अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् । यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
अ॒भि । त्यम् । मे॒षम् । पु॒रु॒ऽहू॒तम् । ऋ॒ग्मिय॑म् । इन्द्र॑म् । गीः॒ऽभिः । म॒द॒त॒ । वस्वः॑ । अ॒र्ण॒वम् । यस्य॑ । द्यावः॑ । न । वि॒ऽचर॑न्ति । मानु॑षा । भु॒जे । मंहि॑ष्ठम् । अ॒भि । विप्र॑म् । अ॒र्च॒त॒ ॥
त्यं तं प्रसिद्धं मेषं शत्रुभिः स्पर्धमानम् । यद्वा । कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ । स ऋषिस्तं मेष इत्यवोचत्। अत इदानीमपि मेष इति इन्द्रः अभिधीयते । मेधातिथेर्मेष ' इति सुब्रह्मण्यमन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते- मेघातिथिं हि कण्वायनिं मेषो भूत्वाजहार ' इति। आगत्य सोममपहृतवानित्यर्थः। पुरुहूतं पुरुभिर्यजमानैराहूतं ऋग्मियम् ऋग्भिर्विक्रियमाणं स्तूयमानमित्यर्थः। स्तुत्या हि देवता विक्रियते। यद्वा । ऋग्भिर्मीयते शब्द्यते इति ऋग्मीः । तम् । वस्वो अर्णवं धनानामावासभूमिं एवंगुणविशिष्टम् इन्द्रं हे स्तोतारः गीर्भिः स्तुतिभिः अभि मदत आभिमुख्येन हर्षं प्रापयत । यस्य इन्द्रस्य कर्माणि मानुषा मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते । तत्र दृष्टान्तः। द्यावो न। यथा सूर्यरश्मयः सर्वेषां हितकराः । भुजे भोगाय मंहिष्ठम् अतिशयेन प्रवृद्धं विप्रं मेधाविनं तथाविधम् इन्द्रम् अभि अर्चत अभिपूजयत ॥ मेषम् । ‘ मिष स्पर्धायाम् । इगुपधलक्षणे के प्राप्ते ' देवसेनमेषादयः पचादिषु द्रष्टव्यः' इति वचनात् अच्प्रत्ययः । ऋग्मियम् । तस्य विकारः' इत्यर्थे ' एकाचो नित्यं मयटमिच्छन्ति ' (का. ४. ३. १४४ ) इति मयट्प्रत्ययः । अकारस्य इकारश्छान्दसः । प्रत्ययस्वरः । यद्वा । 'माङ् माने शब्दे च'। ऋग्भिर्मीयते इति ऋग्मीः । क्विपि वलि लोपात् पूर्वमेव परत्वात् ‘घुमास्था' इति ईत्वम्। अचि श्नुधातु°' इत्यादिना इयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । मदत । ‘ मदी हर्षे '। हेतुमति णिच् । ‘ मदी हर्षग्लेपनयोः ' इति घटादिषु पाठात् हर्षार्थे वर्तमानस्य ‘घटादयो मितः' इति मित्त्वे सति ‘ मितां ह्रस्वः' ( पा. सू. ६. ४. ९२ ) इति ह्रस्वत्वम् । लोण्मध्यमपुरुषबहुवचने शपि ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । तशब्दस्य ‘सार्वधातुकमपित्' इति ङित्त्वे ' ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' इति दीर्घः । वस्वः । ङस्य आगमानुशासनस्यानित्यत्वात् नुमभावः। जसादिषु च्छन्दसि वावचनम्' (पा. सू. ७. ३. १०९. १ ) इति वचनात् ‘ घेर्ङिति' (पा. सू. ७. ३. १११) इति गुणाभावे यणादेशः । अर्णवम् । अर्ण उदकमस्मिन्नस्तीति अर्णवः समुद्रः । ‘ अर्णसो लोपश्च' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । तेन शब्देन जलाश्रयवाचिना आश्रयमात्रं लक्ष्यते । प्रत्ययस्वरः। विचरन्ति । चर गत्यर्थः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतिरनुदात्ता । यद्वृत्तयोगादनिघातः । मानुषा । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । भुजे । ‘भुज पालनाभ्यवहारयोः । संपदादिलक्षणो भावे क्विप् । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । मंहिष्ठम् । ‘ महि वहि वृद्धौ ' । अतिशयेन मंहिता मंहिष्ठः । तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । ‘तुरिष्ठेमेयःसु' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । अर्चत ।' अर्च पूजायाम् । भौवादिकः ॥
“Anime with praises that ram, (Indra), who is adored by many, who is gratified by hymns, and is an ocean of wealth; whose good deeds spread abroad for the benefit of mankind, like the rays of light; worship the powerful and wise Indra, for the enjoyment of prosperity.”
MAKE glad with songs that Ram whom many men invoke, worthy of songs of praise, Indra, the sea of wealth;
Whose gracious deeds for men spread like the heavens abroad: sing praise to him the Sage, most liberal for our good.
With your hymns exhilarate this ram, much-summoned Indra worthy of verses, the flood of good,
for whom the human (generations) pass by like the days. Chant to the most liberal inspired one for our benefit.
Erfreut mit Lied den vielgerufnen Widder, ihn, den preisenswerthen Indra, der ein Meer des Guts; Ihn, dessen Tage nicht vergehn wie menschliche, der zum Genuss am meisten schenkt, den weisen preist.
Den bekannten Widder, den vielgerufenen, preiswürdigen Indra ergötzet mit Lobreden, der ein Sturm des Guten ist; für den die menschlichen Geschlechter wie die Tage vergehen. Den freigebigsten Redekundigen besinget euch zu Nutz!
Этого барана – много раз призванного, прославленного
Индру опьяняйте хвалебными песнями, (этот) поток добра,
Чьи (деяния) ради людей распространяются, как небеса.
Воспевайте (нам) на радость щедрейшего вдохновенного!
अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् । इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒ऽअ॒भि॒ष्टिम् । ऊ॒तयः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राम् । तवि॑षीभिः । आऽवृ॑तम् । इन्द्र॑म् । दक्षा॑सः । ऋ॒भवः॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तुम् । जव॑नी । सू॒नृता॑ । आ । अ॒रु॒ह॒त् ॥
ऊतयः अवितारो रक्षितारः दक्षासः दक्षयितारः प्रवर्धयितारः ऋभवः । उरु भान्ति इति नैरुक्तव्युत्पत्त्या ऋभवोऽत्र मरुत उच्यन्ते । एवंभूता मरुतः इन्द्रम् अभीमवन्वन् आभिमुख्येन खलु अभजन्त । वृत्रेण सह युध्यमानमिन्द्रं सर्वे देवाः पर्यत्यजन् । मरुतस्तु तथा न पर्यत्याक्षुः । तथा चाम्नास्यते - ‘विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु' (ऋ. सं. ८.९६. ७) इति । ब्राह्मणेऽप्याम्नातं- ‘ मरुतो हैनं नाजहुः' (ऐ. ब्रा. ३. २०) इति । कीदृशमिन्द्रम् । स्वभिष्टिं शोभनाभ्येषणवन्तं शोभनाभिगमनमित्यर्थः । अन्तरिक्षप्राम् । अन्तरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीति अन्तरिक्षप्राः। द्वादशस्वादित्येषु इन्द्रस्य विद्यमानत्वात् । शाखान्तरेऽपि श्रूयते-- तस्या इन्द्रश्च विवस्वाँश्चाजायेताम्' (तै. ब्रा. १. १. ९. ३ ) इति, ‘इन्द्रश्च विवस्वांश्चेत्येते ( तै. आ. १. १३.३) इति च । तविषीभिरावृतम् । तविषीति बलनाम।' तविषी शुष्मम् ' (नि. २. ९. १०) इति तन्नामसु पाठात् । बलैरावृतम् । अतिबलिनमित्यर्थः । अत एव मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम् । किंच शतक्रतुं शतसंख्यानां ऋतूनामाहर्तारं बहुविधकर्माणं वा । पूर्वोक्तं तमिन्द्रं जवनी वृत्रवधं प्रति प्रेरयित्री सूनृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व' ( ऐ. ब्रा. ३. २०) इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागपि आरुहत् आरूढवती। वृत्रवधं प्रति सापि वाक् इन्द्रस्योत्साहकारिण्यभूदित्यर्थः ॥ अवन्वन् । ‘ वन षण संभक्तौ'। लङि शपि प्राप्ते व्यत्ययेन उप्रत्ययः । स्वभिष्टिम् । ‘ इष गतौ'। भावे क्तिन्प्रत्ययः । ‘ तितुत्र' इत्यादिना इट्प्रतिषेधः । एमन्नादित्वात् पररूपत्वम् (पा. सू. ६. १. ९४. ६ )। शोभना अभिष्टयो यस्येति बहुव्रीहौ ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ऊतयः । अवतेः ‘कृत्यल्युटो बहुलम्' इति कर्तरि क्तिन्प्रत्ययः । यद्वा । ' क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ज्वरत्वर ' इत्यादिना ऊठ् ।' चितः' इत्यन्तोदात्तत्वम् । अन्तरिक्षप्राम् ।' प्रा पूरणे । अन्तरिक्षं प्राति पूरयतीति अन्तरिक्षप्राः । ‘ आतो मनिन् इत्यत्र चशब्दात् विच् । आवृतम् । वृञ् वरणे । आव्रियते इति आवृतः । कर्मणि निष्ठा। ‘गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् । दक्षासः । ‘ दक्ष वृद्धौ । दक्षन्ते एभिरिति दक्षाः । करणे घञ् । ञित्वादाद्युदात्तत्वम् । आजसेरसुक्' । मदच्युतम् । च्युङ् गतौ । अन्तर्भावितण्यर्थात् ‘ क्विप् च ' इति क्विप् । ‘ह्रस्वस्य पिति कृति ' इति तुक् । शतक्रतुम् । शतं क्रतवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवनी । जु इति सौत्रो धातुः । करणे ल्युट् । ' टिड्ढाणञ्° ' इत्यादिना ङीप् । लित्स्वरेण जकारात् परस्योदात्तत्वम् । अरुहत् । रुहेर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेः अङादेशः ॥
“The protecting and fostering Ṛbhus hastened to the presence of Indra, of graceful motion, and irradiating the firmament, imbued with vigour, the humiliator of his enemies, the performer of a hundred pious acts; and by them, encouraging words were uttered.”
As aids the skilful Rbhus yearned to Indra strong to save, who fills mid-air, encompassed round with might,
Rushing in rapture; and o'er Satakratu came the gladdening shout that urged him on to victory.
His forms of help [=helpers] attained to the very superior one, who fills the midspace but is enclosed by his powers—
the skillful R̥bhus (attained to) Indra, who was aroused to
exhilaration. Liberality, impelling (him), mounted to him of a
hundred resolves.
Der gerne beisteht, kraftbegabt die Luft erfüllt, den Indra haben die Genüsse recht erfreut, Den Rauscherregten kunstgeübt die Sängerschar, zum hundertkräft'gen steigt ermunternd der Gesang.
Ihn, den Überlegenen, bevorzugten die Hilfen, der den Luftraum ausfüllt, der von den Stärken umgeben ist, den rauscherregten Indra, die geschickten Ribhu´s. Zu dem Ratreichen ist die raschhandelnde Großmut aufgestiegen.
Его, прекрасно превосходящего (всех), покорили подкрепления,
(Его), наполняющего пространство, окруженного силами,
Индру, возбужденного сомой, – умелые Рибху.
На стосильного нашло быстрое великодушие.
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् । स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रि॑ग वावसा॒नस्य॑ न॒र्तय॑न् ॥
त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् । स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥
हे इन्द्र त्वं गोत्रम् अव्यक्तशब्दवन्तं वृष्ट्युदकस्यावरकं मेघम् अङ्गिरोभ्यः अङ्गिरसामृषीणामर्थाय अप अवृणोः अपवरणं कृतवानसि । वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः। यद्वा । गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितम् अङ्गिरोभ्यः ऋषिभ्यः अप अवृणोः गुहाद्वारोद्घाटनेन प्रकाशयः । उत अपि च अत्रये महर्षये । कीदृशाय । शतदुरेषु शतद्वारेषु यन्त्रेष्वसुरैः पीडार्थं प्रक्षिप्ताय गातुवित् मार्गस्य लम्भयिताभूः । तथा विमदाय चित् विमदनाम्ने महर्षयेऽपि ससेन अन्नेन युक्तं वसु धनम् अवहः प्रापितवान् । तथा आजौ संग्रामे जयार्थं ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुः अद्रिं वज्रं नर्तयन् रक्षणं कृतवानसीति शेषः । अतस्तव महिमा केन वर्णयितुं शक्यते इति भावः ॥ गोत्रम् ।' गुङ् अव्यक्ते शब्दे । औणादिकः त्रप्रत्ययः । यद्वा । खलगोरथात्' इत्यनुवृत्तौ ‘ इनित्रकट्यचश्च' (पा. सू. ४. २. ५१) इति समूहार्थे त्रप्रत्ययः । शतदुरेषु । शतं दुरा द्वाराण्येषाम् । द्वृ इत्येके । द्वर्यन्ते संव्रियन्ते इति दुराः। घञर्थे कविधानम्' इति कप्रत्ययः। छान्दसं संप्रसारणं परपूर्वत्वम् । तच्च यो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशम् इति • उरण् रपरः ' ( पा. सू. १. १. ५१ ) इति रपरं भवति । यद्वा । द्वारशब्दस्यैव छान्दसं संप्रसारणं द्रष्टव्यम् । गातुवित् । ‘गाङ् गतौ' । अस्मात् ‘कमिमनिजनिभागापायाहिभ्यश्च' (उ. सू. १. ७२ ) इति तुप्रत्ययः । तं वेदयति लम्भयतीति गातुवित् । ‘विद्लृ लाभे' । अन्तर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम्। ससेन । ससम् इति अन्ननाम । ‘ससं नमः आयुः' (नि.२.७.२१) इति तन्नामसु पाठात् । आजिः इति संग्रामनाम । आहवे आजौ ' (नि. २. १७. ८) इति तत्र पाठात् । अद्रिम् । अत्ति भक्षयति वैरिणम् इति अद्रिर्वज्रः । ‘ अदिशदिभूशुभिभ्यः क्रिन्' इति क्रिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यास्कस्त्वेवम् अद्रिशब्दं व्याचख्यौ- अद्रिरादृणात्यनेनापि वात्तेः स्यात् ' ( निरु. ४. ४ ) इति । ववसानस्य । ‘वस निवासे । कर्तरि ताच्छीलिकः चानश् । 'बहुलं छन्दसि ' इति शपः श्लुः । द्विर्भावहलादिशेषौ । चित्वादन्तोदात्तत्वम् ॥
“You have opened the cloud for the Aṅgirasas you have shown the way to Atri, who vexes his adversaries by a hundred doors (by a number of yantras, means or contrivances); you have granted wealth, with food, to Vimada; you are wielding your thunderbolt in defence of a worshipper engaged in battle.”
Thou hast disclosed the kine's stall for the Angirases, and made a way for Atri by a hundred doors.
On Vimada thou hast bestowed both food and wealth, making thy bolt dance in the sacrificer's fight.
You opened up the cowpen for the Aṅgirases, and you were the
way-finder for Atri in the (house) of a hundred doors.
You also conveyed the good thing [=wife?] to Vimada along with grain (for the oblation?), when in the contest you set to dancing the stone of the one clad in it.
Den Angiras hast du den Kuhstall aufgethan dem Atri auch, durch hundert Thüren schaffend Bahn; Hast selbst im Schlafe Gut dem Vimada gebracht, als du im Kampf den Stein des Schützen schleudertest.
Du hast für die Angira´s die Kuhherde aufgedeckt und dem Atri warst du Pfadfinder in dem hunderttorigen Hause. Dem Vimada brachtest du Gutes sogar auf Vorrat, indem du im Kampfe den Fels des, der sich darin einhüllte verbarg, im Kreise drehtest.
Ты открыл для Ангирасов загон с коровами,
А для Атри ты (был) отыскателем пути в стовратном (доме).
Добро даже с урожаем ты привез Вимаде,
В сражении заставив плясать скалу (укрытие врага,) окружившего себя (награбленным добром).
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रय॒: पर्व॑ते॒ दानु॑म॒द्वसु॑ । वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥
हे 'इन्द्र त्वम् अपाम् उदकानाम् अपिधाना अपिधानानि आच्छादकान् मेघान् अप अवृणोः अपावरीष्ठाः । तथा पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीय निवासस्थाने दानुमत् दानुमतो हिंसायुक्तस्य । यद्वा । दनुः असुरमाता सैव दानुः । तद्वतः। तादृशस्य वृत्रादेः 'वसु धनम् अधारयः। शत्रून् जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिपः इत्यर्थः । यद्वा । दानुमत् इति वसुविशेषणम्। शोभनदानयुक्तमित्यर्थः । हे इन्द्र त्वं यत् यदा शवसा बलेन वृत्रं त्रयाणां लोकानामावरीतारम् । तथा च शाखान्तरे समाम्नातं - यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् ' (तै. सं. २. ४. १२.२) इति। अहिं आ समन्तात् हन्तारम् । तथा च वाजसनेयिनः समामनन्ति - सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्नाद्यं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिः' इति । एवंभूतमसुरम् अवधीः वधं प्रापयः । आदित् अनन्तरमेव दिवि द्युलोके दृशे द्रष्टुं सूर्यम् आरोहयः । वृत्रेणावृतं सूर्यं तस्माद्वृत्रात् अमूमुचः इत्यर्थः । अपाम् ।' उडिदम् ' इत्यादिना विभक्तेरुदात्तत्वम् । अपिधाना । अपिधीयते आच्छाद्यते एभिरिति अपिधानानि । करणे ल्युट् । ‘ लिति' इति प्रत्ययात् पूर्वस्य धात्वाकारस्योदात्तत्वम् । तत एकादेशस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुक्° ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । अधारयः । पादादित्वात् निघाताभावः । पर्वते । पर्ववान् पर्वतः । ‘ पर्व पुनः पृणातेः प्रीणतेर्वा ' ( निरु. १. २०) इति यास्कः । दानुमत् ।' दो अवखण्डने ' इत्यस्मात् वा ' दाण् दाने ' इत्यस्मात् वा ' दाभाभ्यां नुः' इति औणादिको नुप्रत्ययः । असुरविशेषणत्वे ‘ सुपां सुलुक् ' इति षष्ठ्या लुक् ॥
“You have opened the receptacle of the waters; you have detained in the mountain the treasure of the malignant; when you had slain Vṛtra, the destryer, you made the sun visible in the sky.”
Thou hast unclosed the prisons of the waters; thou hast in the mountain seized the treasure rich in gifts.
When thou hadst slain with might the dragon Vrtra, thou, Indra, didst raise the Sun in heaven for all to see.
You opened up the covers of the waters; you held fast to the drop-laden goods in the mountain.
When, o Indra, with your vast power you smashed the serpent Vr̥tra, just after that you made the sun rise in heaven to be seen.
Der Wasserflut Verschlüsse hast du aufgethan, und hast im Berg das tropfenreiche Gut bewahrt; Als Indra du den Vritra-drachen schlugst mit Macht, da liessest hoch am Himmel du die Sonne schaun.
Du hast die Verschlüsse der Gewässer geöffnet; du hieltest fest den Schatz der Himmelsgabe in dem Berge. Als du, Indra, den Drachen mit aller Kraft erschlagen hattest, da ließest du am Himmel die Sonne zum Schauen aufsteigen.
Ты открыл затворы вод,
Ты принес горе добро, связанное с влагой.
Когда, о Индра, силой ты убил Вритру-змея,
Тем самым ты заставил на небе подняться солнце, чтобы (все) видели (его).
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत । त्वं पिप्रो॑र्नृमण॒: प्रारु॑ज॒: पुर॒: प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत । त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्चा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥
हे इन्द्र त्वं मायाभिः जयोपायज्ञानैः । मायेति ज्ञाननाम, ‘शची माया' (नि. ३. ९. ९) इति तन्नामसु पाठात् । यद्वा । मायाभिः लोकप्रसिद्धैः कपटैः । मायिनः उक्तलक्षणमायोपेतान् वृत्रादीनसुरान् अप अधमः अपाजीगमः । ‘ धमतिर्गतिकर्मा ' (निरु. ६. २) इति यास्कः । ये असुराः स्वधाभिः हविर्लक्षणैरन्नैः शुप्तौ अधि शोभमाने स्वकीये मुखे एव अजुह्वत अहौषुः नाग्नौ तानसुरानिति पूर्वेण संबन्धः। तथा च कौषीतकिभिराम्नायते - ‘ असुरा वा आत्मन्नजुहवुरुद्वातेऽग्नौ ते पराभवन्' इति । वाजसनेयिभिरप्याम्नातं- देवाश्च ह वा असुराश्चास्पर्धन्त ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुः' इति । तथा हे नृमणः नृषु यजमानेषु रक्षितव्येषु अनुग्रहबुद्धियुक्त त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्र अरुजः प्राभाङ्षीः े । एवं कृत्वा तेनासुरेणोपद्रुतम् ऋजिश्वानम् ऋजुगमनमेतत्संज्ञकं स्तोतारं दस्युहत्येषु दस्यूनामुपक्षपयितॄणां हननेन युक्तेषु संग्रामेषु । यद्वा । दस्यूनां हनने निमित्तभूतेषु प्र आविथ प्रकर्षेण ररक्षिथ ॥ मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् ' व्रीह्यादिभ्यश्च ' इति मत्वर्थीय इनिः । शुप्तौ । ‘ शुभ दीप्तौ । कर्मणि क्तिन् । ‘ तितुत्र' ' इत्यादिना इट्प्रतिषेधः । ‘ झषस्तथोः' इति धत्वाभावश्छान्दसः । ‘ खरि च' ( पा. सू. ८. ४. ५५ ) इति चर्त्वम् । अजुह्वत । जुहोतेर्लङि व्यत्ययेन आत्मनेपदम् । ‘अदभ्यस्तात् ' ( पा. सू. ७. १. ४ ) इति झस्य अदादेशः । हुश्नुवोः सार्वधातुके ' इति यणादेशः । पिप्रोः। ‘पॄ पालनपूरणयोः । ‘ पॄभिदिव्यधि' ' (उ. सू. १. २३) इत्यादिना कुप्रत्ययः । ‘ उदोष्ठ्यपूर्वस्य ' इत्यत्र ‘ बहुलं छन्दसि ' इत्युक्तत्वात् उत्वाभावः । छान्दसं द्विर्वचनम् । अभ्यासस्य उरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्च, बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । यणादेशः । नृमणः । नृषु मनो यस्य । ‘ छन्दस्यृदवग्रहात्' ( पा. सू. ८. ४. २६) इति णत्वम् । अरुजः। ‘ रुजो भङ्गे'। शस्य ङित्त्वात् गुणाभावः । ऋजिश्वानम् । ऋजु अश्नुते प्राप्नोतीति ऋजिश्वा । पृषोदरादिः । दस्युहत्येषु । ‘ हन हिंसागत्योः । ‘हनस्त च ' ( पा. सू. ३. १. १०८ ) इति भावे क्यप्प्रत्ययः तकारश्चान्तादेशः । दस्यूनां हत्या येषु संग्रामेषु ।' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम् । आविथ ।' अव रक्षणे '॥ ॥ ९ ॥
“You, Indra, by the devices, have humbled the deceivers who presented oblations to their own mouths; propitious to men, you have destroyed the cities of Pipru, and have well defended Ṛjiśvan in robber-destroying (contest).”
With wondrous might thou blewest enchanter fiends away, with powers celestial those who called on thee in jest.
Thou, hero-hearted, hast broken down Pipru's forts, and helped Rjisvan when the Dasyus were struck dead.
With your wiles you blew away the wily ones, who, according to their own customs, poured (their offering) “on the shoulder.”
You broke through the strongholds of Pipru, o you of manly mind; you helped R̥jiśvan through in the smashing of Dasyus.
Du bliesest weg die Zauberer mit Zaubermacht, die eignen Brauches auf der Schulter opferten; Des Pipru Burgen brachest heldenmüth'ger du, und halfest dem Ridschiçvan im Dämonenkampf.
Du bliesest mit Zauberkünsten die Zauberkundigen hinweg, die nach eigenem Ermessen über die Schulter opferten. Du brachst des Pipru Burgen, du Mannherziger; du halfst dem Rijisvan in den Dasyuschlachten weiter.
Колдовскими силами ты сдул прочь колдунов
Которые по своему обычаю совершали возлияние (себе) на плечо.
Ты проломил крепости Пипру, о мужественный духом.
Ты сильно помогал Риджишвану в смертельных битвах с дасью.
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् । म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
त्वम् । कुत्स॑म् । शुष्ण॒ऽहत्ये॑षु । आ॒वि॒थ॒ । अर॑न्धयः । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । म॒हान्त॑म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒ऽहत्या॑य । ज॒ज्ञि॒षे॒ ॥
हे इन्द्र त्वं कुत्सं कुत्ससंज्ञकमृषिं शुष्णहत्येषु । शुष्णः शोषयिता । एतन्नाम्नोऽसुरस्य हननयुक्तेषु संग्रामेषु आविथ ररक्षिथ । तथा अतिथिग्वाय अतिथिभिर्गन्तव्याय दिवोदासाय शम्बरम् एतन्नामानमसुरम् अरन्धयः हिंसां प्रापयः । तथा महान्तं चित् अतिप्रवृद्धमपि अर्बुदम् एतत्संज्ञकमसुरं पदा पादेन नि क्रमीः नितरामाक्रमिताभूः । यस्मादेवं तस्मात् सनादेव चिरकालादेवारभ्य दस्युहत्याय उपक्षपयितॄणां हननाय जज्ञिषे । सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः॥ अरन्धयः । ‘रध हिंसासंराद्ध्योः'। रधिजभोरचि' ( पा. सू. ७. १. ६१) इति धातोः नुम् । अतिथिग्वाय । गमेः औणादिको ड्वप्रत्ययः । क्रमीः । ‘ क्रमु पादविक्षेपे'। हम्यन्तक्षण ' ( पा. सू. ७. २. ५) इति वृद्धिप्रतिषेधः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । पदा । सावेकाचः° ' इति वा ‘ उडिदंपदादि° ' इति वा विभक्तेरुदात्तत्वम् । जज्ञिषे । ‘जनी प्रादुर्भावे'। लिटि • गमहन इत्यादिना उपधालोपः ॥
“You have defended Kutsa in fatal fights with Śuśna; you have destroyed Śambara in defence of Atithigva; you have trodden with your foot upon the great Arbuda; frm remote times were you born for the destruction of oppressors.”
Thou savedst Kutsa when Susna was smitten down; to Atithigva gavest Sambara for a prey.
E'en mighty Arbuda thou troddest under foot: thou from of old wast born to strike the Dasyus dead.
You helped Kutsa in the smashing of Śuṣṇa, and you made Śambara subject to Atithigva.
With your foot you trampled down Arbuda, though he was great.
Indeed, from long ago you were born to smash Dasyus.
Du halfst dem Kutsa, als er mit Dämonen focht, und gabst in Atithigva's Hand den Çambara, Mit Füssen tratest du den grossen Arbuda, Und Unholdtödtung bist von Anfang du bestimmt.
Du standest dem Kutsa in den Susnakämpfen bei, du liefertest dem Atithigva den Sambara aus. Den Arbuda tratest du trotz seiner Größe mit dem Fuße nieder. Vor alters schon bist du für die Dasyuerschlagung geboren.
Ты поддерживал Кутсу в смертельных битвах с Шушной.
Ты отдал Шамбару во власть Атитхигвы.
Ты топтал ногой Арбуду, такого огромного.
От века ты рожден для убийства дасью.
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राध॑: सोमपी॒थाय॑ हर्षते । तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
त्वे इति॑ । विश्वा॑ । तवि॑षी । स॒ध्र्य॑क् । हि॒ता । तव॑ । राधः॑ । सो॒म॒ऽपी॒थाय॑ । ह॒र्ष॒ते॒ । तव॑ । वज्रः॑ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः॑ । अव॑ । विश्वा॑नि । वृष्ण्या॑ ॥
हे इन्द्र त्वे त्वयि विश्वा तविषी सर्वं बलं सध्र्यक् सध्रीचीनं अपराङ्मुखं यथा भवति तथा हिता निहितम् । तथा तव राधः मनः सोमपीथाय सोमपानाय हर्षते हृष्यति । किंच तव बाह्रोः हस्तयोः हितः अवस्थितः वज्रः चिकिते अस्माभिर्ज्ञायते । अतः शत्रोः शातयितुर्वैरिणः विश्वानि सर्वाणि वृष्ण्या वृष्ण्यानि वीर्याणि अव वृश्च छेदनं कुरु ॥ सहाञ्चतीति सध्र्यक् । अञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । समासे ‘सहस्य सध्रिः' इति सहशब्दस्य सध्र्यादेशः । ‘ चोः कुः' इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ' अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् सध्र्यादेशः अन्तोदात्तः । तस्य यणादेशे ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । राधः । राप्नोति समृद्धो भवत्यनेन । राधोऽत्र मन उच्यते । असुनो नित्त्वादाद्युदात्तत्वम् । सोमपीथाय । ‘पा पाने'। ‘ पातॄतुदिवचि° ' इत्यादिना थक्प्रत्ययः । ‘ घुमास्था" ' इति ईत्वम् । हर्षते । हृष तुष्टौ । श्यनि प्राप्ते व्यत्ययेन शप् आत्मनेपदं च । चिकिते । कित ज्ञाने'। 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लिट् । बाह्वोः । ‘ उदात्तयणः' इति विभक्तेरुदात्तत्वम् । वृश्च । ‘ ओव्रश्चू छेदने । तौदादिकः । ग्रहिज्यादिना संप्रसारणम् । विकरणस्वरः । संहितायां ‘द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । वृष्ण्या । वृष सेचने '। औणादिको नक्प्रत्ययः । तत्र भवानि वृष्ण्यानि। ‘ भवे छन्दसि' इति यत्। ‘ यतोऽनावः' इत्याद्युदात्तत्वम् ।' शेश्छन्दसि ' इति शेर्लोपः ॥
“In you, Indra, is all vigour fully concentrated; you will delight to drink the Soma; it is known by us that the thunderbolt is deposited in your hands; cut off all prowess from the foe.”
All power and might is closely gathered up in thee; thy bounteous spirit joys in drinking Soma juice.
Known is the thunderbolt that lies within thine arms: rend off therewith all manly prowess of our foe.
In you every power has been placed toward the same end. Your
generosity excites itself to drink the soma. Your mace has become visible, placed in your arms: hew down the
bullish strengths of your rival.
In dich sind alle Kräfte insgesammt gelegt; dein holder Sinn erfreut sich an dem Somatrunk, Es zeigt der Blitz sich, der in deinen Armen ruht, des Feindes Kräfte haue alle du herab.
In dich ist alle Stärke insgesamt gelegt; deine Freigebigkeit freut sich auf den Somatrunk. Deine Keule tut sich hervor, wenn sie dir in die Arme gelegt wird. Beschneide alle Kräfte des Feindes!
Вся сила сосредоточена в тебе для одной цели.
Твоя щедрость радуется питью сомы.
Твоя ваджра проявляет себя, (будучи) вложена (тебе) в руки.
Обруби все мужские силы врага!
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् । शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
वि । जा॒नी॒हि॒ । आर्या॑न् । ये । च॒ । दस्य॑वः । ब॒र्हिष्म॑ते । र॒न्ध॒य॒ । शास॑त् । अ॒व्र॒तान् । शाकी॑ । भ॒व॒ । यज॑मानस्य । चो॒दि॒ता । विश्वा॑ । इत् । ता । ते॒ । स॒ध॒ऽमादे॑षु । चा॒क॒न॒ ॥
हे इन्द्र त्वं आर्यान् विदुषः अनुष्ठातॄन् वि जानीहि विशेषेण बुध्यस्व । ये च दस्यवः तेषामनुष्ठातॄणामुपक्षपयितारः शत्रवः तानपि वि जानीहीति शेषः । ज्ञात्वा च बर्हिष्मते बर्हिषा यज्ञेन युक्ताय यजमानाय अव्रतान् । व्रतमिति कर्मनाम । कर्मविरोधिनस्तान् दस्यून् रन्धय हिंसां प्रापय । यद्वा यजमानस्य वशं गमय ।' रध्यतिर्वंशगमने ' ( निरु. ६. ३२ ) इति यास्कः । किं कुर्वन् । शासत् दुष्टानामनुशासनं निग्रहं कुर्वन् । अतः शाकी शक्तियुक्तस्त्वं यजमानस्य चोदिता प्रेरको भव । यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान् यजमानैः सम्यगनुष्ठापय इति भावः । अहमपि स्तोता ते तव ता तानि पूर्वोक्तानि कर्माणि विश्वेत् सर्वाण्येव सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं चाकन कामये ॥ जानीहि । 'ज्ञा अवबोधने '। क्रैयादिकः । ‘ ज्ञाजनोर्जा ' इति जादेशः । अत्र ' प्ली गतौ वृत्' इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वेन भवितव्यम् । मैवम् । ‘ ज्ञाजनोर्जा ' इति दीर्घोच्चारणसामर्थ्यात् । जनी प्रादुर्भावे ' इत्यस्य तु दीर्घोच्चारणमन्तरेणापि ‘ अतो दीर्घो यञि ' ( पा. सू. ७, ३. १०१ ) इत्यनेनैव दीर्घः सिध्यति । तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम् । बर्हिष्मते । तसौ मत्वर्थे ' इति भत्वात् रुत्वजश्त्वयोरभावः । रन्धय । ‘रध हिंसासंराद्धयोः ' । शासत् । ‘ शासु अनुशिष्टौ ' । शतरि अदादित्वात् शपो लुक् । ‘ जक्षित्यादयः षट् ' ( पा. सू. ६. १. ६ ) इत्यभ्यस्तसंज्ञायां: नाभ्यस्ताच्छतुः ' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । शाकी । ‘ शक्लृ शक्तौ ' । भावे घञ् । ततो मत्वर्थीय इनिः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वृषादिर्र्पष्टव्यः । विश्वा ता । उभयत्र ‘ शेश्छन्दसि ' इति शेर्लोपः । सधमादेषु । सह माद्यन्त्येष्विति सधमादा यज्ञाः । अधिकरणे घञ्प्रत्ययः । ननु “ मदोऽनुपसर्गे ' इति अप्प्रत्ययेन भवितव्यम् । मैवम् । व्यधजपोरनुपसर्गे ' ( पा. सू. ३. ३. ६१ ) इत्यत्रैव मद इति वक्तव्ये यत् “ मदोऽनुपसर्गे' इति पृथगुपादानं तत् घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम् । सध मादस्थयोश्छन्दसि इति सहशब्दस्य सधादेशः । चाकन । ‘ कन दीप्तिकान्तिगतिषु । अत्र कान्त्यर्थः । ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । ' णलुत्तमो वा ' ( पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥
“Discriminate between the Āryas and they who are Dasyus; restraining those who perform no religious rites, compel them to submit to the performer of sacrifices; be you, who are powerful, the encourager of the sacrificer; I am desirous of celebrating all your deeds in ceremonies that give you satisfaction.”
Discern thou well Aryas and Dasyus; punishing the lawless give them up to him whose grass is strewn.
Be thou the sacrificer's strong encourager all these thy deeds are my delight at festivals.
Distinguish between the Āryas and those who are Dasyus. Chastising those who follow no commandment, make them subject to the man who provides ritual grass.
Become the potent inciter of the sacrificer. I take pleasure in all these (deeds) of yours at our joint revelries.
Barbaren unterscheide wohl und Arier, dem Frommen liefre strafend aus, die gottlos sind, Als starker Fördrer zeige dich des opfernden; dies alles möcht' bei deinen Mahlen ich empfahn.
Unterscheide zwischen den Ariern und den Dasyu´s; die Unbotmäßigen züchtigend mache sie dem Opferer untertan! Mach dich stark, sei Ermutiger des Opfernden! An all diesem Tun von dir habe ich bei den Somagelagen meine Freude.
Различай, кто арии и кто дасью!
Наказуя тех, у кого нет обетов, отдай (их) во власть разостлавшему жертвенную солому!
Будь могуч, (будь) вдохновителем того, кто заказал жертву!
Всем этим твоим (подвигам) я радуюсь на совместных праздниках сомы.
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्र॑: श्न॒थय॒न्नना॑भुवः । वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षत॒: स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिह॑: ॥
अनु॑ऽव्रताय । र॒न्धय॑न् । अप॑ऽव्रतान् । आ॒ऽभूभिः॑ । इन्द्रः॑ । श्न॒थय॑न् । अना॑भुवः । वृ॒द्धस्य॑ । चि॒त् । वर्ध॑तः । द्याम् । इन॑क्षतः । स्तवा॑नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्ऽदिहः॑ ॥
यः इन्द्रः अनुव्रताय अनुकूलकर्मणे यजमानाय अपव्रतान् अपगतकर्मणः अयजमानान् रन्धयन् हिंसयन् वशीकुर्वन् वा तथा आभूभिः । आभिमुख्येन भवन्तीति आभुवः स्तोतारः । तैः अनाभुवः तद्विपरीतान् श्नथयन् हिंसयन् वर्तते । वृद्धस्य चित् वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य द्यामिनक्षतः स्वर्गं व्याप्नुवतः तस्येन्द्रस्य स्तवानः स्तुतिं कुर्वाणः वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋषिः संदिहः सम्यगुपचिता वल्मीकवपाः वि जघान । इन्द्रेण परिहृतान्तरायः सन् पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञसंभारमाहार्षीदित्यर्थः । तथा च शाखान्तरे समाम्नातं-- ‘ यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुन्धे' (तै. ब्रा. १. १. ३. ४ ) इति ॥ अनुव्रताय । अनुकूलं व्रतं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । श्नथयन् । ' श्नथ हिंसायाम् । णिचि घटादित्वात् मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । वर्धतः । व्यत्ययेन परस्मैपदम् । इनक्षतः । ‘ नक्ष गतौ । इकारोपजनश्छान्दसः । यद्वा । इनक्षतिर्गत्यर्थः प्रकृत्यन्तरमन्वेष्टव्यम् । स्तवानः । ‘ सम्यानच् स्तुवः ' ( उ. सू. २. २४६ ) इति स्तौतेर्बहुलवचनात् निरुपपदादपि आनच्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । जघान । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य कुत्वम् । संदिहः । ‘ दिह उपचये '।' कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मणि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Indra abides, humbling the neglecters of holy acts in favour of those who observe them; and punishing those who turn away from his worship in favour of those who are present (with their praise); Vamra, while praising him, whether old or adolescent, and spreading through heaven, carried off the accusative ulated (materials of the sacrifice).”
Indra gives up the lawless to the pious man, destroying by the Strong Ones those who have no strength.
Vamra when glorified destroyed the gathered piles of the still waxing great one who would reach the heaven.
Indra—making those who reject his commandments subject to those who follow his commandments, piercing those who don’t stand by
him with (the aid of) those who do—
being praised, as an ant he smashed apart the mud walls of the one trying to reach heaven, who, though already full grown, kept
growing.
Die Ungerechten gibt er dem Gerechten preis, durch Treue tilget Indra die, die untreu sind; Dem grossen, der noch wächst, zum Himmel reicht, hat Vamra rühmlich seine Wälle umgestürzt.
Indra ist der, welcher die Unbotmäßigen untertan macht, der mit seinen Anhängern die Gegner niederstößt. Als Ameise zerschmiß der Gepriesene die Mauern des den Himmel Erstrebenden, der schon ausgewachsen noch weiter wuchs.
Отдавая во власть тому, кто следует обету, тех, кто против обета,
Пронзая с помощью союзников тех, кто не союзники, Индра,
Прославляемый, (в виде) муравья преодолел насыпи
Стремящегося к небу, возросшего уже, и растущего (еще врага).
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शव॑: । आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रव॑: ॥
तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा । सहः॑ । वि । रोद॑सी॒ इति॑ । म॒ज्मना॑ । बा॒ध॒ते॒ । शवः॑ । आ । त्वा॒ । वात॑स्य । नृ॒ऽम॒नः॒ । म॒नः॒ऽयुजः॑ । आ । पूर्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ ॥
हे इन्द्र यत् यदा उशना काव्यः सहसा आत्मीयेन बलेन ते सहः त्वदीयं बलं तक्षत् तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्यर्थः । तदा शवः त्वदीयं बलं मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन रोदसी द्यावापृथिव्यौ वि बाधते । ते बिभीतः इत्यर्थः । तथा चान्यत्राम्नातं -- यस्य शुष्माद्रोदसी अभ्यसेताम्' (ऋ. सं. २. १२. १ ) इति । यद्वा । रोदसी यस्माद्वृत्रादेः बिभीतः तं बाधते इत्यर्थः । हे नृमणः नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेन्द्र आ पूर्यमाणं पूर्वोक्तेन बलेन आ समन्तात् पूर्यमाणं त्वा त्वां मनोयुजः मनोव्यापारमात्रेण युक्ताः वातस्य वायोः संबन्धिनः । तद्वद्वेगेन गच्छन्त इत्यर्थः । एवंभूता अश्वाः श्रवः अभि हविर्लक्षणमन्नमभिलक्ष्य आ अवहन् आभिमुख्येन प्रापयन्तु ॥ तक्षत् ।' तक्षू त्वक्षू तनूकरणे'। लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उशना । ‘ वश कान्तौ ॥ ‘ वशेः कनसिः ' ( उ. सू. ४. ६७८) इति कनस् । ‘ ग्रहिज्या° ' इत्यादिना संप्रसारणम् ‘ऋदुशनस्पुरुदंसोऽनेहसां च ' ( पा. सू. ७. १. ९४ ) इति अनङादेशः । ‘ सर्वनामस्थाने च° । (पा. सू. ६. ४. ८) इति उपधादीर्घत्वम् । हल्ङ्यादिनलोपौ । मज्मना । ‘टुमस्जो शुद्धौ । औणादिको मनिप्रत्ययः । नृमणः । छन्दस्यृदवग्रहात्' इति णत्वम् । अवहन् । 'छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लङ् ॥ ॥ १० ॥
“If Uṣanās should sharpen your vigour by his own, then would your might terrify by its intensity both heaven and earth. Friend of man, let the will harnessed steeds, with the velocity of the wind, convey you, replete (with vigour), to (partake of the sacrificial) food.”
The might which Usana hath formed for thee with might rends in its greatness and with strength both worlds apart.
O Hero-souled, the steeds of Vata, yoked by thought, have carried thee to fame while thou art filled with power.
When Uśanā fashions might with might for you, then your vast power thrusts apart the two worlds with its greatness.
The mind-yoked (horses) of the Wind conveyed you, being filled (with soma?), here to fame, o manly minded one.
Wenn Uçana aus Kraft dir neue Kraft erzeugt drängt Erd' und Himmel weithin kräftig deine Macht, Dich fuhren her des Windes Rosse, geistgeschirrt, o heldenmüth'ger Somatrinker, dich zum Ruhm.
Als Usanas dir mit Kraft die Kraft zimmerte, da sprengte deine Gewalt durch ihre Größe die beiden Welthälften auseinander. Dich fuhren, du Mannherziger, des Vata Rosse, die durch bloßen Gedanken umherschwirrten, zur Ruhmestat, als du mit Kraft angefüllt warst.
Когда Ушанас тебе выточил (дубину), силу – силой,
Могущество (твое) мощно раздвинуло два мира.
(Кони) Ваты, запрягаемые мыслью, о мужественный мыслью,
Везли тебя, наполняемого (сомой), к славе.
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति । उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुर॑: ॥
मन्दि॑ष्ट॑ । यत् । उ॒शने॑ । का॒व्ये । सचा॑ । इन्द्रः॑ । व॒ङ्कू इति॑ । व॒ङ्कु॒ऽतरा । अधि॑ । ति॒ष्ठ॒ति॒ । उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत॑सा । अ॒सृ॒ज॒त् । वि । शुष्ण॑स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः॑ ॥
यत् यदा इन्द्रः उशने कामयमाने काव्ये सचा सह मन्दिष्ट स्तुतोऽभूत् तदानीं वङ्कू वङ्कुतरा अतिशयेन कुटिलं गच्छन्तावश्वौ अधि तिष्ठति। रथे संयोज्य तमारोहतीत्यर्थः । यद्वा। वङ्कुतरा अतिशयेन वक्रं गच्छति रथे वङ्कू वक्रगमनशीलावश्वौ संयोज्येति योजनीयम् । उग्रः उद्गूर्णस्तादृशः इन्द्रः ययिं गमनयुक्तात् मेघात् स्रोतसा प्रवाहरूपेण अपः निः असृजत् जलानि निरगमयत् । तथा शुष्णस्य सर्वस्य शोषयितुरसुरस्य दृंहिताः प्रवृद्धाः पुरः नगराणि निवासस्थानानि वि ऐरयत् विविधं प्रेरितवान् ॥ मन्दिष्ट ।' मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । लुङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । उशने । वशेः औणादिकः क्युप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । योरनादेशः । सचा । ‘ षच समवाये । संपदादिलक्षणो भावे क्विप् ।' आङयाजयारां चोपसंख्यानम् (पा. म. ७. १. ३९. १ ) इति विभक्तेः आङादेशः । संहितायां 'आङोऽनुनासिकश्छन्दसि ' (पा. सू. ६. १. १२६) इति तस्य सानुनासिकत्वम् । वङ्कू। ‘वञ्चु गतौ' । औणादिक उप्रत्ययः । बहुलवचनात् कुत्वम् । वङ्कुतरा । अतिशयेन वङ्कू वङ्कुतरा। ‘सुपां सुलुक्' इति विभक्तेः आकारः। अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते । ययिम् । ‘ या प्रापणे '।' आदृगमहनजनः° ' इति किप्रत्ययः । लिड्वद्भावात् द्विर्वचनह्रस्वत्वे । ‘ आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । ‘ सुपां सुपो भवन्ति' इति पञ्चम्या अमादेशः । दृंहिताः। दृहि वृद्धौ '। इदित्त्वात् नुम् । ऐरयत्। ‘ ईर प्रेरणे'। चौरादिकः । लङि आडागमः। ‘ आटश्च ' ( पा. सू. ६. १. ९० ) इति वृद्धिः ॥
“When Indra is delighted with acceptable hymns, he ascends (his car), drawn by more and more obliquely-curving coursers; fierce, he extracts the waters from the passing (cloud) in a torrent, and has overwhelmed the extensive cities of Śuṣṇa.”
When Indra hath rejoiced with Kavya Usana, he mounts his steeds who swerve wider and wider yet.
The Strong hath loosed his bolt with the swift rush of rain, and he hath rent in pieces Susna's firm-built forts.
When he has found exhilaration together with Uśanā Kāvya, Indra mounts the two (horses) that are surging and surging further.
The strong one let loose the waters in a stream for coursing and
propelled apart the fortified strongholds of Śuṣṇa.
Wenn er beim Kavjer Uçana sich hat erfreut, besteigt die raschen, raschsten Rosse Indra dann; Aus rascher Wolke goss des Wassers Strom er aus, zerbrach des Çuschna feste Burgen, er voll Kraft.
Als er sich bei Usanas Kavya gütlich getan hatte, besteigt Indra die fliegenden Rosse, die besten Flieger. Der Gewaltige besteigt den eilenden Wagen, er ließ die Gewässer in Strömen laufen. Er sprengte die festen Burgen des Susna.
Когда он повеселился у Кавьи Ушанаса,
Индра садится на двух резвых (коней), более резвых (чем у Ваты?).
Грозный восходит на (быстро)ходную (колесницу). Он выпустил воды струиться потоком.
Он взорвал твердые крепости Шушны.
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से । इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
आ । स्म॒ । रथ॑म् । वृ॒ष॒ऽपाने॑षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य॑ । प्रऽभृ॑ताः । येषु॑ । मन्द॑से । इन्द्र॑ । यथा॑ । सु॒तऽसो॑मेषु । चा॒कनः॑ । अ॒न॒र्वाण॑म् । श्लोक॑म् । आ । रो॒ह॒से॒ । दि॒वि ॥
अत्र कौषीतकिन इतिहासमाचक्षते – शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगोत्रोत्पन्नश्च्यवनो महर्षिराश्विनं ग्रहमगृह्णात् । इन्द्रस्तं दृष्ट्वा क्रुद्धोऽभूत् । तमिन्द्रमनुनीय पुनः सोमं तस्मै प्रादादिति । अयमर्थोऽस्यां प्रतिपाद्यते । हे इन्द्र त्वं वृषपाणेषु । वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि । तेषु निमित्तभूतेषु रथम् आ तिष्ठसि स्म स्वयमेव रथमारुह्य गच्छसि । न त्वन्यः कश्चित् प्रवर्तयितेति भावः । एवं च सति येषु सोमेषु त्वं मन्दसे हर्षं प्राप्नोषि तादृशाः सोमाः शार्यातस्य एतन्नाम्नो राजर्षेः संबन्धिनः प्रभृताः प्रकर्षेण संपादिताः । अभिषवादिसंस्कारैः संस्कृता इत्यर्थः । अतः सुतसोमेषु अभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु यथा चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान् कामयस्व । तथा सति दिवि द्युलोके अनर्वाणं गमनरहितं स्थिरं श्लोकं स्तोत्रलक्षणं वचो यशो वा आ रोहसे प्राप्नोषि । यद्वा । इमं यजमानं दिवि द्युलोके उक्तलक्षणं यशः प्रापयसि ॥ स्म । ‘ निपातस्य च ' इति दीर्घत्वम् । वृषपाणेषु । 'पा पाने '। भावे ल्युट् । ' वा भावकरणयोः । (पा. सू. ८. ४. १०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम् । प्रभृताः। ‘ भृञ् भरणे । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । मन्दसे । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । चाकनः । ‘ कन दीप्तिकान्तिगतिषु'। अत्र कान्त्यर्थः । कान्तिश्चाभिलाषः । लेटि सिपि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति अभ्यस्तस्य आद्युदात्तत्वाभावे ' धातोः' इति धात्वन्तस्योदात्तत्वम् । अनर्वाणम् । अर्तेः ‘अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणाद्भावे वनिप् । नञा बहुव्रीहौ अमि ‘अर्वणस्रसावनञः' इति पर्युदासात, तृआदेशाभावे ‘ सर्वनामस्थाने च° ' इति उपधादीर्घत्वम् । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । श्लोकम् । ‘ श्लोकृ संघाते'। श्लोक्यते इति श्लोकः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । रोहसे । रुहेः व्यत्ययेन आत्मनेपदम् ॥
“You mount your chariot willingly, Indra, for the sake of drinking the libations; such as you delight in having been prepared (at the sacrifice of) Śāryāta; be plural ased with them, as you are gratified by the effused Soma (at the sacrifices) of others, so do you obtain imperishable fame in heaven.”
Thou mountest on thy car amid strong Soma draughts: Saryata brought thee those in which thou hast delight.
Indra, when thou art pleased with men whose Soma flows thou risest to unchallenged glory in the sky.
You mount the chariot to the bullish drinks on which you become exhilarated at Śāryata’s (ritual) presentation,
so that you will take pleasure in (the ceremonies) with their pressed soma, o Indra. (Then) you ascend to the unassailing signal call in
heaven.
Bei des Çarjata Darbringung besteigst du auch den Wagen bei den Somatränken, die du liebst, Wie Indra du bei Somabringern dich erfreust, so steigst am Himmel du zu unerreichtem Ruhm.
Du besteigst den Wagen zu den Stiergetränkten. Dargebracht sind die Somatränke des Saryata, an denen du dich berauschest. So wie du, Indra, an den somapressenden Menschen deine Freude hast, erreichst du im Himmel unbestrittenen Ruhm.
Ты восходишь на колесницу, (чтобы ехать) за напитками мужества.
У Шарьяты принесены (тебе соки), которыми ты опьяняешься.
О Индра, так как ты радуешься (людям), выжавшим сому,
Ты возвышаешь до неба непобедимую хвалебную речь.
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते । मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
अद॑दाः । अर्भा॑म् । म॒ह॒ते । व॒च॒स्यवे॑ । क॒क्षीव॑ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते । मेना॑ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ ॥
अत्रेयमाख्यायिका । अङ्गराजः कस्मिंश्चिद्दिवसे स्वकीयाभियोंषिद्भिः सह गङ्गायां जलक्रीडां चक्रे । तस्मिन् समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात् किमपि कर्तुं न शक्नोतीति द्वेषेण गङ्गामध्ये प्रचिक्षिपे । स च ऋषिः केनचित् प्लवेन अङ्गराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमवगत्य प्लवादवतार्यैवमवोचत् । हे भगवन् मम पुत्रो नास्ति एषा महिषी अस्यां कंचित् पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्वा अयं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुद्ध्या स्वकीयाम् उशिक्संज्ञां दासीं प्राहैषीत्॥ तेन च सर्वज्ञेन ऋषिणा मन्त्रपूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नी बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः । स एव राज्ञः पुत्रोऽभूत्। स च बहुविधेन राजसूयादिनेजे। तस्मै राज्ञे तत्कृतैर्यंज्ञैः परितुष्ट इन्द्रो वृचयाख्यां तरुणीं योषितं प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे इन्द्र त्वं महते प्रवृद्धाय वचस्यवे त्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते सुन्वते त्वद्देवताकेषु यज्ञेषु सोमाभिषवं कुर्वते कक्षीवते एतन्नाम्ने राज्ञे वृचयां वृचयाख्याम् अर्भाम् अल्पाम् । युवतिमित्यर्थः। एवंभूतां स्त्रियम् अददाः । तथा सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं वृषणश्वस्य एतदाख्यस्य राज्ञः मेनाभवः मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामन्त्रैकदेशव्याख्यानरूपं ब्राह्मणमेवमाम्नायते - वृषणश्वस्य मेन इति वृषणश्वस्य मेना भूत्वा मघवा कुल उवास' इति । तां च प्राप्तयौवनां स्वयमेवेन्द्रश्चकमे। तथा च ताण्डिभिराम्नातं - वृषणश्वस्य मेना नाम दुहितास । तामिन्द्रश्चकमे ' इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि ते ता त्वदीयानि तानि विश्वेत् सर्वाण्येव सवनेषु यज्ञेषु प्रवाच्या प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते। बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । वचस्यवे। ‘सुप आत्मनः क्यच् । 'क्याच्छन्दसि' इति उप्रत्ययः । कक्षीवते । अश्वबन्धनहेतवो रज्जवः कक्ष्याः । कक्षीवान् कक्ष्यावान्' ( निरु. ६. १०) इति यास्कः । आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् ' (पा. सू. ८. २. १२) इति संप्रसारणं मतुपो वत्वं च संज्ञायां निपात्यते । मेनेति स्त्रीनाम । ‘ मेना ग्नाः ' ( निरु. ३. २१) इति पाठात् । ‘ मन ज्ञाने'। मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् ।' नशिमन्योरलिट्येत्वं वक्तव्यम्' ( पा. सू. ६. ४. १२०. ५) इति एत्वम् । वृषादिर्द्रष्टव्यः । ‘ मेना मानयन्त्येनाः ' ( निरु. ३. २१) इति यास्कः । सवनेषु । सवनमिति यज्ञनाम । सूयतेऽभिषूयते एष्विति अधिकरणे ल्युट् । प्रवाच्या ।' वच परिभाषणे ' । ण्यति ‘यजयाचरुच प्रवचर्चश्च' (पा. सू. ७. ३. ६६ ) इति कुत्वाभावः । तित्स्वरिते प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेः ' अचो यत्' इति यत्। 'यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“You have given, Indra, the youthful Vṛcaya to the aged Kakṣīvat, praising you and offering oblations; you, Śatakratu, were Menā, the daughter of Vṛṣaṇaśva; all these your deeds are to be recited at your worship.”
To old Kaksivan, Soma-presser, skilled in song, O Indra, thou didst give the youthful Vrcaya.
Thou, very wise, wast Mena, Vrsanaiva's child: those deeds of thine must all be told at Soma feasts.
You gave little Vr̥cayā to great, eloquent Kakṣīvant, the soma-presser, o Indra.
You became the wife of Vr̥ṣaṇaśva, o you of good resolve. All these (deeds) of yours are to be proclaimed at the pressings.
Dem grossen, frommen Dichter, dem Kakschivat, gabst zum Weib, o Indra, du die junge Vritschaja; Du, weiser, warst des Vrischanaçva Gattin einst, dies alles rühmet bei den Festen man von dir.
Du gabst dem alten beredten, somapressenden Kaksivat die junge Vircaya, o Indra. Du Umsichtiger hast dich in das Weibchen des Virsanasva verwandelt. Alle diese Taten von dir sind bei den Somaopfern zu verkünden.
Ты дал старому, речистому Какшиванту,
Выжимающему (сому), юную Вричаю, о Индра.
Ты превратился в жену Вришанашвы, о многоумный.
И все эти твои (подвиги) надо провозгласить на выжиманиях (сомы)!
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूप॑: । अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥
इन्द्रः॑ । अ॒श्रा॒यि॒ । सु॒ऽध्यः॑ । नि॒रे॒के । प॒ज्रेषु॑ । स्तोमः॑ । दुर्यः॑ । न । यूपः॑ । अ॒श्व॒ऽयुः । ग॒व्युः । र॒थ॒ऽयुः । व॒सु॒ऽयुः । इन्द्रः॑ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्रऽय॒न्ता ॥
इन्द्रः देवः सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान् वा निरेके नैर्धन्ये निमित्तभूते सति तान् रक्षतुम् अश्रायि असेविष्ट । पज्रेषु । पज्रा इत्यङ्गिरसामाख्या । तथा च शाट्यायनिभिराम्नातं - पज्रा वा अङ्गिरसः पशुकामास्तपोऽतप्यन्त ' इति । येषु यजमानेष्वङ्गिरःसु स्तोमः स्तोत्रं निश्चलं तिष्ठति दुर्यो न यूपः द्वारि निखाता स्थूणेव । तान् सुध्यः इति पूर्वेणान्वयः । तस्मादिदानीमपि रायः प्रयन्ता धनस्य प्रदाता इन्द्र इत् इन्द्र एव यजमानानां दातुम् अश्वयुः अश्वानिच्छन् । तथा गव्युः गा इच्छन् 'रथयुः रथानिच्छन् वसूयुः एवमन्यदपि यद्धनमस्ति तदपीच्छन् क्षयति वर्तते ॥ अश्रायि । श्रिञ् सेवायाम् ' । कर्तरि लुङि व्यत्ययेन च्लेः चिणादेशः । सुध्यः । धीरिति कर्मनाम। शोभना धीर्येषाम्। ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । शसि छन्दस्युभयथा' इति यणादेशः । ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । निरेके । नितरां रेचनं निरेकः । ‘ रिचिर् विरेचने'। भावे घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । दुर्यः । दुरे भवो दुर्यः । भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । यूपः । ‘यु मिश्रणे'। यूयते युज्यतेऽस्मिन्निति यूपः । ‘ कुयुभ्यां च ' ( उ. सू. ३. ३०७ ) इति पप्रत्ययः । दीर्घः इत्यनुवृत्तेः दीर्घत्वम् । अश्वयुः । यजमानेभ्योऽश्वानिच्छन् । 'छन्दसि परेच्छायाम् ' ( का. ३. १. ८. २) इति क्यच् । ‘न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । अश्वाघस्यात्' इति आत्वं तु छान्दसत्वात् न भवति । ‘क्याच्छन्दसि ' इति उप्रत्ययः । एवमुत्तरत्रापि । एतावांस्तु विशेषः । गव्युरित्यत्र ‘वान्तो यि प्रत्यये' इति अवादेशः । यास्कस्त्वेवं व्याचष्टे- इदंयुरिदं कामयमानोऽथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यर्थः । अश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति ( निरु. ६. ३१) इति । क्षयति । ‘ क्षि क्षये '। भौवादिकः । प्रयन्ता । ‘ यम उपरमे'। तृचि ‘ एकाचः' इति इट्प्रतिषेधः । ‘ चितः' इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Indra has been had recourse to, that he may assist the pious in their distress. Praise by the Pajras, is (as stable) as the post of a doorway. Indra, the giver of riches, who is possessed of (who desires to possess, expecting as gifts from the instrumental tutor of the ceremony) horses, cattle, chariots and wealth is present.”
The good man's refuge in his need is Indra, firm as a doorpost, praised among the Pajras.
Indra alone is Lord of wealth, the Giver, lover of riches, chariots, kine, and horses.
Indra has become fixed in the exclusive possession of the man of good insight; the praise song (has been fixed) like a doorpost among the
Pajras,
as it seeks horses, cows, chariots, and goods. Indra alone is master of wealth and will provide it.
Zuflucht ist Indra in des Frommen Nähe, sein Lob wie Thüres Pfosten bei den Padschra's, An Rossen, Rindern, Wagen reich und Gütern, ist Indra, Herr und Spender alles Reichthums,
Indra ist jetzt in den ausschließlichen Besitz des Gutgesinnten gegeben. Wie ein Türpfosten ist das Preislied bei den Pajra´s, das Rosse, Rinder, Wagen, Gut heischende. Indra allein gebeut über den Reichtum als dessen Verschenker.
Индра оказался в полной власти (человека) с добрыми мыслями.
Восхваление Паджров – словно столб превратный!
Жаждущий коней, коров, колесниц, добра,
Индра один владеет богатством как даритель (его).
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि । अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीरा॒: स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥
इ॒दम् । नमः॑ । वृ॒ष॒भाय॑ । स्व॒ऽराजे॑ । स॒त्यऽशु॑ष्माय । त॒वसे॑ । अ॒वा॒चि॒ । अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने॑ । सर्व॑ऽवीराः । स्मत् । सू॒रिऽभिः॑ । तव॑ । शर्म॑न् । स्या॒म॒ ॥
इदं पुरोवर्ति नमः स्तुतिलक्षणं वचो हे इन्द्र तुभ्यम् अवाचि अस्माभिः प्रायोजि । कीदृशाय । वृषभाय वर्षणशीलाय स्वराजे स्वकीयेन तेजसा राजमानाय सत्यशुष्माय । शुष्ममिति बलनाम शत्रूणां शोषकत्वात् । अवितथबलयुक्ताय । तवसे अत्यन्तं प्रवृद्धाय । यस्मादेवं तस्मात् अस्मिन् वृजने वर्जनवति संग्रामे सर्ववीराः । विशेषेण ईरयन्त्यमित्रानति वीरा भटाः। तादृशैः सर्वैर्भटैरुपेता वयम् । स्मत् इति निपातः सुशब्दार्थः । तव स्मत् शर्मन् त्वया दत्ते शोभने गृहे सूरिभिः विद्वद्भिः पुत्रादिभिः सह स्याम भवेम निवसेमेत्यर्थः । यद्वा । त्वत्संबन्धिनि शोभने यज्ञगृहे सूरिभिः विद्वद्भिर्ऋत्विग्भिः सह स्याम । शर्मेति गृहनाम, ‘शर्म वर्म' ( नि. ३. ४. २१ ) इति पठितत्वात् ॥ स्वराजे ।' राजृ दीप्तौ । सत्सूद्विष ' इति क्विप् । सत्यशुष्माय । सत्यं शुष्मं बलं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तवसे । तवतिः सौत्रो धातुः । अस्मात् औणादिकः असिप्रत्ययः । वृजने । “ वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः ' ( उ. सू. २. २३९ ) इति क्युः' प्रत्ययः। शर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । ' न ङिसंबुद्ध्योः' (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः । स्याम । ‘ नश्च' (पा. सू. ८. ३. ३०) इति संहितायां सकारस्य धुडागमः । ‘ खरि च ' इति चर्त्वम् । 'चयो द्वितीयाः शरि पौष्करसादेः ' ( पा. सू. ८. ४. ४८. ३) इति तकारस्य थकारः ॥ ॥ ११ ॥
“This adoration is offered to the shedder of rain, the self-resplendent, the possessor of true vigour, the mighty; may we be aided, Indra, in his conflict, by many heroes, and abide in a prosperoud (habitation, bestowed) by you.”
To him the Mighty One, the self-resplendent, verily strong and great, this praise is uttered.
May we and all the heroes, with the princes, be, in this fray, O Indra, in thy keeping.
This homage has been pronounced for the bull, the independent king, the mighty one of real unbridled force.
In this community might we, together with our patrons, be possessors of hale heroes under your protection, o Indra.
Dies Loblied ist dem starken Stier, dem Selbstherrn, dem wahrhaft kräft'gen, mächtigen gesungen; In diesem Wohnsitz mögen mit den Fürsten sammt allen Männern wir in deinem Schutz sein.
Dies Huldigungslied ward für den Bullen, den Selbstherrscher, dessen Mut echt ist, für den Starken vorgetragen. In diesem Ringen wollen wir mit heilen Mannen nebst den Lohnherren unter deinem Schutz stehen, o Indra.
Это (слово) поклонения произнесено для быка, самодержца,
Чей пыл истинен, для сильного.
В этой общине, о Индра, да будем мы –
Все мужи – вместе с покровителями под твоей защитой!