उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ । वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥
उषः॑ । भ॒द्रेभिः॑ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ । त्वा॒ । सो॒मिनः॑ । गृ॒हम् ॥
हे उषः उषोदेवते भद्रेभिः भन्दनीयैः शोभनैर्मार्गैः दिवः अन्तरिक्षलोकात् । रोचनात् रोचमानात् दीप्यमानात्। अधिः उपर्यर्थः । उपरि वर्तमानात् । चित् इति पूजितार्थः। पूजितात् एवंविधादन्तरिक्षलोकात् आ गहि आगच्छ। हे उषः अरुणप्सवः अरुणवर्णा गावः सोमिनः सोमयुक्तस्य यजमानस्य गृहं देवयजनरूपं यज्ञगृहं त्वा त्वाम् उप वहन्तु प्रापयन्तु ॥ गहि । गमेर्लोटि बहुलं छन्दसि' इति शपो लुक् । हेरपित्त्वेन ङित्त्वे ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति, असिद्धवदत्रा भात् ' इति अनुनासिकलोपस्यासिद्धत्वात् । रोचनात् ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः' इति युच् । योरनादेशे ‘ चितः' इत्यन्तोदात्तत्वम् । अरुणप्सवः । ‘ प्सा भक्षणे'। प्सान्ति भक्षयन्ति स्तनं पिबन्तीति प्सवो वत्साः । औणादिकः कुप्रत्ययः । आतो लोप इटि च ' इति आकारलोपः। अरुणाः प्सवो यासां तास्तथोक्ताः । अत्र वत्सानामारुण्यप्रतिपादनात् मातॄणामपि तथात्वं गम्यते । ‘ पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते' (पा. म. १. ३. २१. ५) इति गोनर्दीयः । तासां च उषोवाहनस्त्वं निघण्टावुक्तम् - अरुण्यो गाव उषसाम्' (नि. १. १५, ७ ) इति । अरुणशब्दः ‘अर्तेश्च ' ( उ. सू. ५. ६८५) इति उनन्प्रत्ययान्तः । तृणाख्यायां चित् ' ( उ. सू. ३. ३३९ ) इत्यतः ‘चित्' इत्यनुवृत्तेरन्तोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते ॥
“Uṣas, come by auspicious ways from above the bright (region of the) firmament; let the purple (kine) bring you to the dwelling of the offerr of Soma.”
E'EN from above the sky's bright realm come, Usas, by auspicious ways:
Let red steeds bear thee to the house of him who pours the Soma, juice.
Dawn, with your auspicious (rays) come here, even from the luminous realm of heaven.
Let the (horses) whose breath is reddish convey you right to the house of the one who has soma.
Komm, Uschas, mit dem Glanzgespann her von des Himmels lichtem Raum, Die rothen mögen fahren dich hin zu des Somabringers Haus.
Usas, komm mit deinen glückbringenden Strahlen sogar von des Himmels Lichtraum! Dich sollen die Rotfarbigen zu dem Hause des Somaopfers fahren.
О Ушас, приди с благими (дарами)
Из светлого пространства самого неба!
Да привезут тебя алые (кони)
К дому обладателя сомы!
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥
सु॒ऽपेश॑सम् । सु॒खम् । रथ॑म् । यम् । अ॒धि॒ऽअस्थाः॑ । उ॒षः॒ । त्वम् । तेन॑ । सु॒ऽश्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥
हे उषः त्वं यं रथम् अध्यस्थाः अधितिष्ठसि। कीदृशं रथम्। सुपेशसं शोभनावयवं शोभनरूपयुक्तं वा । ‘ पेश इति रूपनाम ' (निरु. ८. ११ ) इति यास्कः । यद्वा । शोभनहिरण्ययुक्तम् । ‘ पेशः कृशनम् ' ( नि. १. २. ६) इति तन्नामसु पाठात् । सुखं शोभनेन स्वेन आकाशेन युक्तं विस्तृतमित्यर्थः । यद्वा । सुखहेतुभूतम् । अथवा सुखमिति क्रियाविशेषणम् । सुखं यथा भवति तथेत्यर्थः । हे दिवः दुहितः द्युलोकसकाशात् उत्पन्ने उषोदेवते तेन रथेन अद्य अस्मिन् काले सुश्रवसं शोभनहविर्युक्तं जनं यजमानं प्राव प्रकर्षेण गच्छ ॥ सुपेशसम् । ‘ पिश अवयवे'। अस्मात् असुन्प्रत्ययः । नित्त्वदाद्युदात्तः पेशस्शब्दः । शोभनं पेशो यस्यासौ सुपेशाः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अध्यस्थाः । तिष्ठतेः ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि गातिस्था° ' इति सिचो लुक् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । तेन । अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । सुश्रवसम् । श्रव इत्यन्ननाम श्रूयत इति सतः ' ( निरु. १०. ३ ) इति यास्कः । सुपेशसमितिवदुत्तरपदाद्युदात्तत्वम् । अव । ‘ अव रक्षणगतिप्रीतितृप्ति° ' इत्युक्तत्वात् अत्र अवतिर्गत्यर्थः । दुहितर्दिवः । परमपि च्छन्दसि ' इति षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति पदद्वयसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥
“Uṣas, in the ample and beautiful chariot in which you ride, come today, daughter of heaven, to the pious offerer of the oblation.”
The chariot which thou mountest, fair of shape, O Usas light to move,--
Therewith, O Daughter of the Sky, aid men of noble fame today.
The well-ornamented, well-naved chariot that you have
mounted, Dawn—
with it further the people of good fame today, Daughter of Heaven.
Welch schönen, schnellen Wagen du, o Morgenroth, bestiegen hast, Mit dem, o Himmelstochter, hilf dem hochberühmten Stamme heut.
Mit dem schönverzierten, leichtlaufenden Wagen, den du Usas bestiegen hast, mit dem begünstige heute den Mann, der in gutem Rufe steht, du Himmeltochter!
(Та) богато украшенная легкая колесница,
На которую ты взошла, о Ушас, –
Поддержи сегодня с ее помощью, о дочь неба,
Человека с доброй славой!
वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उष॒: प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥
वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒पत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ । उषः॑ । प्र । आ॒र॒न् ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥
हे अर्जुनि शुभ्रवर्णे उषः उषोदेवते ते तव ऋतूँरनु गमनान्यनुलक्ष्य द्विपत् द्विपात् मनुष्यादिकं चतुष्पत् गवादिकं तथा पतत्रिणः पतत्रवन्तः पक्षोपेताः वयश्चित् पक्षिणश्च दिवः अन्तेभ्यः आकाशप्रान्तेभ्यः परि उपरि प्रारन् प्रकर्षेण गच्छन्ति । रात्रावन्धकारेणाभिभूताः सर्वे प्राणिनः त्वदागमानन्तरं चेष्टावन्तो भवन्तीत्यर्थः ॥ पतत्रिणः । ‘ पत्लृ गतौ । पतत्यनेनेति पतत्रम् । ‘ अमिनक्षि° (उ. सू. ३. ३८५) इत्यादिना अत्रन्प्रत्ययः । ततो मत्वर्थीय इनिः । द्विपत् । द्वौ पादावस्येति संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पाशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वात् ‘ पादः पत्' ( पा. सू. ६. ४. १३०) इति पद्भावः ॥ ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । चत्वारः पादा अस्य । स्वरव्यतिरिक्तं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘ इणः षः' इत्यनुवृत्तौ इदुदुपधस्य चाप्रत्ययस्य ' ( पा. सू. ८. ३. ४१ ) इति विसर्जनीयस्य षत्वम् । न च परत्वेनास्य असिद्धत्वात् कुप्वोः क पौ च ' ( पा. सू. ८. ३. ३७) इति उपध्मानीयादेशः शङ्कनीयः, येन नाप्राप्तिन्यायेन तस्यापवादत्वात् । अपवादस्तु परमपि पूर्वं बाधते एव' इति वृत्तावुक्तम् । आरन् । ‘ऋ गतौ । ‘ छन्दसि लुङ्लङलिटः ' इति वर्तमाने लुङि ‘ सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः । आडागमः । ऋतून् । ‘ऋ गतौ ' । अस्मात् औणादिको भावे कुप्रत्ययः । अनु । अनुर्लक्षणे ' ( पा. सू. १. ४.८४ ) इति अनोः कर्मप्रवचनीयत्वम् ‘ कर्मप्रवचनीययुक्ते° ' (पा. सू. २. ३. ८) इति द्वितीया । संहितायां ' दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति रोः पूर्वस्य वर्णस्य सानुनासिकत्वम् । दिवः । ‘ ऊडिदम्' इति विभक्तिरुदात्ता । अन्तेभ्यः । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् ॥
“White-complexioned Uṣas, upon your coming, bipeds and quadrupeds (are in motion), and the winged birds flock around from the boundaries of the sky.”
Bright Usas, when thy times return, all quadrupeds and bipeds stir,
And round about flock winged birds from all the boundaries of heaven.
Even the winged birds and the two-footed and four-footed, o silvery Dawn, have set forth following your regulations of time, from the ends of heaven—
Die Vögel, die geflügelten, was zwei und was vier Füsse hat, Erhob sich stets bei deinem Nahn vom Himmelsrand, o strahlende.
Zweifüßler und Vierfüßler, auch die beschwingten Vögel sind deinen Zeiten gemäß zum Vorschein gekommen von allen Enden des Himmels her, du hellglänzende Usas.
Двуногие, четвероногие, о светлая,
А также крылатые птицы,
Пришли в движение в установленные для тебя часы, о Ушас,
Со (всех) концов неба.
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
व्यि॒ऽउच्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् । ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥
हे उषः व्युच्छन्ती तमो वर्जयन्ती त्वं रश्मिभिः स्वकीयैस्तेजोभिः विश्वं सर्वं भूतजातं रोचनं रोचमानं प्रकाशयुक्तं यथा भवति तथा आ भासि आ समन्तात् प्रकाशसे । हि यस्मादेवं तस्मात् तां तादृशीं त्वां वसूयवः वसुकामाः कण्वाः मेधाविन ऋत्विजः कण्वगोत्रोत्पन्ना वा महर्षयः गीर्भिः स्तुतिलक्षणैर्वचोभिः अहूषत स्तुतवन्तः' इत्यर्थः । कण्व इति मेधाविनाम, कण्वः ऋभुः ( नि. ३. १५. ७ ) इति तन्नामसु पाठात् ॥ आभासि । ‘भा दीप्तौ । अदादित्वात् शपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । रोचनम् । रुच दीप्तौ ।' अनुदात्तेतश्च हलादेः' इति युच् । ‘ चितः' इत्यन्तोदात्तत्वम् । वसूयवः । वसु धनमात्मन इच्छन्तः । सुप आत्मनः क्यच् । ‘ अकृत्सार्वधातुकयो:०' इति दीर्घः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । गीर्भिः। ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । कण्वाः । कण शब्दार्थः । ‘ अशिप्रुषिलटिकणि° ' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अहूषत । ह्वेञो लुङि ‘ ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वे ‘ हलः' इति दीर्घत्वम् । च्लेः सिच् । एकाचः' इति इट्प्रतिषेधः। संज्ञापूर्वकस्य विधेरनित्यत्वात गुणाभावः ॥ ॥ ६ ॥
“You, Uṣas, dispersing the darkness, illumine the shining universe with your rays; such as you are, Kaṇvas, desirous of wealth, praise you with their hymns.”
Thou dawning with thy beams of light illumest all the radiant realm.
Thee, as thou art, the Kanvas, fain for wealth, have called with sacred songs.
For, dawning forth with your rays, you illuminate the whole
luminous realm.
Just you, Dawn, have the Kaṇvas, longing for goods, called upon
with songs.
Denn leuchtend mit dem Strahlenschein erhellest du den ganzen Raum, Drum riefen heilverlangend dich mit Lied die Kanva's, Morgenroth!
Denn aufleuchtend bescheinst du mit deinen Strahlen den ganzen Lichthimmel. So haben dich, Usas, jetzt die Kanva´s Gutes begehrend, mit Lobesworten angerufen.
Ведь воспламеняясь, (своими) лучами
Ты озаряешь все светлое пространство.
Тебя, о Ушас, жаждущие добра
Канвы призвали хвалебными песнями.