च ' इति भावे ल्युट्। योरनादेशः । समासे ' अनितेः' (पा. सू. ८. ४. १९) इति उपसर्गस्थात् रकारात् निमित्तात् उत्तरस्य नकारस्य णत्वम् । ननु ‘ अनितेः' इति इटा निर्देशात् कथम् ‘ अन चेष्टायाम् इत्यस्य णत्वम् । तर्हि जीवनस्य पृथगुपादानात् तेनैव धातुना चेष्टा लक्ष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । संहितायाम् एकादेशस्वरेण एकादेशस्योदात्तत्वम् । त्वे । ‘ सुपां सुलुक्° ' इति सप्तम्याः शेआदेशः । उच्छसि । 'उछी विवासे । तौदादिकः। सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । ‘ निपातैर्यद्यदिहन्त ' इति निघातप्रतिषेधः । सूनरि । सुष्ठु जयतीति सूनरी। ‘नॄ नये ' इत्यस्मात् ' अच इः' इति औणादिक इप्रत्ययः । गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् ‘कृदिकारदक्तिनः इति ङीष् ।' निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम् । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वे प्राप्ते आमन्त्रितस्य च ' इति आष्टमिको निघातः । विभावरि। विशिष्टा भा यस्याः सा । ‘ छन्दसीवनिपौ' (पा. सू. ५, २. १०९. २) इति मत्वर्थीयो वनिप् । वनो र च ' इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशश्च । श्रुधि । ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । हेरपित्त्वेन प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वात् निघाताभावः । मघम् इति धननाम । चित्रं मघं यस्याः सा चित्रामघा । ‘ अन्येषामपि दृश्यते' इति संहितायां पूर्वपदस्य दीर्घत्वम् । हवम् । ‘ह्वेञ् स्पर्धायां शब्दे च'। ‘ भावेऽनुपसर्गस्य ' इति अप्प्रत्ययः; तत्संनियोगेन संप्रसारणं च ॥ ॥ ४ ॥
“Inasmuch, bringer of good, as you dawn, the breath and life of all (creatures) rest in you; diffuser of light, come to us with your spacious car; possessor of wondrous wealth, hear our invocation.”
For in thee is each living creature's breath and life, when, Excellent! thou dawnest forth.
Borne on thy lofty car, O Lady of the Light, hear, thou of wondrous wealth, our call.
For the breathing and living of all is in you, when you dawn forth, spirited one.
With your lofty chariot, radiant one, heed our call, you of bright
bounty.
Denn jedes Wesens Hauch und Leben ist in dir, wenn du erstrahlst, o herrliche; Die du mit hohem Wagen hell dich zeigst, hör, gabenreiche, unsern Ruf,
Denn Atmen und Leben der ganzen Welt ist in dir, wenn du aufleuchtest, du Edle. Auf hohem Wagen erhöre du unseren Ruf, du strahlende mit prächtigen Gaben!
Ведь дыхание и жизнь всего – в небе,
Когда ты светишь, о прекрасная!
На высокой колеснице, о ярко сияющая,
Услышь наш зов, о обладательница ярких даров!
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ । तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥
हे उषः वाजं हविर्लक्षणमन्नं हि श्रुतिषु प्रसिद्ध वंस्व याचस्व स्वीकुर्वित्यर्थः । यः वाजः चित्रः चायनीयः मानुषे मनुष्ये जने जाते यजमाने वर्तते तं वाजमिति पूर्वत्रान्वयः । तेन कारणेन सुकृतः सुष्ठु कृतवतो यजमानान् अध्वरान हिंसारहितान् यागान उप आ वह प्रापय । ये यजमानाः वह्नयः यज्ञनिर्वाहकाः त्वा त्वां गृणन्ति स्तुवन्ति तान् सुकृत इति पूर्वेण संबन्धः । एतदुक्तं भवति । यजमानैः प्रत्तं हविः स्वीकृत्य पुनरपि तेषां यज्ञं संपादयेति ॥ वाजम् । वज व्रज गतौ । कर्मणि घञ् ।' अजिव्रज्योश्च ' ( पा. सू. ७. ३. ६० ) इत्यत्र चशब्दस्य अनुक्तसमुच्चयार्थत्वात् वाजो वाज्यमित्यत्रापि कुत्वाभाव इति वृत्तावुक्तत्वात् कुत्वाभावः। ‘ कर्षात्वतः० ' इत्यन्तोदात्तत्वे प्राप्ते वृषादित्वादाद्युदात्तत्वम् । वंस्व । ‘ वनु याचने '। अत्र याचनवाचिना धातुना तदुत्तरभावी स्वीकारो लक्ष्यते । बहुलं छन्दसि ' इति विकरणस्य लुक् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । सुकृतः । ‘ सुकर्मपाप ' इत्यादिना करोतेः भूतार्थे क्विप् । तुगागमः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अध्वरान् । ध्वरो हिंसा नास्त्यस्मिन्निति बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अध्वरान् इत्यस्य ईप्सिततमत्वात् कर्तुरीप्सिततमम् ' ( पा. सू. १. ४. ४९ ) इति कर्मसंज्ञा, सुकृत इत्यस्य तु • अकथितं च ' ( पा. सू. १. ४. ५१ ) इति, नीवह्योर्हरतेश्च ' ( पा. म. १. ४, ५१ ) इति द्विकर्मकेषु वहतेः परिगणितत्वात्। अध्वरान् इत्यत्र नकारस्य संहितायां ' दीर्घादटि° ' इति रुत्वम् । अतोऽटि नित्यम्' इति पूर्वस्य आकारस्य सानुनासिकता । गृणन्ति । गॄ शब्दे । क्र्यादिभ्यः श्ना'। प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । श्नाभ्यस्तयोरातः' इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥
“Uṣas, accept the (sacrificial) food which of many kinds exists among the human race, and thereby bring to the ceremony the pious, who offering oblations, praise you.”
O Usas, win thyself the strength which among men is wonderful.
Bring thou thereby the pious unto holy rites, those who as priests sing praise to thee.
Dawn, do win the prize, which is bright for the human race.
With it convey those of good action [=gods] here to the ceremonies, to those of good action [=sacrificers] who (as oblation-)conveyors sing to you.
Gib Reichthum denn, o Morgenroth, der herrlich bei den Menschen glänzt, Mit diesem fahre zu des Frommen Opfern her, zu dem, der dir Gesänge weiht.
So gewinne denn, o Usas, den Siegerpreis, der unter dem Menschenvolk Aufsehen macht! Mit dem fahre her zu den Opfern des Frommen, zu den Opferleitern, die dich preisen!
О Ушас, добудь же награду,
Которая блестела бы у рода человеческого!
С нею привози (богов) к благочестивым на жертвоприношения,
К (тем) исполнителям обряда, что тебя воспевают!
विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑ऽपीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् । सा । अ॒स्मासु॑ । घाः॒ । गोऽम॑त् । अश्व॑ऽवत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒ऽवीर्य॑म् ॥
हे उषः त्वं सोमपीतये सोमपानाय अन्तरिक्षात् अन्तरिक्षलोकात् विश्वान् सर्वान् देवान् आ वह अस्मदीयं देवयजनदेशं प्रापय । हे उषः सा तादृशी त्वं गोमत् गोमन्तं बहुभिर्गोभिर्युक्तं अश्वावत् अश्वैरुपेतम् उक्थ्यं प्रशस्यं सुवीर्यं शोभनवीर्योपेतं वाजम् अन्नम् अस्मासु धाः निधेहि स्थापयेत्यर्थः ॥ धाः । दधातेः छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङ् । गातिस्था० ) इति सिचो लुक् । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । गोमत् । अश्वावत् । मन्त्रे सोमाश्वेन्द्रिय ' इति मतुपि दीर्घत्वम् । उभयत्र ‘सुपां सुलुक् । इति विभक्तेर्लुक् । उक्थ्यम् । उक्थं स्तोत्रम् । तत्र भवमुक्थ्यम् । ‘भवे छन्दसि ' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति ‘ यतोऽनावः' इत्याद्युदात्तत्वाभावे ‘ तित्स्वरितम् ' इति स्वरितत्वम् । उषः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वात् निघाताभावः । सुवीर्यम् । शोभनं वीर्यं यस्य । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Uṣas, bring from the firmament all the gods, to drink the Soma, and to you yourself bestow upon us excellent and invigorating food, along with cattle and horses.”
Bring from the firmament, O Usas, all the Gods, that they may drink our Soma juice,
And, being what thou art, vouchsafe us kine and steeds, strength meet for praise and hero might.
Convey all the gods here for soma-drinking from the midspace, o Dawn. Establish in us a mass of cows and of horses, worthy of praise, o Dawn, also victory’s prize and good heroes en masse.
Zum Somatrunke fahr die Götter alle her, o Morgenröthe, aus der Luft, Und gib uns werthes ross- und rinderreiches Gut und Heldenkraft, o Morgenroth.
Alle Götter fahr zum Somatrunk aus dem Luftreich her, o Usas! Bring du uns Rinderbesitz, Rossebesitz, preislichen, o Usas, den Ehrenpreis und die Meisterschaft!
Всех богов ты, Ушас, привози
На питье сомы из воздушного пространства!
Дай нам владеть коровами, владеть конями, о Ушас,
Наградой, достойной гимна, богатством из мужей!
यस्या॒ रुश॑न्तो अ॒र्चय॒: प्रति॑ भ॒द्रा अदृ॑क्षत । सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत । सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥
यस्याः उषसः अर्चयः प्रकाशाः रुशन्तः शत्रून् हिंसन्तः भद्राः कल्याणाः प्रति अदृक्षत प्रतिदृश्यन्ते, सा तथाभूता उषाः नः अस्मभ्यं रयिं ददातु । कीदृशं रयिम् । विश्ववारं विश्वस्य वारकम् । यद्वा । विश्वैर्वरणीयम्। सुपेशसम् । पेश इति रूपनाम। शोभनरूपोपेतं सुग्म्यं सुष्ठु गन्तव्यम् । यद्वा । सुग्म्यमिति सुखनाम । तद्धेतुत्वात् ताच्छब्द्यम् ॥ रुशन्तः । रुश रिश हिंसायाम् । शतरि तुदादित्वात् शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे सतिशिष्टत्वात् विकरणस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अदृक्षत । दृशेः कर्मणि लुङि झस्य अदादेशः । च्लेः सिच् । ' न दृशः ' ( पा. सू. ३. १. ४७ ) इति क्सप्रतिषेधः । ‘ एकाचः° ' इति इट्प्रतिषेधः । ‘ लिङ्सिचावात्मनेपदेषु ' (पा. सू. १. २. ११) इति सिचः कित्त्वात् लघूपधगुणाभावः । ‘ सृजिदृशोर्झल्यमकिति ' ( पा. सू. ६. १.५८ ) इति अमागमाभावश्च कित्वादेव । षत्वकत्वषत्वानि । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । विश्ववारम् । विश्वं वृणोतीति विश्ववारः । ‘ वृञ् वरणे । कर्मणि अण् । यद्वा । विश्वैर्व्रियते इति विश्ववारः । कर्मणि घञ् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुग्म्यम् । सुष्ठु गन्तव्यः सुग्मः । गमेः ‘ घञर्थे कविधानम्° ' इति कप्रत्ययः । ‘ गमहन° इत्यादिना उपधालोपः। तत्र भवं सुग्म्यम्। ‘ भवे छन्दसि ' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् ॥
“May that Uṣas whose bright auspicious rays are visible all around, grant us desirable, agreeable, and easily-attainable riches.”
May Usas whose auspicious rays are seen resplendent round about,
Grant us great riches, fair in form, of all good things, wealth which light labour may attain.
She whose gleaming, auspicious rays have appeared opposite,
let her—Dawn—give us all-desirable wealth, well ornamented, easy to come by.
Sie, deren helle Strahlen nun, die prächtigen, erschienen sind, Die Morgenröthe schenk uns güterreichen Schatz von schönem Glanz und schönem Heil.
Deren helle Strahlen glückbringend erschienen sind, die Usas soll uns allbegehrten, ausgezeichneten Reichtum geben, bei dem man gut fährt.
Чьи сверкающие лучи
Показались, благотворные, –
Та Ушас пусть даст нам богатство,
Для всех желанное, чудесно украшенное, легко приходящее!
ये चि॒द्धि त्वामृष॑य॒: पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि । सा न॒: स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोष॑: शु॒क्रेण॑ शो॒चिषा॑ ॥
ये । चि॒त् । हि । त्वाम् । ऋष॑यः । पूर्वे॑ । ऊ॒तये॑ । जु॒हू॒रे । अव॑से । म॒हि॒ । सा । नः॒ । स्तोमा॑न् । अ॒भि । गृ॒णी॒हि॒ । राध॑सा । उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥
हे महि महिते पूजनीये वा उषोदेवते त्वां ये चिद्धि ये खलु प्रसिद्धाः पूर्वे चिरंतनाः ऋषयः मन्त्रद्रष्टारः ऊतये रक्षणाय । अवः इति अन्ननाम । अवसे अन्नाय च जुहूरे जुह्विरे आहूतवन्तः सूक्तरूपैर्मन्त्रैः स्तुतवन्त इत्यर्थः । हे उषः सा तादृशी त्वं राधसा अस्माभिर्दत्तेन हविर्लक्षणेन धनेन शुक्रेण शोचिषा दीप्तेन तमो निवारयितुं समर्थेन तेजसा चोपलक्षिता सती तेषामृषीणामिव नः अस्माकं स्तोमान् अभि स्तुतीरभिलक्ष्य गृणीहि सम्यक् स्तुतमिति शब्दय । अस्मदीयाभिः स्तुतिभिः संतुष्टा भवेत्यर्थः ॥ ऊतये । अवतेः क्तिनि ज्वरत्वर इत्यादिना वकारस्य उपधायाश्च ऊठ् । ऊतियूति° ' इत्यादिना क्तिन् उदात्तो निपातितः । जुहूरे ।' ह्वेञ् स्पर्धायां शब्दे च । लिटि ६ अभ्यस्तस्य च ' इति द्विर्वचनात् पूर्वमेव अभ्यस्तकारणभूतस्य ह्वयतेः संप्रसारणम् । ‘ अभ्यस्तस्य यो ह्वयतिः कश्चाभ्यस्तस्य ह्वयतिः यस्तस्य कारणम्' ( का. ६. १. ३३ ) इति व्याख्यातत्वात् । परपूर्वत्वे ‘ हलः' इति दीर्घत्वम् । द्विर्वचनादीनि । ‘ इरयो रे ' इति इरेचो रेआदेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । यद्वृत्तयोगादनिघातः । तत्र हि पञ्चमीनिर्देशेऽपि व्यवहितेऽपि कार्यं भवतीत्युक्तम् ( का. ८. १. ६६ ) । महि । मह पूजायाम् । औणादिकः इप्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । संबुद्धौ अम्बार्थ° ' ( पा. सू. ७. ३. १०७) इति ह्रस्वत्वम् । स्तोमान् । संहितायां नकारस्य रुत्वाद्युक्तम् । नित्त्वादाद्युदात्तत्वम् । गृणीहि । गॄ शब्दे । क्रैयादिकः । शिति ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । राधसा । राध्नोत्यनेनेति राधः । असुनो नित्त्वादाद्युदात्तत्वम् । उषः । पादादित्वात् आष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥
“Adorable Uṣas, whom the ancient sages invoked for protection and for food, do you, (radiant) with pure light, (plural ased) by our offerings, accept our praises.”
Mighty One, whom the Rsis of old time invoked for their protection and their help,
O Usas, graciously answer our songs of praise with bounty and with brilliant light.
Because even those previous seers who called upon you for aid, for help, o great one—
do you (now) greet our praises (as you did theirs) with generosity, o Dawn, with your bright brilliance.
Wie du von frühern Sängern auch gerufen bist zum Schutz, o grosse, und zur Huld; So lohne mit Geschenken unsern Lobgesang, und hellem Licht, o Morgenroth.
So viele Rishi´s auch dich früher zur Hilfe, zur Gunst angerufen haben, du Große, so erkenne du unsere Preislieder durch eine Ehrengabe an, o Usas, mit deinem hellen Feuerschein!
Те самые прежние риши, что звали тебя
На помощь, для поддержки, о великая, –
Ты (и теперь) прими благосклонно наши восхваления
(Ответив) желанием дарить, о Ушас, блестящим блеском
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः । प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिष॑: ॥
उषः॑ । यत् । अ॒द्य । भा॒नुना॑ । वि । द्वारौ॑ । ऋ॒णवः॑ । दि॒वः । प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गोऽम॑तीः । इषः॑ ॥
हे उषः त्वम् अद्य अस्मिन् प्रभातसमये यत् यस्मात् भानुना प्रकाशेन दिवः अन्तरिक्षस्य द्वारौ द्वारभूतौ पूर्वापरदिग्भागबन्धकारेणाच्छादितौ वि ऋणवः विश्लिष्य प्राप्नोषि, तस्मात् त्वं नः अस्मभ्यं छर्दिः तेजस्वि गृहं प्र यच्छतात् देहि । कीदृशं छर्दिः । अवृकं हिंसकरहितं पृथु विस्तीर्णम् । अपि च हे देवि देवनशीले गोमतीः बहुभिर्गोंभिर्युक्ताः इषः अन्नानि । प्र इत्युपसर्गस्य आवृत्तेः यच्छतात् इत्यनुषज्यते । प्र यच्छतात् देहि । त्वदागमनस्यास्मद्रक्षणार्थत्वादस्मदभीष्टं गृहादिकं प्रयच्छेत्यर्थः । छर्दिः इति गृहनाम, ‘ छर्दिः छदिः' (नि. ३. ४. १८) इति तन्नामसु पाठात् ॥ ऋणवः । ‘ ऋणु गतौ । छान्दसे लङि सिपि तनादित्वात् उप्रत्ययः । ततो व्यत्ययेन शपि गुणावादेशौ। शपः पित्त्वादनुदात्तत्वे उप्रत्ययस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । दिवः । ऊडिदम् । इत्यादिना विभक्तेरुदात्तत्वम् । प्र नः । ‘ उपसर्गाद्बहुलम्' इति बहुलवचनात् नसो णत्वाभावः । यच्छतात् । दाण् दाने ' । शपि ‘ पाघ्रा° ' इत्यादिना यच्छादेशः । अवृकम् । नास्ति वृकोऽस्मिन्निति बहुव्रीहौ ' नञ्सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वम् । पृथु । प्रथ प्रख्याने'। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ' ( उ. सू. १. २८) इति कुप्रत्ययः संप्रसारणं च । छर्दिः इति गृहनाम। ‘ उछृदिर् दीप्तिदेवनयोः' । 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः ' ( उ. सू. २. २६५) इति इसिप्रत्ययः । लघूपधगुणः । प्रत्ययस्वरः ॥
“Uṣas, since you have today set upon the two gates of heaven with light, grant us a spacious and secure habitation; bestow upon us, goddess, cattle and food.”
Usas, as thou with light to day hast opened the twin doors of heaven,
So grant thou us a dwelling wide and free from foes. O Goddess, give us food with kine.
Dawn, when today with your radiance you will push apart the two doors of heaven,
then hold out to us broad shelter that keeps the wolf away, o goddess, hold out refreshments consisting of cows.
Wenn heute du mit deinem Licht des Himmels Thore uns erschliesst, Dann Morgenröthe, reiche weiten, sichern Schutz, milchreiche Tränke, Göttin, uns.
Usas! Wenn du heute mit deinem Lichte das Tor des Himmels öffnest, so gewähr uns deinen vor Räubern schützenden breiten Schirm und schenke Speisegenüsse samt Kühen, o Göttin!
О Ушас, когда сегодня сиянием
Ты растворишь врата дня,
Даруй нам широкую защиту от волка,
(Даруй), о богиня, подкрепления, богатые коровами!
सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा । सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वऽपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ । सम् । द्यु॒म्नेन॑ । वि॒श्व॒ऽतुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒ऽव॒ति॒ ॥
हे उषः नः अस्मान् राया धनेन सं मिमिक्ष्व संसिञ्च संयोजयेत्यर्थः । कीदृशेन धनेन । बृहता प्रभूतेन विश्वपेशसा । पेश इति रूपनाम । बहुविधरूपयुक्तेन । तथा इळाभिः आ गोभिश्च अस्मान् सं मिमिक्ष्व । इळा इति गोनाम। ‘ इळा जगती ' ( नि. २. ११. ७ ) इति तन्नामसु पाठात् । आकारः समुच्चये पदान्ते वर्तमानत्वात् । उक्तं च -- एतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारः ' (निरु. १. ४ ) इति । किंच हे महि महनीये उषोदेवते द्युम्नेन यशसा सं मिमिक्ष्व । ‘ द्युम्नं द्योततेर्यशो वान्नं वा ' (निरु. ७, ५ ) इति यास्कः । कीदृशेन द्युम्नेन । विश्वतुरा सर्वेषां शत्रूणां हिंसकेन । तथा हे वाजिनीवति अन्नसाधनभूतक्रियायुक्ते वाजैः अन्नैः अस्मान् सं मिमिक्ष्व। ‘ अन्नं वै वाज: ' ( श. ब्रा. ९. ३. ४. १ ) इति श्रुत्यन्तरात् ॥ राया । ‘ उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । बृहता। ‘ बृहन्महतोरुपसंख्यानम् ' इति विभक्तिरुदात्ता। विश्वपेशसा । विश्वानि पेशांसि यस्यासौ विश्वपेशाः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । यद्वा । मरुद्वृधादिर्द्रष्टव्यः । मिमिक्ष्व । ‘ मिह सेचने ' । व्यत्ययेन आत्मनेपदम् । लोटि ‘ बहुलं छन्दसि ' इति शपः श्लुः। द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । प्रत्ययस्वरस्य सतिशिष्टत्वात् स एव शिष्यते । पूर्वपदस्य असमानवाक्यस्थत्वात् ‘ तिङ्ङतिङः' इति निघातो न भवति, ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति वचनात् । विश्वतुरा । तूर्वतीति तूः । तुर्वी हिंसार्थः । ‘ क्विप् च ' इति क्विप् । राल्लोपः' इति वलोपः । विश्वेषां तूः विश्वतूः । ‘ समासस्य इत्यन्तोदात्तत्वम् । वाजिनीवति । वाजोऽन्नमस्या अस्तीति वाजिनी क्रिया । तादृशी क्रिया यस्याः सा तथोक्ता ॥ ॥ ५ ॥
“Adorable Uṣas, associate us with much and multiform wealth, and with abundant cattle, with all foe-confounding fame, and giver of sustenance, with food.”
Bring us to wealth abundant, sent in every shape, to plentiful refreshing food,
To all-subduing splendour, Usas, Mighty One, to strength, thou rich in spoil and wealth.
Mingle us with lofty wealth provided with all ornaments, with
refreshments,
with brilliance surpassing all, great Dawn, with prizes, o you who are rich in prize mares.
Beströme uns mit grossem, allgestalt'gen Gut, mit Labetränken, Morgenroth, O mächtige, mit Reichthum, der das All bezwingt, mit Labung, labungsreiche du.
Begabe uns mit großem, buntem Reichtum und mit Überfluß, mit allübertreffenden Glanz, große Usas, mit Belohnungen, du Reichbelohnende!
Соедини нас с высоким богатством,
Ярко разукрашенным, с жертвенными возлияниями,
Со всепревосходящим блеском, о великая,
С наградами, о дающая награды!