मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒: शव॑सः परी॒णशे॑ । अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥
मा । नः॒ । अ॒स्मिन् । म॒घ॒व॒न् । पृ॒त्ऽसु । अंह॑सि । न॒हि । ते॒ । अन्तः॑ । शव॑सः । प॒रि॒ऽनशे॑ । अक्र॑न्दयः । न॒द्यः॑ । रोरु॑वत् । वना॑ । क॒था । न । क्षो॒णीः । भि॒यसा॑ । सम् । आ॒र॒त॒ ॥
हे मघवन् धनवन्निन्द्र अस्मिन् परिदृश्यमाने अंहसि पापे पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च नः अस्मान् मा प्रक्षैप्सीरिति शेषः । यस्मात् ते तव शवसः बलस्य अन्तः अवसानं परीणशे परितो व्याप्तुं नहि शक्यते । सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः । तस्मात् त्वमन्तरिक्षे वर्तमानः रोरुवत् अत्यर्थं शब्दं कुर्वन् नद्यः नदीः वना तत्संबन्धीन्युदकानि च अक्रन्दयः शब्दयसि । क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम। तदुपलक्षितास्त्रयो लोकाः भियसा त्वद्भयेन कथा कथं न समारत न संगच्छन्ते । त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः ॥ पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृद्भावः । परीणशे । नशतिर्व्याप्तिकर्मा । ‘ कृत्यार्थे तवैकेन् ' इति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम्। नद्यः। द्वितीयार्थे प्रथमा । रोरुवत् । ‘रु शब्दे । यङ्लुगन्तात् लटः शतृ । ‘ अदादिवच्च ' इति वचनात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । ‘ नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कथा । ‘ था हेतौ च च्छन्दसि ' इति किंशब्दात् प्रकारवचने थाप्रत्ययः । तस्य विभक्तिसंज्ञायां • किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । आरत । ‘ ऋ गतौ । ‘ समो गम्युच्छि० ' इत्यात्मनेपदम् । छान्दसे वर्तमाने लङि अदादित्वात् शपो लुक् । झस्य अदादेशः । आडागमो वृद्धिश्च ॥
“Urge us not, Maghavan, to this iniquity, to these iniquitous conflicts, for the limit of your strength is not to be surpassed; you have made the waters of the rivers roar; how (is it possible) that the earth should be filled with terror?”
URGE us not, Maghavan, to this distressful fight, for none may comprehend the limit of thy strength.
Thou with fierce shout hast made the woods and rivers roar: did not men run in crowds together in their fear?
Do not (leave) us in this distress in our battles, o bounteous one, for the end of your vast power cannot be reached.
You made the rivers roar, yourself constantly bellowing through the woods. How have the war cries [/Heaven and Earth] not clashed
together in fear?
Verstoss uns nicht, o Held, in dieser Kampfesnoth; denn unerreichbar ist das Ende deiner Kraft; Du liessest Ströme brausen, rauschen das Gehölz; wie rannen nicht zurück die Fluten voller Schreck?
Du Gabenreicher sollst uns in dieser Not im Kampfe nicht verlassen. Nicht ist ja das Ende deiner Macht zu erreichen. Du machtest die Flüsse aufkreischen, du knacktest laut brüllend die Bäume. Wie hat sich da nicht aus Furcht das Gefolge zusammengeschlossen?
Не (оставь) нас, о щедрый, в этой опасности в боях!
Ведь не достигнуть конца твоей мощи!
Ты заставил шуметь реки, (раскачал) громко скрипящие деревья.
Как людям не сгрудиться вместе от страха?
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि । यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥
अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ । यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥
हे अध्वर्यो शाकिने शक्तियुक्ताय शचीवते प्रज्ञावते शक्राय इन्द्राय अर्च एवंविधमिन्द्रं पूजय । किंच स्तुतीः शृण्वन्तं समीचीनेयं स्तुतिरिति जानन्तं तम् इन्द्रं महयन् पूजयन् अभि ष्टुहि आभिमुख्येन तस्य स्तोत्रं कुरु । यः इन्द्रः धृष्णुना शत्रूणां धर्षकेण शवसा बलेन उभे रोदसी द्यावापृथिव्यौ न्यृञ्जते नितरां प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' (निरु. ६. २१ ) इति यास्कः। स इन्द्रः वृषा सेचनसमर्थः वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन वृषभः वर्षिता कामानां यद्वा वृष्ट्युदकानाम् ॥ अर्च । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ' इति दीर्घत्वम् । शाकिने । शक्तिः शाकः। शक्लृ शक्तौ । भावे घञ् । मत्वर्थीय इनिः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थी । अभि ष्टुहि । स्तौतेः अदादित्वात् शपो लुक् । ' उपसर्गात्सुनोति इति षत्वम् । ष्टुना ष्टुः' इति ष्टुत्वम् । वृषत्वा । सुपां सुलुक्' इति विभक्तेः आकारः । न्यृञ्जते । ‘ ऋजि भृजी भर्जने ' । इदित्त्वात् नुम् । शपि प्राप्ते व्यत्ययेन शः ॥
“Offer adoration to the wise and powerful Śakra; glorifying the listening Indra, praise him who purifies both heaven and earth by his irresistible might, who is the sender of showers, and by his bounty gratifies our desires.”
Sing hymns of praise to Sakra, Lord of power and might; laud thou and magnify Indra who heareth thee,
Who with his daring might, a Bull exceeding strong in strength, maketh him master of the heaven and earth.
Chant to the able one, the capable one with his abilities. Exalting him, praise Indra as he listens—
he who, a bullish bull by his bullish nature, with his daring power bears down on the two world-halves.
Dem starken, mächt'gen, allgewalt'gen singe nun, und rühme herrlich Indra, den erhörenden, Der Erd' und Himmel beide sich mit kühner Kraft der starke Stier mit Stierestärke unterwirft.
Singe dem mächtigen, dem machtreichen, machtvollen; verherrliche und preise den hörenden Indra, der mit kühner Kraft als der riesige Bulle durch seine Bulleneigenschaft beide Welten zwingt!
Пой могучему, могущественному, полному могущества!
Возвеличивая, славь прислушивающегося Индру,
Который дерзкой силой покоряет оба мира,
Мужественный бык – (своей) мужественной природой.
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒: स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑: । बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ । बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥
हे स्तोतः दिवे दीप्ताय बृहते महते इन्द्राय शूष्यम्। शूषम् इति सुखनाम। तत्र साधु शूष्यम्। तादृशं स्तुतिलक्षणं वचः अर्च उच्चारय । यस्य इन्द्रस्य धृषतः शत्रून् धर्षयतः स्वक्षत्रं स्वभूत बलवत् मनः धृषत् धृष्टं भवति । हि षः स हि स खल्विन्द्रः बृहच्छ्रवाः प्रभूतयशाः असुरः शत्रूणां निरसिता । यद्वा । असुः प्राणो बलं वा । तद्वान् । रो मत्वर्थीयः । अथवा। असवः प्राणाः तेन च आपो लक्ष्यन्ते, ‘ प्राणा वा आपः ' ( तै. ब्रा. ३. २. ५. २ ) इति श्रुतेः । तान् राति ददातीति असुरः । बर्हणा शत्रूणां निबर्हयिता हरिभ्याम् अश्वाभ्यां पुरः कृतः पूजितः वृषभः कामानां वर्षिता रथः रंहणशीलः ॥ शूष्यम् । तत्र साधुः' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति ‘ यतोऽनावः' इत्याद्युदात्तस्वाभावे ‘ तित्स्वरितम्' इति स्वरितत्वम् । धृषतः। ‘ ञिधृषा प्रागल्भ्ये' । व्यत्ययेन शः। ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । बृहच्छ्रवाः । बृहत् श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असुरः । ‘ असु क्षेपणे '। ' असेरुरन्' ( उ. सू. १. ४२ ) इति उरन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बर्हणा । सुपां सुलुक्' इति विभक्तेः आकारः । पुरः। ‘पूर्वाधर' इत्यादिना असिप्रत्ययान्तः अन्तोदात्तः ॥
“Offer exhilarating praises to the great and illustrious Indra, of whom, undaunted, the steady mind is concentrated in its own firmness; for he, who is of great renown, the giver of rain, the repeller of enemies, who is obeyed his steeds, the showerer (of bounties), is hastening hither.”
Sing forth to lofty Dyaus a strength-bestowing song, the Bold, whose resolute mind hath independent sway.
High glory hath the Asura, compact of strength, drawn on by two Bay Steeds: a Bull, a Car is he.
Chant a thunderous speech to lofty heaven. Of which daring one his daring mind has its own sovereignty—
the lord possessing lofty fame through his lofty might, the bull [=Indra] has been put in front for his two fallow bays, for he is the chariot.
Dem hohen Himmel sing' ein kraftbegabtes Lied, dem kühnen, dessen kühner Sinn sich selbst bestimmt, Denn hochberühmt, voll Leben und mit Kraft gebaut, dringt vor der starke Wagen mit dem Füchsepaar.
Dem hohen Himmel singe ein ermutigendes Wort, dem kühnen, dessen kühner Sinn frei schaltet. Der hochberühmte Asura wurde, eifrig gemacht, vor die beiden Falben gespannt, denn dieser Bulle war der Wagenkämpfer.
Пропой небу высокому ликующее слово –
Ведь у него, отважного, отважный дух самовластен.
Асура с высокой славой, ревностно созданный,
(Встал) впереди двух буланых коней: ведь бык этот - колесница.
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् । यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥
त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् । यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥
हे इन्द्र त्वं बृहतः महतः दिवः द्युलोकस्य सानु समुच्छ्रितमुपरिप्रदेशं कोपयः अकम्पयः । धृषता शत्रूणां धर्षयित्रा त्मना आत्मना स्वयमेव शम्बरम् एतत्संज्ञमसुरम् अवाभिनत् अवधीः । यत् यदा व्रन्दिनः शत्रून् जेतुं मृदुभावं प्राप्तान् । यद्वा । वृन्दं समूहः असुरसमूहवतः । मायिनः मायाविनोऽसुरान् मन्दिना हृष्टेन धृषत् धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं शितां तीक्ष्णीकृतां गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिः इति रश्मिनाम् । तद्वतीम् अशनिं वज्रं पृतन्यसि तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपयः इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे। ण्यन्तात् लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः । त्मना । मन्त्रेष्वाङ्यादेरात्मनः ' इति आकारलोपः । धृषत् । सुपां सुलुक् ' इति तृतीयाया लुक् । शिताम् । ‘ शो तनूकरणे'। निष्ठायां ‘शाच्छोरन्यतरस्याम् ' (पा. सू. ७. ४. ४१ ) इति इकारादेशः । पृतन्यसि । पृतनाशब्दात् ‘सुप आत्मनः क्यच् ' । ‘ कव्यध्वरपृतनस्य ' इति अन्तलोपः। प्रत्ययस्वरः ॥
“You have shaken the summit of the spacious heaven; you have slain Śambara by your resolute self; you have hurled with exulting and determined mind the sharp and bright-rayed thunderbolt against assembled Asuras.”
The ridges of the lofty heaven thou madest shake; thou, daring, of thyself smotest through Sambara,
When bold with gladdening juice, thou warredst with thy bolt, sharp and two-edged, against the banded sorcerers.
You shook the back of the lofty heaven; by yourself, in your daring, you cut down Śambara,
as, daringly, by reason of the exhilarating (soma), you battle the
sharpened stone, the fist, of the wily one grown weak,
Des hohen Himmels Gipfel hast erschüttert du, mit kühnem Sinn den Çambara herabgestürzt, Wenn durch den Lusttrank kühn die schlaffen Zaubrer du mit scharfem zwiegezacktem Donnerkeil bekämpfst.[58]
Du erschütterst des hohen Himmels Wölbung, du hiebst eigenhändig mit kühnem Sinn der Sambara herab, indem du gegen die Hand des erliegenden Zauberers, die scharf wie der Stein, kühn durch den berauschenden Soma, kämpfest.
Ты потряс вершину высокого неба.
Ты сам храбро разрубил Шамбару,
Когда (ты) храбро боролся под действием пьянящего (сомы)
С лапой поверженного колдовского (демона), острой (как) дротик.
नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ । प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒: कस्त्वा॒ परि॑ ॥
नि । यत् । वृ॒णक्षि॑ । श्व॒स॒नस्य॑ । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिनः॑ । रोरु॑वत् । वना॑ । प्रा॒चीने॑न । मन॑सा । ब॒र्हणा॑ऽवता । यत् । अ॒द्य । चि॒त् । कृ॒णवः॑ । कः । त्वा॒ । परि॑ ॥
हे इन्द्र त्वं रोरुवत् मेघैरत्यर्थं शब्दयन् श्वसनस्य अन्तरिक्षे श्वसितीति श्वसनो वायुः । तस्य व्रन्दिनः स्वकिरणैराम्रफलादीन् मृदुभावं प्रापयतः शुष्णस्य चित् रसानां शोषयितुरादित्यस्यापि मूर्धनि उपरिप्रदेशे वना वनान्युदकानि यत् यस्मात् नि वृणक्षि आवर्जयसि । प्रापयसीत्यर्थः । वायुना सूर्यकिरणैश्च वृष्टा आपः सूर्यस्योपरि पुनरवस्थाप्यन्ते । तदेवावस्थापनमिन्द्रः करोतीत्युपचर्यते । प्राचीनेन प्रकर्षेण गन्त्रा । अपराङ्मुखेनेत्यर्थः । बर्हणावता । निबर्हयतीति वधकर्मसु पाठात् बर्हणा शत्रूणां हिंसा तद्वता । एवंभूतेन मनसा युक्तस्त्वं यत् यस्मात् अद्या चित् अद्यापि कृणवः घर्मकाले सूर्यस्योपरि भौमान् रसानवस्थापयसि वर्षासु च वर्षयसीति । यस्मादेतत् कुरुषे तस्मात् कारणात् त्वा त्वां परि उपरि कः वर्तते न कोऽपीत्यर्थः । अतस्त्वमेव सर्वाधिक इति भावः ॥ वृणक्षि । ‘ वृजी वर्जने'। रौधादिकः । सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । प्राचीनेन । प्रपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः । ‘ विभाषाञ्चे रदिक्स्त्रियाम्' इति स्वार्थे खः । खस्य ईनादेशः । ‘ अचः' इति अकारलोपे चौ ' इति दीर्घत्वम् । खप्रत्ययस्य सतिशिष्टत्वात् तदादेशस्य उपदेशिवद्भावेन ईकार उदात्तः । अद्या चित् ।' निपातस्य च ' इति दीर्घत्वम् । कृणवः । ‘ कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । लेटि सिपि अडागमः । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः, वकारस्य अकारादेशश्च । तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । गुणावादेशौ । आगमानुदात्तत्वे विकरणस्वरः । अत्र निरुक्तं - ' व्रन्दी व्रन्दतेर्मृदूभावकर्मणः । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः शुष्णस्यादित्यस्य च शोषयितू रोरूयमाणो वनानीति वा धनानीति वा ' (निरु. ५.१५-१६ ) इति । धनानीति पक्षे मेघस्य धनानीति व्याख्येयम् ॥ ॥ १७ ॥
“Since you, loud-shouting, have poured the rain upon the brow of the breathing (wind), and (on the head) of the maturing and absorbing (sun), who shall prevent you from doing today (as you will), endowed with an unaltered and resolute mind?”
When with a roar that fills the woods, thou forcest down on wind's head the stores which Susna kept confined,
Who shall have power to stay thee firm and eager-souled from doing still this day what thou of old hast done?
As you yank down on the head of the snorting Śuṣṇa also grown weak, yourself constantly bellowing through the woods,
with your mind facing forward and possessed of lofty might. If you will also do (such) today, who (will evade) you?
Wenn auf das Haupt des schnaubenden, des Çuschna, du, des zehrenden die Speere tobend niederwirfst, Wenn heute auch mit kräft'gem, strebendem Gemüth du wirken willst, wer ist's der dann dich hindern mag?
Wenn du auf den Kopf des schnaubenden tretend, des schon erliegenden Susna, die Bäume brüllend niederstrecktest mit vorstrebendem, eifrigem Sinn - wenn du auch heute das tun willst, wer soll dir das verwehren?
Когда ты низвергаешь на голову самого храпящего,
Поверженного Шушны громко скрипящие деревья,
С духом, исполненным разрушения, обращенным к (опасности) -
Если и сегодня ты захочешь (это) совершить, кто тебя у(держит)?
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो । त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥
त्वम् । आ॒वि॒थ॒ । नर्य॑म् । तु॒र्वश॑म् । यदु॑म् । त्वम् । तु॒र्वीति॑म् । व॒य्य॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । रथ॑म् । एत॑शम् । कृत्व्ये॑ । धने॑ । त्वम् । पुरः॑ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव॑ ॥
हे इन्द्र त्वं नर्यादीन् त्रीन् राज्ञः आविथ ररक्षिथ । तथा हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा त्वं वय्यं वय्यकुलजं तुर्वीतिनामानं राजानम् आविथ इत्येव । अपि च त्वं रथं रंहणस्वभावम् एतत्संज्ञमृषिम् एतशम् एतत्संज्ञकं धने धननिमित्ते संग्रामे कृत्व्ये कर्तव्ये सति आविथेति शेषः । यद्वा पूर्वोक्तानां राज्ञां रथम् । एतशः इति अश्वनाम । एतशम् अश्वं च ररक्षिथेति योज्यम् । तथा त्वं शम्बरस्य नवतिं नव नवोत्तरनवतिसंख्याकाः पुरः पुराणि दम्भयः व्यनीनशः ॥ एतशम् । एति गच्छतीति एतशः । इण् गतौ '। इणस्तशन्तशसुनौ ' (उ. सू. ३. ४२९) इति तशन्प्रत्ययः । गुणः । कृत्व्ये । कर्तव्ये इत्यस्य शब्दस्य वर्णविकारः पृषोदरादित्वात् ॥
“You have protected Narya, Turvaśa, Yadu and Turvīti, of the face of Vayya; you have protected their chariots and horses in the unavoidable engagement; you have demolished ninety-nine cities (of Śambara).”
Thou helpest Narya, Turvasa, and Yadu, and Vayya's son Turviti, Satakratu!
Thou helpest horse and car in final battle thou breakest down the nine-and-ninety castles.
You helped the manly Turvaśa and Yadu; you (helped) Turvīti and Vayya, o you of a hundred resolves;
you (helped) Etaśa and his chariot when the stake was to be decided, and you subjugated the ninety-nine fortifications.
Du halfst dem Narja, halfst dem Turvaça, Jadu, dem Vajia, Turviti, hundertkräftiger, Dem schnellen Ross und Wagen im Entscheidungskampf, vernichtet hast die neunundneunzig Burgen du.
Du hast den mannhaften Turvasa und Yafu beigestanden, du dem Turviti und Varya, o Ratreicher, du dem Wagenkämpfer Etasa im Kampf um den Siegerpreis. Du überrumpelst die neun und neunzig Burgen.
Ты помог мужественному Турваше (и) Яду,
Ты – Турвити (и) Вайе, о стоумный,
Ты – колеснице-Эташе в решающем состязании.
Ты разрушил девяносто девять крепостей.
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒: प्रति॒ यः शास॒मिन्व॑ति । उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥
सः । घ॒ । राजा॑ । सत्ऽप॑तिः । शू॒शु॒व॒त् । जनः॑ । रा॒तऽह॑व्यः । प्रति॑ । यः । शास॑म् । इन्व॑ति । उ॒क्था । वा॒ । यः । अ॒भि॒ऽगृ॒णाति॑ । राध॑सा । दानुः॑ । अ॒स्मै॒ । उप॑रा । पि॒न्व॒ते॒ । दि॒वः ॥
स घ स खलु जनः जातः राजा राजमानः सत्पतिः सतां पालयिता यजमानः शूशुवत् आत्मानं वर्धयति । यः इन्द्रं प्रति रातहव्यः दत्तहविष्कः सन् शासम् इन्द्रकर्तृकमनुशासनं यद्वा तस्य स्तुतिम् इन्वति व्याप्नोति । उक्था वा उक्थानि शस्त्राणि वा यः स्तोता राधसा हविर्लक्षणेनान्नेन सह अभिगृणाति तस्याभिमुखीकरणाय शंसति अस्मै स्तोत्रे दानुः अभिमतफलप्रदातेन्द्रः उपरा उपरान् मेघान् । उपरः इति मेघनाम । स च यास्केनैवं निरुक्तः- ‘ उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा ' (निरु. २. २१) इति । तान् मेघान् दिवः सकाशात् पिन्वते सेचयति दोग्धीति यावत् ॥ घ। ‘ ऋचि तुनुघ' इत्यादिना दीर्घः । सत्पतिः । सतां पतिः सत्पतिः । ‘ पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शूशुवत् । ‘टुओश्वि गतिवृद्धयोः' । ण्यन्तात् वर्तमाने लुङि च्लेः चङादेशे ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' ( पा. म. ६. १. १७. २) इति अन्तरङ्गमपि वृद्ध्यादिकं बाधित्वा ‘णौ च संश्चङोः' ( पा. सू. ६. १. ३१ ) इति संप्रसारणम् । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावे द्विर्वचनादि । उवङादेशः । रातहव्यः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शासम् । शासु अनुशिष्टौ ' इत्यस्मात् भावे घञि ‘ कर्षात्वतः । इत्यन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगण इत्युक्तम् । यद्वा । ‘ शंसु स्तुतौ ' इत्यस्मात् घञि व्यत्ययेन नलोपः । इन्वति । ‘ इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अभिगृणाति । 'गॄ शब्दे'। क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । पूर्ववत् निघाताभावः । उपरा। ‘सुपां सुलुक् ' इति शसः पूर्वसवर्णदीर्घत्वम् । पिन्वते । ‘ पिवि मिवि णिवि सेचने'। व्यत्ययेन आत्मनेपदम् ॥
“That eminent person n, the cherisher of the pious, (he instrumental tutor of the ceremony), promotes his own prosperity, who, while offering oblations to Indra, pronounces his praise; or who, along with the offerings he presents, recites hymns (in honour of him); for him the bounteous Indra causes the clouds to rain from heaven.”
A hero-lord is he, King of a mighty folk, who offers free oblations and promotes the Law,
Who with a bounteous guerdon welcomes hymns of praise: for him flows down the abundant stream below the sky.
As king and lord of the settlements, that man will grow in strength who, having bestowed his oblation, advances (Indra’s) command
in turn,
or who greets the (poets’) hymns with generosity. For him the gift
[/drop] of heaven swells here below.
Der König traun, der tapfre Fürst, der Mann gedeiht, der Opfergüsse spendet und Befehl ertheilt, Und wer die Sprüche reichlich durch Geschenk belohnt, für solchen strömet reich herab des Himmels Thau.
Der Mann hat als König und wirklicher Gebieter die Übermacht, der sich an das Gebot hält und Opfer spendet, oder der die Preislieder durch Ehrengabe anerkennt. Für ihn schwillt des Himmels Gabe unten an.
Только тот царь – господин сущего (или) человек процветает,
Кто, принося жертвенные возлияния, соблюдает предписание,
Или кто принимает хвалебные песни с подарком.
Влага неба набухает книзу для него.
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ । ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥
अस॑मम् । क्ष॒त्रम् । अस॑मा । म॒नी॒षा । प्र । सो॒म॒ऽपाः । अप॑सा । स॒न्तु॒ । नेमे॑ । ये । ते॒ । इ॒न्द्र॒ । द॒दुषः॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒त्रम् । स्थवि॑रम् । वृष्ण्य॑म् । च॒ ॥
इन्द्रस्य क्षत्रं बलम् असमं न केनचित् समम् । सर्वाधिकमित्यर्थः । तथा मनीषा बुद्धिश्च असमा न कस्यापि बुद्ध्या समाना । सर्वं वस्तु विषयीकरोतीत्यर्थः । नेमे इति सर्वनामशब्दः एतच्छब्दसमानार्थः। नेमे एते सोमपाः सोमस्य पातारो यजमानाः अपसा कर्मणा प्र सन्तु प्रवृद्धा भवन्तु । हे इन्द्र ते तव ददुषः हविर्दत्तवन्तः ये त्वदीयं महि महत् क्षत्रं बलं स्थविरं स्थूलं प्रवृद्धं वृष्ण्यं वृषत्वं पुंस्त्वं च वर्धयन्ति प्रवृद्धं कुर्वन्ति । यद्वा । ददुषो यजमानेभ्यो यागफलं दत्तवतः तवेति योजनीयम् ॥ नेमे । सर्वनामत्वात् जसः शीभावे (पा. सू. ७. १. १७) गुणः । ‘ त्वसमसिमनेमेत्यनुच्चानि ' (फि. सू. ७८ ) इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ददुषः । ददातेर्लिटः क्वसुः । जसो व्यत्ययेन शसादेशः । ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' इति इडागमात् पूर्वमेव संप्रसारणम् । “ शासिवसिघसीनां च ' इति षत्वम् । प्रत्ययस्वरः । महि । महेरौणादिकः इन्प्रत्ययः । स्थविरम् ।' अजिरशिशिर ' ( उ. सू. १. ५३ ) इत्यादिना तिष्ठतेः किरच्प्रत्ययान्तो निपातितः ॥
“Unequalled is his might; unequalled is his wisdom; may these drinkers of the Soma become equal to him the pious act, for they, Indra, who present to you oblations, augment your vast strength and your manly vigour.”
His power is matchless, matchless is his wisdom; chief, through their work, be some who drink the Soma,
Those, Indra, who increase the lordly power, the firm heroic strength of thee the Giver.
Unequalled is his sovereignty, unequalled his inspired thinking. Let the soma-drinkers of our group be preeminent through
their labor—
they who strengthen the great sovereignty, steadfast and bull-strong, of you who give, o Indra.
Die einen haben beste Herrschaft, beste Weisheit, die andern sind voran als Somatrinker, Die Indra dir, dem Spender, Herrschaft mehren, die grosse und die feste Heldenstärke.
Unvergleichlich ist seine Macht, unvergleichlich seine Weisheit. Die Partei der Somatrinker soll durch ihr Werk den Vorrang haben, die deine, des Schenkers, große dauerhafte Macht und Bullenstärke mehren, o Indra.
Несравненна власть (его), несравненна мудрость.
Те из пьющих сому пусть будут впереди (всех) со (своим) делом.
Кто у тебя, дарителя, Индра, укрепляет
Великую власть, прочную и мужественную.
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑: । व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥
तुभ्य॑ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि॑ऽदुग्धाः । च॒मू॒ऽसदः॑ । च॒म॒साः । इ॒न्द्र॒ऽपानाः॑ । वि । अ॒श्नु॒हि॒ । त॒र्पय॑ । काम॑म् । ए॒षा॒म् । अथ॑ । मनः॑ । व॒सु॒ऽदेया॑य । कृ॒ष्व॒ ॥
हे इन्द्र तुभ्येत् तुभ्यमेव चमसाः । चम्यन्ते भक्ष्यन्ते इति चमसाः सोमः। एते सोमाः त्वदर्थं संपादिताः । कीदृशा इत्याह । बहुलाः प्रभूताः अद्रिदुग्धाः अद्रिभिर्ग्रावभिरभिषुताः चमूषदः चमूषु चमसेष्ववस्थिताः इन्द्रपानाः इन्द्रस्य पानेन सुखकराः । अतस्वं तान् व्यश्नुहि व्याप्नुहि । व्याप्य च एषां त्वदीयानामिन्द्रियाणां कामम् अभिलाषं तैः तर्पय पूरयेति यावत् । अथ अनन्तरं वसुदेयाय अस्मभ्यमभिमतधनप्रदानाय त्वदीयं मनः कृष्व कुरुष्व ॥ तुभ्य । छान्दसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम्। चमूषदः । ‘ चमु अदने ' । चमन्त्यनेनेति चमूः । ‘ कृषिचमितनि° ( उ. सू. १. ८१ ) इत्यादिना औणादिकः उप्रत्ययः । चमूषु सीदन्तीति चमूषदः । सत्सूद्विष° ' इत्यादिना क्विप् । पूर्वपदात्' (पा. सू. ८. ३. १०६ ) इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्रपानाः । ‘ कर्मणि च येन संस्पर्शात् । ( पा. सू. ३. ३. ११६ ) इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम्। वसुदेयाय । ‘ डुदाञ् दाने'। अस्मात् ' अचो यत्' इति भावे यत् ।' ईद्यति' ( पा. सू. ६. ४. ६५ ) इति ईकारादेशः । गुणः । यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृञ करणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“These copious Soma juices, expressed with stones and contained in ladles, are prepared for you; they are the beverage of Indra; quaff them; satiate your appetite with them; and then fix your mind on the wealth that is to be given (to us).”
Therefore for thee are these abundant beakers Indra's drink, stone-pressed juices held in ladles.
Quaff them and satisfy therewith thy longing; then fix thy mind upon bestowing treasure.
For you alone are these ample beakers, milked by stones and resting in cups—the draughts of Indra.
Attain (them), satisfy your desire for them, and then put your mind to giving goods.
Für dich sind diese vielen steingemelkten, in Schalen ruhnden, dir zum Trunk die Becher; Nun lange zu, befried'ge ihr Verlangen und wende deinen Sinn zur Güterspende.
Nur für dich sind diese reichlichen, mit Steinen ausgedrückten, in der Kufe sitzenden Somatränke, die vollen Becher, die Indra trinkt. Erfülle, befriedige dein Verlangen nach ihnen und richte deinen Sinn aufs Schenken von Gut!
Ведь только для тебя эти обильные выдоенные камнями (соки сомы),
Сидящие в чане, чаши, выпиваемые Индрой.
Дорвись, утешь страсть к ним,
Затем настрой мысль на дарение добра!
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः । अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥
अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण॑ऽह्वरम् । तमः । अ॒न्तः । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पर्व॑तः । अ॒भि । ई॒म् । इन्द्रः॑ । न॒द्यः॑ । व॒व्रिणा॑ । हि॒ताः । विश्वाः॑ । अ॒नु॒ऽस्थाः । प्र॒व॒णेषु॑ । जि॒घ्न॒ते॒ ॥
अपां वृष्ट्युदकानां धरुणह्वरम् । धरुणशब्दो धारावचनः । धारानिरोधकं तमः अन्धकारम् अतिष्ठत् । अयमेवार्थः स्पष्टीक्रियते । वृत्रस्य लोकत्रयावरितुरसुरस्य जठरेषु उदरप्रदेशेषु अन्तः मध्ये पर्वतः पर्ववान् मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वात् वृष्ट्युदकमप्यावृतमित्युच्यते । ईम् इमाः पूर्वोक्ताः नद्यः नदीः अपः । नदनात् नद्यः इति व्युत्पत्त्या नदीशब्देन आप उच्यन्ते । वव्रिणा आवरकेण वृत्रेण हिताः पिहिताः विश्वाः व्यापिनीः अनुष्ठाः अनुक्रमेण तिष्ठन्तीः एवंविधा अपः इन्द्रः प्रवणेषु निम्नेषु भूप्रदेशेषु अभि जिघ्नते अभिगमयति ॥ वव्रिणा । वृञ् वरणे' इत्यस्मात् ‘ आदृगमहनजनः' इति किप्रत्ययः । लिड्वद्भावात् द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । ‘ आतश्चोपसर्गे ' इति तिष्ठतेः कप्रत्ययः । 'उपसर्गात्सुनोति' ' इति षत्वम् । जिघ्नते । हन्तेर्गत्यर्थात् व्यत्ययेनात्मनेपदम् । ‘बहुलं छन्दसि' इति शपः श्लुः । ‘अर्तिपिपर्त्योश्च, बहुलं छन्दसि' ( पा. सू. ७. ४. ७७-७८ ) इति अभ्यासस्य इत्वम् ॥
“The darkness obstructed the current of the waters; the cloud was within the belly of Vṛtra; but Indra precipitated all the waters which the obstructor had concealed, in succession, down to the hollows (of the earth).”
There darkness stood, the vault that stayed the waters' flow: in Vrtra's hollow side the rain-cloud lay concealed.
But Indra smote the rivers which the obstructer stayed, flood following after flood, down steep declivities.
There stood darkness, whose tangles were the foundation for the waters, a mountain within the belly of Vr̥tra.
Indra smashes all the rows (of palings) set up in succession among the torrents by the encloser of the rivers.
Der Wasser Grund umhüllend stand die Finsterniss, der Wolkenberg in Vritra's Bäuchen eingesperrt; Da schlägt die Ströme, die in Vritra's Leibe ruhn, in jähem Sturze Indra nieder allesammt.
Es herrschte Finsternis, die den Urgrund der Gewässer zu Fall brachte. Der Berg geriet in den Leib des Vritra. Indra bekämpft alle von dem Einsperrer der Flüsse gemachten Anstalten in den Stromgefällen.
Стоял мрак, мешающий основе вод.
Гора (была) во внутренностях Вритры.
Все, что было устроено запрудителем рек
В стремнине, Индра разбивает одно за другим.
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑: ॥
सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् । रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥
हे इन्द्र सः त्वम् अस्मे अस्मासु द्युम्नं यशः अधि धाः अधिनिधेहि । कीदृशमित्याह । शेवृधम् । शं शमनम् । रोगाणां शमने सति यत् वर्धते तादृशम् । तथा महि महत् जनाषाट् शत्रुजनानामभिभवितृ तव्यं प्रवृद्धं क्षत्रं बलं च अधि धा इति शेषः । किंच हे इन्द्र नः अस्मान् मघोनः धनवतः कृत्वा रक्ष पालय । सूरीन विदुषोऽन्यानपि पाहि पालय । तथा राये धनाय च स्वपत्यै शोभनपुत्रयुक्ताय इषे अन्नाय च नः अस्मान् धाः धेहि स्थापय ॥ धाः ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङि • गातिस्था° ' इति सिचो लुक् । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अस्मे । ‘सुपां सुलुक् ' इति अस्मच्छब्दात् सप्तम्याः शेआदेशः । जनाषाट् । जनान् सहते इति जनाषाट् । छन्दसि सहः' ( पा. सू. ३. २. ६३ ) इति ण्विः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सहेः साडः सः ' ( पा. सू. ८. ३. ५६) इति षत्वम् । अन्येषामपि दृश्यते ' इति पूर्वपददीर्घः । तव्यम् । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । ‘ अचो यत्' इति यत् । गुणे ‘ धातोस्तन्निमित्तस्यैव ' ( पा. सू. ६. १. ८०) इति अवादेशः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । रक्ष । ‘रक्ष पालने'। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। ‘ द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । मघोनः । ‘ श्वयुवमघोनामतद्धिते ' इति शसि संप्रसारणम् । पाहि । अदादित्वात् शपो लुक् । हेः अपित्त्वात् तस्यैव स्वरः शिष्यते । मघोनः इत्यस्य वाक्यान्तरगतत्वात् निघाताभावः । स्वपत्यै । शोभनान्यपत्यानि यस्याः सा तथोक्ता । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । “ जसादिषु च्छन्दसि वावचनम्' इति ' याडापः ' ( पा. सू. ७. ३. ११३ ) इति याडागमाभावे ' वृद्धिरेचि' (पा. सू. ६. १, ८८ ) इति वृद्धिः ॥ ॥ १८ ॥
“Bestow upon us, Indra, increasing reputation; (bestow upon us) great, augmenting, and foe subduing strength; preserve us in affluence; cherish those who are wise; and supply us with wealth from which proceed excellent progeny and food.”
So give us, Indra, bliss-increasing glory give us great sway and strength that conquers people.
Preserve our wealthy patrons, save our princes; vouchsafe us wealth and food with noble offspring.
Establish in us brilliance increasing in benevolence and your great and mighty sovereignty, o Indra, as vanquisher of the peoples.
Guard those generous to us and protect our patrons. Destine us for
wealth and for nourishment bringing good descendants.
So gib uns, Indra, Gut, das Heil uns schaffe, und grosse, starke, mächt'ge Männerherrschaft, Beschütze uns und unsre reichen Fürsten, und gib uns Schatz und kinderreiche Wohlfahrt.
Verleih du, Indra, uns glückmehrenden Glanz, große Macht, völkerbezwingende, starke! Behüte unsere Gönner, schütze die Opferherren und verhilf uns zu Reichtum und kindergesegneter Nahrung!
Возложи на нас блеск, увеличивающий счастье,
Великую власть, сильную, о Индра, покоряющий людей!
Храни наших покровителей, защищай богатых жертвователей
И содействуй нам в богатстве, прекрасном потомстве, жертвенной пище!