प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥
प्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ । अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥
मंहिष्ठाय । मंहतिर्दानकर्मेति यास्कः (निरु. १.७) । दातृतमाय बृहते गुणैर्महते बृहद्रये महाधनाय सत्यशुष्माय अवितथबलाय तवसे आकारतः प्रवृद्धाय एवंगुणविशिष्टायेन्द्राय मतिं मननीयां स्तुतिं प्र भरे प्रकर्षेण संपादयामि। यस्य इन्द्रस्य बलं दुर्धरम् अन्यैर्धर्तुमशक्यम् । तत्र दृष्टान्तः । प्रवणे निम्नप्रदेशे अपामिव । यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत् । तथा राधः धनं विश्वायु सर्वेषु व्याप्तं शवसे स्तोतॄणां बलाय येनेन्द्रेण अपावृतं अपगतावरणं क्रियते, तस्येन्द्रस्येति पूर्वेण संबन्धः ॥ मंहिष्ठाय । अतिशयेन मंहिता मंहिष्ठः। ‘तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु' इति तृलोपः । बृहते। बृहन्महतोरुपसंख्यानम् ' इति विभक्तेरुदात्तत्वम् । उत्तरयोर्बहुव्रीहिस्वरः । मतिम् । मन्त्रे वृष°' इत्यादिना क्तिन् उदात्तत्वम्। 'अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः। दुर्धरम् । ‘धृञ् धारणे'। 'ईषद्दुःसुषु' इति कर्मणि खल् । विश्वायु । विश्वस्मिन् सर्वस्मिन् आयु गमनं यस्य तत् विश्वायु । एतेः ‘छन्दसीणः' (उ. सू. १. २) इति उण्प्रत्ययः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । अपावृतम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“I offer especial praise to the most bountiful, the excellent, th eopulent, the verily powerful and stately Indra, whose irresistible impetuosity is like (the rush) of waters down a precipice, and by whom widely-diffused wealth is laid open (to his worshippers) to sustain (their) strength.”
To him most liberal, lofty Lord of lofty wealth, verily powerful and strong, I bring my hymn,--
Whose checkless bounty, as of waters down a slope, is spread abroad for all that live, to give them strength.
For the most bounteous one, the lofty one bringing lofty wealth, for the mighty one of real unbridled force I bring forth my thought—
for him whose generosity is difficult to restrain as if in a torrent of
waters, lifelong generosity opened up to his power.
Dem grossen, besten Spender, der an Schätzen reich, dem wahrhaft kräft'gen starken trag' ein Lied ich vor, Ihm, dessen Gabe wie der Wasser jäher Sturz unhemmbar, allbelebend sich der Kraft erschliesst.
Dem freigebigsten hohen Indra von hohem Reichtum und echtem Mute, dem starken trage ich ein Gedicht vor, dessen Freigebigkeit unaufhaltsam wie der Strom der Gewässer im Gefäll und allezeit geöffnet ist um seine Macht zu offenbaren.
Я приношу молитву самому щедрому высокому (Индре),
С высоким богатством, с истинным пылом, сильному,
Чью щедрость трудно сдержать, словно в стремнине вод,
(Щедрость) открытую весь век, чтобы (показать) силу.
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्र॒: श्नथि॑ता हिर॒ण्यय॑: ॥
अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः । यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥
अध ह अनन्तरमेव हे इन्द्र विश्वं सर्वमिदं जगत् ते तव संबन्धिने इष्टये यागाय अनु असत् अन्वभवत् । यद्वा । इष्टये हविरादिभिस्तव प्राप्तये इति योज्यम्। हविष्मतः यजमानस्य सवना सवनानि यज्ञजातानि निम्नेव निम्नानि भूस्थलानि आपः इव त्वां संभजन्ते इति शेषः । हर्यतः शत्रुवधं प्रेप्सतः इन्द्रस्य । हर्यतिः प्रेप्साकर्मा ' (निरु. ७. १७) इति यास्कः । यद्वा । हर्यतः शोभनः । हिरण्ययः हिरण्मयः श्नथिता शत्रूणां हिंसनशीलः वज्रः पर्वते पर्ववति शिलोच्चये वृत्रे वा यत् यदा न समशीत संसुप्तो नाभवत् । किंतु जागरितः सन्नवधीदित्यर्थः । यदेन्द्रेण प्रेरितो वज्रः अप्रतिहतः सन् वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः ॥ अध । छान्दसं धस्वम् । असत् । अस्तेर्लङि ' बहुलं छन्दसि ' इति शपो लुगभावः । इष्टये। यजतेर्भावे क्तिनि 'व्रचिस्वपि 'इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम्। व्यत्ययेनान्तोदात्तत्वम् । यद्वा । इष गतौ इत्यस्मात् भावे क्तिनि ' मन्त्रे वृषेष ' इति तस्योदात्तत्वम् । निम्नेव सवना। ‘ शेश्छन्दसि । इति शेर्लोपः । समशीत । ‘शीङ् स्वप्ने' । लङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘शीङः सार्वधातुके° '(पा. सू. ७, ४, २१) इति गुणाभावः । हर्यतः । हर्य गतिकान्त्योः । भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । श्नथिता । श्नथ क्नथ क्रथ हिंसार्थाः । ताच्छीलिकः तृन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“All the world, Indra, was intent upon your worship; the oblations of the sacrificer (flowed) like water (falling) to a depth); for the fatal golden thunderbolt of Indra, when hurling it (against the foe), did not sleep upon the mountain.”
Now all this world, for worship, shall come after thee--the offerer's libations like floods to the depth,
When the well-loved one seems to rest upon the hill, the thunderbolt of Indra, shatterer wrought of gold.
Then will everything be at hand for you to seek it: the soma-pressings of the man who offers oblation (flow) like waters to the depths,
when the gladdening golden mace of Indra has been whetted, as if on a mountain, to be the piercer.
Es muss ja alles deinem Antrieb eilen nach, wie in das Thal Gewässer, wie des Opfrers Trank, Wenn an dem Fels geschärft ist Indra's Donnerkeil, der glänzend schöne, goldene Zerschmetterer.
Dann soll alles für dich bereitet sein, daß du gern kommest; die Somaspenden des Opferbringenden rinnen wie Wasser in die Tiefe, wenn wie aus Fels die geliebte Keule des Indra gewetzt ward, die immer treffende, goldene.
Итак, пусть все будет готово для жертвоприношения тебе!
Словно воды, (текут) низиной, выжатые соки (сомы) у совершающего возлияние,
Когда словно (нож) о камень, была отточена желанная
Ваджра Индры, пронзающая, золотая.
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे । यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥
अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे । यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥
हे उषः उषोदेवते शुभ्रे शोभने त्वं भीमाय शत्रूणां भयंकराय पनीयसे अतिशयेन स्तोतव्याय अस्मै इन्द्राय अध्वरे हिंसारहितेऽस्मिन्यागे । न इति संप्रत्यर्थे । तथा च यास्कः - ‘ अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि ' (निरु. ७. ३१) इति । संप्रतीदानीं नमसा नमो हविर्लक्षणमन्नं सम् आ भर सम्यक् संपादय । धाम सर्वस्य धारकं नाम स्तोतृषु नमनशीलं प्रसिद्धं वा इन्द्रियम् इन्द्रत्वस्य परमैश्वर्यस्य लिङ्गं यस्य इन्द्रस्य एवंविधं ज्योतिः श्रवसे अन्नाय हविर्लक्षणान्नलाभार्थम् अयसे इतस्ततो गमनाय अकारि क्रियते । हरितो न । यथाश्वान्सादिनः स्वाभिलषितदेशं गमयन्ति तद्वदिन्द्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः ॥ उषः । पादादित्वात् निघाताभावः । शुभ्रे । 'शुभ दीप्तौ'। स्फायितञ्चि° ' इत्यादिना रक् । भर ।' हृग्रहोर्भः' इति भत्वम् ।' द्व्यचोऽतस्तिङः' इति दीर्घः । पनीयसे । पनतेः स्तुत्यर्थात् बहुलवचनात् कर्मणि असुन् । तस्मात् आतिशायनिके ईयसुनि ‘टे: ' इति टिलोपः । अकारि । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने कर्मणि लुङ् । यद्वृत्तयोगादनिघातः । अडागम उदात्तः । अयसे ।' अय गतौ' इत्यस्मात् भावे असुन् ॥
“Beautiful Uṣas, now present the oblation in this rite to the formidable, praise-deserving Indra, whose all-sustaining, celebrated, and characteristic radiance has impelled him hither and thither, (in quest) of (sacrificial) food, as (a charioteer drives) his horses (in various directions).”
To him the terrible, most meet for lofty praise, like bright Dawn, now bring gifts with reverence in this rite,
Whose being, for renown, yea, Indra-power and light, have been created, like bay steeds, to move with speed.
For him the fearsome, much to be admired, assemble with homage (everything) here at the rite, o (you,) lovely like Dawn—
(for him) whose Indrian name has been made a light, a foundation for fame, like tawny mares for coursing.
Dem hehren huld'ge bei dem Feste demuthsvoll, dem preisenswerthen, wie das lichte Morgenroth; Als dessen Indraschöpfung ja zu seinem Ruhm das Licht entstand, zu schreiten goldnen Stuten gleich.
Für diesen Furchtbaren, Hochgeschätzten bring du, schmuck wie Usas, unter Verneigung alles zum Opfer zusammen, des Art zum Ruhm, des indrischer Name als Leuchte geschaffen ist wie die falben Stuten zum Laufen!
Этому страшному с поклонением принеси (все,) что нужно
Для обряда, нарядная, как Ушас, (ему,) очень удивительному,
Чья природа – для славы, (а) имя Индры создано
Как свет, подобно тому как буланые кобылицы – для бега.
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒: सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वच॑: ॥
इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥
हे इन्द्र प्रभूवसो प्रभूतधन अत एव पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत ये च वयं त्वा त्वाम् आरभ्य आश्रयतयावलम्ब्य चरामसि चरामो यागे वर्तामहे ते इमे वयं ते तव स्वभूताः। हे गिर्वणः गीर्भिर्वननीयेन्द्र त्वदन्यः त्वत्तोऽन्यः कश्चिदपि गिरः स्तुतीः नहि सघत् न हि प्राप्नोति । अतस्त्वं नः अस्माकं तत् स्तुतिलक्षणं वचः प्रति हर्य कामयस्व । क्षोणीरिव । यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते ॥ चरामसि । इदन्तो मसिः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । सघत् । 'षघ हिंसायाम् । अत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात् । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्। पादादित्वात् निघाताभावः । क्षोणीरिव । हल्ङ्याब्भ्यः' इति सुलोपाभावश्छान्दसः ॥
“Much-lauded and most opulent Indra, we are thy, who, relying (on your favour), approach you; accepter of praise, no other than you receie our commendations; be plural ased (with our address), as the earth (cherishes) her creatures.”
Thine, Indra, praised by many, excellently rich! are we who trusting in thy help draw near to thee.
Lover of praise, none else but thou receives our laud: as earth loves all her creatures, love thou this our hymn.
Here we are—those of yours, o much-praised Indra, who carry on, having seized hold of you, o you providing outstanding goods,
for none other than you bears up to our songs, o you who long for songs. Gladly receive this speech of ours like war-cries.
Dein sind wir, vielgerufner Indra, die wir hier an dich uns haltend wandern, güterreicher du; Denn du allein, liedholder, fassest auf das Lied, nimm freundlich auf, wie Fluten, dieses unser Wort.
Wir sind die Deinen, du vielbesungener Indra, die wir uns an dich zu halten pflegen, du Schatzreicher, denn kein anderer als du kann all die Lobreden vertragen, du Lobbegehrender. Nimm dies Wort von uns an wie deine Gefolgschaft!
Мы ведь твои, о Индра многославный,
(Те,) что бродят, ухватившись за тебя, о обладатель больших благ!
Ведь никто иной, кроме тебя, не может справиться со (всеми) хвалебными песнями, о любитель песен!
Прими эту нашу речь, как люди.
भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण । अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥
भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घऽव॒न् । काम॑म् । आ । पृ॒ण॒ । अनु॑ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज॑से ॥
हे इन्द्र ते तव वीर्यं सामर्थ्यं भूरि बहु । न केनाप्यवच्छेत्तुं शक्यते । तादृशस्य तव वयं स्मसि स्वभूता भवामः । हे मघवन् अस्य स्तोतुः त्वां स्तुवतो यजमानस्य कामम् अभिलाषम् आ पृण आपूरय । बृहती द्यौः महान् द्युलोकोऽपि ते तव वीर्यम् अनु ममे अन्वमंस्त । इन्द्रेण सहावस्थानात् इयं च इयमपि पृथिवी ते तव ओजसे बलाय नेमे प्रह्वीबभूव । त्वद्बलाद्भीता सती अध एव वर्तते इति भावः ॥ स्मसि। अस भुवि । लटि ‘असोरल्लोपः' इति अकारलोपः । इदन्तो मसिः । पृण । ‘ पृण प्रीणने ' । अत्र प्रीतिहेतुतया पूरणं लक्ष्यते । तुदादित्वात् शप्रत्ययः । तस्य ङित्त्वाद्गुणाभावः । ममे । 'माङ् माने शब्दे च'। ङित्त्वात् आत्मनेपदम् । लिटि ‘ आतो लोप इटि च ' इति आकारलोपः । नेमे । ' णमु प्रह्वत्वे '। लिटि ‘अत एकहल्मध्ये ' इति एत्वाभ्यासलोपौ । तिङ्ङतिङः' इति निघातः ॥
“Great is your prowess, Indra; we are yours; satisfy Maghavan, the desires of this your worshipper, the vast heaven has acknowledged your might; this earth has been bowed down through your vigour.”
Great is thy power, O Indra, we are thine. Fulfil, O Maghavan, the wish of this thy worshipper.
After thee lofty heaven hath measured out its strength: to thee and to thy power this earth hath bowed itself.
Abundant is your heroism, o Indra. We are yours: fulfill the desire of this singer, o bounteous one.
Lofty heaven measures itself against your heroism, and this earth bends to your power.
Dein Heldenwerk ist gross, und dein sind wir, erfülle, starker Indra, dieses Sängers Wunsch; Der grosse Himmel ist das Abbild deiner Macht, und diese Erde beuget deiner Stärke sich.
Groß ist deine Heldenkraft, o Indra; dein sind wir, erfülle dieses Sängers Wunsch, du Gabenreicher! Der hohe Himmel traute dir die Heldenstärke zu, und diese Erde hat sich deiner Kraft gebeugt.
Велико твое мужество, о Индра. Мы – твои.
Исполни желание этого восхвалителя, о щедрый!
Высокое небо уступает тебе в мужестве,
И земля склонилась перед твоей силой.
त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ । अवा॑सृजो॒ निवृ॑ता॒: सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सह॑: ॥
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ । अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥
हे वज्रिन् वज्रवन् इन्द्र त्वं तं प्रसिद्धं महाम् आयामतो महान्तम् उरुं विस्तीर्णं पर्वत पर्ववन्तं मेघं वृत्रासुरं वा वज्रेण आयुधेन पर्वशः पर्वणि पर्वणि चकर्तिथ शकलीचकृषे । तेन मेघेन निवृताः आवृताः अपः सर्तवै सरणाय गमनाय अवासृजः अवाङ्मुखमस्राक्षीः । अतस्त्वमेव केवलं विश्वं व्याप्तं सहः बलं दधिषे धारयसि नान्यः कश्चिदिति यदेतत् तत् सत्रा सत्यमेव । सत्रा इति सत्यनाम, सत्रा इत्था ' ( नि. ३. १०. ३) इति तन्नामसु पाठात् ॥ महां महान्तम् । नकारतकारयोर्लोपन्छान्दसः । चकर्तिथ। ‘ कृती छेदने '। लिटि थलि अभ्यासस्य उरदत्वहलादिशेषचुत्वानि । सर्तवै ।' कृत्यार्थे तवैकेन्” ' इति भावे तवैप्रत्ययः । कृन्मेजन्तः' (पा. सू. १. १. ३९ ) इति अव्ययत्वे ' अव्ययादाप्सुपः' इति सुपो लुक् । 'अन्तश्च तवै युगपत् ' इति आद्यन्तयोर्युगपत् उदात्तत्वम् । दधिषे । लिटि क्रादिनियमात् इट् ॥ ॥ २२ ॥ ॥ १० ॥
“You, thunderer, have shattered with your bolt the broad and massive cloud into fragments, and have sent down the waters that were confined in it, to flow (at will); verily you alone possess all power.”
Thou, who hast thunder for thy weapon, with thy bolt hast shattered into pieces this broad massive cloud.
Thou hast sent down the obstructed floods that they may flow: thou hast, thine own for ever, all victorious might.
You, Indra, cut that great, wide mountain apart joint by joint with your mace, o mace-wielder.
You released the confined waters to flow. You acquired all strength
exclusively and entirely.174 I.58
The next seven hymns (I.58–64) are attributed to Nodhas Gautama. His Indra hymns (I.61–63) are especially notable for their verbal agility.
Du hast, o Indra, diesen grossen, weiten Berg stückweis' zerspalten, Blitzesträger, mit dem Blitz; Die eingesperrten Wasser liessest strömen du, nahmst an allein die Kräfte alle insgesammt.
Du, Indra, hast jenen breiten Berg mit der Keule in Stücke gespalten, o Keulenträger. Du ließest die eingesperrten Gewässer frei zum Laufen. Alle Gewalt hast du vollständig im alleinigen Besitz.
Ты, о Индра, эту гору, великую, широкую,
Дубиной грома, о громовержец, расколол на куски.
Ты выпустил для бега скованные воды,
Один, ты несешь всю силу, собранную воедино.