यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑: । रोच॑न्ते रोच॒ना दि॒वि ॥
यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ । रोच॑न्ते । रो॒च॒ना । दि॒वि ॥
इन्द्रो हि परमैश्वर्ययुक्तः । परमैश्वर्यं च अग्निवाय्वादित्यनक्षत्ररूपेणावस्थानादुपपद्यते । ब्रध्नम् आदित्यरूपेणावस्थितम् अरुषं हिंसकरहिताग्निरूपेणावस्थितं चरन्तं वायुरूपेण सर्वतः प्रसरन्तमिन्द्रं परि तस्थुषः परित्तोऽवस्थिता लोकत्रयवर्तिनः प्राणिनः युञ्जन्ति स्वकीये कर्मणि देवतात्वेन संबद्धं कुर्वन्ति । तस्यैवेन्द्रस्य मूर्तिविशेषभूतानि रोचना रोचनानि नक्षत्राणि दिवि द्युलोके रोचन्ते प्रकाशन्ते। अस्य मन्त्रस्योक्तार्थपरत्वं ब्राह्मणान्तरे व्याख्यातं--- ‘ युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति। अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परि तस्थुष इत्याह । इमे वै लोकाः परि तस्थुषः । इमानेवास्मै लोकान्युनक्ति। रोचन्ते रोचना दिवीत्याह। नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति' ( तै. ब्रा, ३, ९. ४. १-२ ) इति । पञ्चविंशतिसंख्याकेषु महन्नामसु महः ब्रध्नः' (नि. ३. ३, २) इति पठितम् । आदित्यस्यापि महत्त्वादेव ब्रध्नत्वम् ॥ युञ्जन्ति । अन्तेः प्रत्ययस्वरेणाद्युदात्तत्वम् । व्रध्नम् । प्रातिपदिकान्तोदात्तः । अरुषम् । ‘उष रुष रिष हिंसार्थाः ' । रोषन्तीति रुषा हिंसकाः । 'इगुपधज्ञाप्रीकिरः कः ' ( पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । न सन्ति रुषा यस्य असौ अरुषः । ‘ नञ्सुभ्याम्' (पा. सू. ६. २. १७२) इत्युत्तरपदान्तोदात्तत्वम् । ‘अमि पूर्वः' (पा, सू. ६. १, १०७ ) इति पूर्वरूपे ' एकादेश उदात्तेनोदात्तः' ( पा. सू. ८. २. ५) इत्युदात्तत्वम् । चरन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । तस्थुषः । तिष्ठतेर्लिटः क्वसुरादेशः (पा, सू. ३. २. १०७ )। ‘वस्वेकाद्धसाम्' (पा. सू. ७, २. ६७) इति इटमन्तरङ्गमपि बाधित्वा 'संप्रसारणं संप्रसारणाश्रयं च बलीयः (पा. म. ६. १. १७. २) इति शसि परतो भत्वात् (पा. सू. १. ४. १८) ‘ वसोः संप्रसारणम्' (पा. सू. ६. ४. १३१) । परपूर्वत्वम् । आदेश प्रत्यययोः ' ( पा. सू. ८. ३. ५९ ) इति षत्वम् । वसोः प्रत्ययस्वरेणोदात्तत्वम् । रोचन्ते । तिङो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । रोचना । ‘ अनुदात्तेतश्च हलादेः ' ( पा. सू. ३. २. १४९ ) इति युच् ।' युवोरनाकौ ' (पा. सू. ७. १. १ ) इत्यनादेशः । ‘ चितः ' { पा. सू. ६. १. १६३ ) इत्यन्तोदात्तत्वम् । दिवि । ‘ ऊडिदम् । (पा.सू. ६.१.१७१) इत्यादिना विभक्तेरुदात्तत्वम् ॥
“The circumstationed (inhabitants of the three worlds) associate with (Indra), the mighty (Sun), the indestructive (fire), the moving (wind), and the lights that shine in the sky.”
They who stand round him as he moves harness the bright, the ruddy Steed
The lights are shining in the sky.
They hitch up the coppery, ruddy (sun) that circles around the ones [=stars?] standing still.
The lights are alight in heaven.
Sie schirren an das rothe Ross, das umläuft um das stehende, Am Himmel glänzt der helle Schein.
Sie schirren den rötlichen Falben an, der um die Feststehenden wandelt. Es leuchten die Lichter am Himmel.
Они запрягают желтоватого (?), пламенного,
Бродящего вокруг неподвижных.
Светят светила на небе.
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विप॑क्षसा । रथे॑ । शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥
अस्य ब्रध्नादिशब्दप्रतिपाद्यस्य आदित्यादिमूर्तिभिस्तत्र तत्रावस्थितस्येन्द्रस्य रथे हरी एतन्नामानौ द्वावश्वौ सारथयः युञ्जन्ति । इन्द्रसंबन्धिनोरश्वयोर्हरिनामत्वं ‘ हरी इन्द्रस्य रोहितोऽग्नेः' ( नि. १. १५. १ ) इति पठितत्वात् । कीदृशौ हरी। काम्या कामयितव्यौ । विपक्षसा विविधे पक्षसी रथस्य पार्श्वौ ययोरश्वयोस्तौ विपक्षसौ। रथस्य द्वयोः पार्श्वयोर्योजितावित्यर्थः । शोणा रक्तवर्णौ धृष्णू प्रगल्भौ नृवाहसा नृणां पुरुषाणाम् इन्द्रतत्सारथिप्रमुखाणां वोढारौ ॥ अस्य । ब्रध्नम् इत्युक्तस्य परामर्शात् ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' ( पा. सू. २. ४.३२ ) इति अश् । शित्त्वात् ( पा. सू. १, १. ५५ ) सर्वादेशोऽनुदात्तः । विभक्तिरनुदात्तैव इति सर्वानुदात्तत्वम् । काम्या । ‘ कमु कान्तौ'। ‘ कमेर्णिङ्' ( पा. सू. ३. १. ३०) । कामयतेः “ अचो यत्' ( पा. सू. ३. १. ९७ )। तित्स्वरितापवादत्वेन ‘ यतोऽनावः ' ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् । ‘सुपां सुलुक्' ' ( पा. सू. ७, १, ३९ ) इति द्विवचनस्य डादेशः । हरतो रथमिति हरी । ‘ हृपिषि ' ( उ. सू. ४. ५५८) इत्यादिना इन् । नित्त्वादाद्युदात्तः। विपक्षसा । पचिवचिभ्यां सुट् च ' ( उ. सू. ४. ६५९ ) इति पचेः असुन सुडागमश्च । विभिन्ने पक्षसी पार्श्वौ ययोस्तौ । विशब्दो निपातत्वादुदात्तः । पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । द्विवचनस्य डादेशः । रथे । रमन्तेऽस्मिन्निति रथः । ‘ रमु क्रीडायाम् । ‘ हनिकुषिनीरमिकाशिभ्यः क्यन् ' ( उ. सू. ३. १५९ ) इति क्थन् । कित्त्वात् “ अनुदात्तोपदेश! ( पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । नित्स्वरेणाद्युदात्तः । शोणा । ‘ शोणृ वर्णगत्योः' गमनकरणत्वात् करणे घञ् । ञित्त्वादाद्युदात्तः । ‘ सुपां सुलुक्' इति डादेशः । धृष्णू । ‘ ञिधृषा प्रागल्भ्ये '। ‘त्रसिगृधिधृषिक्षिपेः क्नुः' (पा. सू. ३. २. १४० ) । कित्त्वाद्गुणाभावः। प्रत्ययस्वरः । नृवाहसा। नॄन् वहतः इति वहेः वहिहाधाञ्भ्यश्छन्दसि ' ( उ. सू. ४. ६६० ) इत्यसुन्। णित्' ( उ. सू. ४. ६५७ ) इत्यनुवृत्तेर्वृद्धिः । नित्त्वादाद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते ॥
“They (the charioteers) harness to his car his two desirable coursers, plural ced on either hand, bay coloured, high-spirited, chief-bearing.”
On both sides to the car they yoke the two bay coursers dear to him,
Bold, tawny, bearers of the Chief.
They hitch his beloved fallow bays to his chariot on opposite sides, the bold pair of sorrels, conveyors of the superior man [=Indra].
Sie schirren an den Wagen an des Indra Füchse licht und kühn, Das Zwiegespann, das Helden fährt.
Sie schirren seine beiden Falben an den Wagen, die auseinanderstrebenden, die rötlichen, mutigen, die den Herrn fahren.
Они запрягают пару любимых его
Буланых коней по обе стороны колесницы (?),
Огненно-красных, неустрашимых, мужей возящих.
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥
के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ । सम् । उ॒षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥
हे मर्याः मनुष्या इदमाश्चर्यं पश्यतेत्यध्याहारः। किमाश्चर्यमिति तदुच्यते । आदित्यरूपोऽयमिन्द्रः उषद्भिः दाहकैः रश्मिभिः प्रतिदिनमुषःकालैर्वा संभूय अजायथाः उदपद्यत । अथवा सूर्यस्यैवास्तमये मरणमुपचर्य व्यत्ययेन बहुवचनं कृत्वा संबोधनं क्रियते । हे मर्य प्रतिदिनं त्वम् अजायथाः इति योज्यम् । किं कुर्वन् । अकेतवे रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय प्राणिने केतुं कृण्वन् प्रातः प्रज्ञानं कुर्वन् । अपेशसे रात्रौ अन्धकारावृतत्वेन अनभिव्यक्तत्वात् रूपरहिताय पदार्थाय प्रातरन्धकारनिवारणेन पेशः रूपमभिव्यज्यमानं कुर्वन् । ' पेश इति रूपनाम पिंशतेः' (निरु. ८. ११) इति यास्कः । ‘ अकेतवे', ‘ अपेशसे ' इति चतुर्थ्यौ षष्ठ्यर्थे द्रष्टव्यौ ॥ केतुम् । प्रातिपदिकस्वरः । कृण्वन् । ‘ कृवि हिंसाकरणयोश्च' । लटः शत्रादेशः । ‘ इदितो नुम् धातोः' (पा, सू. ७. १, ५८) इति नुमागमः । कर्तरि शपि प्राप्ते ‘ धिन्विकृण्व्योर च' ( पा. सू. ३. १, ८० ) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । ‘ अतो लोपः ' ( पा. सू. ६. ४. ४८) इति अकारलोपः। तस्य स्थानिवद्भादात् पूर्वस्य लघूपधगुणो (पा. सू. ७. ३. ८६ ) न भवति । अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । अकेतवे । बहुव्रीहौ ‘नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । पेशः ॥ ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू. २६ ) इत्याद्युदात्तः । मर्याः । छन्दसि निष्टर्क्य° ' (पा. सू. ३, १. १२३) इत्यादौ म्रियतेर्निपातः । आमन्त्रितनिघातः ( पा. सू. ८. १. १९) । असामर्थ्यात् पूर्वस्य न पराङ्गवद्भावः । अपेशसे । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सम् ॥ निपात आद्युदात्तः। उषद्भिः । ‘ उष प्लुष दाहे' । ज्वलद्भिः रश्मिभिः । लटः शत्रादेशे शपि प्राप्ते व्यत्ययेन शः । ‘सार्वधातुकमपित्' (पा. सू. १. २. ४ ) इति तस्य ङित्त्वात् लघूपधगुणो न भवति । शस्य प्रत्ययस्वरेणोदात्तत्वम्। उपरि शतुरदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । एकादेश उदात्तेनोदात्तः ' ( पा. सू. ८. २. ५ ) । अजायथाः । अजायत इत्यर्थे पुरुषव्यत्यये निघातः
“Mortals, you owe your (daily) birth (to such an Indra), who with the rays of the morning gives sense to the senseless, and to the formless form.”
Thou, making light where no light was, and form, O men: where form was not,
Wast born together with the Dawns.
You young men—making a beacon for that without beacon and an ornament for that without ornament,
you [=Agni] were born together with the dawns.
O Held, dem Dunklen schaffend Licht, Gestalt dem, was gestaltlos war, Entsprangst du mit dem Morgenroth.
Dem Richtlosen die Richte gebend, dem Farblosen Farbe, ihr Männer, wurdest du mit den Morgenröten zusammen geboren.
Создавая свет для бессветного,
Форму, о люди, для бесформенного,
Вместе с зорями ты родился.
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे । दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥
आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् आ॒ऽई॒रि॒रे । दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥
अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘ आदह स्वधामनु' इति द्वे ऋचौ । ‘इन्द्रेण सं हि दृक्षसे' इत्येका । अयं तृचः षळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं ‘ चतुर्विंशे होताजनिष्ट' इति खण्डे-’ इन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च' (आश्व. श्रौ. ७.२) इति । यद्यप्येतदैन्द्रं सूक्तं तथापि ‘आदह' इत्यादिषु षट्सु मरुतो वर्ण्यन्ते। ‘प्रायेणैन्द्रे मरुतः इति अनुक्रमणिकायामुक्तत्वात् (अनु. २. २२)। आत् इत्ययम् आनन्तर्यार्थो निपातः। अह इत्यवधरणार्थः। आदह वर्षर्तोरनन्तरमेव । स्वधामनु। इतः परं जनिष्यमाणमन्नमुदकं वा अनुलक्ष्य मरुतो देवाः गर्भत्वम् एरिरे मेघमध्ये जलस्य गर्भाकारं प्रेरितवन्तः। जलस्य कर्तारं पर्जन्यं प्रेरितवन्तः । प्रतिसंवत्सरमेवं कुर्वन्तीति दर्शयितुं पुनःशब्दः प्रयुक्तः। कीदृशा मरुतः । यज्ञियं यज्ञार्हं नाम दधानाः धारयन्तः । सप्तसु गणेषु मरुताम् ‘ईदृङ्चान्यादृङ्च' इत्यादीनि यज्ञयोग्यानि नामानि अन्यत्राम्नातानि । ‘ अन्धः' इत्यादिष्वष्टाविंशतिसंख्याकेष्वन्ननामसु “ ऊर्क् रसः स्वधा' (नि. २. ७. १७ ) इति पठितम् । अर्णः' इत्यादिष्वेकशतसंख्याकेषूदकनामसु ‘तेजः स्वधा अक्षरम्' (नि. १. १२. ९७) इति पठितम् ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति स्वधा । आतोऽनुपसर्गे कः ' ( पा. सू. ३. २. ३ )। कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्दौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अन्तर्भावितण्यर्थात् ‘ईर गतौ ' इत्यस्मात् अनुदात्तेतः परस्य लिटो झस्य इरेच् (पा. सू. ३. ४. ८१ )। चित्त्वादन्तोदात्तः । ‘सह सुपा' (पा. सू. २. १. ४ ) इत्यत्र सुपेति योगविभागात् आङा सह तिङः समासेऽपि ‘ समासस्य ' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः ' ( पा. सू. ३. १. ३६ ) इति आम् न भवति मन्त्रत्वात् । अहशब्दयोगात् निघाताभावः, ‘तुपश्यपश्यताहैः पूजयाम्' (पा. सू. ८.१.३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादन्तोदात्तत्वे प्राप्ते ' अभ्यस्तानामादिः ' (पा. सू. ६.१.१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । ‘ यज्ञर्त्विग्भ्यां घखञौ ' ( पा. सू. ५. १. ७१ ) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ' ( पा. सू. ७. १. २ ) इति इयादेशः । प्रत्ययस्वरेण इकार उदात्तः ॥
“Thereafter verily those who bear names invoked in holy rites (the Maruts) having seen the rain (about to be engendered), instrumental gated him to resume his embryo condition (in the clouds).”
Thereafter they, as is their wont, threw off the state of babes unborn,
Assuming sacrificial names.
Certainly, just after that they once again roused his embryonic state [=kindled the fire] according to his nature,
acquiring for themselves a name worthy of the sacrifice.
Die Maruts dann nach ihrem Brauch entsprangen neu aus dem Gewölk Und nahmen heil'ge Namen an.
Dann haben sie es ja zustande gebracht, das er nach eigenem Gesetz immer wieder neugeboren wird, und haben sich einen opferwürdigen Namen gemacht.
Тогда же они устроили, что по своей воле
Он стал рождаться снова (и снова),
И сотворили себе имя, достойное жертвы.
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः । अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः । अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥
अस्ति किंचिदुपाख्यानम् । पणिभिर्देवलोकात् गावोऽपहृता अन्धकारे प्रक्षिप्ताः । ताश्चेन्द्रो मरुद्भिः सहाजयदिति । एतच्चानुक्रमणिकायां सूचितं-‘पणिभिरसुरैर्निगूळ्हा गा अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुः' (अनु.ऋ.सं.१०.१०८) इति । मन्त्रान्तरे च दृष्टान्ततया सूचितं’ निरुद्धा आपः पणिनेव गावः' (ऋ. सं. १. ३२. ११ ) इति । तदेतदुपाख्यानमभिप्रेत्योच्यते । हे इन्द्र वीळु चित् दृढमपि दुर्गमस्थानम् आरुजत्नुभिः भञ्जद्भिः वह्निभिः वोढृभिरन्यत्र नेतुं समर्थैर्मरुद्भिः सहितस्त्वं गुहा चित् गुहायामपि स्थापिता उस्रियाः गाः अनु अविन्दः अन्विष्य लब्धवानसि ।' ओजः पाजः' इत्यादिष्वष्टाविंशतिसंख्याकेषु बलनामसु “ दक्षः वीळु च्यौत्नम् ' ( नि. २. ९. १४ ) इति पठितम् । नवसंख्याकेषु गोनामसु “ अघ्न्या उस्रा उस्रिया' (नि. २. ११. ३) इति पठितम् ॥ वीळु । प्रातिपदिकस्वरः । चित् । चादिरनुदात्तः । आरुजत्नुभिः । ‘रुजो भङ्गे' इति औणादिकः कत्नुच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । गुहा । सप्तम्या डादेशः । ‘ ग्रामादीनां च ' ( फि. सू. ३८ ) इत्याद्युदात्तः । वह्निभिः । ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्' ( उ. सू. ४. ४९१ ) इति वहेः निप्रत्ययः । नित्त्वादाद्युदात्तः । अविन्दः । ‘ शे मुचादीनाम् ' ( पा. सू. ७. १. ५९ ) इति नुमागमः । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः' ( पा. सू. ६. ४. ७१ )। वसन्तीति उस्रियाः । वसेः कर्तरि रियक्प्रत्ययः षत्वाभावश्च बाहुलकादूहनीयः । उक्तं हि-’ यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ' ( पा. सू. ३. ३. १. २ ) इति । इकारः प्रत्ययस्वरेणोदात्तः ॥ ॥ ११ ॥
“Associated with the conveying Maruts, the traversers of plural ces difficult of access, your Indra, have discovered the cows hidden in the cave.”
Thou, Indra, with the Tempest-Gods, the breakers down of what is firm,
Foundest the kine even in the cave.
Along with the (ritual-)conveyors [=Aṅgirases] who break even the stronghold, o Indra,
you discovered the ruddy (cattle) even though in hiding.
Mit ihnen, die das Feste auch im Sturm zerbrechen, fandest du die Kühe, Indra, im Versteck.
Mit den Opferleitern, die sogar das Feste erbrechen, fandest du sogar im Versteck die Kühe wieder, Indra.
С возницами, проламывающими даже твердыни,
О Индра, ты отыскал коров,
Даже (когда они были спрятаны) в тайнике.
दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिर॑: । म॒हाम॑नूषत श्रु॒तम् ॥
दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ । म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥
देवयन्तः मरुसंज्ञकान् देवानिच्छन्तः गिरः स्तोतारः ऋत्विजः महां प्रौढं मरुद्रणम् अच्छ प्राप्तुम् अनूषत स्तुतवन्तः । कीदृशं मरुद्गणम् । विदद्वसुं वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्धनैर्युक्तं श्रुतं विख्यातम् । मरुद्गणस्य दृष्टान्तः । यथा मतिम् । मन्तारमिन्द्रं यथा स्तुवन्ति तथेत्यर्थः ॥ देवयन्तः देवानात्मन इच्छन्तः । ‘ सुप आत्मनः क्यच् ' ( पा. सू. ३. १. ८)। ‘ क्यचि च' (पा. सू. ७. ४. ३३ ) इति ईत्वम्, ‘अकृत्सार्वधातुकयोर्दीर्घः' ( पा. सू. ७. ४. २५) इति दीर्घत्वं च न भवति; ‘ न च्छन्दस्यपुत्रस्य' ( पा. सू. ७. ४. ३५ ) इत्यनेन क्यचि यत् प्राप्तम् ईत्वं दीर्घत्वं वा तस्य सर्वस्य प्रतिषेधात् । यद्यपि ईत्वमेव प्रकृतं तथापि व्यवहितस्यापि दीर्घत्वस्य स प्रतिषेध इति विज्ञायते; ‘ अश्वायन्तः' इत्यादौ • अश्वाघस्यात्' (पा. सू. ७. ४. ३७) इति आत्वविधानात् इति ह्युक्तम् । क्यजन्तात् शतृप्रत्ययः । क्यचश्चित्त्वात् 'चितः' (पा. सू. ६. १. १६३) इत्यन्तोदात्तत्वम् । शपः पित्त्वेन शतुश्च लसार्वधातुकस्वरेणानुदात्तत्त्वे ' एकादेश उदात्तेनोदात्तः ' (पा. सू. ८. २. ५) इत्युदात्तः । यथा । ‘ प्रकारवचने थाल् ' (पा. सू.५, ३. २३)। ‘ लिति' ( पा. सू. ६. १. १९३ ) इति प्रत्ययात् पूर्वमुदात्तत्वम् । मतिम् । ‘मन्त्रे वृषेषपचमन (पा. सू. ३. ३. ९६) इत्यादिना क्तिन् उदात्तः । मतिशब्दो ज्ञानपरोऽप्युपचारात् ज्ञातरि इन्द्रे वर्तते । अथवा पदान्तरे विशेष्यानुपादानात् इन्द्रस्यैषा संज्ञा । ततश्च ‘ क्तिच्क्तौ च संज्ञायाम् ' (पा. सू. ३. ३. १७४) इति मन्यतेः कर्तरि क्तिच् । तस्य उपदेशेऽनुदात्तत्वात् इट्प्रतिषेधः (पा. सू. ७.२.१०)। चित्त्वादन्तोदात्तत्वम् । अच्छ । अध्याहृतगच्छत्यर्थयोगात् ' अच्छ गत्यर्थवदेषु' (पा. सू. १. ४. ६९) इति गतिसंज्ञया सह निपातसंज्ञाया अपि समावेशात् ( पा. सू. १. ४. ६० ) ‘ निपाता आद्युदात्ताः' ( फि. सू. ८०) इस्याद्युदात्तत्वम् । विदद्वसुम्। 'विद ज्ञाने' इत्यस्मादन्तर्भावितण्यर्थात् शतृप्रत्यये विदन्ति औदार्यातिशयवत्तया ज्ञापयन्ति वसूनि धनानि यं स विदद्वसुः । विदेः शतृप्रत्यये ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २. ४. ७२ ) इति शपो लुकि प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । गृणन्ति स्तुवन्तीति गिरः । गृणातेः क्विपि ‘ ऋत इद्धातोः ' ( पा. सू. ७. १. १००) इति इत्वं रपरत्वम् । धातुस्वरेणोदात्तत्वम् । महां महान्तम् । नकारतकारयोर्लोपः छान्दसः । प्रातिपदिकस्वरेणोदात्तत्वम् । अनूषत । णु स्तुतौ । व्यत्ययेनात्मनेपदम् । लुङि झस्य अदादेशः (पा. सू. ७. १. ५)। सिचि कुटादित्वेन ङित्त्वात् ( पा. सू. १. २. १) गुणाभावः । इडभाव उकारदीर्घत्वं च छान्दसम् । निघातः । श्रुतम् । प्रत्ययस्वरः ॥
“The reciters of praises praise the mighty (troop of Maruts), who are celebrated, and conscious of the power of bestowing wealth, in like manner as they (glorify) the counsellor (Indra).”
Worshipping even as they list, singers laud him who findeth wealth,
The far-renowned, the mighty One.
As those seeking the gods (bellow) their thought, the songs have bellowed to the finder of goods,
great and famous.
Die frommen Sänger haben nach ihrer Einsicht dem grossen, berühmten, schatzspendenden [Indra] zugejauchzt
Wie Gottverlangende, die das Lied vortragen, so haben die Lobreden den großen, berühmten Schätzefinder hervorgerufen.
Как стремящиеся к богу (возносят) молитву,
Воспевания превозносили
Отыскивателя богатств, великого, знаменитого.
इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा । म॒न्दू स॑मा॒नव॑र्चसा ॥
इन्द्रे॑ण । सम् । हि । दृक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा । म॒न्दू इति॑ । स॒मा॒नऽव॑र्चसा ॥
हे मरुद्गण त्वम् इन्द्रेण संजग्मानः संगच्छमानः सं दृक्षसे हि सम्यग्दृश्येथाः खलु। अवश्यमस्माभिर्द्रष्टव्य इत्यर्थः । कीदृशेनेन्द्रेण । अबिभ्युषा भीतिरहितेन । कीदृशाविन्द्रमरुद्गणौ । मन्दू नित्यप्रमुदितौ । समानवर्चसा तुल्यदीप्ती । पुरा कदाचित् वृत्रवधदशायामिन्द्रस्य सखायः सर्वे देवा वृत्रश्वासेन अपसारिताः । तदानीमिन्द्रस्य वृत्रसंबन्धिसकलसेनाजयार्थं मरुद्भिः संगमोऽभूत् । सोऽयमर्थो ‘ वृत्रस्य त्वा श्वसथात् (ऋ. सं. ८. ९६. ७) इति मन्त्रे संगृहीतः, इन्द्रो वै वृत्रं हनिष्यन् । ( ऐ. ब्रा. ३. २० ) इति ब्राह्मणे प्रपञ्चितश्च । इन्द्रशब्दः परमैश्वर्यवन्तं मरुद्गणं वाऽभिधत्ते । तदानीमिन्द्रस्य संबोधनं बहिरेवाध्याहर्तव्यम् । तथा चेयमृक् यास्केन व्याख्याता–‘इन्द्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन मन्दू मदिष्णू युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समानवर्चसेत्येतेन व्याख्यातम् ' ( निरु. ४. १२ ) इति ॥ सं दृक्षसे संपश्येथाः । ‘ दृशेश्चेति वक्तव्यम् ' ( का. १. ३. २९.) इत्यात्मनेपदम् । दृशेः ‘लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । थासः से' ( पा. सू. ३. ४. ८०)। ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४ ) इत्यडागमः । ‘ सिब्बहुलं लेटि' (पा. सू. ३. १. ३४) इति सिप् । ‘संज्ञापूर्वको विधिरनित्यः' (परिभा० ९३.१ ) इति गुणाभावः । व्रश्चादिना (पा. सू. ८. २. ३६ ) षत्वम् । षढोः कः सि' (पा. सू. ८.२.४१) इति कत्वम् ।' आदेशप्रत्यययोः' ( पा. सू. ८. ३. ५९ ) इति सिपः षत्वम् । बहुलग्रहणात् सिपः परस्तात् शबपि भवति ( पा. सू. २. ४. ७३ )। सिपा व्यवधानात् पश्यादेशो न भवति ( पा. सू. ७. ३. ७८ )। शपः पित्त्वादनुदात्तत्वम् । उत्तरस्य लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । हिशब्दयोगात् तिङ्ङतिङः' इति निघातो न भवति ‘ हि च ' ( पा. सू. ८. १. ३४ ) इति प्रतिषेधात् । संजग्मानः । गमेः संपूर्वात् छन्दसि लुड्लङ्लिटः ' ( पा. सू. ३.
४. ६ ) इति वर्तमाने लिट् ।' समोगम्यृच्छिभ्याम् ' (पा. सू. १. ३. २९ ) इत्यात्मनेपदविधानात् लिटः कानजादेशः ( पा. सू. ३. २. १०६ )। द्विर्भादः ( पा. सू. ६. १. ८)। हलादिशेषः ( पा. सू. ७. ४. ६० )। अभ्यासस्य चुत्वम् ( पा. सू. ७. ४. ६२ )। ‘ गमहन° ' ( पा. सू. ६. ४. ९८ ) इत्युपधालोपः । कानचश्चित्त्वादन्तोदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अबिभ्युषा ।' ञिभी भये ' । पूर्ववल्लिट् । ' शेषात्कर्तरि परस्मैपदम् ' (पा. सू. १.३.७८) इति परस्मैपदम् ।' क्वसुश्च ' ( पा. सू. ३. २. १०७ ) इति लिटः क्वसुरादेशः । तस्य कित्त्वाद्गुणाभावः । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे ( पा. सू. ७. ४. ५९, ८, ४. ५४ )। क्रादिनियमात् (पा.सू. ७. २. १३) प्राप्त इट् ‘वस्वेकाजाद्धसाम्' (पा. सू. ७. २. ६७ ) इति नियमान्निवर्तते । नञ्समासे तृतीयैकवचने भत्वात् ‘ वसोः संप्रसारणम् ' ( पा. सू. ६. ४. १३१ ) इति वकारस्य उकारः । ‘ संप्रसारणाच्च' (पा. सू. ६. १. १०८ ) इति पूर्वरूपत्वम् । ‘ शासिवसिघसीनां च ' ( पा. सू. ८. ३. ६० ) इति षत्वम् । इयङादेशं बाधित्वा ‘ एरनेकाचोऽसंयोगपूर्वस्य ' ( पा. सू. ६. ४.८२) इति यणादेशः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पूर्वेण सह संहितायामोकारस्य एङः पदान्तादति' (पा. सू. ६. १. १०९ ) इति परपूर्वत्वे प्राप्ते ‘प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५ ) इति प्रकृतिभावः । मन्दू । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । ‘इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुमागमः । ‘कुः' इत्यनुवृत्तौ ‘खरु शङ्कु पीयु नीलङ्गु लिगु ' (उ. सू. १. ३६ ) इत्यत्र अविभक्तिकनिर्देशात् हन्तेः हिगुरितिवत् धात्वन्तरादपि कुः इत्युक्तम् । प्रत्ययस्वरेणान्तोदात्तः । द्विवचनम् औ ( पा. सू. ४. १. २ )। ‘प्रथमयोः पूर्वसवर्णः ' ( पा. सू. ६. १. १०२ )। तृतीयैकवचने चेत् ‘सुपां सुलुक्' (पा. सू. ७. १. ३९) इत्यादिना पूर्वसवर्णदीर्घत्वम् । समानवर्चसा । समानं वर्चो ययोरिति वा यस्येति वा बहुव्रीहिः । द्विवचने ‘सुपां सुलुक्' इत्यादिना आकारादेशः । समानपदस्य प्रातिपदिकान्तोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण तदेवावशिष्यते ॥
“May you be seen, Maruts, accompanied by the undaunted Indra; (both) rejoicing, and of equal splendour.”
Mayest thou verily be seen coming by fearless Indra's side:
Both joyous, equal in your sheen.
Since you [=Agni] will come to sight along with Indra, having joined together with the fearless one,
(you two are) the delighting pair who share the same luster.
Mit Indra fahrend zeige dich, o Schar, mit ihm der furchtlos ist, Erfreuend, beide gleich an Glanz.
So mögest du denn mit Indra zusammen erscheinen, mit dem Furchtlosen zusammenkommend, beide erfreulich und von gleicher Schönheit.
О если б появился ты вместе с Индрой,
Двигаясь вместе с бесстрашным, –
(Вы оба) радостные, с равным блеском.
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति । ग॒णैरिन्द्र॑स्य॒ काम्यै॑: ॥
अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ । ग॒णैः । इन्द्र॑स्य । काम्यैः॑ ॥
मखः प्रवर्तमानोऽयं यज्ञः अनवद्यैः दोषरहितैः अभिद्युभिः द्युलोकमभिगतैः काम्यैः फलप्रदत्वेन कामयितव्यैः गणैः मरुत्समूहैः सहितम् इन्द्रस्य इन्द्रं सहस्वत् बलोपेतं यथा भवति तथा अर्चति पूजयति । अयं यज्ञो मरुत इन्द्रं चातिशयेन प्रीणयतीत्यर्थः । यज्ञः' इत्यादिषु पञ्चदशसु यज्ञनामसु ‘मखः विष्णुः ' (नि. ३. १७. ११ ) इति पठितम् । चतुश्चत्वारिंशत्सु अर्चतिकर्मसु • अर्चति गायति' ( नि. ३. १४. १ ) इति पठितम् ॥ न विद्यतेऽवद्यं येषां तेऽनवद्याः । ‘ नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । अभिगता द्यौर्यैस्तेऽभिद्यवः । तैरभिद्युभिः। अभिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । मखः । प्रातिपदिकस्वरः। सहो बलमस्मिन्नर्चनकर्मण्यस्तीति सहस्वत् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् सकारस्य रुत्वाभावः । ‘ मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा. सू. ८. २. ९) इति मतुपो मस्य वत्वम् । सहस्शब्दो ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते । काम्यैः। कमेर्णिङ्' (पा. सू. ३. १. ३०)। अत उपधायाः ' ( पा. सू. ७. २. ११६ ) इति वृद्धिः । ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' (भ्वा. ग. सू.) इति अमन्तत्वेन प्राप्तस्य मित्त्वस्य ‘न कम्यमिचमाम् ' (भ्वा. ग. सू.) इति प्रतिषेधात् ‘मितां ह्रस्वः ' ( पा. सू. ६. ४. ९२ ) इति उपधाह्रस्वत्वं न भवति । ण्यन्तात् ‘ अचो यत् ' ( पा. सू. ३. १. ९७ )। णिलोपः (पा. सू. ६. ४.५१ )।' तित्स्वरितम् ' (पा. सू. ६. १. १८५) इति प्राप्ते “ यतोऽनावः ' (पा. सू. ६. १. २१३) इत्याद्युदात्तत्वम् ॥
“This right is performed in adoration of the powerful Indra, along with the irreproachable, heavenward- tending, and amiable bands (of the Maruts).”
With Indra's well beloved hosts, the blameless, hastening to heaven,
The sacrificer cries aloud.
Together with the irreproachable, heaven-bound (Aṅgirases), the battler chants mightily,
together with Indra’s beloved troops.
Mit Indra's makelloser Schar, der lieben, die zum Himmel strebt, Erglänzet kräftiglich der Held.
Mit den untadeligen himmlischen, bei Indra beliebten Sängerscharen singt der Freigebige das sieghafte Lied.
С безупречными, небесными,
Желанными для Индры толпами (певцов)
Щедрый громко распевает (победную песнь).
अत॑: परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ । सम॑स्मिन्नृञ्जते॒ गिर॑: ॥
अतः॑ । प॒रि॒ज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ । सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥
हे परिज्मन् परितो व्यापिन् मरुद्गण अतः अस्मात् मरुद्गणस्थानादन्तरिक्षात् आ गहि अस्मिन् कर्मण्यागच्छ । दिवो वा द्युलोकाद्वा समागच्छ । रोचनादधि दीप्यमानादादित्यमण्डलाद्वा समागच्छ। अस्मदीयकर्मकाले यत्र यत्र तिष्ठसि ततः सर्वस्मादागच्छ इत्यर्थः। किमर्थमागमनमिति तदुच्यते। अस्मिन् कर्मणि वर्तमान ऋत्विक् गिरः स्तुतीः सम् ऋञ्जते सम्यक् प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा' (निरु० ६. २१ ) इति यास्कः । एताः स्तुतीः श्रोतुमागच्छ इत्यर्थः । यद्यपि ऋत्विजा मन्त्रस्य प्रयुज्यमानत्वात् ऋञ्जतिधातोः उत्तमपुरुषेण भवितव्यं तथापि परोक्षकृतत्वेन निर्देशात् प्रथमपुरुषप्रयोगः । परोक्षकृतलक्षणं च यास्क आह-’ तास्त्रिविधा ऋचः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते प्रथमपुरुषैश्चाख्यातस्य' (निरु. ७. १ ) इति । अतः । ‘पञ्चम्यास्तसिल्' (पा. सू. ५. ३. ७)।’ ‘एतदोऽश् ' ( पा. सू. ५. ३. ५)। शित्त्वात् सर्वादेशः (पा. सू. १. १. ५५ )। लिति ' ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । परिज्मन् । “ अज गतिक्षेपणयोः' । अन्येभ्योऽपि दृश्यन्ते' ( पा. सू. ३. २. ७५ ) इति मनिन् । अकारलोपः छान्दसः । आमन्त्रितनिघातः । गहि । गमेः ' बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति शपो लुक् । हेर्ङित्त्वात् (पा. सू. ३. ४. ८७ ) ‘ अनुदात्तोपदेश° ' ( पा. सू. ६. ४. ३७ ) इत्यादिना मलोपः । अतो हेः ' ( पा. सू. ६. ४. १०५) इति हिलोपो न भवति, तस्मिन् कर्तव्ये “ असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इति मलोपस्य असिद्धत्वेन अनकारान्तत्वात् । दिवः। ऊडिदम् ' (पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । वा। चादयोऽनुदात्ताः ' (फि. सू. ८४) इत्यनुदात्तः । रोचनात् । “ रुच दीप्तौ ' । ‘ अनुदात्तेतश्च हलादेः ' (पा. सू. ३. २. १४९) इति युच् । युवोरनाकौ ' (पा. सू. ७. १. १) इति अनादेशः । चिदित्यन्तोदात्तः । अधि। ‘ अधिपरी अनर्थकौ ' ( पा. सू. १. ४, ९३ ) इति कर्मप्रवचनीयत्वेन सह निपातसंज्ञायाः समावेशात् निपाता आद्युदात्ताः' (फि. सू. ८० ) इत्याद्युदात्तः । अस्मिन् । परिज्मन् इति आदिष्टस्यैव अन्वादेशात् इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ( पा. सू. २. ४. ३२ ) इति अश् अनुदात्तः । शित्त्वात् सर्वादेशः । विभक्तिः ‘ अनुदात्तौ सुप्पितौ' ( पा. सू. ३. १. ४ ) इत्यनुदात्ता इति सर्वानुदात्तत्वम् । ऋञ्जते । ‘ ऋजि भृजी भर्जने'। सम् इत्युपसर्गयोगात् प्रसाधने वर्तते । निघातः । गिरः । प्रातिपदिकस्वरः ॥
“Therefore, circumambient (troop of Maruts), come hither, whether from the region of the sky or from the solar sphere; for in this rite (the priest) fully recites your praises.”
Come from this place, O Wanderer, or downward from the light of heaven:
Our songs of praise all yearn for this.
From there or from the luminous realm of heaven come here, o earth-circling one.
The songs converge on him.
Von dort komm her, o fahrender, und von des Himmels lichter Höh, Die Lieder streben hin zu dir.
Komm von dort her, du Umherziehender, oder von des Himmels Lichtreich! Ihm streben die Lobreden gemeinsam zu.
Приди оттуда, о блуждающий вокруг,
Или со светлого пространства неба!
К нему устремились вместе (все) голоса.
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ । इन्द्रं॑ म॒हो वा॒ रज॑सः ॥
इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒व । वा॒ । पार्थि॑वात् । अधि॑ । इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥
इन्द्रं देवं प्रति सातिं धनदानम् अधि ईमहे आधिक्येन याचामहे । कस्माल्लोकादिति तदुच्यते। इतः अस्मादभिदृश्यमानात् पार्थिवात् पृथिवीलोकाद्वा दिवो वा द्युलोकाद्वा महः महतः प्रौढात् रजसः वा पक्ष्यादीनां रञ्जकादन्तरिक्षलोकाद्वा । अयमिन्द्रो यतः कुतश्चिदानीय अस्मभ्यं धनं प्रयच्छत्वित्यर्थः । सप्तदशसु याच्ञाकर्मसु “ ईमहे यामि' ( नि. ३. १९. १ ) इति पठितम् ॥ इतः । इदंशब्दात् पञ्चम्याः तसिल् । इदम इश्' ( पा. सू. ५. ३. ३ ) इति इश् । शित्त्वात् सर्वादेशः । अत्र ‘ ऊडिदम्' ( पा. सू. ६. १. १७१ ) इत्यस्यावकाशः आभ्याम् एभिः । ‘ लिति' (पा. सू. ६. १. १९३) इत्यस्यावकाशः पचनं पाचकः। उभावपि नित्यौ। तत्र परत्वात् ‘विप्रतिषेधे परं कार्यम् ' ( पा. सू. १. ४. २ ) इति ‘ लिति ' इति इकारस्य उदात्तत्वम् । पश्चात् तसेः ‘ प्राग्दिशो विभक्तिः ' (पा. सू. ५. ३. १) इति विभक्तिसंज्ञकत्वात् “ ऊडिदम्' इत्यादिना असर्वनामस्थानविभक्तेरुच्यमानम् उदात्तत्वं भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ' (परिभा. ४० ) इति ‘ ऊडिदम्' इत्यस्य पुनरप्रवृत्तिरेव इति चेत्, न । लक्ष्यानुरोधेन पुनः प्रसङ्गविज्ञानं चेति स्वीकारात् ( परिभा. ३९ ) । ननु एवं यतस्तत इत्यादावपि परेण लित्स्वरेण बाधितमपि सावेकाचः० (पा. सू. ६. १. १६८ ) इति तसिलः उदात्तत्वं स्यादिति चेत्, न । यत्तच्छब्दयोः साववर्णान्तत्वे ‘ न गोश्वन्साववर्ण' ( पा. सू. ६. १. १८२ ) इति निषेधात् । न च पुनः प्रसङ्गविज्ञानं चेत्येतत् सार्वत्रिकं लक्ष्यानुरोधेन क्वचिदेव तदाश्रयणादिति । सातिम् । षणु दाने '। धात्वादेः षः सः ' ( पा. सू. ६. १. ६४ )। भावे क्तिन् । जनसनखनां सञ्झलोः ' ( पा. सू. ६. ४. ४२ ) इति नकारस्य आत्वम् । “ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति निषेधात् इण् न भवति । नित्स्वरे प्राप्ते ‘ उदात्तः' इत्यनुवृत्तौ ' ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति निपातनादन्तोदात्तत्वम् । ईमहे । ‘ ईङ् गतौ । श्यनोऽपि ‘ बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति लुक् । अस्य धातोर्ङित्त्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' ( पा. सू. ६. १. १८६ ) इति लसार्वधातुकस्य अनुदात्तत्वे धातुस्वर एव शिष्यते । न च ‘ तिङ्ङतिङः' इति निघातः, ‘चवायोगे प्रथमा ' ( पा. सू. ८. १. ५९ ) इति निषेधात् । उत्तरवाक्ययोरपि हि वाशब्दयोगात् अन्यथा वाक्यापरिपूर्तेः तिङ्विभक्तेः अवश्यमध्याहारात् तदपेक्षया एषा प्रथमा तिङ्विभक्तिरिति । दिवः । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पार्थिवात् । ‘ प्रथ प्रख्याने '। प्रथते इति पृथिवी । ‘ प्रथेः षिवन् संप्रसारणं च ' ( उ. सू. १. १४८) इति षिवन्प्रत्ययः । ‘ षिद्गौरादिभ्यश्च ' ( पा. सू. ४. १. ४१ ) इति ङीप् । प्रत्ययस्वरेणोदात्तः । शेषनिघातेन अनुदात्तादिः पृथिवीशब्दः । पृथिव्या विकार इत्यर्थे ' ओरञ् ' (पा. सू. ४. ३. १३९) इत्यनुवृत्तौ ' अनुदात्तादेश्च' ( पा. सू. ४. ३. १४० ) इति अञ् । यस्येति च ' (पा. सू. ६. ४. १४८ ) इति ईकारलोपः । तद्धितेष्वचामादेः ' (पा. सू. ७. २. ११७ ) इति आदिवृद्धिः । रपरत्वम् (पा. सू. १. १. ५१) । ञ्नित्यादिर्नित्यम् । ( पा. सू. ६. १. १९७) इत्याद्युदात्तः । अधि । निपातत्वादाद्युदात्तः । इन्द्रम् । रन्प्रत्ययान्त आद्युदात्तः । महः । महतः इत्यस्य अकारतकारयोर्लोपश्छान्दसः । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । रजसः । ‘ नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तत्वम् ॥ ॥ १२ ॥
“We invoke, Indra, whether he come from this earthly region, or from the heaven above, or from the vast firmament; that he may give (us) wealth.”
Indra we seek to give us help, from here, from heaven above the earth,
Or from the spacious firmament.
We beseech Indra for gain from here, the earthly realm, or from heaven, or from the great airy space.
Von dort her bitten um Geschenk, vom Himmel, von der Erde, wir Den Indra, und aus weiter Luft.
Wir bitten Indra um Lohn, sei es von hier oder vom Himmel, vom irdischen oder vom großen Luftraum.
Мы молим Индру о добыче
Отсюда ли или с неба,
Из земного (ли пространства) или из великого (воздушного).