उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
उत् । ऊँ॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ । दृ॒शे । विश्वा॑य । सूर्य॑म् ॥
केतवः प्रज्ञापकाः सूर्याश्वाः यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति ऊर्ध्वं वहन्ति । उ इति पादपूरणः । उक्तं च - ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १. ९)। किमर्थम् । विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् - उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् ' ( निरु. १२. १५) इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । 'दृशे विख्ये च (पा. सू. ३. ४. ११ ) इति तुमर्थे निपातितः । सूर्यम् । ‘ राजसूयसूर्यं ' इत्यादिना 'षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः । अतः प्रत्ययस्य पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
“His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).”
HIS bright rays bear him up aloft, the God who knoweth all that lives,
Surya, that all may look on him.
Aloft his beams now bring the god Who knows all creatures that are born, That all may look upon the Sun.
Thee, all-knowing god,
Thy rays bear upwards,
The sun for all to see.
_
His rays bear up the god
Who knoweth all,
The sun for all to see.
Up do the beacons convey this god Jātavedas,
the Sun, for all to see.
Den Wesenkenner führen schon empor die Strahlen, ihn, den Gott, Dass jedermann die Sonne schau.
Dort fahren den Gott Jatavedas seine Strahlen herauf, auf daß die ganze Welt den Sonnengott schaue.
Вот лучи везут вверх
Того бога, Джатаведаса,
Чтобы все (существа) увидели солнце.
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑: । सूरा॑य वि॒श्वच॑क्षसे ॥
अप॑ । त्ये । ता॒यवः॑ । य॒था॒ । नक्ष॑त्रा । य॒न्ति॒ । अ॒क्तुऽभिः॑ । सूरा॑य । वि॒श्वऽच॑क्षसे ॥
त्ये तायवो यथा प्रसिद्धास्तस्करा इव नक्षत्रा नक्षत्राणि देवगृहरूपाणि । देवगृहा वै नक्षत्राणि ' (तै. ब्रा. १. ५. २. ६) इति श्रुत्यन्तरात् । यद्वा । इह लोके कर्मानुष्ठाय' ये स्वर्गं प्राप्नुवन्ति ते नक्षत्ररूपेण दृश्यन्ते । तथा च श्रूयते - यो वा इह यजतेऽमुँ स लोकं नक्षते तन्नक्षत्राणां नक्षत्रत्वम् ' (तै. ब्रा. १. ५. २. ५) इति । यद्वा । तेषां सुकृतिनां ज्योतींषि नक्षत्राण्युच्यन्ते, 'सुकृतां वा एतानि ज्योतीँषि यन्नक्षत्राणि ' ( तै. सं. ५. ४. १. ३) इत्याम्नानात् । यास्कस्त्वाह ‘ नक्षत्राणि नक्षतेर्गतिकर्मणो नेमानि क्षत्राणीति च ब्राह्मणम् ' ( निरु. ३, २० ) इति । तथाविधानि नक्षत्राणि अक्तुभिः रात्रिभिः सह अप यन्ति अपगच्छन्ति । विश्वचक्षसे विश्वस्य सर्वस्य प्रकाशकस्य सूराय सूर्यस्यागमनं दृष्ट्वेति शेषः। तस्करा नक्षत्राणि च रात्रिभिः सह सूर्य आगमिष्यतीति भीत्या पलायन्ते इत्यर्थः । तायुरिति स्तेननाम, ‘तायुः तस्करः ' (नि. ३. २४. ७ ) इति तन्नामसु पाठात् । अतुरिति रात्रिनाम, शर्वरी अक्तुः ' ( नि. १. ७. ४) इति तत्र पाठात् ॥ यथा । ‘ यथेति पादान्ते ' इति सर्वांनुदात्तत्वम् । नक्षत्रा । ‘ नक्ष गतौ ।' अमिनक्षियजिबन्धिपतिभ्योऽत्रन् ' ( उ. सू. ३. ३८५) इति अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । नभ्राण्नपात्' इत्यत्र वृत्तौ त्वेवमुक्तं -- न क्षरति न क्षीयत इति वा नक्षत्रम् । क्षीयतेः क्षरतेर्वा नक्षत्रमिति निपात्यते । (का. ६. ३. ७५ ) इति । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । यन्ति । ‘ इण् गतौ । ‘ इणो यण् ' इति यणादेशः । सुराय विश्वचक्षसे । विश्वं चष्टे प्रकाशयतीति विश्वचक्षाः । चक्षेर्बहुलं शिञ्च ' (उ. सू. ४. ६७२ ) इति असुन्प्रत्ययः । शित्त्वेन सार्वधातुकत्वात् ख्याञादेशाभावः। उभयत्र ‘ षष्ठ्यर्थे चतुर्थी वक्तव्या' (पा. म. २. ३. ६२. १ ) इति चतुर्थी ॥
“(At the approach) of the all-illuminating Sun, the constellations depart with the night, like thieves.”
The constellations pass away, like thieves, together with their beams,
Before the all-beholding Sun.
Away like thieves the stars depart, By the dark nights accompanied, At the all-seeing Sun's approach.
Away like thieves go these heavenly bodies with the night,
before the Sun, who has his gaze on all.
Wie Diebe schleichen sich davon die Sterne schon mit ihrem Schein Vor dem allsehnden Sonnengott.
Wie Diebe schleichen jene Gestirne mit dem nächtlichen Dunkel davon vor dem allschauenden Surya.
Прочь, как воры, спешат
Вместе с ночами звезды
От всевидящего солнца.
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ । भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒ ॥
अस्य सूर्यस्य केतवः प्रज्ञापकाः रश्ययः दीप्तयः जनान् अनु वि अदृश्रं जातान् सर्वान् अनुक्रमेण प्रेक्षन्ते । सर्वं जगत्प्रकाशयन्तीत्यर्थः। तत्र दृष्टान्तः। भ्राजन्तः दीप्यमानाः अग्नयो यथा अग्नय इव ॥ अदृश्रम् ।' दृशिर प्रेक्षणे ' । वर्तमाने लुङ् । ‘ इरितो वा' (पा. सू. ३. १. ५७ ) इति च्लेः अङादेशः । ‘ ' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' ( पा. सू. ७. १.८) इति रुडागमः । अत एव बहुलवचनात् ऋदृशोऽङि गुणः' इति गुणाभावः इत्युक्तम् । तिङां तिङो भवन्ति ' इति प्रथमपुरुषबहुवचनस्योत्तमपुरुषैकवचनादेशः। प्रथमपुरुषान्त एवं शाखान्तरे श्रूयते -अदृश्रन्नस्य केतवः (अ. सं. १३. २. १८) इति । जनान् इत्यस्य नकारस्य संहितायां रुत्वयत्वादि पूर्ववत् । भ्राजन्तः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते ॥
“His illuminating rays behold men in succession, like blazing fires.”
His herald rays are seen afar refulgent o'er the world of men,
Like flames of fire that burn and blaze.
His beams, his rays, have shone afar Athwart the many homes of men, Flaming aloft like blazing fires.
His beacons have appeared; his rays (extend) widely throughout the peoples,
flashing like fires.
Es zeigten seine Lichter sich, die Strahlen durch die Völker hin, Wie Feuerflammen glänzendhell.
Seine Vorzeichen, die Strahlen sind unter den Menschen weit sichtbar geworden, wie Feuer erglänzend.
Далеко стали видны его знаки –
Лучи среди людей,
Сверкающие, как огни.
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥
त॒रणिः॑ । वि॒श्वऽद॑र्शतः । ज्यो॒तिः॒ऽकृत् । अ॒सि॒ । सू॒र्य॒ । विश्व॑म् । आ । भा॒सि॒ । रो॒च॒नम् ॥
हे सूर्य त्वं तरणिः तरिता अन्येन गन्तुमशक्यस्य महतोऽध्वनो गन्ता असि । तथा च स्मर्यते- ‘ योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते' इति । यद्वा । उपासकानां रोगात् तारयितासि । ‘ आरोग्यं भास्करादिच्छेत् ' इति स्मरणात् ।
तथा विश्वदर्शतः विश्वैः सर्वैः प्राणिभिर् दर्शनीयः । आदित्यदर्शनस्य चण्डालादिदर्शनजनितपापनिर्हरणहेतुत्वात् । तथा च आपस्तम्बः - ‘ दर्शने ज्योतिषां दर्शनम्' इति ।
यद्वा । विश्वं सकलं भूतजातं दर्शतं द्रष्टव्यं प्रकाश्यं येन स तथोक्तः ।
तथा ज्योतिष्कृत् ज्योतिषः प्रकाशस्य कर्ता । सर्वस्य वस्तुनः प्रकाशयितेत्यर्थः । यद्वा । चन्द्रादीनां रात्रौ प्रकाशयिता । रात्रौ हि अम्मयेषु चन्द्रादिबिम्बेषु सूर्यकिरणाः प्रतिफलिताः सन्तोऽन्धकार निवारयन्ति यथा द्वारस्थदर्पणोपरि निपतिताः सूर्यरश्मयो गृहान्तर्गतं तमो निवारयन्ति तद्वदित्यर्थः । यस्मादेवं तस्मात् विश्वं व्याप्तं रोचनं रोचमानमन्तरिक्षम् आ समन्तात् भासि प्रकाशयसि । यद्वा ।
हे सूर्य अन्तर्यामितया सर्वस्य प्रेरक परमात्मन् तरणिः संसाराब्धेस्तारकः असि । यस्मात् त्वं विश्वदर्शतः विश्वैः सर्वैर्मुमुक्षुभिः दर्शतः द्रष्टव्यः साक्षात्कर्तव्यः इत्यर्थः । अधिष्ठानसाक्षात्कारे ह्यारोपितं निवर्तते । ज्योतिष्कृत् ज्योतिषः सूर्यादेः कर्ता। तथा चाम्नायते - चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत' (तै. आ. ३. १२.६) इति । ईदृशस्त्वं चिद्रूपतया विश्वं सर्वं दृश्यजातं रोचनं रोचमानं दीप्यमानं यथा भवति तथा आ भासि प्रकाशयसि। चैतन्यस्फुरणे हि सर्वं जगत् दृश्यते । तथा चाम्नायते- तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ( क. उ. ५. १५ ) इति ॥
तरणिः । ‘ तॄ प्लवनतरणयोः । अस्मादन्तर्भावितण्यर्थात् “ अर्तिसृभृधृधम्यश्यवितॄभ्योऽनिः' इति अनिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् ।
ज्योतिः करोतीति ज्योतिष्कृत् । 'क्विप् च इति क्विप् । ‘ नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य षत्वम्।
भासि। ‘भा दीप्तौ । अन्तर्भावितण्यर्थात् लटि अदादित्वात् शपो लुक् ॥
“You, Sūrya, outstrip all in speed; you are visible to all; you are the source of light; you shine throughout the entire firmament.”
Swift and all beautiful art thou, O Surya, maker of the light,
Illuming all the radiant realm.
Swift-moving, visible to all, Maker of light thou art, O Sun, Illuming all the shining space.
Overcoming, seen of all,
Light-making art thou, Surya;
Thou dost illumine all the firmament.
Transiting, visible to all, a light-maker are you, o Sun.
You illuminate the whole luminous realm.
Für alle sichtbar, schnellen Laufs erzeugst du Licht, o Sonnengott, Den ganzen Raum erhellest du.
Pünktlich, allsichtbar, lichtmachend bist du Surya; du bescheinst den ganzen Lichthimmel.
Пересекающий (пространство), всем видный,
Создающий свет – (вот каков) ты, Сурья.
Ты даруешь все светлое пространство.
प्र॒त्यङ्दे॒वानां॒ विश॑: प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥
प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् । प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे ॥
हे सूर्य त्वं देवानां विशः मरुन्नामकान देवान् । मरुतो वै देवानां विशः ' (तै. सं. २. २. ५. ७) इति श्रुत्यन्तरात् । तान् मरुत्संज्ञकान देवान् प्रत्यङ् उदेषि तान्प्रतिगच्छन्नुदयं प्राप्नोषि । तेषामभिमुखं यथा भवति तथेत्यर्थः । तथा मानुषान् मनुष्यान् प्रत्यङ्ङुदेषि । तेऽपि यथा अस्मदभिमुख एव सूर्य उदेतीति मन्यन्ते । तथा विश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ् उदेषि । यथा स्वर्लोकवासिनो जनाः स्वस्वाभिमुख्येन पश्यन्ति तथोदेषीत्यर्थः । एतदुक्तं भवति । लोकत्रयवर्तिनो जनाः सर्वेऽपि स्वस्वाभिमुख्येन सूर्यं पश्यन्तीति । तथा चाम्नायते -‘तस्मात्सर्वं एव मन्यते मां प्रत्युदगात्' (तै. सं. ६. ५. ४. २) इति । प्रत्यङ् । प्रति अञ्चतीति प्रत्यङ्। 'अञ्चु गति पूजनयोः । ‘ ऋत्विक् ' इत्यादिना क्विन्। अनिदिताम्' इति नलोपः। उगिदचाम्' इति नुम् ॥ हल्ङ्यादिसंयोगान्तलोपौ। संयोगान्तलोपस्यासिद्धत्वात् उपधादीर्घनलोपयोरभावः। 'क्विन्प्रत्ययस्य कुः ( पा. सू. ८. २. ६२ ) इति कुत्वम्। अनिगन्तोऽञ्चतौ ' ( पा. सू. ६. २. ५२ ) इति अनिगन्तः इति पर्युदासात् पूर्वपदप्रकृतिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । एषि । इण् गतौ । सिपि अदादित्वात् शपो लुक् । आदेशप्रत्यययोः' इति षत्वम् । स्वः । सुपूर्वात् अर्तेः विच् । गुणे यणादेशः। न्यङ्स्वरौ स्वरितौ च' इति स्वरितत्वम्। दृशे । दृशिर् प्रेक्षणे' इत्यस्मात् ‘दृशे विख्ये च' इति तुमर्थे निपातितः ॥ ॥ ७ ॥
“You rise in the presence of the Maruts, you rise in the presence of mankind, and so as to be seen in the presence of the whole (region) of heaven.”
Thou goest to the hosts of Gods, thou comest hither to mankind,
Hither all light to be beheld.
Thou risest toward the host of gods And toward the race of men: toward all. That they may see the heavenly light.
Facing the clans of the gods, facing the descendants of Manu do you go up,
facing all, (for them) to see the sun—
Hin zu der Götter Stämmen und hin zu den Menschen steigst du auf, Zu allem hin, als Licht zu schaun.
Den Clanen der Götter zugewandt, den Menschen zugewandt, gehst du auf, der ganzen Welt zugewandt, auf daß sie das Sonnenlicht sehe.
Обращенный к родам богов,
Обращенный к людям, ты восходишь,
Обращенный ко всему – чтобы видели солнечный свет!
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥
येन॑ । पा॒व॒क॒ । चक्ष॑सा । भु॒र॒ण्यन्त॑म् । जना॑न् । अनु॑ । त्वम् । व॒रु॒ण॒ । पश्य॑सि ॥
हे पावक सर्वस्य शोधक वरुण अनिष्टनिवारक सूर्य त्वं जनान् जातान् प्राणिनः भुरण्यन्तं धारयन्तं पोषयन्तं वा इमं लोकं येन चक्षसा प्रकाशेन अनु पश्यसि अनुक्रमेण प्रकाशयसि तं प्रकाशं स्तुम इति शेषः । यद्वा । उत्तरस्यामृचि संबन्धः। तेन चक्षसा व्येषीति। तथा च यास्केनोक्तं -- तत्ते वयं स्तुम इति वाक्यशेषोऽपि वोत्तरस्यामन्वयस्तेन व्येषि ' ( निरु. १२. २३) इति । भुरण्यन्तम् । भुरण धारणपोषणयोः' । कण्वाि दित्वात् यक् । ततः शतरि कर्तरि शप् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । वरुण । वृञ् वरणे । अस्मादन्तर्भावितण्यर्थात् ‘ कॄवृदारिभ्य उनन् ' ( उ. सू. ३. ३३३ ) इति उनन्प्रत्ययः । अत्र वरुणशब्देनादित्य एवोच्यते । तथा चान्यत्राम्नातं- तस्यै मित्रश्च वरुणश्चाजायेताम् ' (तै. ब्रा. १. १. ९. २) इति । ‘ मित्रश्च वरुणश्च धाता चार्यमा च' ( तै. आ. १. १३. ३ ) इति च ॥
“With that light with which you, the purifier and defender from evil, look upon this creature-bearing world.”
With that same eye of thine wherewith thou lookest brilliant Varuna,
Upon the busy race of men,
With which as your eye, o purifying Varuṇa, you look upon
the one bustling throughout the peoples.
Mit welchem Aug', o flammender, o Varuna, den eifrigen Im Menschenvolke du beschaust,
Er ist das Auge, mit dem du lauterer Varuna unter den Menschen Wandelnden beschaust.
(Он – тот) глаз, которым, о чистый,
Ты смотришь, о Варуна,
На деятельного среди людей.
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । पश्य॒ञ्जन्मा॑नि सूर्य ॥
वि । द्याम् । ए॒षि॒ । रजः॑ । पृ॒थु । अहा॑ । मिमा॑नः । अ॒क्तुऽभिः॑ । पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥
हे सूर्य त्वं पृथु विस्तीर्णं रजः लोकम् । ‘लोका रजांस्युच्यन्ते' (निरु. ४. १९) इति यास्कः । कं लोकम् । द्याम् अन्तरिक्षलोकं वि एषि विशेषेण गच्छसि । किं कुर्वन् । अहा अहानि अक्तुभिः रात्रिभिः सह मिमानः उत्पादयन् । आदित्यगत्यधीनत्वात् अहोरात्रविभागस्य । तथा जन्मानि जननवन्ति भूतजातानि पश्यन् प्रकाशयन् ॥ रजस्पृथु इत्यत्र ‘छन्दसि वाप्राम्रेडितयोः' ( पा. सू. ८. ३. ४९ ) इति विसर्जनीयस्य सत्वम् । अहा। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः। मिमानः । माङ् माने ' । जौहोत्यादिकः । शानचि श्लौ द्विर्भावे भृञामित्' इति अभ्यासस्य इत्वम् । आभ्यस्तयोरातः' इति आकारलोपः । ‘ अभ्यस्तानामादिः' इति अभ्यस्तस्याद्युदात्तत्वम् । जन्मानि । जनी प्रादुर्भावे'। अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । नित्त्वादाद्युदात्तत्वम् ॥
“You traverse the vast ethereal space, measuring days and nights, and contemplating all that have birth.”
Traversing sky and wide mid-air, thou metest with thy beams our days,
Sun, seeing all things that have birth.
The broad air traversing, the sky, Thou metest, Sun, the days with nights, Seeing all creatures that are born.
Across heaven you go, the broad realm, measuring the days with the nights, looking upon the races, o Sun.
Mit dem gehst Wesen schauend du zum Himmel und zum weiten Raum, Die Tag' erhellend, Sonnengott!
Du durchläufst den Himmel, den weiten Luftraum, indem du die Tage durch die Nächte bemissest und die Geschöpfe beschaust, o Surya.
Проходишь небо, широкое темное пространство,
Меряя дни ночами,
Глядя на (все) поколения (людей), о Сурья.
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥
स॒प्त । त्वा॒ । ह॒रितः॑ । रथे॑ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ । शो॒चिःऽके॑शम् । वि॒ऽच॒क्ष॒ण॒ ॥
हे सूर्य देव द्योतमान विचक्षण सर्वस्य प्रकाशयितः सप्त सप्तसंख्याकाः हरितः अश्वाः रसहरणशीला रश्मयो वा त्वा त्वां वहन्ति प्रापयन्ति। कीदृशम् । रथे अवस्थितमिति शेषः । तथा शोचिष्केशम् । शोचींषि तेजांस्येव यस्मिन् केशा इव दृश्यन्ते स तथोक्तः तम् । हरितः इति आदित्याश्वानां संज्ञा, ‘ हरित आदित्यस्य ' (नि. १. १५. ३) इति निघण्टावुक्तत्वात् ॥ शोचिष्केशम् । ‘ शुच दीप्तौ ।' अर्चिशुचिहुसृपि ' इत्यादिना इसिप्रत्ययान्तः अन्तोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते । नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य षत्वम् ॥
“Divine and light-diffusing Sūrya, your seven coursers bear you, bright-haired, in your car.”
Seven Bay Steeds harnessed to thy car bear thee, O thou farseeing One,
God, Surya, with the radiant hair.
The seven bay mares that draw thy car, Bring thee to us, far-seeing god, O Sūrya of the gleaming hair.
Seven fallow bay mares convey you, the flame-haired, in your chariot— o wide-gazing god Sun.
Es fahren sieben Stuten dich, o Sonnengott, weitschauender, Im Wagen dich lichthaarigen.
Sieben Falbinnen fahren dich zu Wagen, Gott Surya, den Flammenhaarigen, du Weitschauender.
Семь рыжих кобылиц везут тебя,
Пламенновласого, на колеснице,
О Сурья, бог, видящий издалека.
अयु॑क्त स॒प्त शु॒न्ध्युव॒: सूरो॒ रथ॑स्य न॒प्त्य॑: । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥
अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ । ताभिः॑ । या॒ति॒ । स्वयु॑क्तिऽभिः ॥
सूरः सर्वस्य प्रेरकः सूर्यः शुन्ध्युवः शोधिका अश्वस्त्रियः तादृशीः सप्त सप्तसंख्याकाः अयुक्त स्वरथे योजितवान् । कीदृश्यः। रथस्य नप्त्यः न पातयित्र्यः । याभिर्युक्ताभिः रथो याति न पतति तादृशीभिरित्यर्थः । एवंभूताभिः ताभिः अश्वस्त्रीभिः स्वयुक्तिभिः स्वकीययोजनेन रथे संबद्धाभिः याति यज्ञगृहं प्रत्यागच्छति । अतस्तस्मै हविर्दातव्यमिति वाक्यशेषः ॥ अयुक्त । ‘युजिर योगे ' । स्वरितेत्त्वात् कर्त्रभिप्राये आत्मनेपदम् । लुङि च्लेः सिच् । ' एकाचः' इति इट्प्रतिषेधः । ‘‘लिङ्सिचावात्मनेपदेषु' ( पा. सू. १. २. ११ ) इति सिचः कित्त्वात् लघूपधगुणाभावः । ‘ झलो झलि' इति सिचः सकारलोपः । चोः कुः' इति कुत्वम् । शुन्ध्युवः । शुन्ध विशुद्धौ'। यजिमनिशुन्धिदसिजनिभ्यो युः ' ( उ. सू. ३. ३०० ) इति युप्रत्ययः । शसि ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' ( पा. सू. ६. ४. ७७. १ ) इति उवङादेशः । सूरः । ‘ षू प्रेरणे'। “ सुसूधागृधिभ्यः क्रन्' ( उ. सू. २. १८२ ) इति क्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । नप्त्यः । न पातयतीत्यर्थे ' नप्तृनेष्ट्ट' (उ. सू. २. २५२ ) इत्यादिना उणादिषु नप्तृशब्दस्तृजन्तो निपातितः। ‘ ऋन्नेभ्यो ङीप्' इति ङीप् । यणादेशे ‘ उदात्तयणो हल्पूर्वात्' इति ङीप उदात्तत्वम् । ‘ सुपां सुपो भवन्ति । इति शसो जसादेशः । ततो यणादेशे • उदात्तस्वरितयोर्यणः०' इति स्वरितत्वम् । रेफलोपश्छान्दसः । उक्तं च - ‘ द्वौ चापरौ वर्णविकारनाशौ ' ( का. ६. ३. १०९ ) इति । ‘ शाखान्तरे तु नप्त्र्यः इत्येव पठ्यते । स्वयुक्तिभिः । स्वकीयाः सूर्यसंबन्धिन्यो युक्तयो योजनानि यासाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“The Sun has yoked the seven mares that safely draw his chariot, and comes with them self-harnessed.”
Surya hath yoked the pure bright Seven, the daughters of the car; with these,
His own dear team, he goeth forth.
The Sun has yoked the seven bright mares, The shining daughters of his car: With that self-yoking team he speeds.
He has yoked the seven sleek daughters of the Sun’s chariot.
With these of his own yoking he drives.
Die Sonn' hat sieben glänzende, des Wagens Töchter sich geschirrt, Mit selbst geschirrten fähret er.
Surya hat die sieben sauberen Töchter des Wagens angeschirrt. Mit diesen, die sich selbst anschirren, fährt er.
Запряг (Сурья) семь чистых
Дочерей колесницы солнца.
На них, самозапрягающихся, ездит он.
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥
वयम् अनुष्ठातारः तमसस्परि तमस उपरि रात्रेरूर्ध्वं वर्तमानं तमसः पापात् परि उपरि वर्तमानं वा पापरहितमित्यर्थः । तथा चाम्नायते - उद्वयं तमसस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादप हन्ति' (तै. सं. ५. १. ८. ६) इति । ज्योतिः तेजस्विनम् उत्तरम् उद्गततरमुत्कृष्टतरं वा देवत्रा देवेषु मध्ये देवं दानादिगुणयुक्तं सूर्यं पश्यन्तः स्तुतिभिर्हविर्भिश्चोपासीनाः सन्तः उत्तमम् उत्कृष्टतमं ज्योतिः सूर्यरूपम् अगन्म प्राप्नवाम। तथा च श्रूयते - ‘ अगन्म ज्योतिरुत्तममित्याहासौ वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं गच्छति' (तै.सं. ५.१.८.६) इति ।
युक्तं चैतत्, ‘तं यथा यथोपासते तदेव भवन्ति' इति श्रुत्यन्तरात् ॥
तमसस्परि। ‘ पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् । ज्योतिष्पश्यन्तः । ‘ इसुसोः सामर्थ्ये ' ( पा. सू. ८. ३. ४४ ) इति विसर्जनीयस्य षत्वम् । व्यपेक्षालक्षणं सामर्थ्यं तत्राङ्गीक्रियते ।
देवत्रा। देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (पा. सू. ५. ४, ५६ ) इति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः ।
अगन्म। ‘ छन्दसि लुङ्लङ्लिटः ' इति प्रार्थनायां लङि ‘ बहुलं छन्दसि ' इति शपो लुक् । ' म्वोश्च ' ( पा. सू. ८. २. ६५) इति धातोः मकारस्य नकारः । अडागम उदात्तः । पादादित्वात् निघाताभावः ।
उत्तमम् । तमपः पित्त्वाद् अनुदात्तत्वे प्राप्ते ‘ उत्तमशश्वत्तमौ सर्वत्र' इति उञ्छादिषु पाठाद् अन्तोदात्तत्वम् (६.१.१६० उञ्छादीनां च)॥
“Beholding the up-springing light above the darkness, we approach the divine Sun among the gods, the excellent light.”
Looking upon the loftier light above the darkness we have come
To Surya, God among the Gods, the light that is most excellent.
Athwart the darkness gazing up, To him the higher light, we now Have soared to Sūrya, the god Among the gods, the highest light.
Looking up from the darkness to the higher light, we
have come up to the Sun, god among the gods, the highest light.
Aus dem Dunkel hervor das höchste Licht erblickend, sind wir zu dem Gotte unter den Göttern, zum Suria, zum höchsten Lichte gelangt.
Aus dem Dunkel heraus, das höhere Licht erblickend, dem Gott unter den Göttern, den Surya, sind wir zu dem höchsten Lichte gelangt.
Мы под(нялись) из мрака,
Взирая на свет все выше.
К Сурье – богу среди богов
Мы отправились, к высшему свету.
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् । हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥
हे सूर्य सर्वस्य प्रेरक मित्रमहः सर्वेषामनुकूलदीप्तियुक्त अद्य अस्मिन् काले उद्यन् उदयं गच्छन् उत्तराम् उद्गततरां दिवम् अन्तरिक्षम् आरोहन आभिमुख्येन प्राप्नुवन् । यद्वा । दिवम् अन्तरिक्षम् उत्तराम् आरोहन् उत्कर्षेण प्राप्नुवन् । एवंविधस्त्वं मम हृद्रोगं हृदयगतमान्तरं रोगं हरिमाणं शरीरगतकान्तिहरणशीलं बाह्यं रोगम् । यद्वा । शरीरगतं हरिद्वर्णं रोगप्राप्तं वैवर्ण्यमित्यर्थः । तदुभयमपि नाशय । मां स्तोतारमुभयविधाद्रोगान्मोचयेत्यर्थः ॥ मित्रमहः । मित्रमनुकूलं महस्तेजो यस्यासौ । आमन्त्रितनिघातः । उत्तराम् । उत् इत्यनेन उपसर्गेण स्वसंसृष्टधात्वर्थो लक्ष्यते । तस्मादातिशायनिकः तरप्प्रत्ययः । प्रथमपक्षेऽन्तरिक्षविशेषणत्वेन द्रव्यप्रकर्षप्रतीतेः आम् न भवति । द्वितीये त्वारोहणक्रियायाः प्रकर्षो गम्यते इति किमेत्तिङव्ययघादाभ्वद्रव्यप्रकर्षे ' ( पा. सू. ५. ४. ११ ) इति आमुः। प्रथमपक्षे टाप्तरपोः पित्त्वादनुदात्तत्वे उपसर्गस्वर एव शिष्यते । द्वितीये तु आम्प्रत्ययस्य सतिशिष्टत्वात् तस्यैव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगणः । हृद्रोगम् । “ वा शोकप्यञ्रोगेषु' ( पा. सू. ६.३.५१ ) इति हृदयशब्दस्य हृदादेशः । मम । ‘ युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । हरिमाणम् । ‘ हृञ् हरणे । ‘ जनिहृभ्यामिमनिन् ' ( उ. सू. ४. ५८८ ) इति औणादिक इमनिन्प्रत्ययः । व्यत्ययेनान्तोदात्तत्वम् । यद्वा । हरिच्छब्दस्य वर्णवाचित्वात् वर्णदृढादिभ्यः ष्यञ् च ' (पा. सू. ५. १. १२३) इति चकारात् इमनिन्प्रत्ययः । इष्ठेमेयःसु ' इत्यनुवृत्तौ ‘ टेः' इति टिलोपः ॥
“Radiant with benevolent light, rising today and mountina into the highest heaven, do you O Sun, remove sickness of my heart, and the yellowness (of my body).”
Rising this day, O rich in friends, ascending to the loftier heaven,
Surya remove my heart's disease, take from me this my yellow hue.
As you go up today, o you of Mitra’s might, and mount the higher heaven,
banish my heart-affliction and jaundice, o Sun.
Aufgehend heute, o Freunderfreuer, aufsteigend zum höchsten Himmel, o Sonnengott, vertilge meine Herzkrankheit und meine Gelbsucht.
Wenn Du heute aufgehst, du als Freund Geehrter, und am Himmel höher steigst, so vertreibe, o Surya, meine Herzkrankheit und Gelbsucht!
О почитаемый как друг, восходя сегодня
(И) поднимаясь на высшее небо,
Уничтожь, о Сурья,
Мою болезнь сердца и желтуху!
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि । अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥
शुके॑षु । मे॒ । ह॒रि॒माण॑म् । रो॒प॒णाका॑सु । द॒ध्म॒सि॒ । अथो॒ इति॑ । हा॒रि॒द्र॒वेषु॑ । मे॒ । ह॒रि॒माण॒म् । नि । द॒ध्म॒सि॒ ॥
मे मदीयं हरिमाणं शरीरगतं हरिद्वर्णस्य भावं शुकेषु तादृशं वर्णं कामयमानेषु पक्षिषु तथा रोपणाकासु शारिकासु पक्षिविशेषेषु दध्मसि स्थापयामः । अथो अपि च हारिद्रवेषु हरितालद्रुमेषु तादृग्वर्णवत्सु मे मदीयं हरिमाणं नि दध्मसि निदधीमहि । स च हरिमा तत्रैव सुखेनास्ताम् अस्मान् मा बाधिष्टेत्यर्थः ॥ दध्मसि । 'इदन्तो मसि' इति मस इकारागमः ॥
“Let us transfer the yellowness (of my body) to the parrots, to the starlings, or to the haritāla (tree).”
To parrots and to starlings let us give away my yellowness,
Or this my yellowness let us transfer to Haritala trees.
In the parrots, in the ropanā-birds we place my jaundice.
And in the hāridrava-birds we deposit my jaundice.
Auf die Papageien und die Drosseln legen wir meine Gelbsucht, auf die gelbfüssigen Vögel legen wir meine Gelbsucht nieder.
Auf die Papageien, auf die Ropanaka´s legen wir meine Gelbsucht und auf die Harisdrava´s legen wir meine Gelbsucht ab.
Попугаям – мою желтуху,
(Птицам) ропанака – мы оставляем,
А также (птицам) харидрава мою
Желтуху мы оставляем!
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह । द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥
अयं पुरोवर्ती आदित्यः अदितेः पुत्रः सूर्यः विश्वेन सहसा सर्वेण बलेन सह उदगात् उदयं प्राप्तवान् । किं कुर्वन् । मह्यं द्विषन्तं रन्धयन् ममोपद्रवकारिणं हिंसन् अपि च अहं द्विषते अनिष्टकारिणे रोगाय मो रधं नैव हिंसां करोमि । सूर्य एव अस्मदनिष्टकारिणं रोग विनाशयत्वित्यर्थः ॥ अगात् । एतेर्लुङि ‘ इणो गा लुङि' इति गादेशः । ‘ गातिस्था° ' इति सिचो लुक् । आदित्यः । ‘ दित्यदित्यादित्य° ' इति अपत्यार्थे प्राग्दीव्यतीयो ण्यप्रत्ययः । रन्धयन् । ‘ रध हिंसासंराद्ध्योः '। ण्यन्तात् लटः शतृ । ‘ रधिजभोरचि' (पा. सू. ७. १. ६१ ) इति णौ धातोः नुमागमः । मो । मा उ निपातद्वयसमुदायो मैवेत्यस्यार्थे । ‘ओत् ' ( पा. सू. १. १. १५) इति प्रगृह्यत्वे ‘ प्लुतप्रगृह्या अचि° ' इति प्रकृतिभावः । द्विषते । ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । रधम् । रधेर्लुङि पुषादित्वात् च्लेः अङादेशः । ‘ रधिजभोरचि' इति धातोः नुम् ।“ अनिदिताम्' इति अनुषङ्लोपः । न माङ्योगे ' इति अडभावः ॥ ॥ ८ ॥ ॥ ९ ॥
“This Āditya has risen with all (his) might, destroying my adversary, for I am unable to resist my enemy (sickness).”
With all his conquering vigour this Aditya hath gone up on high,
Giving my foe into mine hand: let me not be my foeman's prey.
Up has gone this Āditya here, along with all his strength,
making the hater subject to me. May I not become subject to the hater.
Here begins the second large division of Maṇḍala I (51–191).
The next seven hymns (I.51–57) are ascribed to Savya Āṅgirasa and consist only of Indra hymns. For the most part the hymns are a glorification of Indra’s deeds— both the standard and well-known triumphs like the smashing of Vr̥tra (see esp. I.52) and numerous lesser-known feats, which are presented in catalogue fashion (see esp. I.51, 53). The style is often syntactically and rhetorically contorted, with rare words and obscure expressions.
Dieser Aditja ist aufgegangen mit aller seiner überwältigenden Macht, den Hasser mir ausliefernd, nicht möge ich dem Hasser ausgeliefert werden.
Dieser Aditya ist mit voller Macht aufgegangen und unterwirft mir den Feind; nicht möge ich dem Feind unterliegen.
Взошел этот Адитья
Со всей (своей) силой,
Отдавая мне во власть ненавистника.
Да не попаду я под власть ненавистнику!