त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑: सा॒कमीर॑ते । अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥
त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते । अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यदम् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥
त्यं तं प्रसिद्धं मेषं शत्रुभिः सह स्पर्धमानं स्वर्विदम् । स्वरादित्यो द्यौर्वा । तस्य वेदितारं लब्धारं वा । यद्वा । स्वः सुष्ठ्वरणीयं धनं तस्य लम्भयितारम् । एवंगुणविशिष्टमिन्द्रं हे अध्वयों सु महय सम्यक् पूजय । यस्य इन्द्रस्य शतं शतसंख्याकाः सुभ्वः स्तोतारः साकं सहैव युगपदेव ईरते स्तुतौ प्रवर्तन्ते । यद्वा । यस्येन्द्रस्य रथं शतं सुभ्वः शतसंख्याका अश्वाः साकं सह ईरते गमयन्ति । तम् इन्द्रम् अवसे अस्मद्रक्षणाय सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तोत्रैः रथम् आ ववृत्यां रथं प्रत्यावर्तयामि । कीदृशं रथम् । हवनस्यदं हवनमाह्वानं यागं वा प्रति वेगेन गच्छन्तम् । वेगगमने दृष्टान्तः । अत्यं न वाजं गमनसाधनमश्वमिव ॥ महय । ‘ मह पूजायाम्'। चुरादिरदन्तः । संहितायाम् ‘ अन्येषामपि दृश्यते' इति दीर्घत्वम् । सुभ्वः । सुष्ठु भवन्तीति सुभ्वः स्तोतारः । ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जसि ‘ ओः सुपि' इति यणादेशस्य 'न भूसुधियोः' इति प्रतिषेधे प्राप्ते ‘छन्दस्युभयथा ' इति उभयथाभावात् यणादेशः । उदात्तस्वरितयोर्यणः' इति परस्य जसोऽनुदात्तस्य स्वरितत्वम् । ईरते । ‘ ईर गतौ कम्पने च'। अदादित्वात् शपो लुक् । झस्य अदादेशः । टेः एत्वम् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । तत्र हि पञ्चमीनिर्देशेऽपि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६) इत्युक्तम् । अत्यम् । अत्य इत्यश्वनाम, ‘ अत्यः हयः ' ( नि. १. १४. १ ) इति पाठात् । वाजम् । वाज्यते गम्यतेऽनेनेति वाजः । वज व्रज गतौ'। करणे घञ् ।' अजिव्रज्योश्च ' ( पा. सू. ७, ३.६० ) इत्यत्र चशब्दस्य अनुक्तसमुच्चयार्थत्वात् वाजः वाज्यम् इत्यत्रापि कुत्वाभावः इत्युक्तम् । हवनस्यदम् । ‘ स्यन्दू प्रस्रवणे'। स्यदो जवे' (पा.सू. ६. ४.२८) इति वेगे गम्यमाने घञन्तो निपातितः । अंत एव नलोपो वृद्ध्यभावश्च । न च ‘न धातुलोप आर्धधातुके' ( पा. सू. १. १. ४ ) इति वृद्धेः प्रतिषेधः इग्लक्षणा हि वृद्धिस्तत्र प्रतिषिध्यते । न चेयमिग्लक्षणा । घञो ञित्त्वात् उत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ववृत्याम् । ‘ वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । ‘बहुलं छन्दसि ' इति शपः श्लुः । द्विर्वचनादि । यासुटो ङित्त्वात् लघूपधगुणाभावः । ‘ तिङ्ङतिङः' इति निघातः ॥
“Worship well that ram who makes heaven known, whom a hundred worshippers at once are assiduous in praising. I implore Indra with many prayers to ascend the car, which hastens like a fleet courser to the sacrificer for my protection.”
I GLORIFY that Ram who finds the light of heaven, whose hundred nobly-natured ones go forth with him.
With hymns may I turn hither Indra to mine aid,--the Car which like a strong steed hasteth to the call.
I shall exalt this ram, who finds the sun, whose hundred (superior powers) of good essence arise together.
(Might I turn) his chariot, rushing to the summons, like a steed (rushing to) the prize; with my well-twisted (hymns) might I turn Indra here for help.
Den Widder preise, welcher Himmelsglück verschafft, dem hundert Helfer alle auf einmal erstehn, Wie schnelles Ross, wie Wagen, der zum Opfer eilt, möcht' ich zum Schutz durch Lieder Indra wenden her.
Den bekannten Widder verherrliche recht, den Finder des Himmelslichtes, dessen hundert Kräfte sich auf einmal regen! Wie das Rennpferd zum Siegespreis möchte ich den Wagenstreiter, der auf den Ruf herbeieilt, den Indra, mit Lobliedern zum Beistand herlenken.
Я хочу прекрасно возвеличить этого барана, находящего солнце,
Чья сотня благотворных (сил) сразу приходит в движение.
Как скакуна – к награде, мчащуюся на зов колесницу -
Индру я хотел бы обратить к себе на помощь хвалебными песнями.
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे । इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥
सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः॑ । तवि॑षीषु । व॒वृ॒धे॒ । इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥
अन्धसा सोमलक्षणेनान्नेन जर्हषाणः अत्यर्थं हृष्यन् इन्द्रो यत् यदा वृत्रं त्रयाणां लोकानामावरीतारमसुरम् अवधीत् हतवान् । कीदृशं वृत्रम् । नदीवृतम् । नदनात् नद्य आपः । तासामावरीतारम् । किं कुर्वन्निन्द्रः । अर्णाँसि जलानि उब्जन् अधःपातयन् । तदानीं सः इन्द्रः पर्वतो न पर्ववान् शिलोच्चय इव धरुणेषु सर्वस्य धारकेषूदकेषु मध्ये अच्युतः चलनराहित्येन स्थितः सहस्रमूतिः बहुविधरक्षणवान् तविषीषु बलेषु वावृधे प्रवृद्धो बभूव ॥ धरुणेषु ।' धारयतेर्णिलुक् च' इति उनप्रत्ययः । प्रत्ययस्वरः । सहस्रमूतिः । सहस्रम् ऊतयो यस्यासौ । लुगभावश्छान्दसः । ववृधे । संहितायामभ्यासस्य ‘ अन्येषामपि दृश्यते ' इति दीर्घत्वम् । नदीवृतम् । नदीं वृणोतीति नदीवृत् ॥ क्विप् । तुगागमः । उब्जन् । उब्ज आर्जवे'। विकरणस्वरः । अर्णांसि ।' उदके नुट् च ' ( उ. सू. ४. ६३६ ) इति अर्तेः असुन्प्रत्ययः, तत्संनियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । जर्हृषाणः । ‘ हृष तुष्टौ । यङ्लुगन्तात् व्यत्ययेन शानच् । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । यद्वा । यङन्तादेव शानचि • बहुलं छन्दसि ' इति शपो लुक् । 'छन्दस्युभयथा ' इति शानचः आर्धधातुकत्वात् अतोलोपयलोपौ । सार्वधातुकत्वाच्च अभ्यस्तस्याद्युदात्तत्वम् । अन्धसा । अद्यते इत्यन्धः । ‘ अदेर्नुम् धश्च' (उ. सू. ४. ६४५) इति असुन्, धातोः नुमागमो धकारान्तादेशश्च । नित्त्वादाद्युदात्तत्वम् ॥
“When Indra, who delights in the sacrificial food, had slain the stream-obstructing Vṛtra, and was pouring down the waters, he stood firm amid the torrents like a mountain, and endowed with a thousand means of protecting (his votaries) increased in vigour.”
Like as a mountain on firm basis, unremoved, he, thousandfold protector, waxed in mighty strength,
When Indra, joying in the draughts of Soma juice, forced the clouds, slaying Vrtra stayer of their flow.
Like a mountain, immovable on its foundations, Indra, with his thousand forms of help, grew strong amid his powers,
when subduing the floods, highly excited by the soma stalk, he smashed Vr̥tra, who obstructed the rivers.
Gleich einem Berg, der fest auf seinem Grunde ruht, ward stark an Kräften er, der tausend Hülfen beut, Als Indra da den Stromverschliesser Vritra schlug, die Flut bezwingend, durch den Somatrank erfreut.
Unerschütterlich wie ein Berg in seinen Grundfesten ist Indra, der tausend Hilfen hat, an Kräften gewachsen, da er den Flußsperrer Vritra erschlug und die Fluten eindämmte, kampffroh durch den Somatrunk.
Неколебимый, как гора на (прочных) основах,
С тысячей подкреплений, Индра возрос силами,
Когда убил запрудившего реки Вритру,
Обуздывая бурные потоки, неистовствуя от напитка (сомы).
स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑: । इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥
सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ । इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥
सः पूर्वोक्तगुणविशिष्टः इन्द्रः द्वरिषु आवरीतृषु शत्रुषु द्वरः हि अतिशयेनावरीता खलु । शत्रुजयशील इत्यर्थः । यस्मात् ऊधनि उद्धृतजलवति अन्तरिक्षे वव्रः संभक्तो व्याप्य वर्तते । अत एव चन्द्रबुध्नः सर्वासां प्रजानामाह्लादकमूलः अन्तरिक्षस्य सर्वाह्लादकत्वात् । मदवृद्धः । माद्यन्ति एभिरिति मदाः सोमाः तैर्वर्धितः । एवंभूतो य इन्द्रः मंहिष्ठरातिं प्रवृद्धधनं प्रवृद्धदानं वा तम् इन्द्रं मनीषिभिः मनस ईषितृभिः प्राज्ञैर्ऋत्विग्भिः सह स्वपस्यया धिया शोभनकर्मयोग्यया बुद्ध्या अह्वे आह्वयामि। हि यस्मात् सः इन्द्रः अन्धसः अन्नस्य अस्मदपेक्षितस्य पप्रिः पूरयिता॥ द्वरः । द्वृ इत्येके । द्वरति आवृणोतीति द्वरः। पचाद्यच् । चित्स्वरेणान्तोदात्तत्वम् । द्वरिषु । ‘ अच इः' इति कर्तरि इप्रत्ययः । वव्रः। ‘वृङ् संभक्तौ' । व्रियते संभज्यते इति वव्रः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' ( पा. सू. ३. ३. ५८. ४ ) इति परिगणनस्य उपलक्षणार्थत्वात् कर्मणि कप्रत्ययः । द्विर्भावश्छान्दसः । ऊधनि । उत् ऊर्ध्वं ध्रियतेऽस्मिन् जलमिति ऊधः । सप्तम्येकवचने ‘ अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः, छन्दस्यपि दृश्यते ' ( पा. सू. ७. १. ७५-७६ ) इति इशिग्रहणात् ऊधस्शब्दस्यापि अनङादेशः । यद्वा । ‘ऊधसोऽनङ्' (पा. सू. ५. ४. १३१) इति समासे विधीयमानः अनङादेशः छान्दसत्वात् केवलादपि भवति । चन्द्रबुध्नः । ‘ चदि आह्लादने दीप्तौ च । इदित्त्वात् नुम् ।' स्फायितञ्चि°' इत्यादिना रक् । प्रत्ययस्वरेणान्तोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । मदवृद्धः । मदी हर्षे'। ‘ मदोऽनुपसर्गे ' इति करणे अप् । तस्य पित्त्वादुनुदात्तत्वे धातुस्वरः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । अह्वे । ह्वेञ् स्पर्धायां शब्दे च' । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि ‘ आत्मनेपदेष्वन्यतरस्याम् ' (पा. सू. ३. १. ५४ ) इति च्लेः अङादेशः । ‘आतो लोप इटि च' इति आकारलोपः । गुणः । स्वपस्यया । अप इति कर्मनाम । शोभनमपः स्वपः । तदर्हतीति स्वपस्यः । 'छन्दसि च ' इति यप्रत्ययः । मंहिष्ठरातिम् । 'महि वृद्धौ' । अतिशयेन मंहित्री मंहिष्ठा। ‘तुश्छन्दसि' इति इष्ठन्प्रत्ययः। ‘तुरिष्ठेमेयःसु' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । मंहिष्ठा रातिर्यस्य । ‘ स्त्रियाः पुंवत् ' ( पा. सू. ६. ३. ३४ ) इति पुंवद्भावात् ह्रस्वत्वम् । ‘ बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । पप्रिः । ‘ पॄ पालनपूरणयोः '। ‘आदृगमहनजनः' इति किन्प्रत्ययः । ‘उदोष्य्चपूर्वस्य ' इति उत्वस्य ‘ बहुलं छन्दसि ' इति वचनादभावे यणादेशः । लिङ्वद्भावात् “ द्विर्वचनेऽचि' इति स्थानिवद्भावे सति द्विर्भावोरदत्वहलादिशेषाः । नित्त्वादाद्युदात्तत्वम् ॥
“He who is victorious over his enemies, who is spread through the dewy (firmament), the root of happiness, who is exhilarated by the Soma him I invoke, the most bountiful Indra, along with learned priests, with a mind disposed to pious adoration, for he is the bestower of abundant food.”
For he stays e'en the stayers, spread o'er laden cloud, rooted in light, strengthened in rapture by the wise.
Indra with thought, with skilled activity, I call, most liberal giver, for he sates him with the juice.
For he (was) a skulker among skulkers at the maw (of Vr̥tra?), but he, having a golden foundation, was strengthened to exhilaration at the (soma-)udder by the inspired thinkers [=Maruts?]—
Indra—with my skillful work and insight I have summoned him whose gifts are most generous, for he is a provider because of the soma stalk.
Der Sieger schmiegte an der Sieger Busen sich, in Glanz gewurzelt durch die Priester trankgestärkt, Den Indra ruf' mit wirkungsreicher Bitte ich, den Segenspender, denn er füllt sich mit dem Trank.
Denn er ist unter Räubern ein Räuber, am Somaeuter ein Schlund, mit goldschimmerndem Boden, rauschgestärkt durch die Dichter. Diesen Indra habe ich mit Kunst und Bedacht gerufen, der die reichste Gabe spendet, denn er füllt sich mit Soma.
Он ведь захватчик из захватчиков, отверстие в вымени (с сомой)
С золотым дном, (бог,) возросший от опьянения с помощью мудрых.
Индру этого я призвал благим деянием и молитвой,
(Его,) чьи дары самые щедрые: ведь он полон сомы.
आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑: स्वा अ॒भिष्ट॑यः । तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒: शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥
आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः । तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥
सद्म सदनं स्थानं बर्हिःशब्दोपलक्षितो यज्ञो येषां सोमानां ते सोमाः दिवि स्वर्गलोकेऽवस्थितं यम् इन्द्रम् आ पृणन्ति आ समन्तात् पूरयन्ति । तत्र दृष्टान्तः । सुष्ठु भवन्तीति सुभ्वः नद्यः समुद्रं न । यथा नद्यः समुद्रं पूरयन्ति तद्वदित्यर्थः । कीदृश्यो नद्यः। स्वाः समुद्रस्य स्वभूताः । तथा चाम्नायते-- समुदाय वयुनाय सिन्धूनां पतये नमः' (तै. सं. ४. ६. २. ६) इति । अभिष्टयः आभिमुख्येन गमनवत्यः ऊतयः अवितारो मरुतः वृत्रहत्ये वृत्रहनने निमित्तभूते सति तम् इन्द्रम् अनु तस्थुः अनुलक्ष्य स्थिता बभूवुः । कीदृशा मरुतः । शुष्माः शत्रूणां शोषयितारः अवाताः । वान्ति प्रतिकूल्येन गच्छन्तीति वाताः शत्रवः तद्रहिताः । अह्रुतप्सवः अकुटिलरूपाः शोभनावयवा इत्यर्थः ॥ पृणन्ति । पॄ पालनपूरणयोः'। क्रैयादिकः ।' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ‘ श्नाभ्यस्तयोरातः' इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । सद्मबर्हिषः । ‘ षद्लृ विशरणगत्यवसादनेषु' । सीदन्त्यस्मिन्निति सद्म । औणादिकोऽधिकरणे मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुभ्वः। भवतेः ‘ क्विप् च' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जसि ‘ ओः सुपि' इति यणादेशस्य न भूसुधियोः' इति प्रतिषेधे प्राप्ते 'छन्दस्युभयथा ' इति यणादेशः । उदात्तस्वरितयोर्यणः' इति अनुदात्तस्य जसः स्वरितत्वम् । अभिष्टयः । इष्टय एषणानि । ' उपसर्गाश्चाभिवर्जम् ' इति वचनात् अभिः अन्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । एमन्नादित्वात् पररूपत्वम् । वृत्रहत्ये । ‘ हनस्त च ' इति हन्तेः भावे क्यप् तकारान्तादेशश्च । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। अह्रुतप्सवः । ‘ह्वृ कौटिल्ये' । अस्मात् निष्टायां ‘ह्रु ह्वरेश्छन्दसि ' ( पा. सू. ७. २. ३१ ) इति ह्रुआदेशः । ‘प्सा भक्षणे' इत्यस्मात् औणादिको डुप्रत्ययः। न ह्रुतप्सवः अह्रुतप्सवः । अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
“Tha Indra whom in heaven the libations sprinkled on the sacred grass replenish, as the kindred rivers hastening to it fill the ocean; that Indra whom the Maruts, the driers up of moisture, who are unobstructed, and of undistorted forms, attended as auxiliaries at the death of Vṛtra.”
Whom those that flow in heaven on sacred grass, his own assistants, nobly-natured, fill full like the sea,--
Beside that Indra when he smote down Vrtra stood his helpers, straight in form, mighty, invincible.
Him whom they fill like the sea—his own superior powers of good essence which have the ritual grass as their seat in heaven—
Indra—his forms of help [=helpers] stood by him at the Vr̥tra-smashing, as did his unextinguishable gusts whose breath is unobstructed.
Den wie ein Meer die eignen Fördrer hülfereich, im Himmel tränken, wenn sie sitzen auf der Streu; Als Helfer folgten Indra sie im Vritrakampf, die sichern, starken, aufgerichtet an Gestalt.
Den im Himmel auf dem Barhis sitzend seine eigenen stattlichen Stärken erfüllen wie die Flüsse das Meer, dem Indra standen in der Vritraschlacht die Hilfen zur Seite, seine unüberwindlichen Kräfte von ungebeugter Gestalt.
Кого наполняют сидящие на небе на жертвенной соломе,
Словно океан (-реки), собственные благотворные подкрепления,
За ним при убийстве Вритры следовали поддержки –
За Индрой – непобедимые, несогнутые.
अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तय॑: । इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥
अ॒भि । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । र॒घ्वीःऽइ॑व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः॑ । इन्द्रः॑ । यत् । व॒ज्री । धृ॒षमा॑णः॑ । अन्ध॑सा । भि॒नत् । व॒लस्य॑ । प॒रि॒धीन्ऽइ॑व । त्रि॒तः ॥
ऊतयः मरुतः मदे सोमपानेन हर्षे सति अस्य इन्द्रस्य युध्यतः वृत्रेण सह युध्यमानस्य पुरतः स्ववृष्टिं स्वभूतवृष्टिमन्तं वृत्रम् अभि आभिमुख्येन 'सस्रुः जग्मुः । रघ्वीरिव प्रवणे । यथा गमनस्वभावा आप निम्नदेशे गच्छन्ति । यत् यदा अन्धसा सोमलक्षणेनान्नेन पीतेन धृषमाणः प्रगल्भः सन् वज्री वज्रवान् इन्द्रः वलस्य संवृण्वतः एतत्संज्ञकमसुरं भिनत् व्यदारयत् अवधीदित्यर्थः । तत्र दृष्टान्तः । त्रितः परिधीनिव। देवानां हविर्लेपनिघर्षणाय अग्नेः सकाशात् अप्सु एकतो द्वितस्त्रित इति त्रयः पुरुषा जज्ञिरे । तथा च तैत्तिरीयैः समाम्नातं- ‘ सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् । ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत' (तै. ब्रा. ३. २. ८. १०-११) इति । तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधाय असुरैः परिधयः परिधायकाः कूपस्याच्छादकाः स्थापिताः । तान्यथा स अभिनत् तद्वत् ॥ स्ववृष्टिम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युध्यतः । ' युध संप्रहारे । दैवादिकः । व्यत्ययेन शतृ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । रघ्वीः । रघि गत्यर्थः । ‘ रङ्घिबंह्योर्नलोपश्च' ( उ. सू. १. २९) इति उप्रत्ययः । ‘वोतो गुणवचनात्' इति ङीष् । जसि ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । ङीष्स्वरः शिष्यते । धृषमाणः ।' ञिधृषा प्रागल्भ्ये ' । श्नुप्रत्यये प्राप्ते व्यत्ययेन शः आत्मनेपदं च । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । भिनत् । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । विकरणस्वरः । यद्वृत्तयोगादनिघातः । वलस्य । वल संवरणे'। वलति संवृणोति सर्वमिति वलः । पचाद्यच् ।' क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । परिधीन् । परिधीयन्ते इति परिधयः ।' उपसर्गे घोः किः '(पा, सू. ३. ३.९२ ) इति दधातेः कर्मणि किप्रत्ययः । ‘ आतो लोप इटि च' इति आकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ १२ ॥
“His allies, exhilarated (by libations), preceded him, warring against the withholder of the rain, as rivers rush down declivities. Indra, animated by the sacrificial food, broke through the defences of Vala as did Trita through the coverings (of the well).”
To him, as in wild joy he fought with him who stayed the rain, his helpers sped like swift streams down a slope,
When Indra, thunder-armed, made bold by Soma draughts, as Trta cleaveth Vala's fences, cleft him through.
In his exhilaration, while he was fighting, his forms of help rushed to him, who has his own proper work, like rapids in a torrent,
when the mace-wielding Indra, emboldened by the soma stalk, split the barricades of the Vala cave, as Trita had.
Ihm, der im Rausche mit dem Regenhemmer rang, ihm flossen Hülfen wie vom Abhang Ströme zu, Als Indra blitzend, durch den Soma mutherfüllt des Vala Wehren gleich wie Trita spaltete.
Während er im Rausche dieses Soma kämpfte, sprangen seiner Eigengröße die Hilfen bei so schnell wie die flinken Stuten bergab, als Indra, der Keulenträger, durch den Soma kühn geworden des Vala Schranken sprengte gleich Trita.
В то время как он сражался в опьянении этим (сомой), навстречу его внезапному действию
Помчались подкрепления, как быстрые (воды) – в низину,
Когда Индра-громовержец, дерзая (все больше) от напитка сомы,
Проломил преграды Валы, словно Трита.
परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् । वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥
परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् । वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥
यो वृत्रः अपो वृत्वी उदकान्यावृत्य रजसः बुध्नम् अन्तरिक्षस्योपरिप्रदेशम् आशयत् आश्रित्याशेत तस्य वृत्रस्य प्रवणे प्रकर्षेण वननीयेऽन्तरिक्षे वर्तमानस्य दुर्गृभिश्वनः दुर्ग्रहव्यापनस्य । तस्य हि व्यापनं न केनापि ग्रहीतुं शक्यते । ‘स इमान् लोकानावृणोत्' इति श्रुतेः । एवंभूतस्य वृत्रस्य हन्वोः मुखपार्श्वयोः हे इन्द्र यत् यदा तन्यतुं प्रहारं विस्तारयन्तं यद्वा शब्दकारिणं वज्रम् । तृतीयार्थे द्वितीया । तन्यतुना वज्रेण निजघन्थ नितरां प्रजहर्थं तदानीम् ईम् एनं त्वाम् इन्द्रं घृणा शत्रुजयलक्षणा दीप्तिः परि चरति परितो व्याप्नोति । त्वदीयं शवः बलं च तित्विषे प्रदिदीपे ॥ तित्विषे । ‘ त्विष दीप्तौ । लिटि प्रत्ययस्वरः । तिङ्परत्वात् निघाताभावः । वृत्वी । ‘ वृञ् वरणे । स्नात्व्यादयश्च ' ( पा. सू. ७. १. ४९) इति आदिग्रहणात् क्त्वाप्रत्ययस्य ईकारः । रजसः । रञ्ज रागे'। रजन्त्यस्मिन् गन्धर्वादयः इति रजोऽन्तरिक्षम् । असुनि • रजकरजनरजःसूपसंख्यानम्' ( का. ६. ४. २४. ४) इति नलोपः । नित्त्वादाद्युदात्तत्वम् । अशयत् । शीङो व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ' इति शपो लुगभावः । दुर्गृभिश्वनः । ‘ ग्रह उपादाने ' , ' अशू व्याप्तौ ' इत्यनयोः दुःशब्दे उपपदे पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । निजघन्थ । ‘हन हिंसागत्योः'। लिटि थलि क्रादिनियमात्प्राप्तस्य इटः ‘ उपदेशेऽत्वतः ' ( पा. सू. ७. २, ६२) इति निषेधः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हकारस्य घत्वम् । ' लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। तिङि चोदात्तवति' इति गतेः निघातः । यद्वृत्तयोगात् निघाताभावः । तन्यतुम् । 'तनु विस्तारे '। अस्मात् ‘ ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच् । यद्वा । ‘ स्तन शब्दे ' इत्यस्मात् बहुलवचनात् यतुच्प्रत्यये सकारलोपः ॥
“When, Indra, you had smitten with my thunderbolt the check of the wide-extended Vṛtra, who, having obstructed the waters reposed in the region above the firmament, your fame spread afar, your prowess was renowned.”
Splendour encompassed thee, forth shone thy warrior might: the rain-obstructer lay in mid-air's lowest deep,
What time, O Indra, thou didst cast thy thunder down upon the jaws of Vritra hard to be restrained.
Glowing heat encircles him [=Indra], and his vast power flared. He [=Vr̥tra], having obstructed the waters, was lying on the foundation of the dusky realm,
when you, Indra, struck your thunder down upon the jaws of Vr̥tra, Hard-to-Grasp, in the (waters’) torrent.
Die Glut umgab dich, es erglänzte deine Kraft; gehüllt in Flut, lag jener in der Lüfte Grund; Als Indra du beim Sturz des schwerzufassenden auf Vritra's Backen niederschleudertest den Blitz.
Hitze überkommt ihn, seine Kraft entbrannte. Die Wasser versperrend lag er auf dem Grunde des irdischen Raumes, als du, Indra, deinen Donner dem Vritra in die Fresse schlugst, der im Wassergefäll schwer zu fassen war.
Его охватывает жар. Сила (его) возбуждена.
Запрудив воды, (тот) лежал на дне пространства,
Когда Вритру, которого трудно схватить в стремнине,
Ты, Индра, ударил громом по челюстям.
ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥
ह्र॒दम् । न । हि । त्वा॒ । नि॒ऽऋ॒षन्ति॑ । ऊ॒र्मयः॑ । ब्रह्मा॑णि । इ॒न्द्र॒ । तव॑ । यानि॑ । वर्ध॑ना । त्वष्टा॑ । चि॒त् । ते॒ । युज्य॑म् । व॒वृ॒धे॒ । शवः॑ । त॒तक्ष॑ । वज्र॑म् । अ॒भिभू॑तिऽओजसम् ॥
हे इन्द्र यानि ब्रह्माणि स्तोत्रशस्त्ररूपाणि मन्त्रजातानि तव वर्धना वर्धयितॄणि तानि त्वा त्वां न्यृषन्ति हि नितरां प्राप्नुवन्त्येव । तत्र दृष्टान्तः । ऊर्मयः जलप्रवाहाः ह्रदं न । यथा जलाशयं प्राप्नुवन्ति तद्वत् । त्वष्टा चित् स त्वष्टा च देवः ते तव युज्यं योग्यं शवः बलं ववृधे प्रावर्धयत् । अपि च अभिभूत्योजसं शत्रूणामभिभवितृणा ओजसा बलेन युक्तं वज्रं ततक्ष तीक्ष्णीचकार । न्यृषन्ति । ‘ऋषी गतौ ' । तौदादिकः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । ऊर्मयः । ‘ ऋ गतौ ' । ऋच्छन्ति गच्छन्तीति ऊर्मयः । ‘ अर्तेरू च ' ( उ. सू. ४. ६३४ ) इति मिप्रत्ययः । गुणे सति अकारस्य ऊकारादेशश्च । प्रत्यय स्वरः । वर्धना। वृषु वृद्धौ'। वर्धते एभिरिति वर्धना । करणे ल्युट् । 'शेश्छन्दसि ' इति शेर्लोपः। ततक्ष। तक्षू त्वक्षू तनूकरणे'। लिटि णलि लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । पादादित्वात् निघाताभावः । अभिभूत्योजसम् । अभिभूयतेऽनेनेति अभिभूति । करणे क्तिन् ।' तादौ च निति । इति गतेः प्रकृतिस्वरत्वम् । अभिभूति ओजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“The hymns, Indra, that glorify you, attain unto you, as rivulets (flow into) a lake. Tvaṣṭā has augmented your appropriate vigour; he has sharpened your bolt with overpowering might.”
The hymns which magnify thee, Indra, reach to thee even as water-brooks flow down and fill the lake.
Tvastar gave yet more force to thine appropriate strength, and forged thy thunderbolt of overpowering might.
For like waves to a lake, the sacred formulations that make you strong rush down to you, o Indra.
Tvaṣṭar also strengthened his own power, to be employed by you: he fashioned the mace of overwhelming might.
Denn zu dir strömen wie die Wellen in das Meer Gebete, die, o Indra, deine Labung sind; Denn Tvaschtar selbst hat deine tücht'ge Kraft vermehrt, als er den Blitz dir schuf von allgewalt'ger Macht.
Denn wie Wogen einen See erfüllen dich die feierlichen Worte, die deine Stärkung sind, o Indra. Tvastri selbst stärkte dir die eigene Kraft; er zimmerte die Keule von überlegener Wucht.
Ведь, как волны – озеро, тебя наполняют молитвы,
Которые для тебя, о Индра, усиления.
Это Тваштар увеличил свойственную тебе мощь:
Он выточил (тебе) дубину победной силы.
ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः । अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥
ज॒घ॒न्वान् । ऊँ॒ इति॑ । हरि॑ऽभिः । स॒म्भृ॒त॒क्र॒तो॒ इति॑ सम्भृतऽक्रतो । इन्द्र॑ । वृ॒त्रम् । मनु॑षे । गा॒तु॒ऽयन् । अ॒पः । अय॑च्छथाः । बा॒ह्वोः । वज्र॑म् । आ॒य॒सम् । अधा॑रयः । दि॒वि । आ । सूर्य॑म् । दृ॒शे ॥
हे संभृतक्रतो संपादितकर्मन् संपादितप्रज्ञ वा इन्द्र मनुषे जनाय गातुयन् गातुं मार्गमिच्छन् वृत्रं लोकानामावरकमसुरं हरिभिः अश्वैर्युक्तस्त्वं जघन्वान् उ हतवान् खलु । तदनन्तरम् अपः वृष्ट्युदकानि प्रावर्तय इत्यध्याहारः । बाह्वोः त्वदीययोर्हस्तयोः आयसम् अयोमयं वज्रम् अयच्छथाः अग्रहीः । आकारः समुच्चयार्थः । सूर्यं च दिवि द्युलोके दृशे द्रष्टुं सर्वेषामस्माकं दर्शनाय अधारयः स्थापयांचकृषे ॥ जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ विभाषा गमहनविदविशाम्' ( पा. सू. ७. २. ६८ ) इति इडागमस्य विकल्पोक्तेरभावः । गातुयन् गातुमिच्छसि । 'छन्दसि परेच्छायामपि ' ( का. ३. १. ८.२ ) इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति दीर्घप्रतिषेधः । क्यजन्तात् शतरि अदुपदेशात् लसार्वधातुकानुदात्तत्वे क्यच एव स्वरः शिष्यते । बाह्वोः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥
“Indra, performer of holy acts, desirous of going to man, you with your steeds have slain Vṛtra (have set free) the waters, have taken in your hands your thunderbolt of metal, and have made the sun visible in the sky.”
When, Indra, thou whose power is linked with thy Bay Steeds hadst smitten Vrtra, causing floods to flow for man,
Thou heldst in thine arms the metal thunderbolt, and settest in the heaven the Sun for all to see.
And when you, o Indra of concentrated resolve, together with your fallow bays, smashed Vr̥tra, making a way for the waters for Manu,
you held the metal mace in your arms. You fixed the sun fast in heaven to be seen.
Als, allgewalt'ger Indra, mit den Blitzen du den Vritra schlugst, der Wasser Bahn dem Menschen brachst, Da hieltest du im Arm den Blitz, den eisernen, und liesst die Sonn' am Himmel allen sichtbar stehn.
Als du, festentschlossener Indra, mit den Falben den Vritra erschlugst, und für Manu den Gewässern einen Ausweg suchtest, da hieltest du die eherne Keule in den Armen. Du brachtest am Himmel die Sonne zum Schauen an.
О собравшийся с силой духа Индра, убив с помощью буланых (коней)
Вритру, (и) создавая для человека выход водам,
Ты держал в руках железную дубину.
Ты укрепил на небе солнце, чтобы (его) видели.
बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः । यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तय॒: स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः । यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥
बृहत् बृहत्साम स्तोतारो यजमानाः भियसा वृत्रभयेन यत् यदा उक्थ्यम् उक्थार्हं स्तोत्रयोग्यम् अकृण्वत अकुर्वन् । कीदृशं बृहत्साम । स्वश्चन्द्रं स्वकीयेन चन्द्रेणाह्लादकेन तेजसा युक्तं अमवत् । अमति शत्रुन् रुजत्यनेनेति अमो बलम् । तद्युक्तम् । दिवः स्वर्गस्य रोहणम् आरोहणहेतुभूतम् । एवंविधेन स्तोत्रेण वृत्राद्भीता इन्द्रमस्तोषतेत्यर्थः । यत् यदा मानुषप्रधनाः ।' प्रकीर्णान्यस्मिन्धनानि भवन्ति' (निरु. ९. २३) इति नैरुक्तव्युत्पत्त्या प्रधनमिति संग्रामनाम। मनुष्यहितसंग्रामाः ऊतयः स्वः द्युलोकस्य रक्षितारः मरुतः नृषाचः प्राणरूपेण नॄन् सेवमाना भूत्वा इन्द्रम् अपि तेनैव रूपेण अनु अमदन् आनुपूर्व्येण हर्षं प्रापयन् । तदानीं स इन्द्रो वृत्रवधं प्रति उद्युक्तो बभूवेति शेषः ॥ स्वश्चन्द्रम् । स्वकीयं चन्द्रं यस्य । “ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' (पा. सू. ६. १. १५१ ) इति सुट् । श्रुत्वेन शकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भियसा । भीशब्दस्य तृतीयैकवचने छान्दसः असुगागमः तस्य उदात्तत्वं च । नृषाचः । ‘ षच समवाये । अयं सेवनार्थ इति यास्कः । वहश्च' (पा. सू. ३. २. ६४ ) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादस्मादपि ण्विप्रत्ययः । अमदन् । मदी हर्षे'। णिचि ‘मदी हर्षग्लेपनयोः' इति घटादिषु पाठात् मित्त्वे सति ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । लङि ‘ छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः ॥
“Through fear (of Vṛtra, they, the worshippers), recited the suitable hymn of the Bṛhat (Sāma), self-illuminating, strength-bestowing, and ascending to heaven; on which his allies, (the Maruts), combating for men, (guardians) of heaven, and vivifiers of mankind animated Indra (to destroy him).”
In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven,
When Indra's helpers fighting for the good of men, the Maruts, faithful to mankind, joyed in the light.
What is lofty, self-luminous, formidable, and praiseworthy [=Indra in form of sun]—in fear they made that their own means of ascent to heaven,
when the forms of help appropriate to human prize-contests, (that is,) the Maruts, accompanying that superior man [=Indra], cheered on
Indra, their sun.
Als ihren hohen, ungestümen, leuchtenden, preiswerthen Zug zum Himmel kräftig sie vollbracht, Als für die Menschen kämpfend männerhold im Licht die Maruts jauchzten mit dem Indra helfend ihm,
Die Götter machten mit Furcht den hohen Aufstieg zum Himmel, der selbstleuchtend, gewaltig, preisenswert ist, als die wie Menschen um den Siegerpreis kämpfenden Hilfen, als die Marut ihrem Herren folgend dem Indra der Sonne zujubelten.
Возвышенно, наделено собственным блеском, грозно, достойно гимна то, что
(Боги) в страхе совершили восхождение на небо,
Когда, (словно) борющиеся за награду люди, подкрепления (Индры) –
Маруты, сопровождающие господина, приветствовали в небе Индру.
द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑: स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते । वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिर॑: ॥
द्यौः । चि॒त् । अ॒स्य॒ । अम॑ऽवान् । अहेः॑ । स्व॒नात् । अयो॑यवीत् । भि॒यसा॑ । वज्रः॑ । इ॒न्द्र॒ । ते॒ । वृ॒त्रस्य॑ । यत् । ब॒द्ब॒धा॒नस्य॑ । रो॒द॒सी॒ इति॑ । मदे॑ । सु॒तस्य॑ । शव॑सा । अभि॑नत् । शिरः॑ ॥
अमवान् बलवान् द्यौश्चित् द्युलोकोऽपि अस्य अहेः वृत्रस्य स्वनात् शब्दात् भियसा भयेन अयोयवीत् अत्यर्थं पृथग्भूत आसीत् । अकम्पतेत्यर्थः । हे इन्द्र ते तव सुतस्य अभिषवादिभिः संस्कृतस्य सोमस्य पानेन मदे हर्षे जाते सति त्वदीयः वज्रः रोदसी द्यावापृथिव्यौ बद्बधानस्य बाधनशीलस्य वृत्रस्य शिरः यत् यदा शवसा बलेन अभिनत् अच्छिनत् । तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः ॥ अयोयवीत् ।' यु मिश्रणामिश्रणयोः '। अस्मात् यङ्लुगन्तात् लङि ‘यङो वा ' (पा. सू. ७. ३. ९४ ) इति अपृक्तप्रत्ययस्य ईडागमः । अडागम उदात्तः । बद्बधानस्य । ‘ बाधृ विलोडने ' । ताच्छीलिके चानशि ‘ बहुलं छन्दसि ' इति शपः श्लुः । हलादिशेषाभावो धातोर्ह्रस्वत्वं च छान्दसत्वात् । चितः' इत्यन्तोदात्तत्वम् ॥ ॥ १३ ॥
“The strong heaven was rent asunder with fear at the clamour of that Ahi, when you, Indra, was inspired by (drinking) the effused (Soma), and your thunderbolt in its vigour struck off the head of Vṛtra, the obstructor of heaven and earth.”
Then Heaven himself, the mighty, at that Dragon's roar reeled back in terror when, Indra, thy thunderbolt
In the wild joy of Soma had struck off with might the head of Vrtra, tyrant of the earth and heaven.
Even formidable heaven kept retreating from the sound of this serpent and in fear at your mace, Indra,
when, in the exhilaration of the pressed soma, with your vast power you split the head of Vr̥tra, who was pressing harder and harder
upon the two world-halves.
Da barst der starke Himmel selbst vor dem Geschrei des Drachens voller Furcht, o Welten, als dein Blitz, O Indra, voller Kraft des Vritra Haupt zerschlug, des eingezwängten, als vom Soma du berauscht.
Sogar der gewaltige Himmel wich aus Furcht vor dem Getöse dieses Drachens deiner Keule aus, o Indra, als du im Rausche des Soma mit Macht den Kopf des Vritra spaltest, der die beiden Welthälften bedrängte.
Само грозное небо из-за рева этого змея
Отступило от страха, когда твоя ваджра, о Индра,
В опьянении выжатым (сомой) с силой разрубила голову
Вритры, угнетавшего оба мира.
यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑: । अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥
यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश॑ऽभुजिः । अहा॑नि । विश्वा॑ । त॒तन॑न्त । कृ॒ष्टयः॑ । अत्र॑ । अह॑ । ते॒ । म॒घ॒ऽव॒न् । विऽश्रु॑तम् । सहः॑ । द्याम् । अनु॑ । शव॑सा ब॒र्हणा॑ । भु॒व॒त् ॥
यदिन्नु यदा खलु पृथिवी दशभुजिः दशगुणिता भवेत् यदि वा कृष्टयः सर्वे मनुष्याः विश्वा सर्वाणि अहानि ततनन्त विस्तारयेयुः । हे मघवन् धनवन् इन्द्र अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु ते त्वदीयं सहः वृत्रवधादिकारणं बलं विश्रुतं विख्यातं प्रसिद्धम् । शवसा त्वदीयेन बलेन कृता बर्हणा वृत्रादेर्वधरूपा क्रिया द्यामनु भुवत् अनुभवति । यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः ॥ ततनन्त । ‘ तनु विस्तारे'। स्वरितेत्त्वात् आत्मनेपदम् । लिङर्थे लङि उप्रत्यये प्राप्ते व्यत्ययेन शप् । छान्दसो द्विर्भावः । यद्वा । ‘ बहुलं छन्दसि ' इति उप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । यद्वृत्तयोगादनिघातः । विश्रुतम् । श्रु श्रवणे'। कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । बर्हणा । ‘ वर्ह वल्ह परिभाषणहिंसाच्छादनेषु'। अस्मात् औणादिकः क्युप्रत्ययः । बवयोरभेद इति वकारस्य बत्वम् । प्रत्ययस्वरः । ‘ निबर्हयति' ( नि. २. १९. ३० ) इति वधकर्मसु पठितं च । भुवत् ।' भू सत्तायाम्'। लेटि अडागमः । इतश्च लोपः' इति इकारलोपः। ‘बहुलं छन्दसि ' इति शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधे उवङादेशः ॥
“Although, Indra, the earth were of tenfold (its extent), and men multiplied every day, yet, Maghavan, your prowess would be equally renowned; the exploits achieved by your might would be spread abroad with the heavens.”
O Indra, were this earth extended forth tenfold, and men who dwell therein multiplied day by day,
Still here thy conquering might, Maghavan, would be famed: it hath waxed vast as heaven in majesty and power.
Now, o Indra, just as far as the earth with its ten coils (extends) and the separate peoples will extend throughout all the days,
just to there, o bounteous one, your widely famed strength will pervade heaven with vast power and mightiness.
Wenn, Indra, auch die Erde zehnmal grösser wär', und Tag für Tag die Völker sich verbreiteten, Dann würd', o starker, deine weitberühmte Macht der Welt doch gleich an Kraft und Fülle sein.
Sobald die Erde den zehnfachen Umfang annahm und die Völker alle Tage sich ausdehnten, o Indra, da kam fürwahr deine berühmte Macht, du Gabenreicher, dem Himmel an Stärke, an Selbstvertrauen gleich.
Так как, о Индра, земля (увеличилась) в десять раз,
(И) все дни распространялись народы,
То твоя знаменитая сила, о щедрый,
Мощью (и) разрушительностью (стала) равной небу.
त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒: स्वभू॑त्योजा॒ अव॑से धृषन्मनः । च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑: परि॒भूरे॒ष्या दिव॑म् ॥
त्वम् । अ॒स्य । पा॒रे । रज॑सः । विऽओ॑मनः । स्वभू॑तिऽओजाः । अव॑से । धृ॒ष॒त्ऽम॒नः॒ । च॒कृ॒षे । भूमि॑म् । प्र॒ति॒ऽमान॑म् । ओज॑सः । अ॒पः । स्वरिति॑ स्वः॑ । प॒रि॒ऽभूः । ए॒षि॒ । आ । दिव॑म् ॥
हे धृषन्मनः शत्रूणां धर्षकमनोयुक्तेन्द्र अस्य अस्माभिः परिदृश्यमानस्य व्योमनः व्याप्तस्य अन्तरिक्षस्य रजसः लोकस्य पारे उपरिप्रदेशे वर्तमानः स्वभूत्योजाः स्वभूतबलः त्वम् अवसे अस्मद्रक्षणार्थं भूमिं भूलोकं चकृषे कृतवानसि । किंच ओजसः बलवतां बलस्य प्रतिमानं प्रतिनिधिरभूः । तथा स्वः सुष्ठु अरणीयं गन्तव्यम् । आपः इति अन्तरिक्षनाम । अपः अन्तरिक्षलोकं आ दिवं द्युलोकं च परिभूः परिग्रहीता । परिपूर्वो भवतिः परिग्रहणार्थः । एषि प्राप्नोषि॥ अस्य । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । व्योमनः। अवतिर्गत्यर्थः, अव रक्षणगतिकान्ति' इत्यभिधानात्। विशेषेण गच्छति व्याप्नोतीति व्योम । यद्वा । वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम । ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर' ' इत्यादिना उपधाया वकारस्य च ऊठ्। गुणः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । भावे मनिन् । विविधम् ओम रक्षणं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेशे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितस्वम् । स्वः । सुपूर्वात् अर्तेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति विच् । अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इति सुपो लुक् ।' न्यङ्स्वरौ स्वरितौ' (फि. सू. ७४ ) इति स्वरितत्वम् ॥
“Firm-minded Indra, abiding (secure) in your strength beyond the limit of the wide-expanded firmament, you have framed the earth for our preservation; you have been the type of vigour; you have encompassed the firmament and the sky as far as to the heavens.”
Thou, bold of heart, in thine own native might, for help, upon the limit of this mid-air and of heaven,
Hast made the earth to be the pattern of thy strength: embracing flood and light thou reachest to the sky.
O you of bold mind, at the far edge of this dusky realm and of distant heaven with the might natural to you
you have made the earth the counterpart of your might for our help. Encompassing the waters and the sun, you go all the way to heaven.
Du schufst zum Schutz am Rand des Himmels und der Luft, o kühngesinnter, nach der Kraft, die in dir wohnt, Das Erdenrund als deiner Stärke Ebenbild, du ragst zum Himmel, rings umfangend Luft und Licht.
Auf der anderen Seite dieser Welt, des Himmels, hast du Kühngesinnter von Natur stark, zum Schutz bereit, die Erde zum Gegengewicht deiner Stärke gemacht. Die Wasser, die Sonne beschirmend gehst du zum Himmel ein.
По ту сторону (видимого) пространства, неба
Ты, о сильный по своей природе, (приходящий) на помощь, о дерзкий мыслью,
Сделал землю противовесом (своей) силы.
Охватывая воды, солнце, ты идешь на небо.
त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः । विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥
त्वम् । भु॒वः॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । ऋ॒ष्वऽवी॑रस्य । बृ॒ह॒तः । पतिः॑ । भूः॒ । विश्व॑म् । आ । अ॒प्राः॒ । अ॒न्तरि॑क्षम् । म॒हि॒ऽत्वा । स॒त्यम् । अ॒द्धा । नकिः॑ । अ॒न्यः । त्वाऽवा॑न् ॥
हे इन्द्र त्वं पृथिव्याः प्रथिताया विस्तीर्णाया भूमेः । प्रतिमानं भुवः प्रतिनिधिर्भवसि । यथा भूर्लोको महानचिन्त्यशक्तिः एवं त्वमपीत्यर्थः । तथा ऋष्ववीरस्य । वरयन्ति विक्रान्ता भवन्तीति वीरा देवाः । ऋष्वा दर्शनीया वीरा यस्य स तथोक्तः । तस्य बृहतः बृंहितस्य प्रवृद्धस्य स्वर्गलोकस्य पतिर्भूः पालयितासि । तथा अन्तरिक्षम् अन्तरा क्षान्तं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं विश्वं सर्वमपि महित्वा महत्त्वेन सत्यम् आप्राः निश्चयेन आ समन्तादपूरयः । अतः त्वावान् त्वत्सदृशः अन्यः कश्चित् नकिः अस्ति नास्तीति यदेतत् तत् अद्धा सत्यमेव ॥ भुवः । भवतेलेंटि सिपि अडागमः । उवङादेशः । पृथिव्याः । ‘ उदात्तयणो हल्पूर्वात् ' इति विभक्तिरुदात्ता । बृहतः । ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । भूः । छान्दसे वर्तमाने लुङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अप्राः । ‘ प्रा पूरणे '। अदादिकः । लङि अडागमः। महित्वा । ‘सुपां सुलुक्' इति तृतीयाया डादेशः । त्वावान् । ‘वतुप्प्रकरणे युष्मदस्मद्यांक छन्दसि सादृश्य उपसंख्यानम् ' ( पा. सू. ५. २. ३९. १ ) इति सादृश्यार्थे वतुप् । 'प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘ आ सर्वनाम्नः' इति आत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते ॥
“You are the type of the extended earth you are the lord of the vast god-frequent (svarga) verily with your bulk you fillest all the firmament of a truth, there is none other such as you.”
Thou art the counterpart of earth, the Master of lofty heaven with all its mighty Heroes:
Thou hast filled all the region with thy greatness: yea, of a truth there is none other like thee.
You have become the counterpart of earth and you became the lord of high (heaven) containing lofty heroes.
You filled the whole midspace with your greatness. This is certainly true: there is no other like you.
Du warst der Erde Ebenbild, Gebieter des hohen Sitzes der erhabnen Götter; Mit deiner Grösse füllst die ganze Luft du, fürwahr es ist kein andrer so, wie du bist.
Du wardst das Gegengewicht der Erde, du wurdest der Herr des hohen Himmels, in dem die erhabenen Helden sind. Das ganze Luftreich hast du mit deiner Größe ausgefüllt. Wahrhaftig, kein andrer ist wirklich dir gleich.
Ты стал противовесом земли.
Ты стал господином высокого (неба) с великими героями.
Все воздушное пространство ты заполнил (своим) величием.
Ведь поистине никто другой не равен тебе.
न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः । नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । व्यचः॑ । न । सिन्ध॑वः । रज॑सः । अन्त॑म् । आ॒न॒शुः । न । उ॒त । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । एकः॑ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व॑म् । आ॒नु॒षक् ॥
यस्य इन्द्रस्य व्यचः व्यापनं द्यावापृथिवी द्यावापृथिव्यौ न अनु आनशाते प्राप्तुमसमर्थे बभूवतुः । तथा रजसः अन्तरिक्षलोकस्योपरि सिन्धवः स्यन्दनशीला आपो यस्य इन्द्रस्य तेजसः अन्तम् अवसानं न आनशुः न प्रापुः । उत अपि च सोमपानेन मदे हर्षे सति स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं युध्यतः युध्यमानस्य अस्य इन्द्रस्य बलस्य अन्तं वृत्रादयः न प्रापुः । अतो हे इन्द्र एकः त्वम् अन्यत् स्वव्यतिरिक्तं विश्वं सर्वं भूतजातम् आनुषक् आनुषक्तं चकृषे । सकलमपि भूतजातं त्वदधीनमभूदिति भावः ॥ द्यावापृथिवी । द्यौश्च पृथिवी च । ‘ दिवो द्यावा । (पा. सू. ६. ३. २९) इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दः ‘षिद्गौरादिभ्यश्च ' इति ङीषन्तोऽन्तोदात्तः । ‘ देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘०अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः । व्यचः । 'व्यचेः कुटादित्वमनसि' (का. १. २. १. १) इति वचनात् ङित्त्वाभावे संप्रसारणाभावः । आनशुः । अश्नोतेर्व्यत्ययेन परस्मैपदम् । ‘ अत आदेः' इति अभ्यासस्य आत्वम् । अश्नोतेश्च ' इति नुडागमः ॥
“you, Indra, of whom heaven and earth have not attained the amplitude; of whom the waters of heaven have not reached the limit; of whom, when warring with excited animation against the withholder of the rains, (his adversaries have not equalled the prowess); you alone have made everything else, (than yourself), dependent (upon you).”
Whose amplitude the heaven and earth have not attained, whose bounds the waters of mid-air have never reached,--
Not, when in joy he fights the stayer of the rain: thou, and none else, hast made all things in order due.
Whose expanse neither heaven nor earth reaches across—any more than the rivers reach the end of the dusky realm—
nor (do they reach him) who performs his own proper work in his
exhilaration while he is fighting. You alone have done everything else in due order.
Du, dessen Grösse Erd' und Himmel nicht umfahn, dess Ende nicht die Ström' erreichten in der Luft, Auch als im Rausch du mit dem Regenhemmer rangst, du schufst allein das andre alles nach der Reih'.
Dessen Umfang Himmel und Erde nicht erreichen, so wenig als die Ströme das Ende der Welt, noch seine Eigengröße, wenn er im Rausche dieses Soma kämpft. Allein hast du alles andere vollständig getan.
(Он,) чьей протяженности не до(стигают) небо и земля,
Как реки не достигают конца (видимого) пространства -
Тем более не (сравниться) с (его) собственным внезапным действом, когда он сражается в опьянении (сомой!)
Один последовательно совершил все остальное.
आर्च॒न्नत्र॑ म॒रुत॒: सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा । वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥
आर्च॑न् । अत्र॑ । म॒रुतः॑ । सस्मि॑न् । आ॒जौ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ । वृ॒त्रस्य॑ । यत् । भृ॒ष्टि॒ऽमता॑ । व॒धेन॑ । नि । त्वम् । इ॒न्द्र॒ । प्रति॑ । आ॒नम् । ज॒घन्थ॑ ॥
हे इन्द्र त्वां मरुतः अत्र अस्मिन् संग्रामे आर्चन् । ' प्रहर भगवो जहि वीरयस्व' (ऐ. ब्रा. ३. २०) इत्यनेन वचनेन अपूजयन् । सस्मिन् तस्मिन् यद्वा सर्वस्मिन् आजौ संग्रामे विश्वे देवासः ते सर्वे दानादिगुणयुक्ता मरुतः त्वा त्वाम् अनु अमदन् अनुक्रमेण हर्षं प्रापयन् । यद्वा। त्वदीयमदानन्तरं तेऽपि मदं प्राप्ताः । हे इन्द्र त्वं यत् यदा भृष्टिमता । भ्रंशयति शत्रूनिति भृष्टिः अश्रिः । तद्वता वधेन हननसाधनेन वज्रेण । अश्रिमत्त्वं च वज्रस्य ब्राह्मणे समाम्नातं - वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्तव्योऽष्टाश्रिर्वै वज्रः ' ( ऐ. ब्रा. २. १ ) इति । तेन वज्रेण वृत्रस्य आनं प्रति आननं मुखं प्रति यद्वा श्वासहेतु घ्राणं प्रति नि जघन्थ नितरां प्राहार्षीः ॥ आर्चन् । •अर्च पूजायाम् । भौवादिकः । आडागम उदात्तः । सस्मिन् । 'तदोः सः सौ ' (पा. सू. ७. २. १०६) इति विधीयमानं सत्वं व्यत्ययेन सप्तम्यामपि द्रष्टव्यम् । यद्वा । सर्वस्मिन्नित्यत्र वर्णलोपो द्रष्टव्यः । देवासः । आज्जसेत्सुक् ।' आनम् आननम् । वर्णलोपश्छान्दसः । यद्वा । ‘अन प्राणने'। अन्यते अनेनेति आनं घ्राणंम् । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जघन्थ । 'हन हिंसागत्योः'। थलि उपदेशेऽत्वतः' इति इट्प्रतिषेधः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हकारस्य घत्वम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् ॥ ॥ १४ ॥
“The Maruts worshipped you in this (encounter); all the gods in this engagement imitated you in exultation, when you had struck the face of Vṛtra with your angular and fatal (bolt).”
The Maruts sang thy praise in this encounter, and in thee all the Deities delighted,
What time thou, Indra, with thy spiky weapon, thy deadly bolt, smotest the face of Vrtra.
There at this same contest the Maruts chanted and all the gods cheered you on,
when with your deadly weapon covered with spikes, o Indra, you struck down against the mouth of Vr̥tra.
Es sangen da bei diesem Kampf die Maruts und dir auch jauchzten zu die Götter alle, Als, Indra, du mit der gezackten Keule dem Vritra hast ins Angesicht geschlagen.
Es sangen dabei die Marut in demselben Kampfe, alle Götter jubelten dir zu, als du, Indra, mit der gezackten Waffe dem Vritra gegen das Maul schlugst.
Пели тут Маруты в этом сражении,
Все боги ликовали при виде тебя,
Когда зазубренной дубиной, о Индра,
Ты ударил Вритру по пасти.