वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् । द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥
वह्नि॑म् । य॒शस॑म् । वि॒दथ॑स्य । के॒तुम् । सु॒प्र॒ऽअ॒व्य॑म् । दू॒तम् । स॒द्यःऽअ॑र्थम् । द्वि॒ऽजन्मा॑नम् । र॒यिम्ऽइ॑व । प्र॒ऽश॒स्तम् । रा॒तिम् । भ॒र॒त् । भृग॑वे । मा॒त॒रिश्वा॑ ॥
वह्निं हविषां वोढारं यशसं यशस्विनं विदथस्य केतुं यज्ञस्य प्रकाशयितारं सुप्राव्यं सुष्ठु प्रकर्षेण रक्षितारं दूतं देवैर्हविर्वहनलक्षणे दूत्ये नियुक्तं सद्योअर्थं यदा हवींषि जुह्वति सद्यस्तदानीमेव हविर्भिः सह देवान् गन्तारम् । यद्वा। सद्यः अर्थम् अरणं गमनं यस्य तम् । द्विजन्मानं द्वयोर्द्यावापृथिव्योररण्योर्वा जायमानं रयिमिव धनमिव प्रशस्तं प्रख्यातम् एवंभूतमग्निं मातरिश्वा वायुः भृगवे एतत्संज्ञकाय महर्षये रातिं भरत् मित्रमहरत् । अकरोदित्यर्थः। ‘रातिना संभाष्य' ( आप. गृ. १२. १४ ) इत्यत्र रातिर्मित्रमिति कपर्दिनोक्तम् । रातिः पुत्र इत्येके । एतदर्थप्रतिपादकं मन्त्रान्तरं च भवति- रातिं भृगूणामुशिजं कविक्रतुम्' (ऋ. सं. ३. २. ४ ) इति । वह्निम् । वहिश्रियुश्रुग्लाहात्वरिभ्यो नित्' इति वहतेर्निप्रत्ययः । निद्वद्भावादाद्युदात्तत्वम् । यशसम् । यशस्शब्दात् उत्तरस्य विनो लुक् । व्यत्ययेनान्तोदात्तत्वम् । यद्वा । अर्शआदित्वात् अच् । स्वरः पूर्ववत् । सुप्राव्यम् । सुष्ठु प्रकर्षेणावति रक्षतीति सुप्रावीः । उपसर्गद्वयोपसृष्टात् अवतेः “ अवितॄस्तृतन्त्रिभ्य ईः' ( उ. सू. ३. ४३८ ) इति ईकारप्रत्ययः । ‘वा छन्दसि' इति अमि पूर्वः' इत्यस्य विकल्पे सति यणादेशः । उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । सद्योअर्थम् । उषिकुषिगार्तिभ्यस्थन् ' इति
अर्तेः कर्तरि थन्प्रत्ययः । सद्य एवार्थों गन्ता सद्योअर्थः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि तु ‘अव्यये नञ्कुनिपातानामिति वक्तव्यम् ' (पा. सू. ६. २. २. ३ ) इति अव्ययग्रहणेन त्रितयं गृह्येत तर्हि बहुव्रीहिस्वरो भविष्यति । मातरिश्वा । सर्वनिर्माणहेतुत्वात् माता अन्तरिक्षम् । श्वसितिरत्र गतिकर्मा। मातरि अन्तरिक्षे श्वसिति गच्छतीति मातरिश्वा । ‘ श्वन्नुक्षन्' इत्यादौ निपातनात् रूपसिद्धिः । यद्वा । मातरि अन्तरिक्षे शु आशु असति गच्छतीति मातरिश्वा । ‘ अस गतिदीप्त्यादानेषु ' इत्यस्मात् औणादिको ड्वन्प्रत्ययः । एतच्च यास्केनोक्तम् ( निरु. ७. २६ ) ॥
“Mātariśvan brought, as a friend, to Bhṛgu, the celebrated Vahni, the illuminato of sacrifices, the careful protector (of his votaries), the swift-moving messenger (of the gods), the offspring of two parents, (to be to him) as it were a precious treasure.”
As 'twere Some goodly treasure Matarisvan brought, as a gift, the glorious Priest to Bhrgu,
Banner of sacrifice, the good Protector, child of two births, the swiftly moving envoy.
Mâtarisvan brought (Agni) to Bhrigu as a gift precious like wealth, of double birth 1, the carrier, the famous, the beacon of the sacrifice 2, the ready and immediately successful messenger.
Glorious conveyor and beacon of the rite, pursuing (his ritual duties) well, the messenger who immediately (reaches) his goal,
of double birth, celebrated like wealth—Mātariśvan brought him as a gift to Bhr̥gu.
Den schönen Fährmann und des Opfers Banner, den Boten, der sehr emsig rasch zum Ziel dringt, Den zwiegebornen gleich gepriesnem Reichthum, bracht als Geschenk dem Bhrigu Matariçvan.
Den geehrten Wagenfahrer, das Banner des Opfers, den Boten, der gut zuredet und alsbald sein Ziel erreicht, den Zweigeborenen, wie Reichtum Gepriesenen bracht Matarisvan dem Bhrigu als Gabe.
Прославленного возницу, знамя жертвенного собрания,
Самого полезного вестника, сразу (идущего) к цели,
Дваждырожденного, знаменитого, как богатство, –
Дар принес Матаришван для Бхригу.
अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ता॑: । दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ । दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥
शासुः शासितुः अस्य अग्नेः उभयासः उभयेऽपि देवा मनुष्याश्च । यद्वा । स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्च इममग्निं शासितारं सचन्ते सेवन्ते। उशिजः कामयमाना देवाः हविष्मन्तः हविषा युक्ताः ये च मर्ताः मरणधर्माणो यजमानाः । यद्वा । उशिजः इति मेधाविनाम । उशिजः मेधाविनः स्तोतारो हविष्मन्तः हविर्युक्ताः मर्ताः यजमानाः । किंच अयं होता होमनिष्पादकोऽग्निः दिवश्चित् आदित्यादपि पूर्वः उषःसु वर्तमानो भूत्वा अग्निहोत्रहोमार्थं विक्षु यजमानेषु न्यसादि अध्वर्युणा अग्न्यायतने न्यधायि स्थाप्यते । कीदृशो होता । आपृच्छ्यः आप्रष्टव्यः पूज्य इत्यर्थः। विश्पतिः विशां प्रजानां पालयिता वेधाः विधाताभिमतफलस्य कर्ता ॥ शासुः। शासु अनुशिष्टौ'। तृन्तृचौ शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ ' (उ. सू. २. २५०) इति तृन् इडागमाभावश्च । षष्ठ्येकवचने तकारलोपश्छान्दसः । नित्त्वादाद्युदात्तत्वम्। उशिजः। वशः कित्' ( उ. सू. २. २२९) इति वष्टेः इजिप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । मर्ताः । ‘ मृङ् प्राणत्यागे'।' असिहसिमृग्रिण्वामि। इत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अपृच्छ्यः । ‘प्रच्छ ज्ञीप्सायाम् । आङ्पूर्वात् अस्मात् ‘ छन्दसि निष्टर्क्य° ' ( पा. सू. ३. १. १२३ ) इत्यादौ क्यप्प्रत्ययो निपातितः । ग्रहिज्यादिना संप्रसारणम् । क्यपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । विश्पतिः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते • परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Both (gods and men) are the worshippers of this ruler; those who are to be desired (of the gods), and those who are mortal, beaing oblations; for this venerable invoker (of the gods), the lord of men, and distributor (of desired benefits), was plural ced by the officiating priests (upon the altar), before the sun was in the sky.”
Both Gods and men obey this Ruler's order, Gods who are worshipped, men who yearn and worship.
As Priest he takes his seat ere break of morning, House-Lord, adorable with men, Ordainer.
Both follow his command, the Usigs 1 offering sacrificial food, and the mortals. The Hotri (Agni) has sat down before daybreak among the clans, the lord of the clans, whose leave should be asked, the performer of worship.
His command do both sides follow in presenting their oblations: his (ancient) fire-priests and mortals (now).
He has been set down as Hotar even in front of heaven, as clan-lord worthy of the asking, the ritual adept among the clans.
Es folgen seinem Willen beide Theile, die Opferherren und die thät'gen Männer, Vor Tage noch liess nieder sich der Priester, der liebe Hausherr, waltend in den Häusern.
Seine Weisung befolgen beide Teile opferbringend, die Usij und die Sterblichen. Noch vor Tag wurde der Hotri eingesetzt, der ratbefragte Clanherr unter den Clangenossen der Meister.
Его приказу следуют оба (рода)
Совершающие жертвенные возлияния Ушиджи (и те,) которые смертные.
Еще до (начала) дня он усажен как хотар,
Которого надо спрашивать как главу племени, мудрого среди людей племени.
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः । यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षास॒: प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ॥
तम् । नव्य॑सी । हृ॒दः । आ । जाय॑मानम् । अ॒स्मत् । सु॒ऽकी॒र्तिः । मधु॑ऽजिह्वम् । अ॒श्याः॒ । यम् । ऋ॒त्विजः॑ । वृ॒जने॑ । मानु॑षासः । प्रय॑स्वन्तः । आ॒यवः॑ । जीज॑नन्त ॥
नव्यसी नवतरा सुकीर्तिः सुष्ठु कीर्तयित्री अस्मत् अस्माकं स्तुतिः हृदः हृद्यवस्थितात प्राणात् जायमानम् उत्पद्यमानम् । अग्निर्हि वायोरुत्पद्यते' वायुश्च प्राण एव ।' यः प्राणः स वायुः ' इत्याम्नानात्। मधुजिह्वं मादयितृज्वालम् । एवंभूतं तम् अग्निम् आ अश्याः आभिमुख्येन व्याप्नोतु । वृजने संग्रामे प्राप्ते सति आयवः मनुष्याः यम् अग्निं जीजनन्त यज्ञार्थमुदपादयन् । कीदृशा मनुष्याः । ऋत्विजः ऋतौ काले यष्टारः मानुषासः मनोः पुत्राः प्रयस्वन्तः हविर्लक्षणान्नोपेताः ॥ नव्यसी । नवीयसीत्यत्र ईकारलोपभ्छन्दसः । हृदः । अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते । ‘ पद्दन् ' इत्यादिना हृदयशब्दस्य हृदादेशः । जायमानम् । ‘जनी प्रादुर्भावे' । श्यनि ‘ज्ञाजनोर्जा' इति जादेशः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । अस्मत् । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । अश्याः । ‘अशू व्याप्तौ । लिङि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । व्यत्ययेन परस्मैपदमध्यमौ । जीजनन्त । ‘जनी प्रादुर्भावे'। ण्यन्तात् लुङि च्लेः चङादेशः ॥ द्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । अदुपदेशात् लसार्वधातुकानुदात्तवे चङ एव स्वरे प्राप्त व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् ॥
“May our newest celebration come before that Agni, who is sweet-tongued, and is to be engendered in the heart; whom men, the descendants of Manu, sacrificing and presenting oblations to him, beget in the time and battle.”
May our fair praise, heart-born, most recent, reach him whose tongue, e'en at his birth, is sweet as honey;
Whom mortal priests, men, with their strong endeavour, supplied with dainty viands, have created.
May our new, beautiful praise, born 1 from our heart, reach him the honey-tongued (Agni), whom the human priests in our settlement 2, the Âyus, offering enjoyment have engendered.
Ever newer acclaim from us, from our heart, should reach him as he is being born, the honey-tongued one,
whom the sons of Manu who sacrifice regularly in ritual community, who dispense ritual delight, the Āyus, have begotten.
Das neuste Lied, aus unserm Geist geboren, erreiche ihn, dess Zunge trieft von Honig, Den Priester zeugten an der heil'gen Stätte, die thät'gen Menschen, welche Labung bringen.
Zu ihm, dem neugeborenen möge der neueste Lobpreis dringen, der uns von Herzen kommt, dem Honigzungigen, den die menschlichen Priester, die Ayu´s in ihrem Opferbund erzeugt haben, für ihn die Labe bereit haltend.
Пусть достигнет его новая прекрасная хвала,
(Исходящая) из нашего сердца, когда он рождается, (его,) сладкоязыкого,
Кого человеческие жрецы, приносящие удовлетворение Аю,
Породили в (нашей) общине!
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु । दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ॥
उ॒शिक् । पा॒व॒कः । वसुः॑ । मानु॑षेषु । वरे॑ण्यः । होता॑ । अ॒धा॒यि॒ । वि॒क्षु । दमू॑ना । गृ॒हऽप॑तिः । दमे॑ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् ॥
उशिक् कामयमानः पावकः शोधकः वसुः निवासयिता वरेण्यः वरणशीलः एवंभूतः होता अग्निः विश्रु यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेषु अधायि स्थाप्यते । स च अग्निः दमूनाः रक्षसां दमनकरेण मनसा युक्तः गृहपतिः गृहाणां पालयिता च सन् 'दमे यज्ञगृहे रयिपतिः धनाधिपतिः आ भुवत् आ समन्ताद्भवति । न केवलमेकस्य रयेरपि तु सर्वेषामित्याह रयीणाम् इति । यद्वा । रयीणां मध्ये उत्कृष्टं यद्धनं तस्य पतिरित्यर्थः ॥ अधायि । ‘छन्दसि लुङ्लङ्लिटः ' इति वर्तमाने कर्मणि लुङि च्लेः चिणादेशे ‘आतो युक् चिण्कृतोः' इति युगागमः । दमयति राक्षसादिकमिति दमूनाः ।‘दम उपशमे '। दमेरूनसिः ( उ. सू. ४. ६७४ ) इति औणादिक ऊनसिप्रत्ययः । यास्कस्त्वाह-’ दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यात् ' ( निरु. ४. ४ ) इति । दम आँ अग्निः । ‘ आङोऽनुनासिकश्छन्दसि' इति आकारस्य सानुनासिकत्वं प्रकृतिभावश्च । भुवत् । लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । रयिपतिः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । रयीणाम् । 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥
“Agni, the desirable, the purifying, the giver of dwellings, the excellent, the invoker (of the gods) has been plural ced (upon the altar) among men; may he be inimical (to our foes), the protector of (our) dwellings and the guardian of the treasures in (this) mansion.”
Good to mankind, the yearning Purifier hath among men been placed as Priest choice-worthy.
May Agni be our Friend, Lord of the Household, protector of the riches in the dwelling.
The Usig 1, the purifier, the Vasu has been established among men, the best Hotri among the clans, the domestic 2 master of the house in the house: Agni has become the treasure-lord of treasures.
Himself a fire-priest, pure and good, he has been installed among the clans of the sons of Manu as the Hotar worthy to be chosen.
As domestic ally, house-lord in the home, Agni has became wealth-lord of wealth.
Der Flammende voll Eifer, hold den Menschen, trat ein als lieber Priester bei den Leuten, Als Hausherr möge freundlich in den Häusern, als Schätzeherr der Schätze Agni walten.
Der lautere Fürbitter, der Gott unter den Menschen ward als der auserwählte Hotri unter die Clane gesetzt, als Hausmeister, als Hausherr ins Haus. Agni ward der Herr der Reichtümer.
Чистый Ушидж, Васу среди людей,
Избранный хотар устроен среди людей племени.
Домашний (бог), хозяин дома в доме,
Пусть станет Агни хозяином богатств!
तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः । आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
तम् । त्वा॒ । व॒यम् । पति॑म् । अ॒ग्ने॒ । र॒यी॒णाम् । प्र । शं॒सा॒मः॒ । म॒तिऽभिः॑ । गोत॑मासः । आ॒शुम् । न । वा॒ज॒म्ऽभ॒रम् । म॒र्जय॑न्तः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
गोतमासः गोतमगोत्रोत्पन्नाः वयम् । नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम् । हे अग्ने रयीणां धनानां पतिं रक्षितारं तादृशं त्वा त्वां मतिभिः मननीयैः स्तोत्रैः प्र शंसामः प्रकर्षेण स्तुमः । किं कुर्वन्तः । वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां मर्जयन्तः मार्जयन्तः। तत्र दृष्टान्तः । आशुं न अश्वमिव । यथाश्वमारोहन्तः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजन्ति तद्वत् वयमपि अग्नेर्हविर्वहनप्रदेशं निमृजन्तः इत्यर्थः। तथा च अग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम्-- ‘अथ मध्ये तूष्णीमेव त्रिः संमार्ष्टि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वह' इति । धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः प्रातः श्वोभूतस्य अह्नः प्रातःकाले मक्षु शीघ्रं जगम्यात् आगच्छतु ॥ मतिभिः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि क्तिन् । ‘मन्त्रे वृषेष ' इत्यादिना तस्योदात्तत्वम् । वाजंभरम् । अग्नेरेषा वैदिकी संज्ञा । ‘संज्ञायां भृतॄवृजि° ' ( पा. सू. ३. २. ४६ ) इति वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्' (पा. सू. ६. ३. ६७ ) इति मुमागमः । ‘चितः' इत्यन्तोदात्तत्वम् । मर्जयन्तः। संज्ञापूर्वकस्य विधेरनित्यत्वात् “ मृजेर्वृद्धिः ' ( पा. सू. ७. २. ११४ ) इति वृद्ध्यभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । जगम्यात् । लिङि ‘बहुलं छन्दसि' इति शपः श्लुः ॥ ॥२६॥
“We, born of the race of Gotama, praise you, Agni, with acceptable (hymns), as the lord of riches; rubbing you, the bearer of oblations, (as a rider rubs down), a horse; may he who has acquired wealth by sacred rites, come hither quickly in the morning.”
As such we Gotamas with hymns extol thee, O Agni, as the guardian Lord of riches,
Decking thee like a horse, the swift prizewinner. May he, enriched with prayer, come soon and early.
Thus we, the Gotamas, praise thee, O Agni, the lord of treasures, with our (pious) thoughts, rubbing thee as (they rub down) a swift racer that wins the prize. May he who gives wealth for our prayer, come quickly in the morning 1.
It is you, Agni, that we Gotamas celebrate with our thoughts as lord of wealth,
grooming you like a swift, prize-bearing (horse). – Early in the
morning—soon—he should come, bringing goods through (his)
insight.
So preisen wir dich als den Herrn der Schätze, die Gotamer, o Agni, mit Gebeten, Dich striegelnd wie ein Ross das Preis davon trägt. Der huldvoll sorget, komme früh am Morgen.
Als diesen Herrn der Reichtümer preisen wir Gotamiden dich, Agni, mit Gedichten dich herausputzend wie ein Rennpferd, das den Siegerpreis davonträgt. - Recht bald am Morgen soll sich der einstellen, der durch die Weisheit Schätze erwirbt.
Тебя как такого хозяина богатств, о Агни,
Мы из рода Готамы славим в молитвах,
Украшая (тебя,) как скакуна, несущего награду.
Да придет (к нам) быстро ранним утром (бог,) богатый даром видения!