व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते । वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥
व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः॑ । ते॒ । अ॒न्ये । त्वे इति॑ । विश्वे॑ । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ । वैश्वा॑नर । नाभिः॑ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा॑ऽइव । जना॑न् । उ॒प॒ऽमित् । य॒य॒न्थ॒ ॥
वया इदिति सप्तर्चं द्वितीयं सूक्तं नोधस आर्षं त्रैष्वुभम् । वैश्वानरगुणकोऽग्निर्देवता । तथा चानुक्रान्तम् । वया इत्सप्त वैश्वानरीयमिति ॥ सूक्तविनियोगो लिङ्गादवगन्तव्यः ॥वयाः शाखा वेतेर्वातायना भवन्तीति यास्कः (नि १-४) हे अग्ने येऽन्येऽग्नयः सन्ति ते सर्वेऽपि ते तव वया इत् शाखा एव । ततस्त्वतोऽन्ये न सन्तीति भावः । किञ्च त्वे त्वयि सति विश्वे सर्वेऽमृता अमरणधर्माणो देवा मादयन्ते । हृष्यन्ति । न हि त्वद्व्यतिरेकेण तैर्जीवितुं शक्यते । हे वैश्वानर विश्वेणां नराणां जाठररूपेण सम्बन्धिन्नग्ने क्षीतीनां मनुष्याणां नाभिः सन्नद्धासि । अवस्थापको भवसि । अतस्त्वमुपमिदुपस्थापयिता सन् । यद्वा । उपमिदित्येतद्दृष्टान्तविशेषणम् । जनान्ययन्थ । अधारयः । तत्र दृष्टान्तः । उपमिदुपनिखाता । स्थूणेव । वंशधारणार्थं निखातः । स्तम्भो यथा गृहोपरिस्थं वंशं धारयति तद्वत् ॥ वैश्वानर । विश्वे चेमे नरा विश्वानरः । तस्येदमित्यण् । नाभिः । नहो मश्च (उ ४-१२५) इतीञ्प्रत्ययो भकारश्चान्तादेशः । ञित्त्वादाद्युदात्तत्वम् । आसि । तासस्त्योर्लोप इति सलोपः । क्षितीनाम् । क्षि निवासगत्योः । अस्मात् क्तिच् क्तौ च सञ्ज्ञायामिति क्तिच् । अन्तोदात्तात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । उपमित् । डुमिञ् प्रक्षेपणे । आस्मादुपपूर्वाद्बहुलवचनात्कर्मणि क्विप् । तुगागमः । ययन्थ । यम उपरमे । लिट थलि क्रादिनियमादिट प्राप्त उपदेशेऽत्वतः (पा ७-२-६२) इति प्रतिषेधः ॥ १ ॥
“Whatever other fires there may be, they are but ramifications, Agni, of you; but they all rejoice, being immortal in you; you, Vaiśvānara, are the navel of men, and suppor tthem like a deep-plural nted column.”
THE other fires are, verily, thy branches; the Immortals all rejoice in thee, O Agni.
Centre art thou, Vaisvanara, of the people, sustaining men like a deep-founded pillar.
The other Agnis (the other fires) are verily thy branches, O Agni. In thee all the immortals enjoy themselves 1. Vaisvânara! Thou art the centre 2 of human settlements; like a supporting column thou holdest men 3.
The other fires are just twigs of you, Agni. In you do all the immortals bring themselves to euphoria.
Vaiśvānara, you are the navel of the settlements. Like a pillar, as prop you hold the peoples fast.
Nur deine Zweige sind die andern Feuer, Agni, in dir erfreun sich alle Götter; Du, Männerhort, bist Mittelpunkt der Völker, wie eine Säule stützest du die Menschen.
Die anderen Agni´s sind nur Zweige von dir, Agni; bei dir schwelgen alle Unsterblichen. Vaisvanara! Du bist der Nabel der Lande; wie eine stützende Säule hältst du die Menschen fest.
Ведь ветви твои, о Агни, другие огни.
В тебе радуются все бессмертные.
О Вайшнванара, ты пуп (человеческих) поселений.
Ты (всегда) держал людей как опорный столб.
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥
मू॒र्धा । दि॒वः । नाभिः॑ । अ॒ग्निः । पृ॒थि॒व्याः । अथ॑ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद॑स्योः । तम् । त्वा॒ । दे॒वासः॑ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा॑नर । ज्योतिः॑ । इत् । आर्या॑य ॥
अयम् अग्निः दिवः द्युलोकस्य मूर्धा शिरोवत्प्रधानभूतो भवति । पृथिव्याः भूमेश्च नाभिः संनाहकः रक्षक इत्यर्थः। अथ अनन्तरं रोदस्योः द्यावापृथिव्योः अयम् अरतिः अधिपतिः अभवत् । हे वैश्वानर तं तादृशं देवं दानादिगुणयुक्तं त्वा त्वां देवासः सर्वे देवाः आर्याय विदुषे मनवे यजमानाय वा ज्योतिरित् ज्योतीरूपमेव अजनयन्त उदपादयन् ॥ मूर्तमस्मिन्धीयते इति मूर्धा (निरु. ७. २७ )। ‘श्वनुक्षन्' इत्यादौ निपातनात् रूपसिद्धिः । पृथिव्याः । पृथिवीशब्दः ‘षिद्गौरादिभ्यश्च ' इति ङीष्प्रत्ययान्तः अन्तोदात्तः । अजनयन्त। ‘जनीजॄष्कसुरञ्जोऽमन्ताश्च' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्त्वम् ॥
“Agni, the head of heaven, the navel of earth, became the ruler over both earth and heaven; all the gods engendered you, Vaiśvānara, in the form of light, for the venerable sage.”
The forehead of the sky, earth's centre, Agni became the messenger of earth and heaven.
Vaisvanara, the Deities produced thee, a God, to be a light unto the Arya.
The head of heaven, the navel of the earth is Agni; he has become the steward 1 of both worlds. Thee, a god, the gods have engendered, O Vaisvânara, to be a light for the Ârya.
The head of heaven, the navel of the earth is Agni. And he became the spoked wheel of the two world-halves.
You did the gods beget as god, Vaiśvānara, as light just for the Ārya (people).
Des Himmels Haupt, der Erde Nabel, Agni, ist beider Welten Diener er geworden, So haben dich den Gott gezeugt die Götter, o Männerhort, als Licht dem Volk der Arjer.
Das Haupt des Himmels, der Nabel der Erde ist Agni, und er war der Lenker beider Welten. Als solchen erzeugten dich den Gott die Götter, als Leuchte für den Arier, o Vaisvanara.
Агни – глава неба, пуп земли.
Вот он стал посланником двух миров.
Таким богом тебя породили боги.
О Вайшванара, ведь ты – свет для арьи.
आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥
आ । सूर्ये॑ । न । र॒श्मयः॑ । ध्रु॒वासः॑ । वै॒श्वा॒न॒रे । द॒धि॒रे॒ । अ॒ग्ना । वसू॑नि । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । या । मानु॑षेषु । अ॒सि॒ । तस्य॑ । राजा॑ ॥
अग्ना वैश्वानरे अग्नौ वसूनि धनानि आ दधिरे आहितानि स्थापितानि बभूवुः । तत्र दृष्टान्तः । ध्रुवासः निश्चलाः रश्मयः किरणाः सूर्ये न यथा सूर्ये आधीयन्ते तद्वत् । अतस्त्वं पर्वतादिषु यानि धनानि विद्यन्ते तस्य धनजातस्य राजा असि अधिपतिर्भवसि ॥ अग्ना । ‘सुपां सुलुक्० इति विभक्तेः डादेशः । या । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । ओषधीषु ।' उष दाहे । ओषः पाकः । भावे घञ् । ञित्त्वादाद्युदात्तत्वम् । ओष आसु धीयते इति ओषधयः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । सप्तमीबहुवचने ‘ओषधेश्च विभक्तावप्रथमायाम् ' (पा. सू. ६. ३. १३२ ) इति दीर्घः। अप्सु । ' उडिदम्' इति विभक्तेरुदात्तत्वम् ॥
“Treasures were deposited in the Agni, Vaiśvānara, like the permanent rays (of light) in the sun; you are the sovereign of all the treasures that exist in the mountains, in the herbs, in the waters, or amongst men.”
As in the Sun firm rays are set for ever, treasures are in Vaisvanara, in Agni.
Of all the riches in the hills, the waters, the herbs, among mankind, thou art the Sovran.
As in the sun the rays are firmly fixed, thus in Agni Vaisvânara all treasures have been laid down 1. (The treasures) which dwell in the mountains, in the herbs, the waters, and among men—of all that thou art the king.
Like the rays (placed) firm in the sun, in Vaiśvānara, in Agni have goods been placed—
those that are in the mountains, in the plants, in the waters, that are among men—of (all) this you are king.
Wie in die Sonne Strahlen fest gefügt sind, so Schätze in den Hort der Männer, Agni, Die in den Bergen, Pflanzen sind, in Wassern und bei den Menschen, alles das beherrschst du.
Fest wie die Strahlen in der Sonne sind in Agni Vaisnavara die Güter gelegt, die in den Bergen, Pflanzen, Gewässern, die bei den Menschen sind. Du bist König darüber.
Прочно, как лучи – в солнце,
Вложены блага в Агни-Вайшванару –
(Те,) что в горах, в растениях, в водах,
(Те,) что в людях. Ты – царь этого.
बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्ष॑: । स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥
बृ॒ह॒तीइ॒वेति॑ बृह॒तीऽइ॑व । सू॒नवे॑ । रोद॑सी॒ इति॑ । गिरः॑ । होता॑ । म॒नु॒ष्यः॑ । न । दक्षः॑ । स्वः॑ऽवते । स॒त्यऽशु॑ष्माय । पू॒र्वीः । वै॒श्वा॒न॒राय॑ । नृऽत॑माय । य॒ह्वीः ॥
रोदसी द्यावापृथिव्यौ सूनवे स्वपुत्राय वैश्वानराय बृहतीइव प्रभूते इवाभूताम् । वैश्वानरस्य द्यावापृथिव्योः पुत्रत्वं मन्त्रान्तरे स्पष्टमवगम्यते - ‘उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ' ( ऋ. सं. ३. ३. ११) इति । महतो वैश्वानरस्य अवस्थानाय द्यावापृथिव्यौ विस्तृते जाते इत्यर्थः । किंचायं होता 'दक्षः समर्थः पूर्वीः बहुविधाः यह्वीः महतीः गिरः स्तुतीः वैश्वानराय अग्नये प्रायुङ्क्तेति शेषः । कीदृशाय। स्वर्वते शोभनगमनयुक्ताय सत्यशुष्माय अवितथबलाय नृतमाय अतिशयेन सर्वेषां नेत्रे । तत्र दृष्टान्तः । मनुष्यो न । यथा मनुष्यो लौकिको वन्दी दातारं प्रभुं बहुविधया स्तुत्या स्तौति तद्वत् ॥ मनुष्यः । ‘मनोर्जातावञ्यतौ षुक्च' इति जातौ गम्यमानायां मनुशब्दात् यत् षुगागमश्च । ' तित्व्तरितम्' इति स्वरितत्वम् । यतोऽनावः' इत्याद्युदात्तत्वं न भवति । तत्र हि द्व्यच् इति अनुवर्तते । स्वर्वते । सुपूर्वात् अर्तेः भावे विच् । ततो मतुप् । मादुपधायाः' इति वत्वम् ॥
“. Heaven and earth expanded as it were for their son. The experienced sacrificer recites, like a bard, many ancient and copious praises addressed to the graceful-moving, truly-vigorous, and all-guiding Vaiśvānara.”
As the great World-halves, so are their Son's praises; skilled, as a man, to act, is he the Herald.
Vaisvanara, celestial, truly mighty, most manly One, hath many a youthful consort.
As the two great worlds to their son 1, like a Hotri like a skilful man, (we bring) praises — manifold (praises) to him who is united with the sun, to the truly strong one, new (praises) to Vaisvanara, the manliest god.
Like the two lofty world-halves for their son [=Agni], like Manu’s skill, the human Hotar (brings) hymns—
many (hymns), (like) exuberant maidens—for him possessed of
the sun, him whose bluster is real, for the most manly
Vaiśvānara.
Wie Erd' und Himmel ihrem Sohn sich breiten, so sendet, wie ein weiser Mensch, der Priester Viel kräft'ge Lieder ihm, dem wahrhaft starken, glanzreichen, männlichsten, dem Männerhorte.
Die beiden Welten sind ihm wie zwei hehre Mütter dem Sohne. Lobesworte spende ich geschickt wie der menschliche Hotri es zu sein vermag. Dem Sonnenhaften, von echtem Mute, dem männlichsten Vaisvanara dienen viele jüngste Frauen.
Как высокие два мира (обращаются) к сыну,
(Так я,) искусный (посылаю) хвалебные песни, словно человеческий хотар,
К солнечному (богу), чей пыл истинен, к Вайшванаре,
Самому мужественному – многие юные (песни).
दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् । राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
दि॒वः । चि॒त् । ते॒ । बृ॒ह॒तः । जा॒त॒ऽवे॒दः॒ । वैश्वा॑नर । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् । राजा॑ । कृ॒ष्टी॒नाम् । अ॒सि॒ । मानु॑षीणाम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥
हे जातवेदः जातानां वेदितः वैश्वानर अग्ने ते तव महित्वं माहात्म्यं बृहतः महतः दिवश्चित् द्युलोकादपि प्र रिरिचे प्रववृधे । किंच त्वं मानुषीणां मनोर्जातानां कृष्टीनां प्रजानां राजा असि अधिपतिर्भवसि । तथा वरिवः असुरैरपहृतं धनं युधा युद्धेन देवेभ्यः चकर्थ देवाधीनमकार्षीः ॥ वैश्वानर । पादादित्वात् आष्टमिकनिघाताभावः । रिरिचे । ‘रिचिर् विरेचने'। अत्रोपसर्गवशात् तद्विपरीते आधिक्ये वर्तते। कृष्टीनाम् । नामन्यतरस्याम्' इति नाम उदात्तत्वम्। मानुषीणाम् । मानुषशब्दः ‘मनोर्जातौ ' इति अञ्प्रत्ययान्तः । जातिलक्षणे ङीषि प्राप्ते तदपवादतया ‘शार्ङ्गरवाद्यञः । इति ङीन् । नित्त्वादाद्युदात्तत्वम् । ङ्याश्छन्दसि बहुलम् ' ( पा. सू. ६. १. १७८ ) इति बहुलवचनात् नाम उदात्तस्याभावः। युधा । ‘युध संप्रहारे' इत्यस्मात् संपदादिलक्षणो भावे क्विप्। वरिवः इति धननाम। ‘नब्विषयस्य ' इत्याद्युदात्तत्वम् ॥
“Vaiśvānara, who knows all that are born, your magnitude has exceeded that of the spacious heaven; you are the monarch of manu-descended men; you have regained for the gods in battle, the wealth (carries off by the asuras).”
Even the lofty heaven, O Jatavedas Vaisvanara, hath not attained thy greatness.
Thou art the King of lands where men are settled, thou hast brought comfort to the Gods in battle.
Thy greatness, O Gâtavedas, Vaisvânara, has exceeded even the great heaven. Thou art the king of the human tribes; thou hast by fighting gained wide space for the gods.
Even beyond lofty heaven does your greatness project, o Jātavedas Vaiśvānara.
You are king of the communities belonging to the sons of Manu.
Through combat you made a wide realm for the gods.
᳓
Den hohen Himmel überragst an Grösse, o Männerhort, du noch, o Wesenkenner, Du bist der König aller Menschenstämme, hast freien Raum im Kampf geschafft den Göttern.
Deine Größe reicht selbst über den Himmel hinaus, o Jatavedas Vaisvanara. Du bist der König der menschlichen Völker; durch Kampf hast du den Göttern Freiheit verschafft.
Даже за пределы высокого неба, о Джатаведас,
Вайшванара, выходит твое величие.
Ты – царь человеческих поселений.
Благодаря битве ты всегда создавал широкое пространство для богов.
प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते । वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥
प्र । नु । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । वो॒च॒म् । यम् । पू॒रवः॑ । वृ॒त्र॒ऽहन॑म् । सच॑न्ते । वै॒श्वा॒न॒रः । दस्यु॑म् । अ॒ग्निः । ज॒घ॒न्वान् । अधू॑नोत् । काष्ठाः॑ । अव॑ । शम्ब॑रम् । भे॒त् ॥
अत्र वैश्वानरशब्देन मध्यमस्थानस्थो वैद्युतोऽग्निरभिधीयते । पूरवः इति मनुष्यनाम । पूरवः मनुष्याः वृत्रहणम् आवरकस्य मेघस्य हन्तारं यं वैश्वानरं सचन्ते वर्षार्थिन सेवन्ते तस्य वृषभस्य अपां वर्षितुर्वैश्वानरस्य महित्वं माहात्म्यं नु क्षिप्रं प्र वोचं प्रब्रवीमि । किं तदित्यत आह । अयं वैश्वानरः अग्निः दस्युं रसानां कर्मणां वा उपक्षयितारं राक्षसादिकं जघन्वान् हतवान् । तथा काष्ठाः अपो वृष्ट्युदकानि अधूनोत् अधोमुखान्यपातयत् । शम्बरं तन्निरोधकारिणं मेघम् अव भेत् अवाभिनत् ॥ वोचम् । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः । ‘वच उम्' इति उमागमः । गुणः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘अभ्यासाच्च ' इति अभ्यासादुत्तरस्य हकारस्य घत्वम् ।' विभाषा गमहन ' इति विकल्पनात् इडभावः । भेत् । भिदिर् विदारणे ' । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । 'हल्ङ्याब्भ्यः ' इति तकारस्य लोपः । पूर्ववत् अडभावः । अत्र निरुक्तं - प्र ब्रवीमि तन्महित्वं महाभाग्यं वृषभस्य वर्षितुरपां यं पूरवः पूरयितव्या मनुष्या वृत्रहणं मेघहनं सचन्ते सेवन्ते वर्षकामा दस्युर्दस्यतेः क्षयार्थादुपदस्यन्त्यस्मिन्रसा उपदासयति कर्माणि तमग्निर्वैश्वानरो घ्नन्नवाधूनोदपः काष्ठा अभिनच्छम्बरं मेघम् ' ( निरु. ७. २३ ) इति ॥ अत्रेदं चिन्तनीयम् । कोऽसौ वैश्वानर इति । तत्र केचिदाहुः । मध्यमस्थानस्थो वायुरिन्द्रो वा वैश्वानरः । तस्य हि वर्षकर्मणा संस्तव उपपद्यते; न त्वग्नेः पृथिवीस्थानत्वादिति । अन्ये त्वेवं मन्यन्ते । द्युस्थानः सूर्यो वैश्वानर इति । युक्तिं चाहुः । प्रातःसवनादीनि त्रीणि सवनानि लोकत्रयात्मकानि । तत्र तृतीयसवनं प्राप्तो यजमानः स्वर्गं प्राप्त इति पृथिव्याः प्रच्युतो भवेत् । तत्प्रच्युतिपरिहाराय आग्निमारुतेऽन्तिमे शस्त्रे होता स्वर्गात् भूमिं प्रत्यवरोहति । कथमिति तदुच्यते। इतरशस्त्रवत् स्तोत्रियतृचेन प्रारम्भमुक्त्वा द्युस्थानसंबन्धिना वैश्वानरीयेण सूक्तेन शस्त्रं प्रारभते । ततो मध्यमस्थानसंबन्धिनं रुद्रं मरुतश्च प्रति तद्देवत्यसूक्तपाठेनावरोहति । तत्र पृथिवीस्थानमग्निम् । यद्यत्र वैश्वानरः सूर्यो न स्यात् तदानीमवरोहो नोपपद्यते । तदेतन्मतद्वयमप्यनुपपन्नम् । अयमेवाग्निर्वैश्वानरः । कुतः । वैश्वानरशब्दनिर्वचनानुरोधात् । विश्वेषां नराणां लोकान्तरं प्रति नेतृतया संबन्धी वैश्वानरः । तथा चाम्नातं- वैश्वानर पुत्रः पित्रे लोककृज्जातवेदो वहेमं सुकृतां यत्र लोकाः' इति । यद्वा । विश्व सर्वे नरा एनमग्निं यज्ञादौ प्रीणयन्तीति तत्संबन्धाद्वैश्वानरः । यद्वा । विश्वान् सर्वान् प्राणिनः प्रत्यृतो गच्छतः इति विश्वानरौ मध्यमोत्तमौ । ‘ऋ ‘गतौ ' इत्यस्मात् पचाद्यच् । लुगभावश्छान्दसः । ताभ्यामुत्पन्नत्वादयमग्निर्वैश्वानरः । वैद्युतोऽग्निर्हि मध्यमसकाशात् जायते । अशनिपतनानन्तरमयमेव पार्थिवोऽग्निः संपद्यते । आदित्यसकाशादपि घर्मकाले सूर्यकान्तादिमणिष्वग्नेरुत्पत्तिः प्रसिद्धा। तस्मान्नामनिर्वचनानुरोधेनायमेवाग्निर्वैश्वानर इत्येतदुपपन्नम् । अस्यापि वर्षकर्मणा स्तुतिः संभवति । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' (मनु. ३. ७६ ) इति स्मरणात् । प्रत्यवरोहोऽपि न कर्तव्यः । तृतीयसवनस्य भाक्तस्वर्गत्वात्। एतत्सर्वं यास्केन ‘वैश्वानरः कस्मात् ' (निरु. ७. २१) इत्यादिना बहुधा प्रपञ्चितम् । अत्र यदनुक्तं तत्सर्वं तत्रैवानुसंधेयम् ॥
“I extol the greatness of that showerer of rain whom men celebrate as the slayer of Vṛtra; the Agni, Vaiśvānara, slew the stealer (of the waters) and sent them down (upon earth), and clove the (obstructing) cloud.”
Now will I tell the greatness of the Hero whom Puru's sons follow as Vrtra's slayer:
Agni Vaisvanara struck down the Dasyu, cleave Sambara through and shattered down his fences.
Let me now proclaim the greatness of the bull whom the Pûrus worship as the destroyer of enemies 1. Agni Vaisvânara, having slain the Dasyu, shook the (aerial) arena and cut down Sambara.
I now proclaim the greatness of the bull, whom the Pūrus attend upon as Vr̥tra-smasher.
Vaiśvānara, Agni, having smashed the Dasyu, shook the wooden
barriers, cut down Śambara.
᳓
Ich will verkünden nun des Helden Grösse, des Vritratödters, dem die Völker dienen, Agni, der Männerhort erschlug den Dämon, warf Çambara herab, durchbrach die Bahnen.
Ich verkünde jetzo die Größe des Bullen, dem die Puru´s als dem Feindetöter Folge leisten. Als Agni Vaisvanara den Dasyu geschlagen hatte, rüttelte er an den Schranken und hieb den Sambara herab.
Сейчас я хочу провозгласить величие быка,
За кем следуют (люди племени) Пуру, как за истребителем врагов.
Агни-Вайшванара, убив дасью,
Сокрушил преграды (и) разрубил Шамбару.
वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ । शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥
वै॒श्वा॒न॒रः । म॒हि॒म्ना । वि॒श्वऽकृ॑ष्टिः । भ॒रत्ऽवा॑जेषु । य॒ज॒तः । वि॒भाऽवा॑ । शा॒त॒ऽव॒ने॒ये । श॒तिनी॑भिः । अ॒ग्निः । पु॒रु॒ऽनी॒थे । ज॒र॒ते॒ । सू॒नृता॑ऽवान् ॥
वैश्वानरः अग्निः महिम्ना महत्त्वेन विश्वकृष्टिः। कृष्टिः इति मनुष्यनाम। विश्वे सर्वे मनुष्या यस्य स्वभूताः स तथोक्तः । भरद्वाजेषु पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु यद्वा एतत्संज्ञेषु ऋषिषु यजतः यष्टव्यः विभावा विशेषेण प्रकाशयिता सूनृतावान् । सूनृता प्रिया सत्या वाक् तद्युक्तः । एवंभूतः अग्निः शातवनेये । शतसंख्याकान् क्रतून वनति संभजते इति शतवनिः तस्य पुत्रः शातवनेयः । तस्मिन् पुरुणीथे बहूनां नेतरि एतत्संज्ञके राजनि च शतिनीभिः बहुभिः स्तुतिभिः जरते स्तूयते ॥ भरद्वाजेषु । भरन्ति पोषयन्ति भोक्तॄनिति भरन्तः। तादृशा वाजा येषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यजतः। भृमृदृशियजिपर्वपच्यमितमिनमिहर्येभ्योऽतच् '(उ. सू. ३. ३९० ) इति यजतेः अतच्प्रत्ययः । विभावा।' भा दीप्तौ ।' आतो मनिन् ' इति वनिप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । शतवनेये । ‘इन्सर्वधातुभ्यः' इति इन्प्रत्ययः शतवनिशब्दः । ‘इतश्चानिञः ' (पा. सू. ४. १. १२२ ) इति ढक्। ' कितः ' (पा. सू. ६. १. १६५) इत्यन्तोदात्तत्वम् । शतिनीभिः । शतशब्दात् मत्वर्थीय इनिः । ‘ऋन्नेभ्यः' इति ङीप् । पुरुणीथे । ‘पूर्वपदात्संज्ञायामगः' (पा. सू. ८.४.३) इति णत्वम् । जरते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ॥ ॥२५॥
“Vaiśvānara by his magnitude is all men, and is to be worshipped as the diffuser of manifold light in offerings of nutritious viands; Agni, the speaker of truth, praises with many commendations Puruṇītha, the son of Śātavani.”
Vaisvanara, dwelling by his might with all men, far-shining, holy mid the Bharadvajas,
Is lauded, excellent, with hundred praises by Purunitha, son of Satavani.
Agni Vaisvânara, extending by his greatness over all dominions, who is to be worshipped, the bright one, rich in loveliness, is awake (or, is praised) among the Bharadvâgas, in the homestead of Purunîtha .Sâtavaneya, with his hundredfold blessings.
Vaiśvānara, belonging to all communities by his greatness, worthy of the sacrifice among the Bharadvājas, far-radiant,
Agni, displaying liberality, at the (place of) Śātavaneya of many
stratagems, is awakened with hundredfold (riches).
Der Männerhort an Grösse allumfassend, der glänzende, verehrt von Bharadvadschern, Der reiche Agni wird in hundert Weisen gerühmt beim Çatavanjer Purunitha.
Der erstrahlende Vaisvanara, durch seine Größe allvölkisch, bei den Bharadvaja´s gern verehrt, wird bei Satavaneya Purunitha mit hundertfältigen Liedern wachgesungen, der edelmütige Agni.
Вайшванара, благодаря (своему) величию принадлежащий всем народам,
Достойный жертв среди (людей рода) Бхарадваджи, сверкающий,
Агни у Пурунитхи, сына Шатавани,
Воспевается на сотни ладов, (он,) великолепный.