न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑:ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
नि । ऊँ॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः । नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥
महे महते इन्द्राय सु वाचं शोभनां स्तुतिं नि प्र भरामहे नितरां प्रयुञ्ज्महे । उ इति पादपूरणः । यतः 'विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृहे इन्द्राय गिरः स्तुतयः क्रियन्ते । हि यस्मात् स इन्द्रः नू चित् क्षिप्रमेव रत्नं रमणीयमसुराणां धनम् अविदत् विन्दति । तत्र दृष्टान्तः । ससतामिव । यथा स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोऽस्मभ्यं धनं दातुं शक्त इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिः असमीचीना स्तुतिः न शस्यते नाभिधीयते । अतः सुवाचं प्र भरामहे इति पूर्वेण संबन्धः ॥ न्यू षु इत्यस्य ‘उदात्तस्वरितयोर्यणः । इति स्वरितत्वम् । तत्र उदात्तपरत्वात् संहितायां कम्प्यते । ‘इकः सुञि' (पा. सू. ६. ३. १३४ ) इति दीर्घत्वम् । ‘सुञः' इति षत्वम् । महे ।' मह पूजायाम्' इत्यस्मात् ‘क्विप् च ' इति क्विप् । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । यद्वा । महच्छब्दस्य अच्छब्दलोपश्छान्दसः । नू चित् । ‘ ऋचि तुनुघ' इत्यादिना दीर्घः । ससतामिव ।' षस स्वप्ने ' । अस्मात् शत्रन्तदन्तोदात्तात्परस्या विभक्तेः ‘शतुरनुमः' इत्युदात्तत्वम् । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' (पा. सू. २. १. ४. २) इति समासः । अविदत् ।' विद्लृ लाभे'। 'छन्दसि लुङ्लङ्लिटः ' इति वर्तमाने लुङि • पुषादिद्युतादिः' इति च्लेः अङादेशः । अडागम उदात्तः । ' हि च' इति निघातप्रतिषेधः । द्रविणोदेषु । द्रविणानि धनानि ददातीति द्रविणोदः । ‘द्रु गतौ ' इत्यस्मात् ‘द्रुदक्षिभ्यामिनन्' (उ. सू. २. २०८) इति इनन्प्रत्ययान्तो द्रविणशब्दः । तस्मिन् कर्मण्युपपदे ‘आतोऽनुपसर्गे कः' इति कः । पूर्वपदस्य सुगागमश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शस्यते । ‘शंसु स्तुतौ ' । यकि ‘अनिदिताम् ' इति नलोपः ॥
“We ever offer fitting praise to the mighty Indra, in the dwelling of the worshpper, by which he (the deity) has quickly acquired riches, as (a thief) hastily hastily carried (off the property) of the sleeping. Praise ill expressed is not valued among the munificent.”
न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
Let us bring forward our speech for the great one, our songs for Indra, at the seat of Vivasvant,
for never has anyone found a treasure among those who are, as it were, asleep. A poor praise hymn is not acclaimed among the givers of wealth.
Lasst bringen uns dem grossen Indra nun ein Lied, im Sitze des Vivasvat ihm Gesänge weihn; Denn nicht beschenkt er die, die wie im Schlafe ruhn, und schlechtes Lob gefällt dem Schätzespender nicht.
Wir tragen fein dem Großen eine Rede vor, Lobesworte dem Indra an die Stätte des Vivasvat. Noch hat ja einer das Kleinod wie ein Dieb bei Schlafenden gefunden. Ein schlechtes Loblied findet bei den Schätzespendern kein Lob.
Вот легко мы возносим речь, хвалебные песни
Великому Индре на месте Вивасвата.
Никогда ведь еще не находили сокровища, как (вор) у спящих.
Плохое восхваление не ценится среди дающих богатство.
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पति॑: । शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शन॒: सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
दु॒रः । अश्व॑स्य । दु॒रः । इ॒न्द्र॒ । गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः । इ॒नः । पतिः॑ । शि॒क्षा॒ऽन॒रः । प्र॒ऽदिवः॑ । अका॑मऽकर्शनः । सखा॑ । सखि॑ऽभ्यः । तम् । इ॒दम् । गृ॒णी॒म॒सि॒ ॥
हे इन्द्र त्वम् अश्वस्य दुरः दाता असि। तथा गोः पश्वादेः दुरः दातासि । तथा यवस्य यवादेर्धान्यजातस्य दुरः दाता असि । वसुनः निवासहेतोः धनस्य इनः स्वामी पतिः सर्वेषां पालयिता शिक्षानरः । शिक्षतिर्दानकर्मा (नि. ३. १०.८)। शिक्षाया दानस्य नेतासि । प्रदिवः पुराणः । प्रगता दिवो दिवसा यस्मिन् स तथोक्तः। अकामकर्शनः । कामान् कर्शयति नाशयतीति कामकर्शनः । न कामकर्शनोऽकामकर्शनः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । हविदत्तवतां यजमानानां कामानभिमतफलप्रदानेन पूरयतीत्यर्थः। 'सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यन्तं प्रियः एवंभूतो य इन्द्रः तं प्रति इदं स्तोत्रलक्षणं वचः गृणीमसि ब्रूमहे ॥ दुरः । ‘डुदाञ् दाने'। ‘मन्दिवाशिमतिचसिचङ्ग्यङ्किभ्य उरच् ' (उ. सू. १. ३८) इति विधीयमान उरच्प्रत्ययो बहुलवचनादस्मादपि भवति । अत एव आकारलोपः । शिक्षानरः । ‘ शिक्ष विद्योपादाने '।' गुरोश्च हलः ' ( पा. सू. ३. ३. १०३) इति अकारप्रत्ययः । ततः टाप् । षष्ठीसमासः । समासस्य' इत्यन्तोदात्तत्वम् । गृणीमसि ।' गॄ शब्दे ' । क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ' इदन्तो मसि ' इति मसेः इकारः ॥
“You, Indra, are the giver of horses, of cattle, or barley, the master and protector of wealth, the foremost in liberality, (the being) of many days; you disappoint not desires (addressed to you); you are a friend to our friend; such an Indra we praise.”
Giver of horses, Indra, giver, thou, of kine, giver of barley, thou art Lord and guard of wealth:
Man's helper from of old, not disappointing hope, Friend of our friends, to thee as such we sing this praise.
O Indra, you are the one who breaks out the horse, breaks out the cow, breaks out the grain, since you are the forceful lord of (every)
good thing.
He who from of old does his best for men, who does not short their desires, a comrade to his comrades—to him we now sing.
Du, Indra, schenkest Rosse, schenkest Rinder auch, du schenkest Korn und bist des Gutes starker Herr, Beschenkst die Männer, schmälerst ihre Wünsche nie, ein Freund den Freunden, darum preisen wir ihn hier.
Du, Indra, schlägst Roß und Rind heraus, du schlägst Korn heraus als der mächtige Gebieter des Guts, für die Männer von jeher hilfsbereit; ihre Wünsche nicht zu kurz kommen lassend, ein Genosse den Genossen: den preisen wir jetzt.
Ты – тот, кто с бою берет (для нас) коня, с бою берет корову, о Индра,
С бою берет (для нас) ячмень, деятельный господин добра,
От века покровитель людей, помогающий не иссякнуть (их) желаниям,
Друг для друзей – таким мы тебя воспеваем!
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ । अत॑: सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् । अ॒भितः॑ । चे॒कि॒ते॒ । वसु॑ । अतः॑ । स॒म्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒ऽय॒तः । ज॒रि॒तुः । काम॑म् । ऊ॒न॒यीः॒ ॥
शचीवः । शची इति प्रज्ञानाम । हे इन्द्र शचीवः प्रज्ञावान् पुरुकृत् प्रभूतस्य वृत्रवधादेः कर्तः द्युमत्तम अतिशयेन दीप्तिमन् अभितः सर्वत्र वर्तमानं वसु धनं यदस्ति तत् इदं तवेत् तवैव स्वभूतमिति चेकिते भृशमस्माभिर्ज्ञायते । अतः कारणात् धनं संगृभ्य सम्यक् गृहीत्वा अभिभूते शत्रूणामभिभवितः आ भर अस्मभ्यमाहर देहीत्यर्थः । त्वायतः त्वामात्मन इच्छतः जरितुः स्तोतुः कामम् अभिलाषं मा ऊनयीः परिहीनं मा कार्षीः। पूरयेत्यर्थः ॥ शचीवः । ‘ मतुवसो रुः०' इति रुत्वम् । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । इतरेषु आष्टमिकं सर्वानुदात्तत्वम् । न च ' आमन्त्रितं पूर्वमविद्यमानवत्' इति अविद्यमानवत्वम्, ‘नामन्त्रिते समानाधिकरणे ' इति निषेधात् । चेकिते। ‘ कित ज्ञाने'। अस्मात् यङन्ताद्वर्तमाने लिटि ‘ °अमन्त्रे' (पा. सू. ३. १. ३५) इति निषेधात् आम्प्रत्ययाभावे सति लिट आर्धधातुकत्वात् अतोलोपयलोपौ । संगृभ्य आभर इति उभयत्र ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । त्वायतः । त्वामात्मन इच्छति । ‘सुप आत्मनः क्यच् ।' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । छान्दसम् आत्वम्। क्यजन्तात् लटः शतृ । तस्य अदुपदेशात् लसार्वधातुकस्वरेण अनुदात्तस्य एकादेशस्वरेणोदात्तत्वम् । एकादेशस्वरोऽन्तरङ्गः सिद्धो भवतीति वक्तव्यम्' (पा. सू. ८. २. ६. १ ) इति वचनात् तस्य सिद्धत्वे सति ‘शतुरनुमः' इति अजादिविभक्तेरुदात्तत्वम् । कामम् । ‘कमु कान्तौ' इत्यस्मात् भावे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । ऊनयीः। ‘ ऊन परिहाणे ' । चुरादिः । लुङि • णिश्रिद्रुस्रुभ्यः । ( पा. सू. ३. १. ४८) इति च्लेः चङादेशस्य ‘नोनयतिध्वनयति' (पा. सू. ३. १. ५१ ) इत्यादिना प्रतिषेधः । ‘ हम्यन्तक्षण ' (पा. सू. ७. २.५) इति सिचि वृद्धिप्रतिषेधः ॥
“Wise and resplendent Indra, the achiever of great deeds, the riches that are spread around are known to be yours; having collected them, victor (over your enemies), bring them to us; disappoint not the expectation of the worshipper who trusts in you.”
Indra, most splendid, powerful, rich in mighty deeds, this treasure spread around is known to be thine own.
Gather therefrom, O Conqueror, and bring to us: fail not the hope of him who loves and sings to thee.
O able Indra, most brilliant doer of many (deeds)—just yours is the good that keeps appearing all around.
Therefore, o overpowering one, having grasped it entirely, bring it here. Don’t leave lacking the desire of the singer who seeks you.
O starker Indra, thatenreicher, glänzendster, dein ist der Reichthum, den man ringsherum erblickt, Davon, o mächt'ger, nimm und bringe uns herbei; den Wunsch des Sängers, der dich liebt, verkürze nicht.
Machtvoller, tatenreicher, glanzvollster Indra! Dein ist dies Gut, das ringsum in die Augen fällt. Raff davon zusammen und bring es herbei, du Übermächtiger; laß den Wunsch des des dir ergebenen Sängers nicht unerfüllt!
0 могущественный Индра, совершающий много (подвигов), о самый яркий!
Ведь это твое добро со всех сторон бросается в глаза!
Взяв из него, принеси, о (всех) превосходящий!
Не оставь неисполненным желание преданного тебе певца!
ए॒भिर्द्युभि॑: सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षस॒: समि॒षा र॑भेमहि ॥
ए॒भिः । द्युभिः॑ । सु॒ऽमनाः॑ । ए॒भिः । इन्दु॑ऽभिः । निः॒ऽउ॒न्धा॒नः । अम॑तिम् । गोभिः॑ । अ॒श्विना॑ । इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॑ऽभिः । यु॒तऽद्वे॑षसः । सम् इ॒षा । र॒भे॒म॒हि॒ ॥
हे इन्द्र एभिः अस्माभिर्दत्तैः द्युभिः दीप्तैश्चरुपुरोडाशादिभिः एभिरिन्दुभिः पुरोवर्तिभिः तुभ्यं दत्तैः सोमैश्च प्रीतस्त्वम् अस्माकम् अमतिं दारिद्र्यं गोभिः त्वया दत्तैः पशुभिः अश्विना अश्वयुक्तेन धनेन च निरुन्धानः निवर्तयन् सुमनाः शोभनमना भव । वयम् इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन इन्द्रेण दस्युम् उपक्षपयितारं शत्रुं दरयन्तः हिंसन्तः अत एव युतद्वेषसः पृथग्भूतशत्रुका भूत्वा इषा इन्द्रदत्तेन अन्नेन सं रभेमहि संरब्धा भवेम । संगच्छेमहीत्यर्थः ॥ सुमनाः। शोभनं मनो यस्य। सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । निरुल्धानः। ‘रुधिर् आवरणे । स्वरितेत्त्वात् आत्मनेपदम् । श्नसोरल्लोपः' इति अकारलोपः। ‘ चितः' इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अमतिम् । मन्तव्या मतिः ऐश्वर्यम् । न मतिः अमतिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'न लोकाव्यय ' इति षष्ठीप्रतिषेधः । अश्विना । अश्वोऽस्यातीति अश्वि धनम् । मत्वर्थीय इनिः ॥
“Propitiated by these offerings, be these libations, dispel poverty with cattle and horses; may we subduing our adversary, and relived from enemies by Indra, (plural ased) by our libations, enjoy together abundant food.”
Well pleased with these bright flames and with these Soma drops, take thou away our poverty with seeds and kine.
With Indra scattering the Dasyu through these drops, freed from their hate may we obtain abundant food.
He is well disposed through these days by reason of these soma drops, checking neglect by means of cows and (wealth) in horses.
Might we, breaking up the Dasyu with Indra and the soma drops,
keeping hostility away, be embraced by refreshment.
Durch diese Flammen, diese Tränke holdgestimmt, hilf ab dem Mangel durch Besitz an Rind und Ross; Den Feind durch Indra fernhin jagend mögen wir vom Feind befreit durch Indu's Labungen empfahn.
An diesen Tagen mit diesen Somatränken zufrieden, die Ratlosigkeit durch Kühe und Rosse bannend - Mit Indra, mit Somas wollen wir den Dasyu zersprengen, den Feind abwehren und am Speisegenuß teilhaben.
В эти дни настроенный благожелательно благодаря этим каплям (сомы),
Прогоняя безвдохновенность (поэта) с помощью коров, богатства конями –
Силой Индры (и) капель (сомы) разнося дасью,
Да получим мы жертвенный напиток, отстранив враждебность!
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः । सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे॑भिः । पु॒रु॒ऽच॒न्द्रैः । अ॒भिद्यु॑ऽभिः । सम् । दे॒व्या । प्रऽम॑त्या । वी॒रऽशु॑ष्मया । गोऽअ॑ग्रया । अश्व॑ऽवत्या । र॒भे॒म॒हि॒ ॥
हे इन्द्र राया धनेन वयं सं रभेमहि संगच्छेमहि । तथा इषा अन्नेन सं रभेमहि । तथा वाजेभिः बलैः सं रभेमहि । कीदृशैः वाजैः । पुरुश्चन्दैः पुरूणां बहूनामाह्लादकैः अभिद्युभिः अभितो दीप्यमानैः । किंच देव्या द्योतमानया प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या सं रभेमहि । कीडश्या। वीरशुष्मया । वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता । गोअग्रया। स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ता । अश्वावत्या अश्वैरुपेतया ॥ राया । ‘ऊड़िदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पुरुश्चन्द्रैः । ‘ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे' इति सुट् । श्चुत्वेन शकारः । समासस्वरः । अभिद्युभिः । अभिगता द्यौर्दीप्तिर्येषाम् । अत्र दिव्शब्दो दीप्तिं लक्षयति । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । देव्या । उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । प्रमत्या । ‘तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। सर्वत्र विभाषा गोः' (पा. सू. ६. १. १२२ ) इति गोअग्रया इत्यत्र प्रकृतिभावः । अश्वावत्या । ‘ मन्त्रे सोमाश्वेन्द्रिय ' इति मतुपि दीर्घत्वम् ॥ ॥ १५ ॥
“Indra, may we become possessed of riches, and of food; and with energies agreeable to many, and shining around, may we prosper through your divine favour, the source of prowess, of cattle and of horses.”
Let us obtain, O Indra, plenteous wealth and food, with strength exceeding glorious, shining to the sky:
May we obtain the Goddess Providence, the strength of heroes, special source of cattle, rich in steeds.
O Indra, might we be embraced by wealth, by nourishment, and by much-glittering prizes bound for heaven.
Might we be embraced by your divine solicitude, having the unbridled force of heroes, with cows at the front, accompanied by horses.
Lass Reichthum, Indra, lass erlangen Labung uns, sehr glänzende Genüsse, himmelstrebende, Und Huld der Götter, die den Männern Kraft verleiht und reich zuerst an Rindern und an Rossen ist.
Wir wollen am Reichtum, am Speisegenuß teilhaben, o Indra, an den glanzvollen, himmlischen Siegesgewinnen, an der göttlichen Fürsorge, die ihre Stärke in Söhnen hat, die mit Rindern den Anfang macht und Rosse bringt.
Да по(лучим) мы, о Индра, богатство, да получим мы жертвенный напиток!
Да по(лучим) мы награды, всесияющие, сверкающие (нам) навстречу,
Да получим мы божественное покровительство,
Чей порыв – герои, чье начало – коровы, что приносит коней!
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हय॑: ॥
ते । त्वा॒ । मदाः॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ । यत् । का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥
हे सत्पते सतां पालयितरिन्द्र वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ताः मदाः मादका मरुतः त्वा त्वाम् अमदन् अमदयन् हर्षं प्रापयन्। तानि पूर्वोक्तानि वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबन्धीनि चरुपुरोडाशादीनि हवींषि त्वाम् अमदन् । ते सोमासः प्रसिद्धाः सोमाश्च त्वाम् अमदन् । यत् यदा कारवे स्तुतिकर्त्रे बर्हिष्मते यज्ञवते यजमानाय दश सहस्राणि अपरिमितानि वृत्राणि आवरकाण्युपद्रवजातानि अप्रति शत्रुभिरप्रतिगतस्त्वं नि बर्हयः न्यवधीः । तदानीमिति पूर्वेण संबन्धः ॥ वृष्ण्या । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः। बर्हयः । बर्हयतिर्हिंसाकर्मा ( नि. २. १९. ३०)। लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥
“Those who were your allies, (the Maruts), brought you joy; protector of the pious, those libations and oblations (that were offered you on slaying Vṛtra), yielded you delight, when you, unimpeded by foes, did destroy the ten thousand obstacles oposed to him who praised you and offered you oblations.”
These our libations strength-inspiring, Soma draughts, gladdened thee in the fight with Vrtra, Hero Lord,
What time thou slewest for the singer with trimmed grass ten thousand Vrtras, thou resistless in thy might.
These exhilarating drinks exhilarated you and your bullish powers—these soma juices at the smashing of obstacles, o lord of settlements,
when you laid low ten unopposable obstacles for the bard, a thousand for the man who spreads the ritual grass.
Dich haben diese Tränke, diese Kräftiger, die Soma's dich berauscht, o Fürst, im Vritrakampf, Als du dem Sänger, der die Streu bereitete, zehntausend Feinde schlugest ohne Widerstand.
Dich berauschen diese Somatränke, diese Riesenkräfte, die Somatränke in den Schlachten, du rechtmäßiger Herr, als du für den Sänger, für den Opfernden zehntausend Feinde, denen keiner gewachsen war, niederstrecktest.
Опьянили тебя эти пьянящие напитки, эти силы мужества
Эти соки сомы в битвах с врагами, о господин сущего,
Когда для певца с жертвенной соломой десять вражеских отрядов,
Не знающих себе равных, тысячи (бойцов) ты уложил.
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा । नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥
यु॒धा । युध॑म् । उप॑ । घ॒ । इत् । ए॒षि॒ । धृ॒श्णु॒ऽया । पु॒रा । पुर॑म् । सम् । इ॒दम् । हं॒सि॒ । ओज॑सा । नम्या॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒रा॒ऽवति॑ । नि॒ऽब॒र्हयः॑ । नमु॑च्म् । नाम॑ । मा॒यिन॑म् ॥
हे इन्द्र धृष्णुया शत्रूणां धर्षकस्त्वं युधा युद्धेन संबद्धं युधं युद्धम् उप घेदेषि उपैव गच्छसि । सर्वदा युद्धशीलो भवसीत्यर्थः । घ इति पादपूरणः । शत्रूणामसुराणां पुरा पुरेण नगरेण सह 'इदं पुरोवर्ति पुरं शत्रुनगरम् ओजसा बलेन सं हंसि सम्यग्विनाशयसि । शत्रूणां पुराण्यभैत्सीरित्यर्थः । हे इन्द्र त्वं नम्या शत्रुषु नमनशीलेन सख्या सहायभूतेन वज्रेण परावति दूरदेशे नमुचिं नाम अनया संज्ञया प्रसिद्धं मायिनं मायाविनमसुरं यत् यस्मात् निबर्हयः नितरामहिंसीः । अतस्त्वमेवं स्तूयसे इत्यर्थः । युधा। ‘युध संप्रहारे । संपदादिलक्षणो भावे क्विप्। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । ऐषि । “ इण् गतौ । अदादित्वात् शपो लुक् । धृष्णुया । ‘ ञिधृषा प्रागल्भ्ये '।' त्रसिगृधिषिक्षिपेः क्नुः' इति क्नुप्रत्ययः । कित्त्वाद्गुणाभावः। ‘सुपां सुलुक्' इति सोः याजादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । पुरा ।' पॄ पालनपूरणयोः '। पूरयति राज्ञामभिमतानीति । ‘ क्विप् च ' इति क्विप् । ‘उदोष्ठ्यपूर्वस्य' इति उत्वम् । सावेकाचः° ' इति विभक्तिरुदात्ता। हंसि । हन्तेर्लटि सिपि अदादित्वात् शपो लुकि 'नश्चापदान्तस्य झलि' (पा. सू. ८. ३. २४ ) इति अनुस्वारः । नम्या । ‘णमु प्रह्वत्वे'। औणादिक इन्प्रत्ययः । ‘सुपां सुलुक् ' इति तृतीयाया ड्यादेशः । टिलोपः । सख्या । ‘शेषो घ्यसखि ' ( पा. सू. १. ४. ७) इति घिसंज्ञाप्रतिषेधात् नाभावाभावे यणादेशः । नमुचिम् । इन्द्रेण सह युद्धं न मुञ्चतीति नमुचिः । औणादिकः किप्रत्ययः । नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । नञ् न गतिर्न च कारकमिति कृदुत्तरपदप्रकृतिस्वरत्वाभावे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । मायिनम् । मायाशब्दस्य व्रीह्यादिषु पाठात् मत्वर्थीय इनिः ॥
“Humiliator (of adversaries), you go from battle to battle, and destroy by your might city after city; with you foe-prostrating associate, (the thunderbolt), you Indra, did slay afar off the deceiver named Namuci.”
Thou goest on from fight to fight intrepidly, destroying castle after castle here with strength.
Thou, Indra, with thy friend who makes the foe bow down, slewest from far away the guileful Namuci.
Battle after battle you join boldly; fortress after fortress do you now smash together with your power,
since, with Namī as your comrade, o Indra, in the far distance you laid low the wily one, Namuci by name.
Du gehst von Kampf zu Kampf mit kühnem Muthe vor, und schlägst danieder Burg für Burg hier mit Gewalt; Wenn in der Ferne du mit Nami im Verein den Namutschi, den Dämon, Indra niederwirfst.
Kampf um Kampf suchst du kühnlich auf, Burg um Burg schlägst du da mit Kraft zusammen, als du, Indra, mit dem Genossen Nami in der Ferne den Zauberer Namens Namuci niederstrecktest.
В бой за боем ты вступаешь храбро,
Крепость за крепостью ты там разбиваешь,
Когда в далеком краю, о Индра, с другом Нами
Ты сразил колдовского (демона) по имени Намучи.
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी । त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धीः॒ । तेजि॑ष्ठया । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी । त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुरः॑ । अ॒न॒नु॒ऽदः । परि॑ऽसूताः । ऋ॒जिश्व॑ना ॥
हे इन्द्र त्वं करञ्जं एतत्संज्ञकमसुरम् उत अपि च पर्णयम् एतन्नामानमसुरं च अतिथिग्वस्य एतत्संज्ञस्य राज्ञः प्रयोजनाय तेजिष्ठया अतिशयेन तेजस्विन्या वर्तनी वर्तन्या शत्रुप्रेरणकुशलया शक्त्या वधीः हतवानसि । तथा अननुदः । अनु पश्चात् द्यति खण्डयतीति अनुदः अनुचरः । तादृशोऽनुचररहित एक एव त्वम् ऋजिश्वना एतत्संज्ञकेन राज्ञा परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याकाः वङ्गृदस्य एतत्संज्ञकस्यासुरस्य पुरः पुराणि नगराणि अभिनत् बिभिदिषे ॥ वधीः । हन्तेर्लुङि सिपि “ लुङि च ' इति वधादेशः । तस्य अदन्तत्वात् वृद्ध्यभावः (पा. सू. ७. ३. ३५)। अत एव अनेकाच्त्वात् इट्प्रतिषेधाभावः (पा. सू. ७. २. १० )। ‘ इट ईटि ' इति सिचो लोपः । तेजिष्ठया । तेजस्शब्दात् “ अस्मायामेधा' इति मत्वर्थीयो विनिः । तस्मात् आतिशायनिके इष्ठनि “ विन्मतोर्लुक्' इति विनो लुक् । ‘टेः' इति टिलोपः । नित्त्वादाद्युदात्तत्वम् । वर्तनी । वृत्यते प्रेर्यतेऽनयेति वर्तनी । करणे ल्युट् । टित्त्वात् ङीप् (पा. सू. ४. १. १५)। ‘ सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनान्तोदात्तत्वम् । अभिनत् । ‘ भिदिर् विदारणे ' । लङि सिपि रुधादित्वात् श्नम् । इतश्च ' इति इकारलोपः । हल्ङ्याब्भ्यः । इति सकारलोपः । अननुदः । ‘ दो अवखण्डने ।' आदेचः' इति आत्वम् । ‘ आतश्चोपसर्गे ' इति कप्रत्ययः । नास्ति अनुदः अस्येति बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । संहितायां दीर्घश्छान्दसः । परिषूताः । ‘षू प्रेरणे' । कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्॥
“You have slain Karañja and Parṇaya with your bright gleaming spear, in the cause of Atithigva; unaided, you did demolish the hundred cities of Vaṅgrida, when besieged by Ṛjiṣvan.”
Thou hast struck down in death Karañja, Parnaya, in Atithigva's very glorious going forth.
Unyielding, when Rjisvan compassed them with siege, thou hast destroyed the hundred forts of Vangrida.
You struck Karañja and Parṇaya with the sharpest wheel-edge of Atithigva. You, unyielding, split the hundred fortresses of Vaṅgr̥da that were
besieged by R̥jiśvan.
Du griffest den Karandscha und den Parnaja mit Atithigva's schärfster Radesschiene an; Zerbrachst die hundert Burgen auch des Vangrida, die von Ridschiçvan rings umdrängten, nachsichtslos.
Du hast den Karanja und Parnaya durch den scharfen Radschnitt des Atithigva getötet; du brachst unnachgiebig die hundert Burgen des Vangrida, die von Rijisvan belagert wurden.
Ты убил Каранджу и Парнаю
Острейшим ободом (колеса) Атитхигвы.
Ты разбил сотню крепостей Вангриды,
Осаждаемых Риджишваном, (ты,) непримиримый.
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुष॑: । ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
त्वम् । ए॒तान् । ज॒न॒ऽराज्ञः॑ । द्विः । दश॑ । अ॒ब॒न्धुना॑ । सु॒ऽश्रव॑सा । उ॒प॒ऽज॒ग्मुषः॑ । ष॒ष्टिम् । स॒हस्रा॑ । न॒व॒तिम् । नव॑ । श्रु॒तः । नि । च॒क्रेण॑ । रथ्या॑ । दुः॒ऽपदा॑ । अ॒वृ॒ण॒क् ॥
हे इन्द्र श्रुतः विश्रुतः प्रख्यातः त्वं द्विर्दश विंशतिसंख्याकान् अबन्धुना बन्धुरहितेन सहायरहितेन सुश्रवसा एतत्संज्ञकेन राज्ञा युद्धार्थम् उपजग्मुषः उपगतवतः एतान् एवंविधान् जनराज्ञः जनपदानामधिपतीन् । षष्टिमित्यादिना तेषां राज्ञामनुचरसंख्योच्यते । षष्टिं सहस्रा सहस्राणां षष्टिं नवतिं नव नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृसंख्याकाननुचरांश्च रथ्या रथसंबन्धिना दुष्पदा दुष्प्रपदनेन । शत्रुभिः प्राप्तुमशक्येनेत्यर्थः । ईदृशेन चक्रेण नि अवृणक् न्यवर्जयः । त्वां स्तुवतः सुश्रवसो जयार्थं त्वमागत्य तदीयान् शत्रूनजैषीरित्यर्थः ॥ जनराज्ञः । समासान्तविधेरनित्यत्वात् ( परिभा. ८४ ) टच्प्रत्ययाभावः (पा. सू. ५. ४. ९१ )। राजञ्शब्दो ‘राजृ दीप्तौ ' इत्यस्मात् कनिन्प्रत्ययान्त आद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । अबन्धुना । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुश्रवसा । शोभनं श्रवोऽन्नं यस्य । ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । उपजग्मुषः । गमेर्लिटः क्वसुः । शसि भसंज्ञायां • वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । ‘गमहन° ' इत्यादिना उपधालोपः । ‘ शासिवसिघसीनां च इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन क्वसोरेव स्वरः शिष्यते । रथ्या । रथस्येदं रथ्यम् । ‘रथाद्यत्' (पा. सू. ४. ३. १२१ ) इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । ‘ सुपा सुलुक्° ' इति विभक्तेः आकारः । दुष्पदा । पद गतौ '। ईषद्दुःसुषु' इति खल् । ‘लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । पूर्ववत् विभक्तेः आकारः। अवृणक् । 'वृजी वर्जने '। रौधादिकः । लङि मध्यमैकवचने ‘ हल्ङ्याब्भ्यः' इति सिपो लोपः । ‘ चोः कुः' इति कुत्वम् ॥
“You, renowned Indra, overthrown by your not-to-be- overtaken chariot-wheel, the twenty kings of men, who had come against Suśravas unaided, and their sixty thousand and ninety-nine followers.”
With all-outstripping chariot-wheel, O Indra, thou far-famed, hast overthrown the twice ten Kings of men,
With sixty thousand nine-and-ninety followers, who came in arms to fight with friendless Susravas.
You, together with Suśravas with no (other) adherents, (wrenched down) those twice ten kings of the peoples, who had come too close; you, the famous, wrenched down the sixty thousand ninety-nine with a chariot wheel and a lame (horse).
Du hast auch jener Volksbeherrscher zweimal zehn, die kämpften mit dem freundelosen Suçravas, Und ihre sechzigtausend neunundneunzig Mann, zermalmt mit scharfem Wagenrad, berühmter du!
Du hast mit Susravas, der ohne Anhang war, diese zweimal zehn Stammeskönige, die herangezogen waren, du, der Berühmte, die sechzigtausend neun und neunzig Krieger mit dem Lahmen durch das Wagenrad niedergeworfen.
Ты вместе с Сушравасом, оставшимся без сторонников,
Этих царей народов – два десятка (их), пришедших (сюда),
Шестьдесят тысяч девяносто девять (воинов), о знаменитый,
Поверг ниц колесом от колесницы, – дурной ногой.
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
त्वम् । आ॒वि॒थ॒ । सु॒ऽश्रव॑सम् । तव॑ । ऊ॒तिऽभिः॑ । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तूर्व॑याणम् । त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒यः॒ ॥
हे इन्द्र त्वं तवोतिभिः त्वदीयैः पालनैः सुश्रवसं पूर्वोक्तं राजानम् आविथ ररक्षिथ । तथा तूर्वयाणम् एतन्नामानं राजानं तव त्रामभिः त्वदीयैस्त्रायकैः पालकैर्बलैः आविथेति शेषः । किंच त्वं महे महते यूने तरुणाय अस्मै सुश्रवसे राज्ञे कुत्सादीन् त्रीन् राज्ञः अरन्धनायः वशमनयः। ‘ रध्यतिर्वशगमने' (निरु. ६. ३२) इति यास्कः ॥ त्रामभिः । ‘त्रैङ् पालने'। आदेचः० ' इति आत्वम् । अतो मनिन् ' इति मनिन् । नित्त्वादाद्युदात्तत्वम् । अरन्धनायः । रन्धनं वशीकरणं करोति रन्धनयति । तत्करोति°! (पा. सू. ३. १. २६. ५) इति णिच् । ‘ इष्ठवण्णौ प्रातिपदिकस्य ' (पा. सू. ६. ४. १५५. १ ) इति इष्ठवद्भावात् टिलोपः । लङि सिपि दीर्घश्छान्दसः ॥
“You, Indra, have preserved Suśravas by your succour, Turvayāṇa by your assistance; you have made Kutsa, Atithigva, and Ātu subject to the mighty though youthful Suśravas.”
Thou hast protected Susravas with succour, and Turvayana with thine aid, O Indra.
Thou madest Kutsa, Atithigva, Ayu, subject unto this King, the young, the mighty.
You helped Suśravas with your means of help and Tūrvayāṇa with your means of rescue, o Indra.
You made Kutsa, Atithigva, and Āyu subject to him, to the great
young king.
Du halfst dem Suçravas mit deinen Hülfen, Indra, mit deinem Schutz dem Turvajana, Du gabst den Kutsa, Atithigva, Aju in seine Hand dem grossen, jungen König.
Du hast mit deinen Hilfen dem Susravas geholfen, mit deinen Schutztruppen dem Turvayana, o Indra. Du hast Ihm, dem großen jugendlichen König, den Kutsa, Atithigva, Ayu unterworfen.
Ты помог Сушравасу своими подкреплениями,
Своими защитными действиями, о Индра, – Турваяне.
Кутсу, Атитхигву, Аю ты этому
Великому юному царю отдал во власть.
य उ॒दृची॑न्द्र दे॒वगो॑पा॒: सखा॑यस्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
ये । उ॒त्ऽऋचि॑ । इ॒न्द्र॒ । दे॒वऽगो॑पाः । सखा॑यः । ते॒ । शि॒वऽत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥
हे इन्द्र ये वयम् उदृचि उदर्के यज्ञसमाप्तौ वर्तमानाः देवगोपाः देवैः पालिताः ते तव सखायः सखिवदत्यन्तं प्रिया अत एव शिवतमा असाम अतिशयेन कल्याणा अभूम, ते वयं यज्ञसमाप्त्युत्तरकालमपि त्वां स्तोषाम स्तवाम । अस्माभिः स्तुतेन त्वया सुवीराः शोभनपुत्रवन्तः सन्तः द्राघीयः अतिशयेन दीर्घम् आयुः जीवनं प्रतरं प्रकृष्टतरं यथा भवति तथा दधानाः धारयन्तो भूयास्म ॥ देवगोपाः । देवा गोपा येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असाम । अस भुवि । लुङ्र्थे लोटि ‘ आडुत्तमस्य पिञ्च' इति पिद्वद्भावात् ' पिञ्च ङिन्न ' इति ङित्त्वाभावे ‘श्नसोरल्लोपः ' इति अकारलोपाभावः । पित्त्वादेव तिङोऽनुदात्तत्वे धातुस्वरः शिष्यते । स्तोषाम । स्तौतेर्लोटि' सिब्बहुलं लेटि' इति बहुलग्रहणात् लोट्यपि सिप् । तस्य पित्त्वात् गुणः । सुवीराः । वीरवीर्यौ च' इति उत्तरपदाद्युदात्तत्वम् । द्राघीयः । दीर्घशब्दात् ईयसुनि • प्रियस्थिर' (पा. सू. ६. ४. १५७ ) इत्यादिना द्राघादेशः । नित्त्वादाद्युदात्तत्वम् । प्रतरम् । प्रशब्दात् तरपि ' अमु च च्छन्दसि' (पा. सू. ५, ४. १२) इति अद्रव्यप्रकर्षे अमुप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वम् । दधानाः । दधातेः शानचि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ १६ ॥
“Protected by the gods, we remain, Indra, at the close of the sacrifice, your most fortunate friends; we praise you, as enjoying through you excellent offspring, and a long and prosperous life.”
May we protected by the Gods hereafter remain thy very prosperous friends, O Indra.
Thee we extol, enjoying through thy favour life long and joyful and with store of heroes.
We who, when the chant is raised, will be your most friendly comrades, Indra, having the gods as our herdsmen—
let us praise you—we having good heroes because of you and receiving a longer, more extensive lifetime.
Wir seien, Indra, deine besten Freunde, lass künftig auch von Göttern uns beschützt sein; Dich wollen wir, von dir gekräftigt, preisen, zu hohem Alter unser Leben fördernd.
Die wir beim Abschluß, o Indra, deine besten gottbeschützten Freunde sein wollen, wir wollen dich preisen, durch dich an guten Mannen reich und unser Leben noch weiter recht lange ausdehnend.
Когда (сейчас), кончая, мы хотим, о Индра,
Стать защищенными богами, самыми лучшими твоими друзьями,
Мы будем восхвалять тебя, богатые с твоей помощью прекрасными сыновьями,
Протягивая дальше более долгий срок жизни!