आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत । सखा॑य॒: स्तोम॑वाहसः ॥
आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ । सखा॑यः॒ । स्तोम॑ऽवाहसः ॥
तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च नि षीदत उपविशत । उपविश्य च इन्द्रमभि प्र गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । स्तोमवाहसः । त्रिवृत्पञ्चदशादिस्तोमानस्मिन् कर्मणि वहन्ति प्रार्पयन्तीति ॥ आ तु आ। निपातत्त्वादाद्युदात्ताः । इत । ‘ इण् गतौ । ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम् । नि। निपातत्वादाद्युदात्तः । सीदत । ‘ पाघ्राध्मास्थाम्नादाण्दृशि° ' (पा. सू. ७. ३. ७८ ) इत्यादिना सदेः सीदादेशः । ‘ सदिरप्रतेः ' ( पा. सू. ८. ३. ६६) इति संहितायां षत्वम् । अभि । ' उपसर्गाश्चाभिवर्जम् ' (फि. सू. ८१) इति वचनात् प्रातिपदिकान्तोदात्तत्वम् । स्तोमवाहसः । ‘ अर्तिस्तुसुहुधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ' (उ. सू. १. १३७) इति स्तौतेर्मन्प्रत्ययान्तः स्तोमशब्दो नित्त्वादाद्युदात्तः। स्तोमं वहन्तीति स्तोमवाहसः । वहिहाधाञ्भ्यश्छन्दसि' ( उ. सू. ४. ६६०) इत्यसुन् प्रत्ययः । तत्र ‘ णित्' इत्यनुवृत्तेः ‘अत उपधायाः ' ( पा. सू. ७. २. ११६ ) इत्युपधाया वृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' (उ. सू. ४. ६६६ ) इत्यौणादिकसूत्रात् समास आद्युदात्तः ॥
“Hasten hither, friends, offering praises; sit down, and sing repeatedly the praises of Indra.”
O come ye hither, sit ye down: to Indra sing ye forth, your song,
companions, bringing hymns of praise.
Here—come here—sit down: sing forth to Indra,
o comrades, whose vehicles are praise songs—
Auf, kommet her und setzet euch, besinget euern Indra nun, 0 Freunde, die ihr Lob ihm bringt,
Kommet doch heran, setzet euch hin, stimmet auf Indra den Gesang an, ihr Freunde mit zugkräftigem Loblied,
Придите же! Сядьте!
Индру воспойте,
Возносящие хвалу друзья!
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् । इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णम् । इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥
‘ सखायोऽभिप्रगायत ' इति पदद्वयमत्रानुवर्तते । हे सखायः ऋत्विजः सचा यूयं सर्वैः सह । यद्वा। सचा परस्परसमवायेन सुते अभिषुते सोमे प्रवृत्ते सति इन्द्रम् अभिप्रगायत। कीदृशमिन्द्रम्। पुरूतमम् । पुरून् बहून् शत्रून् तमयति ग्लापयतीति पुरूतमः। पुरूणां बहूनां वार्याणां वरणीयानां धनानाम् ईशानं स्वामिनम् ॥ पुरूतमम् । ‘तमु ग्लाने ' इति धातोरन्तर्भावितण्यर्थात् पचाद्यचि चित्त्वादन्तोदात्तेऽपि कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा ‘परादिश्छन्दसि बहुलम्' (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । पुरूणाम्। ‘पॄ पालनपूरणयोः' इत्यस्मात् 'कुः' इत्यनुवृत्तौ ‘पॄभिदिव्यधिगृधिधृषिभ्यः ' (उ. सू. १. २३) इति कुप्रत्ययः । कित्त्वाद्गुणनिषेधे (पा. सू. १. १. ५) ‘ उदोष्ठ्यपूर्वस्य' (पा. सू. ७. १. १०२) इत्युकारः ‘उरण् रपरः' (पा. सू. १. १. ५१ )। प्रत्ययस्वरेणान्तोदात्तः पुरुशब्दः । अतो मतुपि ह्रस्वादन्तोदात्तात् पुरुशब्दात् परस्य नामो ‘नामन्यतरस्याम्' (पा. सू. ६. १. १७७) इत्यन्तोदात्तत्वम् । ईशानम् । ‘ईश ऐश्वर्ये ' इति धातोरनुदात्तेत्त्वात् परस्य शानचो लसार्वधातुकानुदात्तत्वम् । वार्याणाम् । ‘वृङ् संभक्तौ ' इत्यस्मात् ‘ऋहलोर्ण्यत् ' (पा. सू. ३. १. १२४ )। क्यब्विधौ हि वृञः एव ग्रहणं न वृङः (पा. सू. ३. १. १०९. १)। ‘ तित्स्वरितम्' (पा. सू. ६. १. १८५) इति प्रत्ययस्वरितं बाधित्वा ईडवन्दवृशंसदुहां ण्यतः ' (पा. सू. ६. १. २१४ ) इति ण्यदन्तस्याद्युदात्तत्वम् ।' यतोऽनावः' (पा. सू. ६. १. २१३ ) इत्यत्र तु ण्यतो ग्रहणं न भवति तस्य द्व्यनुबन्धकत्वात् । एकानुबन्धग्रहणे न द्व्यनुबन्धकस्येति नियमात् । सचा । ' षच समवाये । ‘ धात्वादेः षः सः' (पा. सू. ६. १. ६४ )। संपदादित्वाद्भावे क्विप् (पा. सू. ३. ३. १०८.९) इति क्विप् । तृतीयैकवचनम् । धातुस्वरेणाद्युदात्तः । सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति न्यायेन ‘सावेकाचः' इति सूत्रं न प्रवर्तते । सचा इत्यस्य निपातत्वपक्षे स्पष्टमाद्युदात्तत्वम् ॥
“When the libation is poured forth, respectively praise Indra, the discomfiter of many enemies, the lord of many blessings.”
To him the richest of the rich, the Lord of treasures excellent,
Indra, with Soma juice outpoured.
To the first among many, having control of desirable things,
to Indra when the soma is pressed.
Ihn, der der Reichen reichster ist, und über schönes Gut verfügt, Den Indra bei dem Somasaft.
Auf den ersten unter vielen, den Besitzer von allem Wünschenswerten, auf Indra bei ausgepreßtem Soma!
Первого из многих,
Владыку самых достойных благ,
Индру – при выжатом соме!
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् । गम॒द्वाजे॑भि॒रा स न॑: ॥
सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् । गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥
घशब्दोऽवधारणार्थो निपातः । सर्वैस्तच्छब्दैः संबध्यते । स घ स एवेन्द्रः पूर्वमन्त्रोक्तगुणविशिष्टः नः अस्माकं योगे पूर्वमप्राप्तस्य पुरुषार्थस्य संबन्धे आ भुवत् आभवतु । पुरुषार्थं साधयत्वित्यर्थः । सः एव राये धनार्थम् आ भुवत् आभवतु । सः एव पुरंध्यां योषिति आ भुवत् । यद्वा । बहुविधायां बुद्धौ आ भुवत् । “ पुरंधिर्बहुधीः ' ( निरु. ६. १३) इति यास्कः । सः एव वाजेभिः देयैरन्नैः सह नः अस्मान् आ गमत् आगच्छतु ॥ घ । चादयोऽनुदात्ताः' (फि. सू. ८४ ) इत्यनुदात्तः । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ' (पा. सू. ६. ३. १३३ ) इति दीर्घः । योगे । घजो ञित्त्वादाद्युदात्तत्वम् । भुवत् भूयात् । भवतेः आशीर्लिंङि परतः ‘लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङ्प्रत्ययः । तस्य ङित्त्वेन गुणाभावादुवङादेशः । ‘ किदाशिषि ' ( पा. सू. ३. ४. १०४ ) इति यासुट् न भवति अनित्यमागमशासनम् (परिभा. ९३.२) इति वचनात् । तिङ्ङतिङः' इति निघातः । ‘ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा. सू. ६. १. १७१ ) इति राये इत्येतस्य विभक्तेरुदात्तत्वम् । पुरंध्याम् । पुरंधिः पुरुधीः । पृषोदरादित्वात् (पा. सू. ६. ३. १०९ ) उकारस्य अमादेशः ईकारस्य ह्रस्वश्च । ' आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इत्याद्युदात्तत्वम् । अथवा पुरं शरीरं धीयतेऽस्यामिति ‘कर्मण्यधिकरणे च' (पा. सू. ३.३.९३) इति किप्रत्ययः । अलुक् छान्दसः । ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इति पुरशब्द आद्युदात्तः । दासीभारादित्वात् (पा. सू. ६. २. ४२ ) पूर्वपदप्रकृतिस्वरत्वम् । गमत् । गमेर्लेटः तिप् । ‘इतश्च लोपः परस्मैपदेषु' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘ बहुलं छन्दसि ' (पा. सू. २. ४. ७३ ) इति शपो लुक् । 'लेटोऽडाटौ ' (पा. सू. ३. ४. ९४ ) इत्यडागमः। आगमा अनुदात्ताः ' ( पा. म. ३. १. ३. ७ ) इति तस्यानुदात्तत्वे धातुस्वर एव शिष्यते । वाजेभिः । वृषादित्वादाद्युदात्तः ॥
“May he be to us for the attainment of our objects; may he be to us for the acquisition of riches; may he be to us for the acquisition of knowledge; may he come to us with food.”
May he stand by us in our need and in abundance for our wealth:
May he come nigh us with his strength.
Will he be here for us at our hitching up (for war), he for wealth, he in plenty? Will he come to us with prizes of victory?
Er helfe uns bei jedem Werk in reicher Fülle zum Besitz, Mit Schätzen komm er zu uns her.
Er stehe uns in der Unternehmung bei, er zu Reichtum und Glück; er komme mit Belohnungen zu uns.
Да поменяет он нам в походе,
В богатстве, в изобилии!
Да приидет он к нам с наградами!
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः । तस्मा॒ इन्द्रा॑य गायत ॥
यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः । तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥
समत्सु युद्धेषु यस्य इन्द्रस्य संस्थे रथे युक्तौ हरी द्वावश्वौ शत्रवः न वृण्वते न संभजन्ते रथमश्वौ च दृष्ट्वा पलायन्ते इत्यर्थः । तस्मा इन्द्राय तत्संतोषार्थं हे ऋत्विजः गायत स्तुतिं कुरुत । ‘ रणः' इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु समत्सु समरणे' (नि. २. १७. २२ ) इति पठितम् ॥ संस्थे । सम्यक् तिष्ठतीति संस्थो रथः । ‘ आतश्चोपसर्गे ' ( पा. सू. ३. १. १३६ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृण्वते । प्रत्ययस्वरेण अकार उदात्तः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ( पा. सू. ६. १. १५८. ९-११ )। तिङ्ङतिङः' इति निघातो न भवति, ' यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति प्रतिषेधात् । पञ्चमीनिर्देशेऽपि ( पा. सू. १. १. ६७ ) अत्र व्यवहितेऽपि कार्यमिष्यते । हरतो रथमिति हरी अश्वौ । ‘इन् ' इत्यनुवृत्तौ ( उ. सू. ४. ५५७ ) 'हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च '( उ. सू. ४, ५५८) इति इन्-प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । समत्सु । संपूर्वात् अत्तेः क्विप् । शत्रवः । शतिः सौत्रो धातुर्हिंसार्थः । ‘ रुशतिभ्यां क्रुन् ' ( उ. सू. ४. ५४३ ) । नित्त्वादाद्युदात्तत्वम् । तस्मै । ‘सावेकाचः ० ' ( पा. सू. ६. १। १६८ ) इति विभक्त्युदात्तस्य न गोश्वन्साववर्ण' ( पा. सू. ६. १. १८२ ) इति प्रतिषेधात् प्रातिपदिकस्वर एव ॥
“Sing to that Indra, whose enemies in combat await not his coursers harnessed in his car.”
Whose pair of tawny horses yoked in battles foemen challenge not:
To him, to Indra sing your song.
He whose two fallow bays his rivals do not obstruct in the competition or in combats—
to him, to Indra, sing!
Bei dessen Angriff Feinde nicht aufhalten seiner Füchse Paar Im Kampfe, diesem Indra singt.
Dessen Falbenpaar die Feinde beim Zusammenstoß in den Schlachten nicht aufhalten, diesem Indra lobsinget!
Чью пару буланых коней не удержать
Врагам при столкновении в битвах.
Этому Индре пропойте (славу)!
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ । सोमा॑सो॒ दध्या॑शिरः ॥
सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ । सोमा॑सः । दधि॑ऽआशिरः ॥
इमे सोमासः अस्मिन् कर्मणि संपादिताः सोमाः सुतपाव्ने अभिषुतस्य सोमस्य पानकर्त्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुः वीतये भक्षणार्थं यन्ति तमेव प्राप्नुवन्ति । कीदृशाः सोमाः । सुता: अभिषुताः । शुचयः दशापवित्रेण शोधितत्वात् शुद्धाः । दध्याशिरः अवनीयमानं दधि आशीर्दोषघातकं येषां सोमानां ते दध्याशिरः ॥ सुतपाव्ने । सुतं पिबतीति सुतपावा । वनिप: पित्त्वात् धातुस्वर एव शिष्यते । समासे द्वितीयापूर्वपदप्रकृतिस्वरं बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । शुचयः । शुच दीप्तौ'। ‘इन्' इत्यनुवृत्तौ ‘इगुपधात्कित्' (उ. सू. ४. ५५९) इति इन् । कित्त्वाल्लघूपधगुणाभावः। नित्त्वादाद्युदात्तत्वम् । वीतये । ‘ वि गतिप्रजनकान्त्यशनखादनेषु' इत्यस्मात् ' मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ' ( पा. सू. ३, ३. ९६ ) इति क्तिन् उदात्तः । सोमासः । ‘ षुञ् अभिषवे'। ‘ अर्तिस्तुसुहुसृधृक्षि° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्' (पा. सू. ७. १. ५० } इत्यसुगागमः । दध्याशिरः । दधाति पुष्णातीति दधि । ‘डुधाञ् धारणपोषणयोः । ‘ आदृगमहनजनः किकिनौ लिट् च ' ( पा. सू. ३. २. १७१ ) इति किन् । लिङ्वद्भावात् द्विर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् ।शॄ ‘हिंसायाम् ' । शृणाति हिनस्ति सोमेऽवनीयमानं सत् सोमस्य स्वाभाविकं रसम् ऋजीषत्वप्रयुक्तं नीरसं दोषं वा इत्याशीः । क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७, १. १०० ) इति इत्वं रपरत्वं च । दध्येव आशीर्येषां सोमानां ते दध्याशिरः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
“These pure Soma juices, mixed with curds, are poured out for the satisfaction of the drinker of the libations.”
Nigh to the Soma-drinker come, for his enjoyment, these pure drops,
The Somas mingled with the curd.
These pure [=unmixed] pressed soma drinks go in pursuit of the soma-drinker,
and those mixed with curds.
Zum Somatrinker dringen hin die reinen Säfte hier zum Mahl, Der milchgemischte Somatrank.
Zu dem Somatrinker kommen diese ausgepreßten reinen und die mit saurer Milch gemischten Somasäfte, um ihn herzubitten.
К пьющему сому эти выжатые
Чистые и смешанные с кислым молоком соки сомы
Текут, приглашая (выпить их).
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ । इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं सुतस्य अभिषुतस्य सोमस्य पीतये पानार्थं ज्यैष्ठ्याय देवेषु ज्येष्ठत्वार्थं च सद्यः तस्मिन्नेव क्षणे वृद्धो अजायथाः अभिवृद्ध्योत्साहेन युक्तोऽभूः ॥ पीतये । ‘ पा पाने ' इत्यस्मात् ' स्थागापापचो भावे ' ( पा. सू. ३. ३. ९५ ) इति क्तिन् । ‘ घुमास्था' (पा. सू. ६. ४. ६६) इत्यादिना ईत्वम् । तस्य नित्त्वेऽपि व्यत्ययेन प्रत्ययोदात्तत्वम् । उत्तरसूत्रगतमुदात्तपदमत्रापि वा योजनीयम् । सद्यः । ‘ सद्यः परुत्परारि ' ( पा. सू. ५. ३. २२ } इति सूत्रेण समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते । प्रत्ययस्वरेणोदात्तः । वृद्धः । ‘ वृधु वृद्धौ । ‘ उदितो वा ' ( पा. सू. ७. २. ५६ ) इति क्त्वाप्रत्यये इटो विकल्पितत्वात् ' यस्य विभाषा ' ( पा. सू. ७, २. १५ ) इति निष्ठायामिट्प्रतिषेधः । प्रत्ययस्वरेणोदात्तः । ज्यैष्ठ्याय । ज्येष्ठस्य भावो ज्यैष्य्मम् । ‘ गुणवचनब्राह्मणादिभ्यः कर्मणि च' (पा. सू. ५, १, १२४) इति ष्यञ् । ञित्त्वादाद्युदात्तः ॥
“Your, Indra, performer of good works, has suddenly become of augmented vigour for the sake of drinking the libation, and (maintaining) seniority (among the gods).”
Thou, grown at once to perfect strength, wast born to drink the Soma juice,
Strong Indra, for preëminence.
You were born and were grown strong in a single day to drink the pressed soma,
for preeminence, o Indra of good resolve.
Geboren kaum, o Indra, warst sogleich du stark zum Somatrunk, Zur Oberherrschaft, mächtiger!
Du wurdest sogleich erwachsen zum Trunke des Soma geboren, zur Oberhoheit, du wohlverständiger Indra.
Ты родился, выросши сразу,
Для питья выжатого (сомы),
О Индра, для превосходства, о благосклонный.
आ त्वा॑ विशन्त्वा॒शव॒: सोमा॑स इन्द्र गिर्वणः । शं ते॑ सन्तु॒ प्रचे॑तसे ॥
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥
हे इन्द्र त्वां सोमासः सोमाः आ विशन्तु आभिमुख्येन प्रविशन्तु । कीदृशाः सोमः । आशवः सदनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमन्तः । कीदृशेन्द्र । गिर्वणः गीर्भिः स्तुतिभिः संभजनीय देवविशेष । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । तथाविध हे इन्द्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः सन्तु ॥ गिर्वणः । गृणन्तीति गिरः स्तुतयः । ‘ गॄ शब्दे ' । क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७. १. १०० ) इति इत्वं रपरत्वं च ॥ गीर्भिर्वन्यते सेव्यते इति गिर्वणाः । ‘वन षण संभक्तौ ' । संभक्तिः सेवा। ‘ सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Indra, who are the object of praises, may these pervading Soma juices enter into you; may they be propitious for your (attainment of) superior intelligence.”
O Indra, lover of the song, may these quick Somas enter thee:
May they bring bliss to thee the Sage.
Let the swift soma drinks enter you, o Indra, who long for song.
Let them be weal for you, the discerning one.
In dich, o Indra, dringe ein der scharfe Soma, Liederfreund! Dir weisem sei er zum Genuss.
In dich sollen die raschen Somasäfte eingehen, du lobbegehrender Indra; sie sollen dir, dem verständigen, zusagen.
Да вольются в тебя быстрые
Соки сомы, о Индра, жаждущий воспевания!
Да будут они на благо тебе, мудрому!
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो । त्वां व॑र्धन्तु नो॒ गिर॑: ॥
त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥
हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां स्तोमाः सामगानां स्तोत्राणि अवीवृधन् वर्धितवन्ति । तथा बह्वृचानाम् उक्था शस्त्राणि त्वाम् अवीवृधन् । यस्मात् पूर्वमेवमासीत् तस्मादिदानीमपि नः अस्माकं गिरः स्तुतयः त्वां वर्धन्तु वर्धयन्तु अतिवृद्धं कुर्वन्तु ॥ स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । ' वृधु वृद्धौ । प्यन्तात् लुङि चङि ( पा. सू. ३. १. ४८ ) ' उर्ऋत् ' (पा. सू. ७. ४. ७) इति वृधेरुपधाया ऋकारस्य ऋकारविधानादन्तरङ्गोऽपि गुणो बाध्यते । द्विर्भाव(पा. सू. ६. १. ११) हलादिशेष-(पा. सू. ७, ४. ६०) सन्वद्भाव-(पा. सू. ७. ४. ९३) इत्व(पा. सू. ७. ४, ७९ ) दीर्घत्व-( पा. सू. ७. ४. ९४ ) अडागमाः (पा. सू. ६. ४. ७१ )। उक्था उक्थानि। ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्' (उ. सू. २. १६४) इति वचेः थक्प्रत्ययः । तस्य कित्त्वात् संप्रसारणम् । “ शेश्छन्दसि बहुलम् ' (पा. सू. ६. १. ७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यादामन्त्रितपरस्यापि न पराङ्गवद्भाव इति नानुदात्तत्वम्। वर्धन्तु । अन्तर्भावितण्यर्थात् वृधेः व्यत्ययेन परस्मैपदम् ॥
“The chants (of the Soma) have magnified you, Śatakratu, the hymns (of the Ṛk) have magnified you; may our praises magnify you.”
Our chants of praise have strengthened thee, O Satakratu, and our lauds
So strengthen thee the songs we sing.
The praises have strengthened you, you the recitations, o you of a hundred resolves.
Let our songs strengthen you.
Dich, mächtiger, hat Lobgesang, dich haben Sprüche auch erfreut, Dich stärke unsrer Lieder Schall.
Dich haben die Lobgesänge erbaut, dich die Lieder, du Ratreicher; dich sollen unsere Lobreden erbauen.
Тебя усилили прославления,
Тебя – хвалебные песни, о стосильный!
Да усилят тебя наши восхваления!
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्र॑: सह॒स्रिण॑म् । यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् । यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥
इन्द्रः इमं वाजं सोमरूपमन्नं सनेत् संभजेत् । कीदृश इन्द्रः। अक्षितोतिः अहिंसितरक्षणः । कदाचिदपि रक्षां न विमुञ्चतीत्यर्थः । कीदृशं वाजम् । सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तम् । यस्मिन् वाजे विश्वानि सर्वाणि पौंस्या। पौंस्यानि पुंस्त्वानि बलानि वर्तन्ते तादृशं वाजमिति पूर्वत्रान्वयः ॥ अक्षितोतिः । ननु ‘क्षि क्षये' इत्ययं धातुरकर्मकः । तस्य च कर्माभावात् अधिकरणे भावे कर्तरि वा क्तप्रत्ययेन भवितव्यम् । तदिह यदि कर्तर्यधिकरणे वा स्यात् तदा तयोरर्थयोः ण्यत्प्रत्ययस्याविधानात् ‘क्षियः' इत्यनुवृत्तौ ( पा. सू. ६. ४. ५९ ) ‘ निष्ठायामण्यदर्थे ' (पा. सू. ६. ४. ६० ) इति दीर्घेण भवितव्यम् । तथा च ‘क्षियो दीर्घात्' (पा. सू. ८. २. ४६ ) इति निष्ठानत्वे अक्षीण इति स्यात् न तु अक्षित इति । अथ ‘नपुंसके भावे क्तः ' ( पा. सू. ३. ३. ११४ ) इति भावपरः क्षितशब्दो गृह्यते । तदा तस्य ण्यदर्थत्वेन ‘ °अण्यर्थे ' इति निषेधात् दीर्घनत्वयोरभावात् क्षितमिति सिध्यति । तदा तु नञ्तत्पुरुषः प्रकृतेन नान्वेतीति न विद्यते क्षितमत्रेति बहुव्रीहिणैव भवितव्यम् । तथा च ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वं स्यात् । पुनः ऊतिशब्देन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव स्वरस्तिष्ठेदिति अभिमतमाद्युदात्तत्वं न सिध्येदिति । सत्यम् । अत एवात्र क्षिधातुरन्तर्भावितण्यर्थों गृह्यते। तेन सकर्मकत्वात् कर्मण्येषा निष्ठा । ततश्च ‘ °अण्यदर्थे ' इति निषेधात् दीर्घो निष्ठानत्वं च न भविष्यति । तथा च नञ्तत्पुरुषे न क्षिता अक्षिता अक्षयिता इत्यर्थः । तत्र चाव्ययपूर्वपदप्रकृतिस्वरत्वेन नत्र उदात्तत्वम् । पुनः ऊतिपदेन बहुव्रीहौ स एव स्वरः स्थास्यतीति न कोऽपि दोषः । ‘ रि क्षि चिरि जिरि दाश दृ जिघांसायाम्' इति क्षिणोतेर्हिँसार्थस्य वा कर्मणि निष्ठा । तथा चाहिंसितोतिरित्यर्थे उक्तक्रमेण स्वरः सिध्यतीति न दोषः । सनेत् । ‘वन षण संभक्तौ । भौवादिकः । वाजम् । वृषादित्वादाद्युदात्तः । इन्द्रः । रनो नित्त्वादाद्युदात्तः। सहस्रिणम् । सहस्रमस्यास्ति । अत इनिठनौ' (पा. सू. ५. २. ११५)। प्रत्ययस्वरः । विश्वानि । विशेः क्वनि ( उ. सू. १. १४९ ) नित्त्वादाद्युदात्तः । पुंसः कर्माणि पौंस्यनि । ब्राह्मणादेराकृतिगणत्वात् ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च' (पा. सू. ५. १. १२४ ) इति ष्यञ् । ञित्त्वादाद्युदात्तः। प्रथमाबहुवचनस्य ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना डादेशः । ननु ‘स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ( पा. सू. ४. १.८७) इत्यनेन ‘ धान्यानां भवने क्षेत्रे खञ्' (पा. सू. ५. २. १ ) इत्येतत्पर्यन्तेष्वपत्याद्यर्थेषु नञ्स्नञोर्विधानात्, यथा पुंसोऽपत्यं पौंस्नः पुंस आगतः पौंस्नः इत्यादि, तद्वत् पुंसो भावः कर्म वेत्यस्मिन्नप्यर्थे ष्यञं बाधित्वा पौंस्नानि इत्येव भवितव्यम् । कथमुच्यते पौंस्यानीति। उच्यते-’ आ च त्वात् ' (पा. सू. ५. १. १२० ) इति सूत्रे त्वात् इत्यवधिनिर्देशात् ' ब्रह्मणस्त्वः' (पा. सू. ५. १. १३६ ) इत्येतत्पर्यन्तैः इमनिजादिभिः प्रत्ययैः सह त्वतलोः समावेशः । एवं तत्रैव चशब्दात् नञ्स्नञोरपि ष्यञादिभिः समावेश एव, न बाध्यबाधकभावः ॥
“May Indra, the unobstructed protector, enjoy these manifold (sacrificial) viands, in which all manly properties abide.”
Indra, whose succour never fails, accept these viands thousandfold,
Wherein all manly powers abide.
Providing his imperishable help, Indra should win this prize of a thousand—
he in whom are all manly powers.
Die tausendfache Labung hier nehm Indra an, der dauernd hilft, In welchem alle Kräfte ruhn.
Diesen tausendzähligen Siegespreis möge Indra gewinnen, der von unerschöpflicher Gunst, in dem alle Manneskräfte sind.
Да получит Индра, чья помощь не иссякает,
Эту награду числом в тысячу,
(Он,) в котором все силы мужества!
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः । ईशा॑नो यवया व॒धम् ॥
मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । ईशा॑नः । य॒व॒य॒ । व॒धम् ॥
हे गिर्वणः इन्द्र मर्ताः विरोधिनो मनुष्याः नः अस्मदीयानां तनूनां शरीराणां मा अभि द्रुहन् अभितो द्रोहं मा कुर्युः । ईशानः समर्थस्त्वं वधं वैरिभिः संपाद्यमानं यवय अस्मत्तः पृथक्कुरु । ‘ मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु मर्ताः व्राताः' (नि. २. ३. १३ ) इति पठितम् ॥ मर्ताः । ‘ असिहसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ' ( उ. सू. ३. ३६६ ) इति तन् । नित्त्वादाद्युदात्तः । अभि ।' एवमादीनामन्तः ' ( फि. सू. ८२ )। द्रुहन् । ‘ द्रुह जिघांसायाम् । ‘ लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । तस्य झि । ‘ झोऽन्तः ' ( पा. सू. ७. १. ३ )। ‘ इतश्च लोपः परस्मैपदेषु ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । शपो लुक् । सार्वधातुकमपित् ' ( पा. सू. १. २. ४ ) इति तिङो ङित्त्वाल्लघूपधगुणाभावः ( पा. सू. १. १. ५)। तनूनाम् । असामर्थ्यान्न पराङ्गवद्भावः । इन्द्र गिर्वणः । गतम् । ईशानः । धातोरनुदात्तेत्त्वात् शपो लुकि लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यवय । यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३. १) इति वृद्धिर्न क्रियते । अथवा यौतीति यवः । पचाद्यच् ( पा. सू. ३. १. १३४ )। यवं करोतीत्यर्थे ' तत्करोति तदाचष्टे ' ( पा. सू. ३. १. २६. ५-६ ) इति णिच् । इष्टवद्भावात् टिलोपः (पा. सू. ६. ४. १५५. १ ) । तस्य स्थानिवद्भावात् (पा. सू. १. १. ५६ ) वृद्ध्यभावः । वधम् । हनश्च वधः ' (पा. सू. ३. ३. ७६ ) इति भावे अप् । तत्संनियोगशिष्टः स्थानिवद्भावेनान्तोदात्तो वधादेशः । उदात्तनिवृत्तिस्वरेण अपः उदात्तत्वम् ॥ ॥ १० ॥
“Indra, who are the object of praises, let no men do injury to our person ns; you are mighty, keep off violence.”
O Indra, thou who lovest song, let no man hurt our bodies, keep
Slaughter far from us, for thou canst.
Let mortals not plot deception against our bodies, o Indra, who long for song.
Having control of it, keep away the deadly weapon.
Kein Mensch verletz', o Indra, uns, Herr unsrer Leiber, Liederfreund! Die Todeswaffe halte fern.
Mögen Menschen unseren Leibern nichts böses antun, lobbegehrender Indra. Wehre die Todeswaffe ab, der du die Macht dazu hast!
Да не причинят вреда смертные
Нашим телам, о Индра, воспевания жаждущий!
Отврати смертоносное оружие, о (ты,) в чьей (это) власти!