दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थ॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ । भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥
अस्य इन्द्रस्य वरिमा उरुत्वं प्राभवं दिवश्चित् द्युलोकादपि वि पप्रथे विस्तीर्णं बभूव । पृथिवी चन पृथिव्यपि च मह्ना महिम्ना महत्त्वेन इन्द्रं न प्रति भवति । भूमिरपीन्द्रस्य प्रतिनिधिर्न भवति । ततोऽपि स गरीयानित्यर्थः । भीमः शत्रूणां भयंकरः तुविष्मान् प्रज्ञावान् बलवान् वा चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणाम् आतपः ॥ समन्तात् तापकारी। एवंविधः स इन्द्रः वज्रं वर्जनशीलमायुधं तेजसे तैक्ष्ण्याय शिशीते तनूकरोति तीक्ष्णीकरोति । तत्र दृष्टान्तः । वंसगः न । वननीयगतिमान् वृषभो यथा स्वशृङ्गे युद्धार्थं तीक्ष्णीकरोति तद्वत् ॥ दिवः । ऊडिदम् इति विभक्तेरुदात्तत्वम् । वरिमा । उरुशब्दात् पृथ्वादिलक्षणः इमनिच् ।' प्रियस्थिर ' । इत्यादिना उरुशब्दस्य वरादेशः । पप्रथे । ‘ प्रथ प्रख्याने' । मह्ना महिम्ना । वर्णलोपश्छान्दसः । यद्वा । महेरौणादिकः कनिप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । तृतीयैकवचने ‘ अल्लोपोऽनः' इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रति । ' प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते ' ( पा. सू. २. ३. ८) इति इन्द्रशब्दात् द्वितीया । ‘ प्रतिनिधिप्रतिदाने च यस्मात् ' (पा. सू. २. ३. ११) इति पञ्चमी तु छान्दसत्वात् न भवति । भीमः । ञिभी भये' इत्यस्मात् “ भियः षुग्वा' ( उ. सू. १. १४५ ) इति मक्प्रत्ययः । ‘भीमो बिभ्यत्यस्मात् (निरु. १. २० ) इति यास्कः । आतपः । तपतीति तपः । पचाद्यच् । थाथादिना उत्तरपदान्तोदातत्वम्। शिशीते । ‘ शो तनूकरणे ' । व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः' इति ईत्वम् । अनजादावपि लसार्वधातुके व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् (पा. सू. ६. १. १८९) । वंसगः । वन षण संभक्तौ' इत्यस्मात् कर्मणि औणादिकः सप्रत्ययः । वंसं वननीयं गच्छतीति वंसगः । ‘ डोऽन्यत्रापि दृश्यते ' ( पा. म. ३. २. ४८) इति गमेः डप्रत्ययः । दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम् ॥
“The amplitude of Indra was vaster than the (space of) heaven; earth was not comparable to him in bulk; formidable and most mighty, he has been ever the afflicter (of the enemies of) those men (who worship him); he has his thunderbolt for sharpness, as a bull (his horns).”
THOUGH e'en this heaven's wide space and earth have spread them out, nor heaven nor earth may be in greatness Indra's match.
Awful and very mighty, causing woe to men, he whets his thunderbolt for sharpness, as a bull.
His expansion spreads out even beyond heaven; not even the earth is the counterpart to Indra in greatness.
Fearsome and mighty, a scorching firebrand for the settled domains, he hones his mace, like a buffalo (its horn), to be piercingly sharp.
Dem Himmel gleich ist Indra's Umfang ausgedehnt, die Erde selbst kommt nimmer ihm an Grösse gleich; Gewaltig furchtbar schärft er seinen Racheblitz, der Volksbestrafer, wie ein Stier die Hörner wetzt.
Noch weiter als der Himmel hat sich sein Umfang ausgedehnt, auch die Erde kommt dem Indra an Größe nicht gleich. Furchtbar, kraftvoll, den Völkern heißmachend, wetzt er die Keule wie ein Büffel die Hörner um sie scharf zu machen.
Еще (выше,) чем небо, далеко распространилась его громадность.
Даже земля по (своей) величине – не противо(вес) Индре.
Страшный, исполненный силы, опаляющий людей,
Он точит ваджру, как бык (рога), – для остроты.
सो अ॑र्ण॒वो न न॒द्य॑: समु॒द्रिय॒: प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः । इन्द्र॒: सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥
सः इन्द्रः समुद्रियः । समुद्रवन्त्यस्मादापः इति समुद्रमन्तरिक्षम् । तत्र भवः समुद्रियः । एवंभूतः सन् वरीमभिः स्वकीयैः संवरणैः यद्वा उरुत्वैः विश्रिताः व्याप्ताः नद्यः नदीः शब्दकारिणीः वृत्रेणावृता आपः अर्णवो न समुद्र इव प्रति गृभ्णाति । स्वीकृत्य ववर्षेति भावः । स च इन्द्रः सोमस्य पीतये पानाय वृषायते वृष इवाचरति । हर्षयुक्तो वर्तते इत्यर्थः । तथा सः इन्द्रः युध्मः योद्धा सनात् चिरादेव यद्वा सनातनः ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा पनस्यते पनः स्तोत्रमिच्छति ॥ अर्णवः । ‘ अर्णसो लोपश्च' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । प्रत्ययस्वरः । नद्यः । ‘ नद अव्यक्ते शब्दे ' इत्यस्मात् कर्तरि पचाद्यच् । ‘ चितः' इत्यन्तोदात्तत्वम् ।‘नदट्' (पा. सू. ३. १. १३४ ग.) इति टित्त्वेन पाठात् टिड्ढाणञ् ' इति ङीप् ।' यस्य ' इति लोपे उदात्तनिवृतिस्वरेण तस्य उदात्तत्वम्। जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः° ' इति स्वरितत्वम् । द्वितीयार्थे प्रथमा । अनया व्युत्पत्त्या नद्य इत्याप उच्यन्ते । तथा च श्रूयते - अहावनदता हते । तस्मादा नद्यो नाम स्थ तो वो नामानि सिन्धवः । (तै. सं. ५, ६. १. २ ) इति । समुद्रियः । समुद्राभ्राद्धः ' ( पा. सू. ४. ४. ११८) इति भवार्थे घप्रत्ययः । घस्य इयादेशः । तस्योपदेशिवद्वचनात् उदात्तत्वम् । गृभ्णाति । हृग्रहोर्भः० । इति भत्वम् । विश्रिताः । ‘ श्रिञ् सेवायाम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । वरीमभिः । वृञ् वरणे' इत्यस्मात् औणादिक ईमनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यद्वा उरुशब्दात् इमनिचि दीर्घ आद्युदात्तत्वं च छान्दसत्वात्। वृषायते। ‘ कर्तुः क्यङ सलोपश्च' (पा. सू. ३. १. ११ ) इति आचारार्थे क्यङ् । ङित्त्वात् आत्मनेपदम् । ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । युध्मः । ‘ युध संप्रहारे' इत्यस्मात् ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक्' इति मक् । पनस्यते । ‘ पन स्तुतौ । पननं पनः तदिच्छति पनस्यति । व्यत्ययेनात्मनेपदम् ॥
“The firmament-abiding Indra graps the wide-spread waters with his comprehenisve faculties, as the ocean (receives the rivers); he rushes (impetuous) as a bull, to drik of the Soma; he, the warrior, even covets praise for his prowess.”
Like as the watery ocean, so doth he receive the rivers spread on all sides in their ample width.
He bears him like a bull to drink of Soma juice, and will, as Warrior from of old, be praised for might.
As the sea’s flood receives the rivers, he receives the sprawling
(soma-streams?) with his expanses.
Indra acts the bull to drink the soma. From of old he seeks admiration as a battler by his power.
Gleich wie die See die Flüsse, die zum Meere gehn, die weitverzweigten nimmt in ihren weiten Schooss, So zeigt sich Indra kräftig zu des Soma Trunk, erweist als Kriegsheld herrlich sich durch seine Kraft.
Wie die Meeresflut die getrennten Flüsse nimmt er mit seinem Umfang die Somaströme in sich auf. Indra ist wie ein Stier gierig auf den Somatrank. Von alters her wird der Streiter wegen seiner Stärke anerkannt.
Словно океанское течение – реки,
Он вбирает в себя благодаря (своим) размерам разливающиеся в разные стороны (песни).
Индра распаляется, как бык, для питья сомы.
От века этот боец вызывает восхищение (своей) силой.
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ । प्र । वी॒र्ये॑ण । दे॒वताति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥
हे इन्द्र त्वं भोजसे भोजनाय पर्वतं पर्ववन्तं मेघं न अकार्षीः । न हि हतो भुङ्क्ते । इन्द्रो हि वर्षणार्थं मेघं वज्रेण हन्ति । तथा 'महः महतः नृम्णस्य धनस्य धर्मणां धारयितॄणां कुबेरादीनाम् इरज्यसि ईशिषे । इरज्यतिरैश्वर्यकर्मा । स इन्द्रः देवता वीर्येण अति अतिशयित इति प्र चेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव । स च उग्रः उद्गूर्ण इन्द्रः विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवैः पुरोहितः पुरस्तादवस्थापितः ॥ धर्मणाम् । ‘ धृञ् धारणे'। ‘ अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि मनिन् । नित्त्वादाद्युदात्तत्वम् । इरज्यसि ।' इरज् ईर्ष्यायाम्'। ऐश्वर्ये इत्येके । कण्ड्वादित्वात् यक् । वीर्येण । ' शूर वीर विक्रान्तौ । चुरादिः । ‘ अचो यत्' इति यत् । णिलोपः । बहुव्रीहौ ‘वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्यात् ‘ यतोऽनावः' इत्याद्युदात्तत्वाभावे ' तित्स्वरितम्' इति स्वरितत्वम् । तस्मिन् हि सति ‘आद्युदात्तं द्व्यच्छन्दसि' इत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम् । देवता । देव एव देवता। ‘देवात्तल्' (पा. सू. ५. ४. २७) इति स्वार्थे तल्प्रत्ययः । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । चेकिते । कित ज्ञाने '। अस्मात् यङन्तात् चेकित्यतेः कर्मणि लिटि अतोलोपयलोपौ । पुरोहितः । पुरस्शब्दस्य असिप्रत्ययान्तस्य ‘ तद्धितश्चासर्वविभक्तिः ' इति अव्ययत्वेन ‘ पुरोऽव्ययम्' इति गतिसंज्ञायां ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“You Indra, have not (struck) the cloud for (your own) enjoyment; you rulest over those who are possessed of great wealth; that divinity is known by us to surpass all others in strength; the haughty (Indra) takes precedence of all gods, on account of his exploits.”
Thou swayest, Indra, all kinds of great manly power, so as to bend, as't were, even that famed mountain down.
Foremost among the Gods is he through hero might, set in the van, the Strong One, for each arduous deed.
In order to enjoy it [=soma] like a mountain, you are in control of the principles of great manliness.
Among the gods he shows ever more brightly by his heroism—the
powerful one placed in front for every deed.
Um auszubeuten, Indra, diesen Wolkenberg, verfügest über grosse Kraft und Opfer du; Er ragt durch Mannheit vor der Götterschar hervor, der mächtige zu jeder That vorangestellt.
Du, Indra, besitzest die Eigenschaften großer Mannhaftigkeit um sie wie einen Berg zu nutzen. An Heldenmut tut er sich unter den Göttern hervor, der Gewaltige, zu jeglichem Unternehmen an die Spitze gestellt.
Ты, о Индра, обладаешь свойствами великого мужества,
Словно та гора – чтобы (ее) использовать.
Он бросается в глаза среди богов благодаря героической силе,
Грозный (бог,) поставленный во главе любого дела.
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् । वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् । वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥
स इत् स एवेन्द्रः वने अरण्ये नमस्युभिः नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिः वचस्यते वच इच्छन् क्रियते स्तूयते इत्यर्थः । यद्वा वचः स्तोत्रमात्मन इच्छति । स चेन्द्र आत्मीयेषु जनेषु इन्द्रियं स्ववीर्यं प्रब्रुवाणः प्रकटयन् 'चारु वर्तते । किंच सः वृषा कामानां वर्षकः हर्यतः प्रेप्सावतो यियक्षतः छन्दुः उपच्छन्दयिता भवति । यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः । वृषा हविषां वर्षयिता । हविष्प्रदातेत्यर्थः । मघवा धनवान् । एवंभूतो यजमानः क्षेमेण इन्द्रकृतेन रक्षणेन युक्तः सन् यत् यदा धेनां स्तुतिलक्षणां वाचम् इन्वति प्रेरयति । तदानीं छन्दुर्भवतीति पूर्वेणान्वयः । यद्वा । मघवा वृषा इन्द्रः क्षेमेण क्षेमकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मात् इन्वति व्याप्नोति । तस्मादिति योज्यम् ॥ नमस्युभिः । 'नमोवरिवः' इति पूजार्थे क्यच् । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वचस्यते । वच इच्छति वचस्यति । तं वचस्यन्तं कुर्वन्ति मुनयो वचस्ययन्ति । वचस्ययतेः कर्मणि यकि अतोलोपयलोपौ । यद्वा । वचस्यतेर्व्यत्ययेनात्मनेपदम् । प्रब्रुवाणः । ‘ ब्रूञ् व्यक्तायां वाचि' । लटः शानच् । अदादित्वात् शपो लुक् । शानचो ङित्त्वात् गुणाभावे उवङ् । चित्स्वरेणान्तोदात्तः । इन्द्रियम् । इन्द्रस्य लिङ्गमिन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ' ( पा. सू. ५. २. ९३ ) इति लिङ्गादिश्वर्थेषु इन्द्रशब्दात् घच्प्रत्ययो निपात्यते । अतः अन्तोदात्तत्वम् । इन्वति । इवि व्याप्तौ'। शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
“He verily is glorified by adoring (sages) in the forest; he proclaims his beautiful vigour amongst men ; he is the granter of their wishes (to those who solicit him); he is the encourager of those who desire to worship (him), when the wealthy offerer of oblations, enjoying his protection, recites his praise.”
He only in the wood is praised by worshippers, when he shows forth to men his own fair Indra-power.
A friendly Bull is he, a Bull to be desired when Maghavan auspiciously sends forth his voice.
It’s just he who displays his eloquence in the woods along with those offering homage, when he proclaims his own dear Indrian (name)
among the peoples.
The bull becomes pleasing, the bull delightful, when, as bounteous one, he impels the nourishing stream (of speech) in peace.
Beim Holz der Kufe plaudert mit den Frommen er, den Menschen kündend seine grosse Indramacht; Ein glänzender und ein erwünschter Stier ist er, wenn ihm der reiche Geber fröhlich Milchtrank weiht.
Er wird im Walde mit den Verehrern beredt, der seinen teuren indrischen Namen unter den Völkern verkündet. Wohlgefällig ist der Bulle, begehrenswert ist der Bulle, wenn der Gabenreiche friedlich die Lippe in Bewegung setzt.
Это он в лесу даст услышать свой голос поклоняющимся (ему),
Провозглашая среди людей дорогое (имя) Индры.
Бык бывает приятным, бык желанен,
Когда щедрый мирным (путем) приводит в движение поток (речи).
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः । अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥
सः । इत् । म॒हानि॑ । स॒म्ऽइ॒थानि॑ । म॒ज्मना॑ । कृ॒णोति॑ । यु॒ध्मः । ओज॑सा । जने॑भ्यः । अध॑ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि॑ऽमते । इन्द्रा॑य । वज्र॑म् । नि॒ऽघनि॑घ्नते । व॒धम् ॥
स इत् स एवेन्द्रः युध्मः योद्धा महानि समिथानि महतः संग्रामान् मज्मना सर्वस्य शोधकेन ओजसा बलेन कृणोति करोति । किमर्थम् । जनेभ्यः स्तोतृजनार्थम् । यदा इन्द्रः वधं हननसाधनं वज्रम् आयुधं मेघेषु निघनिघ्नते निहन्ति अधा चन अनन्तरमेव त्विषीमते दीप्तिमते इन्द्राय सर्वे जनाः श्रद्दधति । श्रत् इति सत्यनाम । इन्द्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यन्ते ॥ महानि । महान्तीत्यस्य तकारलोपश्छान्दसः । यद्वा । मह्यन्ते पूज्यन्ते इति महानि प्रवृद्धानि ।' घञर्थे कविधानम्° ' इति कः । प्रत्ययस्वरः । समिथानि । ‘ इण् गतौ । संयन्ति संगच्छन्तेऽस्मिन्वीरा इति समिथानि संग्रामाः । ‘ समीणः ' ( उ. सू. ४. ५३२ ) इति थक्प्रत्ययः । कित्त्वाद्गुणाभावः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मज्मना । ‘टुमस्जो शुद्धौ ' । मनिप्रत्ययः ।: झलां जश् झशि' ( पा. सू. ८. ४. ५३ ) इति सकारस्य जश्त्वं दकारः । ततश्चुत्वं जकारः । प्रत्ययस्वरः । अध । छान्दसं धत्वम् । ‘ निपातस्य च ' इति सांहितिको दीर्घः । त्विषीमते । त्विष दीप्तौ ।' इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते । अन्येषामपि दृश्यते ' इति सांहितिको दीर्घः । निघनिघ्नते। हन्तेर्व्यत्ययेनात्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ गमहन' इत्यादिना उपधालोपः । अभ्यासस्य घत्वं निगागमश्च ।' आगनीगन्तीति च ' ( पा. सू. ७. ४. ६५ ) इति इतिचशब्दः प्रकारार्थं इत्युक्तत्वात् दाधर्त्यादौ एतद्द्रष्टव्यम् ॥ ॥ १९ ॥
“Indra the warrior, engages in many great conflicts for (the good of) man, with overwhelming prowess; when he hurls his fatal shaft, every one immediately has faith in the resplendent Indra.”
Yet verily the Warrior in his vigorous strength stirreth up with his might great battles for mankind;
And men have faith in Indra, the resplendent One, what time he hurleth down his bolt, his dart of death.
It’s just he who by his greatness makes great clashes for the peoples, a battler by his power.
Then indeed they place their trust in turbulent Indra, as he smashes down his mace, his deadly weapon, again and again—
Er ist der Kriegsheld, welcher grosse Schlachten kämpft dem Volk zu Nutz nach seiner Kraft und Herrlichkeit; Dann traun sie recht auf Indra, den gewaltigen, der seinen Blitz als Todeswaffe niederwirft.
Er, der Streitbare, erregt große Kämpfe unter den Völkern durch seine Macht und Kraft. Dann erst glauben sie an den wutentbrannten Indra, wenn er die Keule, seine Waffe, herabschmettert.
Это он, воинственный, создает людям
Великие сражения (своим) могуществом (и) силой.
И тогда верят они в разъяренного
Индру, мощно поражающего ваджрой-смертельным оружием.
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् । ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतु॒: सर्त॒वा अ॒पः सृ॑जत् ॥
सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् । ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥
श्रवस्युः अन्नं यशो वात्मन इच्छन् कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि सदनानि असुरपुराणि ओजसा बलेन विनाशयन् क्ष्मया भूम्या समानं वृधानः वर्धनशीलः । यद्वा। क्ष्मया इति ओजोविशेषणम् । शत्रूणामभिभवित्रा बलेनेत्यर्थः । ज्योतींषि सूर्यादीनि वृत्रेणावृतानि अवृकाणि वृकेणावरकेण तेन रहितानि कृण्वन् कुर्वन् सुक्रतुः शोभनकर्मसहितः एवंविधः सः खलु इन्द्रः यज्यवे यष्ट्रे यजमानाय तदर्थं सर्तवै सरणाय अपः वृष्टिलक्षणान्युदकानि अव सृजत् । वृष्टिं कृतवानित्यर्थः ॥ कृत्रिमा । ' डुकृञ् करणे '। ‘ ड्वितः क्त्रिः ' ( पा. सू. ३. ३. ८८ ) इति भावे क्त्रिप्रत्ययः । ' त्रेर्मम्नित्यम् ' ( पा. सू. ४. ४. २० ) इति निर्वृत्तार्थ मप् । तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । क्ष्मया । ‘ क्षमूष् सहने । क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा । षिद्भिदादिभ्योऽङ्' (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । व्यत्ययेन धातोः उपधालोपः । छान्दसं विभक्त्युदात्तत्वम् । यद्वा । अयं धातुरभिभवार्थः, षह अभिभवे ' इति सहनस्याभिभवार्थत्वात् । अस्मात् औणादिको मनिन् । व्यत्ययेन स्त्रीलिङ्गता । ‘ मनः' ( पा. सू. ४.१. ११) इति डीपो निषेधे ‘ डाबुभाभ्यामन्यतरस्याम् (पा. सू. ४. १. १३ ) इति डाप् । टिलोपः । वृधानः । ताच्छीलिकः चानश् । बहुलं छन्दसि इति शपो लुक् । ‘ चितः' इत्यन्तोदात्तत्वम् । अवृकाणि । ‘ वृञ् वरणे'। ‘ सृवृभूशुषिमुषिभ्यः कित्' ( उ. सू. ३. ३२१ ) इति कन्प्रत्ययः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यज्यवे । ‘ यजिमनिशुन्धिदसिजनिभ्यो युः' इति युप्रत्ययः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । सुक्रतुः । बहुव्रीहौ ' क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । सर्तवै । ‘ सृ गतौ । ‘ कृत्यार्थे तवैकेन्° ' इति भावे तवैप्रत्ययः । गुणः । ‘ अन्तश्च तवै युगपत् ' ( पा. सू. ६. १. २०० ) इति आद्यन्तयोः युगपत् उदात्तत्वम् । अपः । ऊडिदम् ' इति शस उदात्तत्वम् । सृजत् । लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः ॥
“Ambitious of renown, destroying the well-built dwellings of the asuras, expanding like the earth, and setting the (heavenly) luminaries free from concealment, he, the performer of good deeds, enables the waters to flow for the benefit of his worshippers.”
Though, fain for glory, and with strength increased on earth, he with great might destroys the dwellings made with art,
He makes the lights of heaven shine forth secure, he bids, exceeding wise, the floods flow for his worshipper.
For it’s he, seeking fame, who’s destroying the artfully made seats (of the enemy) across the earth, as he grows strong in power,
and is making lights free of wolves [=safe] for the worshipful man. The very resolute one released the waters to flow.
Denn er voll Ruhmgier auf der Erde neu gestärkt, zerbrach mit Kraft die List-geschaffnen Wohnungen, Willkommnes Licht verschaffte er den Opferern und liess die Wasser strömen, der gewaltige.
Denn die Ruhmbegierige zerstörte die künstlichen Sitze, auf der Erde an Kraft wachsend; er schaffte räubersicheres Licht dem Opferer und ließ die Gewässer los zum Laufe, der Umsichtige.
Ведь это он, жаждущий славы, возросший силой,
Уничтожающий искусственные поселения на земле,
Создающий надежные светила для жертвователя,
С замечательной силой духа, выпустил воды, чтобы они текли.
दा॒नाय॒ मन॑: सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि । यमि॑ष्ठास॒: सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ । यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र्च । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥
हे सोमपावन् सोमस्य पातरिन्द्र ते त्वदीयं मनः दानाय अस्मदभिमतफलप्रदानाय अस्तु भवतु । हे वन्दनश्रुत् वन्दनानां स्तुतीनां श्रोतः हरी त्वदीयावश्वौ अर्वाञ्चा अस्मद्यज्ञाभिमुखौ आ कृधि आभिमुख्येन कुरु । हे इन्द्र ते तव स्वभूताः ये सारथयः सन्ति ते यमिष्ठासः अतिशयेन यन्तारः अश्वनियमनकुशला इत्यर्थः । यस्मादेवं तस्मात् केताः प्रातिकूल्यज्ञातारः भूर्णयः स्वकीयायुधादीनां भर्तारः । यद्वा । भीतास्तीक्ष्णाः शत्रवः त्वा त्वां न आ दभ्नुवन्ति न हिंसन्ति । सोमपावन् । ‘ आतो मनिन् ' इति वनिप् । ' असंबुद्धौ ' इति पर्युदासात् दीर्घाभावः । अर्वाञ्चा । ‘ सुपां सुलुक् ' इति विभक्तेः आकारः । वन्दनश्रुत् । वदि अभिवादनस्तुत्योः । इदित्त्वात् नुम् । भावे ल्युट् । तेषां श्रोता । श्रु श्रवणे'। क्विपि तुगागमः । यमिष्ठासः । यन्तृशब्दात् ' तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् ।' आज्जसेरसुक्' इति असुक् । केताः । कित ज्ञाने'। चिकेतति प्रतिकूलं जामन्तीति केताः । पचाद्यच् । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । यद्वा । प्रतिकूलतया ज्ञायन्ते इति केताः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दभ्नुवन्ति । दम्भु दम्भे' । स्वादित्वात् श्नुः । तस्य ङित्त्वात् “ अनिदिताम्' इति नलोपः । संयोगपूर्वत्वेन ‘हुश्नुवोः' इति यणादेशाभावे ‘अचि श्नुधातु ' इत्यादिना उवङादेशः । भूर्णयः । ‘ भृञ् भरणे'। घृणिः पृश्निः' इत्यादौ अस्मात् निप्रत्ययान्तो निपात्यते । ऋत उत्वं दीर्घश्च । यद्वा । ‘ भॄ भये ' इत्यस्मात् ‘कृत्यल्युटो बहुलम् इति कर्तरि क्तिनि “ उदोष्ठ्यपूर्वस्य' इति उत्वम् । ‘हलि च' इति दीर्घः । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति' (पा. सू. ८. २. ४४. १ ) इति निष्ठावद्भावात् नत्वम् । नित्त्वादाद्युदात्तत्वम् ॥
“Drinker of Soma, may your mind incline to grant our desires; hearer of praises, let your coursers be present (at our sacrifice); your charioteers are skillful in restraining (your steeds); nor, Indra, can crafty (enemies) bearing arms prevail against you.”
Drinker of Soma, let thy heart incline to give; bring thy Bays hitherward, O thou who hearest praise.
Those charioteers of' thine, best skilled to draw the rein, the rapid sunbeams, Indra, lead thee not astray.
Let your mind be on giving, o soma-drinker. Hearing our tributes, make your fallow bays turn this way.
These fervent intentions, which are your coachmen, best at guiding, do not deceive you, o Indra.
Geneigt zum Schenken, Somatrinker, sei dein Sinn, das Preislied hörend, lenk herbei dein Füchsepaar; Du, Indra, hast die besten Wagenlenker ja; die eifervollen Wünsche täuschen nimmer dich.
Nach Schenken soll dein Sinn stehen, du Somatrinker. Lenke die beiden Falben herwärts, der du auf Lobesworte hörst! Deine ungeduldigen Erwartungen, die deine bestlenkenden Wagenführer sind, die täuschen dich nicht.
О пьющий сому, да будет мысль твоя (направлена) на дарение!
О слышащий славословие, направь сюда пару (твоих) буланых коней!
Лучше всех правящие колесничие, что (есть) у тебя, о Индра, –
Твои желания, да не подведут они тебя, неистовые!
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे । आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ । आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥
हे इन्द्र त्वम् अप्रक्षितम् प्रक्षयरहितं वसु धनं हस्तयोः बिभर्षि स्तोतृभ्यो दातुं धारयसि । तथा श्रुतः प्रख्यातो भवान् तन्वि आत्मीये शरीरे अषाळ्हं शत्रुभिरनभिभूतं सहः बलं दधे धारयति । त्वदीयास्तनवः कर्तृभिः वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिः आवृतासः आवृताः । बलकृतानि सर्वाणि कर्माणि एतस्य शरीरमावृत्यावतिष्ठन्ते । तत्र दृष्टान्तः । अवतासो न। अवतः इति कूपनाम । यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियन्ते तद्वत् । यस्मादेवं तस्मात् हे इन्द्र ते तव शरीरेषु क्रतवः कर्माणि भूरयः बहूनि विद्यन्ते ॥ अप्रक्षितम् । ‘क्षि क्षये' इत्यस्मात् भावे निष्ठा । ‘ अण्यदर्थे' (पा. सू. ६. ४. ६०) इति पर्युदासात् दीर्घाभावः। अत एव ‘क्षियो दीर्घात्' इति निष्ठानत्वाभावः । प्रकृष्टं क्षितं यस्य तत् प्रक्षितम् । न प्रक्षितम् अप्रक्षितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बिभर्षि । ‘डुभृञ् धारणपोषणयोः' । लटि सिपि शपः श्लुः । भृञामित्' इति अभ्यासस्य इत्वम् । अषाळ्हम् । षह अभिभवे' इत्यस्मात् निष्ठायां तकारादौ प्रत्यये ‘तीषसह°' (पा. सू. ७.२.४८) इति इटः विकल्पितत्वात् ‘यस्य विभाषा' इति इट्प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपेषु ‘सहिवहोरोदवर्णस्य' इति ओत्वे प्राप्ते ‘साढ्यै साढ़्वा साढेति निगमे ' (पा. सू. ६. ३. ११३) इति निपातनात् आत्वम् । यदुक्तं साढेति तृजन्तमेतदिति तदुपलक्षणार्थं द्रष्टव्यम् । तन्वि। ‘जसादिषु च्छन्दसि वावचनम् । इति • अञ्च घेः' (पा.सू. ७. ३. ११९) इति अत्वौत्वयोरभावे यणादेशः । ‘उदात्तस्वरितयोर्यणः । इति विभक्तेः स्वरितत्वम्। ‘उदात्तयणो हल्पूर्वात्' इति उदात्तत्वं तु छान्दसत्वात् न प्रवर्तते ॥ ॥२०॥
“You hold in your hands unexhausted wealth; you, renowned (Indra), have irresistible strength in your body; your limbs are invested with (glorious) exploits, as well as (are surrounded by those who come for water); in your member, Indra, are many exploits.”
Thou bearest in both hands treasure that never fails; the famed One in his body holds unvanquished might.
O Indra, in thy members many powers abide, like wells surrounded by the ministering priests.
You bear inexhaustible goods in your hands. The famed one takes undominatable dominance into his body.
Like wells covered over by their makers are the many resolves within your body, o Indra.
In deinen Händen trägst du unvertilgbar Gut, legst an den Leib, berühmter, unbesiegte Kraft; In deinen Gliedern, Indra, sind der Kräfte viel, wie Wasserbrunnen, die die Künstler zugedeckt.
Unerschöpfliches Gut trägst du in den Händen, unbezwingbare Gewalt besitzt der Berühmte in deinen Leibern verdeckt, o Indra.
Неисчерпаемое добро ты несешь в руках.
Неодолимую силу заключает в (своем) теле прославленный (бог).
Как в колодцах, прикрытых теми, кто их сделал,
В телах твоих, о Индра, – богатые силы духа.