नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः । वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्दते॑ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः । वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥
सहोजाः सहसा बलेन जातः । अग्निर्हि बलेन मथ्यमानोऽरण्योः सकाशात् जायते । अमृतः मरणरहितः । एवंभूतोऽग्निः नू चित् क्षिप्रमेव नि तुन्दते नितरां व्यथयति । उत्पन्नमात्रस्याग्नेः स्प्रष्टुमशक्यत्वात् । यद्वा निर्गच्छति । तुन्दतिर्गत्यर्थः सौत्रो धातुः । यत् यदा होता देवानामाह्वाता होमनिष्पादको वायमग्निः विवस्वतः परिचरतो यजमानस्य देवान्प्रति हविर्वहनाय दूतः अभवत् हविर्वहने नियुक्तो भवति तदानीं साधिष्ठेभिः समीचीनैः पथिभिः मागैर्गन्छन् रजः अन्तरिक्षलोकं वि ममे निर्ममे । पूर्वं विद्यमानमप्यन्तरिक्षम् असत्कल्पमभूत्। इदानीं तस्य तेजसा प्रकाशमानं सत् उत्पन्नमिव दृश्यते । किंच । देवताता इति यज्ञनाम । देवताता देवतातौ यज्ञे हविषा चरुपुरोडाशादिलक्षणेन देवान् आ विवासति परिचरति ॥ अमृतः । मृतं मरणमस्य नास्तीति बहुव्रीहौ ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । तुन्दते। तुद व्यथने' । स्वरितेत्त्वात् आत्मनेपदम् । नकारोपजनश्छान्दसः । साधिष्ठेभिः । बाढशब्दात् आतिशायनिके इष्टनि अन्तिकबाढयोर्नेदसाधौ । ( पा. सू. ५. ३. ६३ ) इति साधादेशः । ‘ बहुलं छन्दसि ' इति भिसः ऐसभावः । नित्त्वादाद्युदात्तत्वम् । देवताता। ‘ सर्वदेवात्तातिल्' (पा. सू. ४. ४. १४२) इति स्वार्थिकः तातिल्प्रत्ययः । तेन च तत्संबन्धी यज्ञो लक्ष्यते । यद्वा । देवान्हविषा आ विवासति इति योज्यम् । ‘सुपां सुलक्° ' इति विभक्तेः डादेशः । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् ॥
“The strength-genitive rated, immortal Agni quickly issues forth, when he is the invoker of the gods, and the messenger (of the worshipper) (then proceeding) by suitable paths, he has made the firmament, and worships (the deities) in the sacrifice with oblationṣ ”
NE'ER waxeth faint the Immortal, Son of Strength, since he, the Herald, hath become Vivasvan's messenger.
On paths most excellent he measured out mid-air: he with oblation calls to service of the Gods.
Seizing his own food the undecaying, greedy (Agni) stands on the brushwood wishing to drink. When he has been sprinkled (with ghee), he shines like a racer with his back 1. Thundering he has roared like the ridge of heaven.
Never is the immortal one, born of strength, forced down. When he became Hotar, messenger of Vivasvant,
he measured across the airy realm along the paths that lead straightest to the goal. In service to the gods he entices them here with the
oblation.
Stets dringt der kraftgeborne ein, der nimmer stirbt, weil des Vivasvat Priester er und Bote ward; Die Luft durchmisst auf ganz geraden Pfaden er, und ladet ein zum Götterfest durch Opferguss.
Niemals wird der kraftgeborene Unsterbliche angestachelt, seitdem er der Hotri und Bote des Vivasvat wurde. Auf den richtigsten Wegen hat er den Raum durchschritten; er bittet die Götter durch die Opferspende zum Gottesdienst her.
Разве можно погонять когда-нибудь рожденного силой, бессмертного,
Если он стал хотаром, вестником Вивасвата?
Он измерил пространство самыми доходчивыми путями.
При (своей) божественной службе он стремится завоевать (богов) с помощью жертвенного возлияния.
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति । अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ । अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥
अजरः जरारहितोऽयमग्निः स्वं स्वकीयम् अद्म अदनीयं तृणगुल्मादिकं युवमानः स्वकीयज्वालया संमिश्रयन् तदनन्तरं च अविष्यन् भक्षयंश्च । अविष्यन् इत्येतत् अत्तिकर्मसु पठितम् (नि. २. ८. ६)। एवंभूतोऽग्निः तृषु क्षिप्रमेव अतसेषु प्रभूतेषु काष्ठेषु आ तिष्ठति आरोहति। अत्र अतसशब्दः काष्ठवाची, ' अतसं न शुष्कम् ' (ऋ. सं. ४. ४. ४) इति दर्शनात् । प्रुषितस्य दग्धुमितस्ततः प्रवृत्तस्याग्नेः पृष्ठम् उपर्यवस्थितं ज्वालाजालम् अत्यो न रोचते । यथा सततगमनशीलः अश्वः इतस्ततो गच्छन् शोभते एवमग्नेर्ज्वालापि सर्वत्र गच्छन्ती शोभते इति भावः। तदानीं दिवः द्युलोकस्य संबन्धि सानु समुच्छ्रितमभ्रं स्तनयन् न शब्दयन्निव अचिक्रदत् गम्भीरं शब्दम् आत्मानमचीकरत् ॥ युवमानः। ‘ यु मिश्रणे'। व्यत्ययेन आत्मनेपदम् । शपि प्राप्ते व्यत्ययेन शः। तस्य ‘बहुलं छन्दसि' इति लुगभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वर एव शिष्यते। अजरः । बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । अचिक्रदत् । कदि क्रदि क्लदि आह्वाने रोदने च । अस्मात् ण्यन्तात् लुङि चङि आगमानुशासनस्यानित्यत्वात् नुमभावः। द्विर्भावहलादिशेषसन्वद्भावेत्वानि ॥
“Undecaying Agni, combining his food (with his flame), and devouring it quickly, ascends the dry wood; the blaze of theconsuming (element) spreads like a (fleet) courser, and roars like a roaring (cloud) in the height of heaven.”
Never decaying, seizing his appropriate food, rapidly, eagerly through the dry wood he spreads.
His back, as he is sprinkled, glistens like a horse: loud hath he roared and shouted like the heights of heaven?
The unaging one, drawing his own food toward him, thirstily eager to eat, keeps to the thickets.
His back when he is sprinkled shines like a steed; thundering like the spine of heaven, he has roared.
Der ewig junge, an sich reissend seinen Frass, geht voll Begierde, lüstern zu den Hölzern hin, Es glänzt der Rücken des benetzten wie ein Ross, und wie des Himmels Gipfel schrie er donnernd auf.
Seine eigene Speise hält der Alterlose fest; in den Sträuchern steht er auf, gierig nach Nahrung verlangend. Wie eines Hengstes erglänzt sein Rücken, wenn er mit Schmalz betropft wird. Donnernd wie des Himmels Wölbung hat er sein Gebrüll erhoben.
Притягивающий к себе пищу, нестареющий,
Жадно требующий поддержки, он поднимается в кустах.
Как у скакуна, сверкает (у него) спина, когда его кропят (топленым маслом).
Он взревел, грохоча, как вершина неба.
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः । रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
क्रो॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः । रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥
क्राणा हविर्वहनं कुर्वाणः रुद्रेभिः रुद्रैः वसुभिः च पुरोहितः पुरस्कृतः होता देवानामाह्वाता निषत्तः हविःस्वीकरणीय देवयजने निषण्णः रयिषाट् रयीणां शत्रुधनानामभिभविता अमर्त्यः मरणरहितः । एवंभूतः देवः द्योतमानोऽग्निः विक्षु प्रजासु लौकिकजनेषु रथो न रथ इव आयुषु यजमानलक्षणेषु मनुष्येषु ऋञ्जसानः स्तूयमानः वार्या वार्याणि संभजनीयानि धनानि आनुषक् आनुषक्तं यथा भवति तथा वि ऋण्वति विशेषेण प्रापयति । यद्वा । वार्याणि वरणीयानि हवींषि स्वयं प्राप्नोति ॥ क्राणा । करोतेः शानचि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । शानचो ङित्त्वात् गुणाभावे यणादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । ‘ सुपां सुलक्° ' इति सोः पूर्वसवर्णदीर्घत्वम् । निषत्तः । ‘षद्लृ विशरणगत्यवसादनेषु'। अस्मात् कर्मणि निष्ठा। ‘नसत्तनिषत्त' (पा. सू. ८. २. ६१ ) इत्यादिना निष्ठानत्वाभावो निपातितः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । रयिषाट् ।' षह अभिभवे । छन्दसि सहः ' ( पा. सू. ३. २. ६३ ) इति ण्विः । ‘ सहेः साडः सः ' ( पा. सू. ८. ३. ५६ ) इति षत्वम् । ऋञ्जसानः । ऋञ्जतिः स्तुतिकर्मा । ‘ असानच् ' इत्यनुवृत्तौ ऋञ्जिवृधिमन्दिसहिभ्यः कित् ' ( उ. सू. २. २४४ ) इति कर्मणि असानच्प्रत्ययः । ‘ चितः 'इत्यन्तोदात्तत्वम् । आयुषु । आयवः इति मनुष्यनाम (नि. २. ३. १७)। ‘ इण् गतौ। इत्यस्मात् छन्दसीणः' इति उण्प्रत्ययः । वृद्ध्यायादेशौ । वार्या । ‘ वृङ् संभक्तौ । • ऋहलोर्ण्यत् । तित्स्वरिते प्राप्ते ‘ ईडवन्दवृशंसदुहां ण्यतः' इत्याद्युदात्तत्वम् । ‘ शेश्छन्दसि° ' इति शेर्लोपः । ऋण्वति । ‘ रिवि गतौ । व्यत्ययेन संप्रसारणम् । इदित्त्वात् नुम् । कर्तरि शप् ॥ ।
“The immortal, and resplendent Agni, the bearer of oblations, honoured by the Rudras and the Vasus the invoker of the gods, who presides over oblations and is the distributor of riches, praised by his worshippers, and admired like a chariot amongst mankind, accepts the oblations that are successively presented.”
Set high in place o'er all that Vasus, Rudras do, immortal, Lord of riches, seated as High Priest;
Hastening like a car to men, to those who live, the God without delay gives boons to be desired.
As soon as 1 the Rudras, the Vasus have made him their Purohita, the immortal sitting down as Hotri, the conqueror of wealth, pressing forward like a chariot among the clans, among the Âyus 2, the god in due course discloses desirable boons.
He was placed in front successfully by the Rudras and the Vasus, set down as Hotar, the immortal who conquers wealth,
like a chariot steering straight among the clans descended from Āyu. The god discloses valuables in due order.
Mit Rudra's, Vasu's wirkt als Hauses Opfrer er, als ew'ger Priester, Schatz gewinnend, sitzet er, Zu Häusern, Menschen wie ein Wagen eilt er hin, der Gott erschliesset schönes Gut der Reihe nach.
Im Zusammenwirken von den Rudra´s, den Vasu´s bevollmächtigt und als Hotri eingesetzt, der an Reichtum überlegene Unsterbliche, hat er wie ein Wagen unter den Ayuclanen den Vorrang. Der Gott teilt wünschenswerte Gaben nach der Ordnung aus.
Действующий вместе с Рудрами и Васу, поставленный во главе (обряда),
Определенный как хотар, захватывающий богатства, бессмертный,
Рвясь вперед, как колесница, среди племен Аю,
Бог раздает по очереди лучшие богатства.
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभि॒: सृण्या॑ तुवि॒ष्वणि॑: । तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
वि । वात॑ऽजूतः । अ॒त॒सेषु॑ । ति॒ष्ठ॒ते॒ । वृथा॑ । जु॒हूभिः॑ । सृण्या॑ । तु॒वि॒ऽस्वणिः॑ । तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः॑ । वृ॒ष॒ऽयसे॑ । कृ॒ष्णम् । ते॒ । एम॑ । रुश॑त्ऽऊर्मे । अ॒ज॒र॒ ॥
वातजूतः वायुना प्रेरितः तुविष्वणिः महास्वनः एवंभूतोऽग्निः जुहूभिः स्वकीयाभिः जिह्वाभिः सृण्या सरणशीलेन तेजःसमूहेन च युक्तः सन् । वृथा इति अनायासवचनः । वृथा अनायासेनैव अतसेषु उन्नतेषु वृक्षेषु वि तिष्ठते विशेषेण तिष्ठति । हे अग्ने यत् यदा वनिनः वनसंबन्धान वृक्षान् दग्धुं वृषायसे वृषवदाचरसि दहसीत्यर्थः । हे रुशद्-ऊर्मे दीप्तज्वाल अजर जरारहिताग्ने ते तव एम गमनमार्गः कृष्णं कृष्णवर्णो भवति ॥ वातजूतः । जू इति सौत्रो धातुः । वातेन जूतो वातजूतः। तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । वि तिष्ठते । समवप्रविभ्यः स्थः इत्यात्मनेपदम् । जुहूभिः । 'हु दानादनयोः' । हूयते' आस्विति जुह्वः । हुवः श्लुवच्च' (उ. सू. २. २१८ ) इति क्विप्, चकारात् दीर्घः । श्लुवद्भावात् द्विर्भावादि। ‘ धातोः' इत्यन्तोदात्तत्वम् । सृण्या। ‘ सृ गतौ । सरतीति सृणिः । ‘ सृवृषिभ्यां कित्' (उ. सू. ४. ४८९ ) इति निप्रत्ययः ॥ एम । एत्यनेनेति एम मार्गः । ‘ इण् गतौ ' इत्यस्मात् करणे औणादिको मनिन् । नित्त्वादाद्युदात्तत्वम् ॥
“Excited by the wind, and roaring loudly, Agni penetrates easily with his flames and diffusive (intensity) among the timber; when, undecaying and fiercely-blazing Agni, you rush rapidly like a bull amongst the forest trees, your path is blackened.”
Urged by the wind be spreads through dry wood as he lists, armed with his tongues for sickles, with a mighty roar.
Black is thy path, Agni, changeless, with glittering waves! when like a bull thou rushest eager to the trees.
Stirred by the wind he spreads among the brushwood lightly, 1 (driven forward) by the sacrificial ladles, with his sickle 2, loudly roaring. When thou, O Agni, thirstily rushest on the wooden sticks like a bull 3, thy course, O never-aging god with fiery waves, becomes black 4.
Sped by the wind, he spreads himself out among the thickets at will, with his tongues as sickle, powerfully noisy.
When, Agni, thirstily you rush like a bull upon the woods, black is your course, o unaging one with gleaming waves.
Vom Wind getrieben eilt er rings zu dem Gestrüpp, mit Zungen rauschend, mit der Sichel voller Lust, Wenn gierig, Agni, wie ein Stier zum Holz du dringst, ist schwarz dein Weg, hellwogender, unsterblicher!
Vom Winde getrieben breitet er sich nach Lust in den Sträuchern mit seinen sichelförmigen Zungen aus, laut brausend. Wenn du, Agni, auf die Bäume dich gierig wie ein Bulle stürzest, so ist dein Weg schwarz, du Hellwogender, Alterloser.
Подгоняемый ветром, он весело расходится по кустам
С языками (пламени, как) с серпом, сильно шумящий.
Когда, о Агни, ты жадно кидаешься, как бык, на деревья,
Черен твой путь, о ты, со сверкающей волной (пламени), о нестареющий.
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः । अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रज॑: स्था॒तुश्च॒रथं॑ भयते पत॒त्रिण॑: ॥
तपुः॑ऽजम्भः । वने॑ । आ । वात॑ऽचोदितः । यू॒थे । न । सा॒ह्वान् । अव॑ । वा॒ति॒ । वंस॑गः । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाज॑सा । रजः॑ । स्था॒तुः । च॒रथ॑म् । भ॒य॒ते॒ । प॒त॒त्रिणः॑ ॥
तपुर्जम्भः । तपूंषि ज्वाला एव जम्भा आयुधानि मुखानि वा यस्य स तथोक्तः । वातचोदितः वायुना प्रेरितः । एवंभूतोऽग्निः यूथे ज्वालासमूहे सति अक्षितम् अक्षीणं रजः आर्द्रवृक्षान्तर्गतमुदकं पाजसा तेजोवलेन अभिव्रजन् आभिमुख्येन गच्छन् वने अरण्ये साह्वान् सर्वमभिभवन् आ आभिमुख्येन अव वाति व्याप्नोति । तत्र दृष्टान्तः । वंसगः न । यथा वननीयगतिः वृषः
गोयूथे सर्वमभिभवन् वर्तते तद्वत् । यस्मादेवं तस्मात् पतत्रिणः पतनवतोऽग्नेः सकाशात् स्थातुः स्थावरं चरथं च जङ्गमं च भयते बिभेति ॥ साह्वान् । दाश्वान्साह्वान् ' इति क्वसुप्रत्ययान्तो निपातितः । ‘ दीर्घादटि समानपादे ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । यत्वलोपौ । ह्रस्वत्वं छान्दसम् । स्थातुः । ‘ कमिमनिजनि°' (उ, सू. १.७२) इत्यादिना विहितः तुप्रत्ययो बहुलवचनात् तिष्ठतेरपि भवति । यद्वा । स्थातुरनन्तरं चरथं भयते । प्रथमं स्थातृ स्थावरं बिभेति पश्चाच्चरथमित्यर्थः । चरथम् । चर गत्यर्थः । अस्मात् औणादिकः अथ प्रत्ययः । भयते । “ ञिभी भये ' । व्यत्ययेनात्मनेपदम् । ‘बहुलं छन्दसि' इति श्लोरभावः । गुणावादेशौ ॥ ॥ २३ ॥
“The flame-weaponed and breeze-excited Agni, assailing the unexhaled moisture (of the trees), with all his strength, in a volume of fire, rushes triumphant (against all things) in the forest, like a bull, and all, whether stationary or moveable, are afraid of him as he flies along.”
With teeth of flame, wind-driven, through the wood he speeds, triumphant like a bull among the herd of cows,
With bright strength roaming to the everlasting air: things fixed, things moving quake before him as he flies.
He who has fiery jaws, stirred by the wind, blazes down on the forest 1 as a strong bull (rushes) on the herd. When he proceeds 2 with his stream of light to the imperishable atmosphere, then what is moveable and immoveable (and) the winged (birds) are afraid.
With scorching fangs, spurred by the wind he gusts down upon the wood, like a victorious buffalo upon the herd, advancing upon the imperishable airy realm in his full dimension. The still and the moving fear, and also the winged ones.
Mit Flammenzähnen windgetrieben schnauft er hin zum Holz wie zu der Heerde der gewalt'ge Stier, Mit seinem Licht hinwandernd zu dem ew'gen Raum; vor dem beschwingten bebet, was da geht und steht.
Glutzahnig, im Gehölz vom Wind angefacht schnauft er wie ein siegreicher Stier in der Herde, indem er mit seiner Lichtgestalt in den endlosen Raum andringt. Es fürchtet sich, was steht und geht, auch die Vögel.
Пламеннозубый, поднятый ветром в лесу,
Он разносится ветром, как мчится победоносный бык в стаде,
Вторгаясь всей своей массой в нерушимое пространство.
Что неподвижно, что движется – (все) боится (его, даже) птицы.
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः । होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
द॒धुः । त्वा॒ । भृग॑वः । मानु॑षे॒षु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः । होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥
हे अग्ने त्वा त्वां मानुषेषु मनुष्येषु मध्ये भृगवः एतत्संज्ञा महर्षयः दिव्याय जन्मने देवत्वप्राप्तये चारुं रयिं न शोभनं धनमिव आ दधुः आधानसंभारेषु मन्त्रैः स्थापनेन समस्कुर्वन् । कीदृशं त्वाम् । जनेभ्यः सुहवं यजमानार्थमाह्वातुं सुशकं होतारं देवानामाह्वातारं अतिथिम् अतिथिवत्पूज्यम् । यद्वा । देवयजनदेशेषु सततं गन्तारम् । वरेण्यं वरणीयं मित्रं न शेवम् । यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ॥ दधुः । लिटि उसि ‘ आतो लोप इटि च' इति आकारलोपः । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ' इति विसर्जनीयस्य षत्वम् । सुहवम् । ह्वयतेः 'ईषद्दुसुषु ' इति खल् । “ बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । ‘लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“The Bhṛgus amongst men, for the sake of a divine birth, cherished you like a precious treasure Agni, who sacrifices for men, who are the invoker (of the gods), the (welcome) guest at sacrifices, and who are to be valued like an affectionate friend.”
The Bhrgus established thee among mankind for men, like as a treasure, beauteous, easy to invoke;
Thee, Agni, as a herald and choice-worthy guest, as an auspicious Friend to the Celestial Race.
The Bhrigus have placed thee among men, who art beautiful like a treasure, who art easy to invoke for people; thee the Hotri, O Agni, the excellent guest, a delightful friend like Mitra to the divine race!
The Bhr̥gus installed you among the sons of Manu, dear like wealth, easy to invoke for the peoples,
as Hotar, o Agni, a guest worthy to be chosen, favorable like an ally to the divine race.
Die Bhrigu's haben zu den Menschen dich gebracht, wie schönes Gut, leicht anzurufen jedem Mann, Als Priester, Agni, und als wünschenswerthen Gast, als holden Freund dich für das himmlische Geschlecht.
Dich brachten die Bhrigu´s zu den Menschen, der teuer wie ein Schatz, für die Völker leicht zu errufen ist, als Hotri, o Agni, als auserwählten Gast, wie ein Freund dem himmlischen Geschlecht lieb.
Поместили тебя Бхригу среди людей,
Драгоценного, как богатство, легко призываемого для людей,
Как хотара, о Агни, как гостя избранного,
Как Митру, благосклонного к небесному роду.
होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ । अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
होता॑रम् । स॒प्त । जु॒ह्वः॑ । यजि॑ष्ठम् । यम् । वा॒घतः॑ । वृ॒णते॑ । अ॒ध्व॒रेषु॑ । अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥
सप्त सप्तसंख्याकाः जुह्वः होतारः वाघतः ऋत्विजः अध्वरेषु यागेषु यजिष्ठं यष्टृतमं होतारं देवानामाह्वातारं यम् अग्निं वृणते संभजन्ते विश्वेषां सर्वेषां वसूनाम् अरतिं प्रापयितारं तम् अग्निं प्रयसा हविर्लक्षणेनान्नेन सपर्यामि परिचरामि । रत्नं रमणीयं कर्मफलं च यामि याचामि । वृणते । ‘ वृङ् संभक्तौ ' । क्रैयादिकः । प्रत्ययस्वरः । अरतिम् ।' ‘ ‘ऋ गतिप्रापणयोः । अस्मात् औणादिकः ‘ वहिवस्यर्तिभ्यश्चित् ' ( उ. सू. ४. ५०० ) इति अतिप्रत्ययः । चित्त्वादन्तोदात्तत्वम् । सपर्यामि । सपर्यतिः परिचरणकर्मा । ‘सपर पूजायाम्' इति धातुः कण्ड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । यामि । याचामीत्यस्य वर्णलोपश्छान्दसः ॥
“I worship with oblations that Agni whom the seven invoking priests invite as the invoker of the gods; who is most worthy of worship at sacrifices, and who is the donor of all riches; I solicit of him wealth.”
Agni, the seven tongues' deftest Sacrificer, him whom the priests elect at solemn worship,
The Herald, messenger of all the Vasus, I serve with dainty food, I ask for riches.
I worship with good cheer Agni the steward 1 of all treasures, whom the seven ladles 2 (of the priests), the worshippers choose as the Hotri, the best sacrificer at the rites, and I pray for treasure 3.
Whom the seven tongues, whom the cantors choose as Hotar, best sacrificing at the ceremonies,
to Agni, the nave of all goods, I render service with a pleasurable
offering. I beg for a treasure.
Der sieben Löffel bestens weiht, den Priester, den sich die Beter bei den Opfern wählen, Den Agni, welcher allen Göttern dienet, verehr' mit Tränken ich und bitt' um Schatz ihn.
Denn die sieben Zungen, den die Priester als bestopfernden bei den Opfern zum Hotri erwählen, den Agni, den Wagenlenker aller Götter, pflege ich mit Labung; ihn bitte ich um Belohnung.
Кого семь жертвенных ложек, (кого) жрецы выбирают
На жертвенных празднествах хотаром, лучше всех жертвующим,
(Этого) Агни-посланника всех Васу,
Я почитаю подкрепляющим напитком, я прошу о сокровище.
अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमह॒: शर्म॑ यच्छ । अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
अच्छि॑द्रा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृऽभ्यः॑ । मि॒त्र॒ऽम॒हः॒ । शर्म॑ । य॒च्छ॒ । अग्ने॑ । गृ॒णन्त॑म् । अंह॑सः । उ॒रु॒ष्य॒ । ऊर्जः॑ । न॒पा॒त् । पूः॒ऽभिः । आय॑सीभिः ॥
हे सहसः सूनो बलस्य पुत्र । बलेन हि मथ्यमानोऽग्निर्जायते । मित्रमहः अनुकूलदीप्तिमन्नग्ने नः अस्मभ्यं स्तोतृभ्यः अद्य अस्मिन् कर्मणि अच्छिद्रा अच्छेद्यानि शर्म शर्माणि सुखानि यच्छ देहि । किंच हे ऊर्जो नपात् अन्नस्य पुत्र । भुक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्नपुत्रत्वम् । एवंविध अग्ने गृणन्तं त्वां स्तुवन्तम् आयसीभिः व्याप्तैः । यद्वा अयोवत् दृढतरैः। पूर्भिः पालनैः अंहसः पापात् उरुष्य रक्ष । ' उरुष्यती रक्षाकर्मा ' ( निरु. ५, २३ ) इति यास्कः ॥ अच्छिद्रा । ‘ शेश्छन्दसि° ' इति शेर्लोपः । सूनो सहसः। ‘ परमपिच्छन्दसि ' इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति पदद्वयसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । शर्म । ‘ सुपां सुलुक्' इति विभक्तेः लुक् । ऊर्जो नपात् । न पातयतीति नपात् । “ नभ्राण्नपात्' इति नञः प्रकृतिभावः । ‘ सुबामन्त्रिते॰ ' इति षष्ठ्यन्तस्य पराङ्गवद्भावे सति पादादित्वात् आष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । पूर्भिः । ‘ पॄ पालनपूरणयोः' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । उत्वदीर्घौ । ‘ सावेकाचः' इति विभक्तेरुदात्तस्वम् ॥
“Son of strength, favourably-shining Agni, grant to your worshipper on this occasion uninterrupted felicity; offspring of food, preserve him who praises you from sin with guards of metal.”
Grant, Son of Strength, thou rich in friends, a refuge without a flaw this day to us thy praisers.
O Agni, Son of Strength, with forts of iron preserve thou from distress the man who lauds thee.
Son of strength, great like Mitra, grant to-day flawless protection to us who magnify thee, Agni! guard from distress with strongholds of iron him who praises thee, O offspring of vigour!
O son of strength with the might of Mitra, today hold out unbroken shelters to us, your praisers.
O Agni, child of nourishment, deliver the singer from narrow straits, with your metal strongholds.
᳓
O Sohn der Kraft, o freundereicher Agni, verleihe sichern Schutz den Sängern heute, Den, der dich preist, beschütze vor Bedrängniss, o Sohn der Kraft, durch erzgebaute Burgen.
Gewähre heute, du Sohn der Kraft, wie ein Freund geehrt, uns Sängern lückenlosen Schirm! O Agni, Kind der Stärke, schütze mit ehernen Burgen den Sänger vor Not!
О сын силы, даруй сегодня нам, певцам,
О великий, как Митра, непробиваемую защиту!
О Агни, создай воспевающему (тебя) широту против узости,
О потомок мощи, с помощью железных крепостей!
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्य॒: शर्म॑ । उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
भव॑ । वरू॑थम् । गृ॒ण॒ते । वि॒भा॒ऽवः॒ । भव॑ । म॒घ॒व॒न् । म॒घव॑त्ऽभ्यः । शर्म॑ । उ॒रु॒ष्य । अ॒ग्ने॒ । अंह॑सः । गृ॒णन्त॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
हे विभावः विशिष्टप्रकाशाग्ने गृणते त्वां स्तुवते यजमानाय । वरूथम् इति गृहनाम । वरूथम् अनिष्टनिवारकं गृहं भव । हे मघवन् धनवन्नग्ने मघवद्भ्यः हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यः शर्म सुखं यथा भवति तथा भव । हे अग्ने गृणन्तं स्तुवन्तम् अंहसः पापकारिणः शत्रोः उरुष्य रक्ष । धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनोऽग्निः प्रातः इदानीमिव परेद्युरपि मक्षु शीघ्रं जगम्यात् आगच्छतु ॥ वरूथम् । ‘वृञ् वरणे'। जॄवृञ्भ्यामूथन् ' ( उ, सू. २. १६३ ) इति ऊथन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । गृणते। ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । विभावः। विशिष्टा भा विभाः । ‘ अतो मनिन्' इति विच् । ‘ तदस्यास्ति' इति मतुप् । ‘ मादुपधायाः०' इति मतुपो वत्वम् । ‘ मतुवसो रुः० ' इति नकारस्य रुत्वम् । मघवद्भ्यः । ‘ मघवा बहुलम् । ( पा. सू. ६. ४. १२८ ) इति मघवञ्शब्दस्य तृआदेशः । स च ‘ नानुबन्धकृतमनेकाल्त्वम् ' (परिभा. ६) इति वचनात् ' अलोऽन्त्यस्य' (पा. सू. १. १. ५२) इति अन्त्यस्य भवति । मक्षु । ‘ऋचि तुनुघमक्षु' ' इति दीर्घः । धियावसुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदस्य ‘सावेकाचः' इति विभक्तिरुदत्ता । लुगभावभ्छान्दसः । जगम्यात् । गम्लृ सृप्लृ गतौ । लिङि • बहुलं छन्दसि ' इति शपः श्लुः ॥ ॥ २४ ॥
“Variously-shining Agni, be a shelter to him who praises you; be prosperity, Maghavan, to the wealthy (offerers of oblations); protect, Agni, your worshipper from sin; may Agni, who is rich with righteous acts, come (to us) quickly in the morning.”
Be thou a refuge, Bright One, to the singer, a shelter, Bounteous Lord, to those who worship.
Preserve the singer from distress, O Agni. May he, enriched with prayer, come soon and early.
Be a shelter to him who praises thee, O resplendent one; be protection, generous giver, to the generous. Agni! guard him who praises thee from distress. May he who gives wealth for our prayer, come quickly in the morning 1.
Become a defense for the singer, o radiant one. Become shelter for bounteous ones, o bounteous one.
Deliver the singer from narrow straits, Agni. – Early in the
morning—soon—he should come, bringing goods through (his)
insight.
᳓
Sei starker Schirm, o glänzender, dem Sänger, den Mächt'gen eine Zuflucht du, o Mächt'ger, Den Sänger schütz, o Agni, vor Bedrängniss; der huldvoll sorget, komme früh am Morgen.
Sei du Leuchtender dem Sänger Schutz, sei den Freigebigen ein Schirm, du Freigebiger! Schütz, o Agni, den Sänger vor Not! Recht bald am Morgen soll sich der einstellen, der durch die Weisheit Schätze erwirbt.
Стань панцирем для воспевающего (тебя), о сверкающий!
Стань, о щедрый, защитой для щедрых!
Создай, о Агни, воспевающему (тебя) широту против узости!
Да придет (к нам) быстро ранним утром (бог,) богатый даром видения!