ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑: । दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥
ए॒षः । प्र । पू॒र्वीः । अव॑ । तस्य॑ । च॒म्रिषः॑ । अत्यः॑ । न । योषा॑म् । उत् । अ॒यं॒स्त॒ । भु॒र्वणिः॑ । दक्ष॑म् । म॒हे । पा॒य॒य॒ते॒ । हि॒र॒ण्ययम् । रथ॑म् । आ॒ऽवृत्य॑ । हरि॑ऽयोगम् । ऋभ्व॑सम् ॥
भुर्वणिः अत्ता एषः इन्द्रः तस्य यजमानस्य पूर्वीः प्रभूताः चम्रिषः चमूषु चमसेष्ववस्थिताः सोमलक्षणा इषः प्र अव उदयंस्त प्रकर्षेण पानार्थमुद्धरति । तत्र दृष्टान्तः । अत्यो न योषाम् । यथाश्वो वडवां क्रीडार्थमुपयच्छति । स चेन्द्रः हिरण्ययं सुवर्णमयं हरियोगं हरिभ्यां युक्तम् ऋभ्वसम् उरु भासमानं रथम् आवृत्य अवस्थाप्य महे महते वृत्रवधादिरूपाय कर्मणे दक्षं प्रवृद्धमात्मानं सोमं पाययते पानं कारयति ॥ पूर्वीः । ‘पॄ पालनपूरणयोः '।' पॄभिदिव्यधि° ' ( उ. सू. १. २३) इत्यादिना कुप्रत्ययः । ‘ उदोष्य्मपूर्वस्य' इति उत्वम् । पुरूशब्दात् ‘वोतो गुणवचनात् ' इति ङीष् । यणादेशः ।' हलि च ' इति दीर्घत्वम् । प्रत्ययस्वरः । चम्रिषः । ‘ चमु अदने' इत्यस्मात् ‘कृषिचमितनिधनि ' ( उ. सू. १. ८१) इत्यादिना ऊप्रत्ययान्तश्चमूशब्दः । तस्यां वर्तमाना इषः चम्विषः । वकारस्य रेफश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अयंस्त । छान्दसे वर्तमाने लुङि व्यत्ययेनात्मनेपदम् । ‘ एकाचः' इति इट्प्रतिषेधः । भुर्वणिः । ‘ भुर्वतिरत्तिकर्मा (निरु. ९, २३ ) इति यास्कः । धातुपाठे तु ' भर्व हिंसायाम् ' इति पठ्यते । अस्मात् औणादिकः अनिप्रत्ययः । अकारस्य उकारश्छान्दसः । पाययते । ‘ पा पाने ' । ‘ शाच्छासाह्वाव्यावेपां युक् ( पा. सू. ७. ३. ३७ ) इति हेतुमति णिचि युगागमः । ‘ णिचश्च' ( पा. सू. १. ३. ७४ ) इत्यात्मनेपदम् । हिरण्ययम् । ऋत्व्यवास्त्व्य ' इत्यादिना हिरण्यशब्दात उत्तरस्य मयटो मशब्दलोपो निपात्यते । हरियोगम् । हर्योर्योगो योजनं यस्मिन् । हरिशब्द इन्प्रत्ययान्त आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते । ऋभ्वसम् । उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः ॥
“Veracious (Indra) has risen up (as ardently) as a horse (approaches) a mare, to partake of the copious libations (contained) in the (sacrificial) ladles; having stayed his well-horsed, golden, and splendid chariot, heplies himself, capable of heroid (actions with Soma).”
FOR this man's full libations held in ladles, he hath roused him, eager, as a horse to meet the mare.
He stays his golden car, yoked with Bay Horses, swift, and drinks the Soma juice which strengthens for great deeds.
This one has raised forth for himself the many dippers of this *well (of soma), as a stallion, all aquiver, raises himself up to [=mounts] a
young mare.
For the great (deed?) he gives himself golden skill [=soma] to
drink, having turned his ingenious chariot here, hitched with his
fallow bays.
Dieser [Indra?] hat sich hingestürzt über die vielen Tränke des Brunnens [avatásya zu lesen WB.] gleichwie ein ungestümer Hengst über die Stute; er trinkt sich Kraft zu grossem Werk (?), nachdem er den goldenen, von Füchsen gezogenen, kunstreichen Wagen hat herrollen lassen.
Dieser hat viele Schöpflöffel von diesem Soma aufgefüllt und hochgenommen wie ein aufgeregter Hengst die Stute. Er gibt sich den kräftigen Soma zu trinken zu großer Kraft, nachdem er den goldenen falbenbespannten kunstvollen Wagen hergelenkt hat.
Этот Индра (двигал) вперед, (опускал) вниз; поднимал вверх
Множество чаш этого (сомы), словно жеребец-кобылу, (он)- возбужденный.
Для величия он дает себе выпить силу действия (сомы),
Повернув сюда золотистую колесницу с упряжкой буланых (коней), искусную.
तं गू॒र्तयो॑ नेम॒न्निष॒: परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यव॑: । पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
तम् । गू॒र्तयः॑ । ने॒म॒न्ऽइषः॑ । परी॑णसः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । पति॑म् । दक्ष॑स्य । वि॒दथ॑स्य । नु । सहाः । गि॒रिम् । न । वे॒नाः । अधि॑ । रो॒ह॒ । तेज॑सा ॥
गूर्तयः स्तोतारः नेमन्निषः नमस्कारपूर्वं गच्छन्तः । यद्वा नीतहविष्काः परीणसः परितो व्याप्नुवन्तः एवंगुणविशिष्टा यजमानाः तम् इन्द्रं स्तुतिभिः अधिरोहन्ति स्तुवते इत्यर्थः। तत्र दृष्टान्तः। सनिष्यवः सनिं धनमात्मन इच्छन्तो वणिजो धनार्थं संचरणे संचारे निमित्तभूते सति समुदं न । यथा नावा समुद्रमधिरोहन्ति एवं स्तोतारोऽपि स्वाभिमतधनलाभायेन्द्रं स्तुवन्तीति भावः। हे स्तोतस्त्वं च दक्षस्य प्रवृद्धस्य विदथस्य यज्ञस्य पतिं पालयितारं सहः सहस्वन्तं बलवन्तमिन्द्रं तेजसा देवताप्रकाशकेन स्तोत्रेण नु क्षिप्रम् अधि रोह स्तुहीति यावत् । तत्र दृष्टान्तः। वेनाः कान्ताः स्त्रियः गिरिं न । यथा पर्वतं स्वाभिमतपुष्पोपचयार्थमधिरोहन्ति ॥ गूर्तयः । गॄ शब्दे । गृणन्ति स्तुवन्तीति गूर्तयः । ‘क्तिच्क्तौ च°' इति कर्तरि क्तिप् ।' बहुलं छन्दसि ' इति उत्वम् । ‘हलि च' इति दीर्घः । ‘ चितः' इत्यन्तोदात्तत्वम् । नेमन्निषः । ‘णमु प्रह्वत्वे' इत्यस्मात् शतरि व्यत्ययेन एत्वम् , तकारस्य नकारादेशश्च । नमन्तः इष्यन्तीन्द्रं प्राप्नुवन्तीति' नेमन्निषः। 'इषु गतौ' इत्यस्मात्
क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा ।' णीञ् प्रापणे ' इत्यस्मात् ' अर्तिस्तुसु° ' इत्यादिना मन्प्रत्ययः । बहुलवचनात् नकारस्य इत्संज्ञाभावः। नीताः प्रत्ता इषो येषाम् । “ परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । परीणसः। ‘णस कौटिल्ये' इत्ययं धातुर्गत्यर्थो धातूनामनेकार्थत्वात् । परितो नसन्ति गच्छन्तीति परीणसः । क्विप् च ' इति क्विप् ।' निपातस्य च' इति पूर्वपदस्य दीर्घत्वम् ।' उपसर्गादसमासेऽपि ' इति णत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । नशतिर्गतिकर्मा । अस्मात् पूर्ववत् क्विपि शकारस्य सकारः। सनिष्यवः। ‘षणु दाने' इत्यस्मात् ‘इन्सर्वधातुभ्यः' इति कर्मणि इन्प्रत्ययः । सनिमात्मन इच्छन्तीति क्यचि ‘सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः सुगागमोऽपि वक्तव्यः' (का. ७. १. ५१. ३) इति सुक्। ‘ क्याच्छन्दसि' इति उप्रत्ययः । नु । ऋचि तुनुघ' इति सांहितिको दीर्घः । सहः । अस्मादुत्तरस्य मतुपः छान्दसो लुक् ॥
“His adorers, bearing oblations, are thronging round (him), as (merchants) covetous of gain crowd the ocean (in vessels) on a voyage ascend quickly, with a hymn to the powerful Indra, the protector of the solemn sacrifice, as wome (climb) a mountain.”
To him the guidance-following songs of praise flow full, as those who seek gain go in company to the flood.
To him the Lord of power, the holy synod's might, as to a hill, with speed, ascend the loving ones.
Our greetings in profusion, seeking his leadership, (go) seeking to win him, like (rivers) in their converging on the sea.
With your sharpness, (o Soma,) ascend to the lord of skill,
(who is) now the power of ritual distribution, as trackers ascend
a mountain.
Die Loblieder der Leitung folgend kommen zu ihm zusammen [sám caranti aus samcáraṇe zu ergänzen], wie Gewinnsüchtige zum Meere, wenn sie zusammenfahren, zum Herrn der Kraft nun der Opferversammlung Drang (?), besteige sie [die Lieder] in Eile, wie die sehnsüchtig erwartenden einen Berg.
Ihm sollen die Lobesworte, die vollzähligen Labungen sich zuwenden wie die Gewinnsuchenden auf ihrer Fahrt dem Meere. Zum Herrn der Kraft steig mit der Weisheit Macht, mit Schneid empor wie Späher auf einen Berg!
К нему спешат хвалы, поклоняясь, принося полноту богатства,
Вожделея добычи, как (реки) – в совместном течении к океану.
Поднимись же к господину силы действия (и) жертвенного собрания с силой,
С блеском, как стремящиеся (к соме) – на гору!
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शव॑: । येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥
सः । तु॒र्वणिः॑ । म॒हान् । अ॒रे॒णु । पौंस्ये॑ । गि॒रेः । भृ॒ष्टिः । न । भ्रा॒ज॒ते॒ । तु॒जा । शवः॑ । येन॑ । शुष्ण॑म् । मा॒यिन॑म् । आ॒य॒सः । मदे॑ । दु॒ध्रः । आ॒भूषु॑ । रा॒मय॑त् । नि । दाम॑नि ॥
सः इन्द्रः तुर्वणिः शत्रूणां हिंसिता क्षिप्रकारी वा । • तुर्वणिस्तूर्णवनिः ' ( निरु. ६. १४ ) इति यास्कः । तूर्णसंभजन इति तस्यार्थः । महान् प्रवृद्धश्च भवति । तस्येन्द्रस्य शवः बलं पौंस्ये वीरैः पुरुषैः कर्तव्ये संग्रामे अरेणु अनवद्यं तुजा शत्रूणां हिंसकं सत् भ्राजते दीप्यते। तत्र दृष्टान्तः । गिरेः पर्वतस्य भृष्टिर्न ऋङ्गमिव । तद्यथोन्नतं सद्दीप्यते तद्वत्। आयसः अयोमयकवचयुक्तदेहः दुध्रः दुष्टानां शत्रूणां धर्तावस्थापयिता एवंभूत इन्द्रः मदे सोमपानेन हर्षे सति येन बलेन शुष्णं सर्वस्य शोषकमसुरं मायिनं मायाविनम् आभूषु कारागृहेषु दामनि बन्धके निगडे नि रमयत् न्यवासयत् । तद्वलमिति पूर्वेणान्वयः ॥ तुर्वणिः । तुर्वी हिंसार्थः । अस्मात् औणादिकः अनिप्रत्ययः । अरेणु । रेणुवदाच्छादकत्वात् रेणुशब्देनावद्यमुच्यते । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तुजा। ‘तुज हिंसायाम्'। इगुपधलक्षणः कः। ‘सुपां सुलुक्' इति विभक्तेः आकारः। दुध्रः। दुष्टान् ध्रियतेऽवस्थापयतीति दुध्रः । ‘धृञ् अवस्थाने' इत्यस्मात् अन्तर्भावितण्यर्थात् मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५. २)। यणादेशः । रेफलोपश्छान्दसः । रमयत् । अमन्तत्वात् मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । छान्दसः संहितायां दीर्घः ॥
“He is quick in action, and mighty; his faultless and desructive prowess shines in manly (conflict) like the peak of a mountain (afar), with which, clothed in metal (armour), he, the supressor of the malignant, when exhilarated (by Soma), cast the wily Śuṣṇa into prison and into bonds.”
Victorious, great is he; in manly battle shines, unstained with dust, his might, as shines a mountain peak;
Wherewith the iron one, fierce e'en against the strong, in rapture, fettered wily Sushna fast in bonds.
He is surpassing and great in masculine strength, (even) without raising dust. Like the peak of a mountain his power glints with its thrusting,
(the power) with which his headstrong metal (weapon), in his
exhilaration and among those standing by him, brought wily Śuṣṇa
down to rest in fetters.
Er ist siegreich, der grosse; staublos erglänzt in der Heldenschar wie des Felsens Zacke durch Ungestüm seine Kraft, durch welche im Rausche der vordringende eherne [Blitz] den listigen Çuschna bei seinen Gehülfen in Fesseln schlug.
Er ist der Überlegene, groß an Manneskraft auch ohne Staub. Wie die Zacke des Berges glüht vor Eifer seine Kraft, mit der der Eisenfeste im Rausche, in Sachen seiner Anhänger hartnäckig, den Zauberer Susna in Fesseln zur Ruhe brachte.
Он – победитель, великий в деле мужества, (даже) без пыли (сражений).
Словно вершина горы, сверкает пылом (его) мощь неистовая,
Благодаря которой железная (дубина) в опьянении,
Успокоила в колодке колдовского Шушну среди союзников.
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्य॑: । यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणि॑: ॥
दे॒वी । यदि॑ । तवि॑षी । त्वाऽवृ॑धा । ऊ॒तये॑ । इन्द्र॑म् । सिष॑क्ति । उ॒षस॑म् । न । सूर्यः॑ । यः । धृ॒ष्णुना॑ । शव॑सा । बाध॑ते । तमः॑ । इय॑र्ति । रे॒णुम् । बृ॒हत् । अ॒र्ह॒रि॒ऽस्वनिः॑ ॥
यः इन्द्रः धृष्णुना धर्षकेन शवसा बलेन तमः तमोरूपं वृत्रादिमसुरं बाधते हिनस्ति ऊतये रक्षणाय त्वावृधा त्वया स्तोत्रा वर्धितं तम् इन्द्रं देवी तविषी द्योतमानं बलं यदि यदा सिषक्ति समवैति। सेवते इति यास्कः (निरु. ३.२१)। सूर्यः उषसं न यथोषोदेवतां सेवते नित्यं तत्संबद्धो भवतीत्यर्थः। तदानीम् अर्हरिष्वणिः । गच्छन्तो हरन्तीति अर्हरयः शत्रवः । तेषां व्यथोत्पादनेन स्वनयिता शब्दयिता इन्द्रः रेणुं रेषणं हिंसनं बृहत् प्रभूतम् इयर्ति शत्रून् गमयति ॥ त्वावृधा। त्वया वर्धते इति त्वावृत् ।' क्विप् च ' इति क्विप् । प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । छान्दसं दकारस्य आत्वम् । ‘सुपां सुलुक् ' इति द्वितीयाया आकारः । सिषक्ति । षच समवाये'। ‘बहुलं छन्दसि ' इति शपः श्लुः ।' बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । इयर्ति । ‘ ऋ सृ गतौ '। जौहोत्यादिकः। अस्मात् अन्तर्भावितण्यर्थात् लट् । शप्श्लुद्विर्भावोरदत्वहलादिशेषाः। ‘अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। ‘ अभ्यासस्यासवर्णे ' (पा. सू. ६. ४. ७८) इति इयङादेशः । अनुदात्ते च' इति अभ्यासस्याद्युदात्तत्वम् । पूर्वपदस्य वाक्यान्तरगतत्वेन पदादपरत्वात् निघाताभावः। रेणुम् । ‘ री गतिरेषणयोः । अस्मात् औणादिको नुप्रत्ययः । अर्हरिष्वणिः । अर्तेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति विच्। अरो गच्छन्तश्चेमे हरयश्चेत्यर्हरयः । तेषां स्वनयिता । ‘स्यमु स्वन ध्वन शब्दे । अस्मात् ण्यन्तात् औणादिक इन्प्रत्ययः । णेरनिटि ' इति णिलोपः । घटादित्वात् मित्त्वे ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Divine strength waits, like the sun upon the dawn, upon that Indra who is made more powerful for protection by you, (his worshipper), who with resolute vigour resists the gloom, and inflicts severe castigation uon his enemies, making them cry aloud (with pain).”
When Strength the Goddess, made more strong for help by thee, waits upon Indra as the Sun attends the Dawn,
Then. he who with his might unflinching kills the gloom stirs up the dust aloft, with joy and triumphing.
If his divine might, strong through you [=poet], accompanies Indra to help (him), as the sun accompanies the dawn,
(then) he, who by his daring power repels the darkness, raises the dust aloft with a cry of hurrah!
Wenn die Göttin Starke von dir [o Soma?] gefördert dem Indra folgt wie die Sonne der Morgenröthe, so wirbelt er, der mit kühner Kraft die Finsterniss verjagt, sich heftig bewegend den Staub hoch empor.
Wenn die göttliche Kraft von dir gestärkt dem Indra zum Beistand folgt wie Surya der Morgenröte, so treibt er mit Hurrageschrei den Staub hoch empor, er der mit kühner Stärke die Finsternis verscheucht.
Если божественная сила, возросшая благодаря тебе, для поддержки,
Как Сурья за Ушас, следует за Индрой,
Который с отважной мощью прогоняет мрак,
Он высоко поднимает пыль, издавая боевой клич.
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ । स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥
वि । यत् । ति॒रः । ध॒रुण॑म् । अच्यु॑तम् । रजः॑ । अति॑स्थिपः । दि॒वः । आता॑सु । ब॒र्हणा॑ । स्वः॑ऽमीळ्हे । यत् । मदे॑ । इ॒न्द्र॒ । हर्ष्या॑ । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥
यत् यदा तिरः वृत्रेण तिरोहितं धरुणं सर्वस्य प्राणिजातस्य धारकम् अच्युतं विनाशरहितं रजः उदकं दिवः द्युलोकात् आतासु । आता इति दिङ्नाम । आतासु विस्तृतासु दिक्षु हे इन्द्र बर्हणा हन्ता त्वं वि अतिष्ठिपः विविधं स्थापयांचकृषे। तथा यत् यदा स्वर्मीळहे। मीळ्हम् इति धननाम। स्वः सुष्ठु गन्तव्यं मीळ्हं धनं यस्मिन् तस्मिन् संग्रामे मदे तव सोमपानेन हर्षे सति हर्ष्या हृष्टया शक्त्या वृत्रम् आवकमसुरम् अहन् त्वमवधीः । तदानीम् अपां पूर्णम् अर्णवं मेघं निः औब्जः वर्षणाभिमुखमधोमुखमकार्षीः । वृष्टेरावरकं वृत्रं हत्वा वृष्टिजलेन भूमिं न्यसैक्षीरिति तात्पर्यार्थः ॥ अतिष्ठिपः । तिष्ठतेः ण्यन्तात् लुङि च्लेः चङादेशः । णिलोपः । तिष्ठतेरित् ' ( पा. सू. ७. ४. ५) इति उपधाया इत्वम् । ‘चङि ' (पा. सू. ६. १. ११) इति द्विर्वचने 'शर्पूर्वाः खयः ' इति थकारः शिष्यते । चर्त्वेन तकारः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । बर्हणा । ‘ सुपां सुलुक् ' इति सोः आकारः । स्वर्मीळ्हे। मिह सेचने'। निष्ठा'। ‘हो ढः' (पा. सू. ८. २. ३१ ) इति ढत्वम् । झषस्तथोर्धोऽधः' इति तकारस्य धत्वम् । तस्य ष्टुत्वे ‘ढो ढे लोपः ' (पा. सू. ८. ३. १३ ) इति ढलोपः । ढ्रलोपे पूर्वस्य' (पा. सू. ६. ३. १११) इति दीर्घत्वम् । स्वरित्येतत् ‘न्यङ्स्वरौ स्वरितौ ' इति स्वर्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । अहन् । हन्तेर्लङि मध्यमैकवचने ‘हल्ङ्याब्भ्यः' इति सेर्लोपः। यद्वृत्तयोगादनिघातः । औब्जः । उब्ज आर्जवे'। लङि आडागमो वृद्धिश्च ॥
“. When you, destroying Indra, did distribute the (previously) hidden life-sustaining, undecaying waters through the different quarters of the heaven, then, animated (by Soma), you did engage in battle, and with exulting (prowess) slew Vṛtra, and did send down an ocean of waters.”
When thou with might, upon the framework of the heaven, didst fix, across, air's region firmly, unremoved,
In the light-winning war, Indra, in rapturous joy, thou smotest Vrtra dead and broughtest floods of rain.
When you spread out the immovable foundation [=earth], you
set the airy realm on the doorposts of heaven with your lofty
power.
When, o Indra, in (the contest) with the sun as its prize, ecstatic in your exhilaration with the excitement (of soma), you smashed Vr̥tra, (then) you forced out the flood of waters.
Als, Indra, du über den unerschütterten Grund der Erde hin den Luftraum mit Macht an dem Rahmen des Himmels befestigtest, als du voll Lust im Rausche Himmelsglanz errangest [wörtlich: im Kampfe um Himmelsglanz (warst)], da schlugst du den Vritra und liessest die Flut der Gewässer heraus.
Als du die Grundfeste ausdehntest, da hast du den unverrückten Luftraum zuversichtlich auf die Pfeiler des Himmels gestellt. Als du im Kampf um die Sonne im Rausche kampffreudig den Vritra erschlugst, o Indra, da ließest du die Flut der Gewässer heraus.
Когда ты растянул твердую основу – незыблемое пространство,
Ты установил (ее) на столпах неба – рывком.
Когда в борьбе за солнце в опьянении, в радостном возбуждении ты, о Индра, убил Вритру, ты выпустил поток вод.
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥
त्वम् । दि॒वः । ध॒रुण॑म् । धि॒षे॒ । ओज॑सा । पृ॒थि॒व्याः । इ॒न्द्र॒ । सद॑नेषु । माहि॑नः । त्वम् । सु॒तस्य॑ । मदे॑ । अ॒रि॒णाः॒ । अ॒पः । वि । वृ॒त्रस्य॑ । स॒मया॑ । पा॒ष्या॑ । अ॒रु॒जः॒ ॥
हे इन्द्र माहिनः प्रवृद्धः त्वं दिवः द्युलोकात् पृथिव्याः सदनेषु प्रदेशेषु ओजसा बलेन धरुणं सर्वस्य जगतो धारकं वृष्टिजलं धिषे दधिषे स्थापयसि । यस्मात् त्वं सुतस्य सोमस्य पानेन मदे हर्षे सति अपः जलानि अरिणाः मेघात् निरगमयः। वृत्रस्य आवरकं वृत्रं च समया धृष्टया पाष्या शिलया यद्वा शक्त्या वि अरुजः विशेषेणाभाङ्क्षीः ॥ धिषे । दधातेश्छान्दसो वर्तमाने लिट् । 'द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' (का. ६. १. ८.१) इति वचनात् द्विर्वचनाभावः। क्राद्रिनियमात् इडागमे ‘ आतो लोप इटि च ' इति आकारलोपः। माहिनः । ‘ महेरिनण् च ' (उ. सू. २. २१४) इति ‘मह पूजायाम्' इत्यस्मात् औणादिक इनण्प्रत्ययः । अत उपधायाः' इति वृद्धिः । अरिणाः। री गतिरेषणयोः । क्रैयादिकः । लङि सिपि • प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । समया । षम ष्टम अवैक्लव्ये '। समतीति समा । पचाद्यच् । चितः' इत्यन्तोदात्तत्वम् । पाष्या। ‘पिष्लृ संचूर्णने ' इत्यस्मात् औणादिक इन्प्रत्ययः । बहुलवचनात् उपधाया आकारः। ‘ कृदिकारादक्तिनः' (पा. सू. ४. १. ४५ ग.) इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । तृतीयैकवचने यणादेशे सति ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । अरुजः । ‘ रुजो भङ्गे'। तौदादिकः । शस्य ङित्त्वात् गुणाभावः ॥ ॥ २१ ॥
“You, mighty Indra, send down from the heaven by your power, upon the realms of earth, the (world) sustaining rain; exhilarated (by Soma), you have expelled the waters (from the clouds), and have crushed Vṛtra by a solid rock.”
Thou with thy might didst grasp, the holder-up of heaven, thou who art mighty also in the seats of earth.
Thou, gladdened by the juice, hast set the waters free, and broken Vrtra's stony fences through and through.
You set the foundation of heaven and of earth upon their seats with your power as the great one, o Indra.
You made the waters flow in the exhilaration of the pressed soma; you broke apart all at once the two jaws of Vr̥tra.
Du, Indra, setztest mit Kraft die Stütze des Himmels auf die Sitze der Erde, gewaltiger, du liessest im Rausche des Soma die Gewässer rinnen und zerbrachst des Vritra Bollwerke mitten hindurch.
Du, der Mächtige, setztest mit Kraft die Feste des Himmels und der Erde auf ihre Grundlagen, o Indra. Im Rausch des ausgepreßten Soma ließest du die Gewässer laufen. Du zerbrachst die Kinnladen des Vritra mittendurch.
Ты с силой укрепил твердую основу неба
(И) земли, о Индра, на (их) местах, (ты) великий.
Ты в опьянении выжатым (сомой) пустил течь воды.
Ты пробил насквозь челюсти (?) Вритры.