अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय । ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । प्र । त॒वसे॑ । तु॒राय॑ । प्रयः॑ । न । ह॒र्मि॒ । स्तोम॑म् । माहि॑नाय । ऋची॑षमाय । अध्रि॑ऽगवे । ओह॑म् । इन्द्रा॑य । ब्रह्मा॑णि । रा॒तऽत॑मा ॥
इत् उ इति निपातद्वयं पादपूरणे। 'अथापि पादपूरणाः कमीमिद्विति' इति यास्कः। यद्वा अवधारणार्थम् । तवसे प्रवृद्धाय तुराय त्वरमाणाय। यद्वा । तुर्वित्रे शत्रूणां हिंसित्रे । माहिनाय गुणैर्महते ऋचीषमाय ऋचा समाय । यादृशी स्तुतिः क्रियते तत्समायेत्यर्थः। अध्रिगवे अधृतगमनाय। अप्रतिहतगमनायेत्यर्थः । तथा च यास्कः-’अधृतगमनकर्मवन्निन्द्रोऽप्यध्रिगुरुच्यते ' ( निरु. ५. ११ ) इति । एवंभूताय अस्मै इन्द्राय स्तोमं स्तोत्रं प्र हर्मि प्रहरामि करोमीत्यर्थः । तत्र दृष्टान्तः । प्रयो न । प्रयः इति अन्ननाम। यथा बुभुक्षिताय पुरुषाय कश्चिदन्नं प्रहरति । कीदृशं स्तोमम् । ओहं वहनीयं प्रापणीयं वा । अत्यन्तोत्कृष्टमित्यर्थः । न केवलं स्तोमं किं तर्हि ब्रह्माणि हविर्लक्षणान्यन्नानि । कीदृशानि । राततमा पूर्वैर्यजमानैरतिशयेन दत्तानि । इन्द्र स्तुत्या हविषा च परिचरेमेति भावः ॥ तुराय । ‘तुर त्वरणे ' । इगुपधलक्षणः कः। यद्वा । तुर्वी हिंसार्थः । तुर्वतीति तुरः। पचाद्यचि छान्दसो वलोपः । हर्मि। ‘हृञ् हरणे '। ‘बहुलं छन्दसि' इति शपो लुक् । माहिनाय । मह पूजायाम्' इत्यस्मात् “ महेरिनण् च ' ( उ. सू. २. २१४ ) इति इनण्प्रत्ययः उपधावृद्धिश्च । ऋचीषमाय।' ऋचीषम ऋचा समः ' ( निरु. ६. २३ ) इति यास्कः । तृतीया तत्कृत! ( पा. सू. २. १. ३०) इति समासः । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । पृषोदरादित्वात् ईकारोपजनः । सुषामादित्वात् षत्वम् । केचिदाहुः । ‘ऋच स्तुतौ ' इत्यस्मात् “ इगुपधात्कित्' इति इप्रत्ययः । ‘कृदिकारादक्तिनः ' इति ङीष् । ऋची स्तुतिः । तया समः । पूर्ववत् षत्वम् । अस्मिन् पक्षे तृतीयापूर्वपदप्रकृतिस्वरत्वे सति ङीष उदात्तत्वेन भवितव्यम्। तथा च न दृश्यते। तस्मात् स्वरश्चिन्तनीयः । यद्वा । दिवोदासादिर्द्रष्टव्यः । अध्रिगवे । अधृतोऽन्येन अनिवारितो गौर्गमनं यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ' (पा.सू.१.२.४८ ) इति ह्रस्वत्वम् । पृषोदरादित्वात् अधृतशब्दस्य अध्रिभावः । ओहम् । वहतेः कर्मणि घञि छान्दसं संप्रसारणम् । यद्वा । तुहिर् दुहिर् उहिर् अर्दने' इत्यस्मात् ओहतेः पूर्ववत् घञ् । राततमा । ‘रा दाने' इत्यस्मात् निष्ठान्तादातिशायनिकस्तमप्। ' शेश्छन्दसि ' इति शेर्लोपः ॥
“I offer adoration to that powerful, rapid, mighty, praise-meriting, and unobstructed Indra; adoration that is acceptable, and oblations that are grateful, as food (to a hungry man).”
EVEN to him, swift, strong and high. exalted, I bring my song of praise as dainty viands,
My thought to him resistless, praise-deserving, prayers offered most especially to Indra.
Just for this one, powerful, precipitous, mighty, do I bring forward praise like a pleasurable offering—
for the one equal to song, not poor, (do I bring) a laud—for Indra (I bring) sacred formulations best bestowed.
Ihm bring' ich nun dem mächtigen, dem schnellen, wie Labetrunk das Loblied dar, dem grossen, Dem lichten Indra, der unhemmbar schreitet, geweihteste Gebete ihm als Gabe.
Ihm, dem Starken, Überlegenen, bringe ich das Loblied wie Labsal dar, dem Mächtigen, dem ........, nicht Kargen ein Lobeswort, dem Indra erbauliche Reden als bestes Geschenk.
Это ему, сильному, стремительному,
Великому, я приношу хвалу как освежение,
..., (ему,) лишенному скаредности, – лестное слово,
Индре – молитвы, лучше всех вознесенные.
अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति । इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । प्रयः॑ऽइव । प्र । यं॒सि॒ । भरा॑मि । आ॒ङ्गू॒षम् । बाधे॑ । सु॒ऽवृ॒क्ति । इन्द्रा॑य । हृ॒दा । मन॑सा । म॒नी॒षा । प्र॒त्नाय॑ । पत्ये॑ । धियः॑ । म॒र्ज॒य॒न्त॒ ॥
अस्मा इदु अस्मै एव इन्द्राय । प्रयः इति अन्ननाम । प्रयइव अन्नमिव प्र यंसि प्रयच्छामि। तदेव स्पष्टीक्रियते । बाधे शत्रूणां बाधनाय समर्थं सुवृक्ति सुष्ट्वा वर्जकम् आङ्गूषं स्तोत्ररूपमाघोषं भरामि संपादयामि । अन्येऽपि स्तोतारः प्रत्नाय पुराणाय पत्ये स्वामिने इन्द्राय हृदा हृदयेन मनसा तदन्तर्वर्तिनान्तःकरणेन मनीषा मनीषया तज्जन्येन ज्ञानेन च धियः स्तुतीः कर्माणि वा मर्जयन्त मार्जयन्ति संस्कुर्वन्ति ॥ प्र यंसि। ‘यम उपरमे' इत्यस्मात् लटि पुरुषव्यत्ययः । ‘बहुलं छन्दसि' इति शपो लुक् । आङ्गूषम् ।' आङ्गूषः स्तोम आघोषः' (निरु. ५. ११) इति यास्कः । आङ्पूर्वात् घुषेः घञि पृषोदरादित्वात् घो इत्यस्य गूआदेशः आङो ङकारस्य लोपाभावश्च । थाथादिना उत्तरपदान्तोदात्तत्वम् । बाधे। ‘बाधृ विलोडने' इत्यस्मात् ‘कृत्यार्थे तवैकेन्' इति भावे केन्प्रत्ययः । एजन्तत्वात् अव्ययत्वेन सुपो लुक् । मनीषा । ‘सुपां सुलुक् ' इति तृतीयाया डादेशः । पत्ये । ‘पतिः समास एव' (पा. सू. १. ४. ८) इति घिसंज्ञायाः समासविषयत्वात् ' घेर्ङिति ' इति गुणाभावे यणादेशः ॥
“I offer (oblations, acceptable as) food (to the hungry), to that Indra; I raise (to him) exclamations that may be of efficacy in discomfiting (my foe); others (also) worship Indra, the ancient lord, in heart, in mind, and in understanding.”
Praise, like oblation, I present, and utter aloud my song, my fair hymn to the Victor.
For Indra, who is Lord of old, the singers have decked their lauds with heart and mind and spirit.
Just to this one I have held it out like a pleasurable offering. I bring out a song; I thrust it out with a good twist
to Indra, with heart, with mind, with inspired thought. For the
primordial lord the insights groom themselves.
Wie Labetrunk reich' ich ihm dar und bring' ihm den Lobgesang, mit Liedern ihn bestürmend; dem alten Herrscher Indra soll man schmücken mit Herz und Geist und weisem Sinn Gebete.
Ihm Biete ich ein Loblied wie ein Labsal an und bringe es dar, um ihn mit Preis zu nötigen. Für Indra als Ihren alten Gemahl putzen sie die Gedicht mit Herz, Denken und Sinnen aus.
Это ему я вручаю как освежение,
Я приношу похвалу, чтобы обезоружить (его) удачными речами.
Индре – сердцем, духом, мыслью,
(Как) древнему мужу, они начищают молитвы (, как коня).
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑: सू॒रिं वा॑वृ॒धध्यै॑ ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्वः॒ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न । मंहि॑ष्ठम् । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । सु॒वृ॒क्तिऽभिः॑ । सू॒रिम् । व॒वृ॒धध्यै॑ ॥
अस्मा इदु अस्मै एव इन्द्राय त्यं तं प्रसिद्धम् उपमम् उपमानहेतुभूतं स्वर्षां सुष्ठ्वरणीयस्य धनस्य दातारं 'सूरिं विपश्चितमिन्द्रं ववृधध्यै वर्धयितुं सुवृक्तिभिः सुष्ठ्वावर्जकैः । समर्थैरित्यर्थः । मतीनां स्तुतीनां संबन्धिभिः अच्छोक्तिभिः स्वच्छैर्वचोभिः मंहिष्ठम् अतिशयेन प्रवृद्धमेवंलक्षणम् आङ्गूषम् आघोषम् आस्येन मुखेन भरामि करोमीत्यर्थः ॥ उपमम् । उपमीयतेऽनेनेति उपमः । ‘घञर्थे कविधानम्° ' इति करणे कप्रत्ययः । ‘आतो लोप इटि च' इति आकारलोपः । स्वर्षाम् । सुपूर्वात् अर्तेः विजन्तः स्वर्शब्दः । ‘षणु दाने' । ‘जनसनखनक्रमगमो विट्'।' विड्वनोरनुनासिकस्यात्' इति आत्वम् । ‘सनोतेरनः' (पा. सू. ८. ३. १०८) इति षत्वम् । भरामि । पादादित्वात् निघाताभावः। अच्छोक्तिभिः । अच्छा उक्तयो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ मतीनाम् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । ववृधध्यै । ‘वृधु वृद्धौ' इत्यस्मात् अन्तर्भावितण्यर्थात् ' तुमर्थे सेसेन्” ' इति कध्यैप्रत्ययः । कित्त्वात् गुणाभावः । द्विर्भावश्छान्दसः । यद्वा यङ्लुगन्तादस्मिन्प्रत्यये आगमानुशासनस्यानित्यत्वात् रीगाद्यभावः। अन्येषामपि दृश्यते' इति सांहितिकम् अभ्यासस्य दीर्घत्वम् । प्रत्ययाद्युदात्तत्वम् ॥
“I offer with my mouth a loud acclamation, with powerful and pure words of praise, to exalt him who is the type (of all), the giver (of good things), the great, the wise.”
To him then with my lips mine adoration, winning heaven's light, most excellent, I offer,
To magnify with songs of invocation and with fair hymns the Lord, most bounteous Giver.
Just to this one this utmost sun-winning song do I bring with
my mouth,
to strengthen the most munificent patron with the invitations of my thoughts, with their good twists.
Ihm bring' ich mit dem Munde diesen höchsten, des Himmels Glück verschaffenden Gesang dar, Um mit des Geist's Begrüssungen und Liedern den gabenreichsten Fürsten zu erheben.
Ihm bringe ich mit dem Munde dieses höchste sonnengewinnende Loblied dar, um den freigebigsten Herren zu erheben mit den Einladungen und Lobpreisungen der Gedichte.
Это ему эту высшую, завоевывающую солнце
Похвалу я возношу устами,
Чтобы молитвенными призывами, удачными речами,
Усилить самого щедрого господина.
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय । गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय । गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥
अस्मै एव इन्द्राय स्तोमं शस्त्ररूपं स्तोत्रं सं हिनोमि प्रेरयामि । तत्र दृष्टान्तः । तत्सिनाय । सिनम् इति अन्ननाम । सिनमन्नं भवति सिनाति भूतानि ' ( निरु. ५. ५) इति यास्कः । तेन रथेन सिनमन्नं यस्य स तथोक्तः । तस्मै रथस्वामिने तष्टेव तष्टा तक्षको रथनिर्माता रथं न यथा रथं प्रेरयति तद्वत् । इव इत्येतत् पादपूरणम् । तथा गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानाय इन्द्राय गिरश्च शस्त्रसंबन्धिनीः केवला ऋचश्च सुवृक्ति शोभनमावर्जनं यथा भवति तथा प्रेरयामि । तथा मेधिराय मेधाविने इन्द्राय विश्वमिन्वं विश्वव्यापकं विश्वैर्व्याप्तं सर्वोत्कृष्टं हविश्व सं हिनोमीत्यनुषङ्गः ॥ हिनोमि । ‘हि गतौ वृद्धौ च' । स्वादित्वात् श्नुः । तष्टेव । ‘तक्षू त्वक्षू तनूकरणे'। ताच्छीलिकस्तृन् । ऊदित्त्वात् पक्षे इडभावः । ‘स्कोः संयोगाद्योरन्ते च ' इति ककारलोपः । नित्त्वादाद्युदात्तत्वम्। तत्सिनाय। सिनशब्दः ‘षिञ् बन्धने' इत्यस्मात् ' इण्षिञ्जिदीङुष्यविभ्यो नक्' ( उ. सू. ३. २८२ ) इति नक्प्रत्ययान्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । गिर्वाहसे। ' वहिहाधाञ्भ्यश्छन्दसि ' इति वहतेः केवलाद्विहितः असुन्प्रत्ययः ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् कारकपूर्वस्यापि भवति पूर्वपदप्रकृतिस्वरत्वं च। ‘णित् ' इत्यनुवृत्तेः उपधावृद्धिः । ‘हलि च ' इति दीर्घाभावश्छान्दसः । विश्वमिन्वम् । ‘इवि व्याप्तौ' । विश्वमिन्वति व्याप्नोतीति विश्वमिन्वम् । पचाद्यच् । लुगभावश्छान्दसः । यद्वा । खच्प्रत्ययो बहुलवचनादस्मादपि धातोर्द्रष्टव्यः । मेधिराय । मेधा अस्यास्तीति मेधिरः । ‘मेधारथाभ्यामिरन्निरचौ वक्तव्यौ ' ( पा. सू. ५. २. १०९. ३ ) इति मत्वर्थीय इरन् । नित्त्वादाद्युदात्तत्वम् ॥
“I prepare praises fo rhim, as a carpenter constructs a car, (that the driver) may thence (obtain) food; praises well deserved, to him who is entitled to commendation, and excellent oblations to the wise Indra.”
Even for him I frame a laud, as fashions the wright a chariot for the man who needs it,--
Praises to him who gladly hears our praises, a hymn well-formed, all-moving, to wise Indra.
Just for this one I put together praise—like a carpenter a chariot for the one whose gear it is—
and hymns with a good twist for the one whose vehicle is hymns—for wise Indra (praise) that sets everything in motion.
Ihm rüst' ich zu mein Loblied wie den Wagen der Wagenbauer dem, der ihn begehret; Dem Liederfreunde Lieder, schön bereitend, dem weisen Indra Lob, das durch die Welt dringt.
Ihm füge ich den Preisgesang zusammen wie der Zimmermann den Wagen für ihn, der Lohn dafür bezahlt, ihn belohnt, und Lobreden für ihn, den die Lobreden anziehen, zum Preis für den verständnisvollen Indra den allbewegenden Preisgesang.
Это ему я слагаю хвалу,
Как плотник (делает) колесницу, тому, кто вознаграждает,
И хвалебные песни с удачными речами, Индре, плененному хвалебными песнями,
Все приводящую в движение (хвалу) – мудрому.
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे । वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ । वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥
अस्मै एव इन्द्राय अर्कं स्तुतिरूपं मन्त्रं श्रवस्या श्रवस्यया अन्नेच्छया। अन्नलाभायेत्यर्थः। जुह्वा आह्वानसाधनेन वागिन्द्रियेण समञ्जे समक्तं करोमि । एकीकरोमीत्यर्थः । तत्र दृष्टान्तः । सप्तिमिव । यथा अन्नलाभाय गन्तुकामः पुमानश्वं रथेनैकीकरोति तद्वत्। एकीकृत्य च वीरं शत्रुक्षेपणकुशलं दानौकसं दानानामेकनिलयं गूर्तश्रवसं प्रशस्यान्नं पुराम् असुरपुराणां दर्माणं विदारयितारं एवंगुणविशिष्टमिन्द्रं वन्दध्यै वन्दितुं स्तोतुं प्रवृत्तोऽस्मीति शेषः ॥ सप्तिमिव । ‘षप समवाये । समवैति रथेनैकीभवतीति सप्तिरश्वः । ‘वसस्तिप् ' ( उ. सू. ४. ६१९ ) इति विधीयमानः तिप्प्रत्ययः बहुलवचनादस्मादपि धातोर्भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । इवेन समास उक्तः । श्रवस्या । श्रवस्शब्दात् ‘सुप आत्मनः क्यच् ' । क्यजन्तात् धातोः भावे ‘अ प्रत्ययात्' (पा. सू. ३. ३. १०२ ) इति अकारप्रत्ययः। ततः टाप् । ‘सुपां सुलुक्' इति तृतीयाया डादेशः । उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । अर्कम् । ऋच स्तुतौ ' । ऋच्यते स्तूयतेऽनेनेति अर्को मन्त्रः । ‘पुंसि संज्ञायां घः प्रायेण' इति करणे घप्रत्ययः । ‘चजोः कु घिण्ण्यतोः' इति कुत्वम् । लघूपधगुणः । प्रत्ययस्वरः । जुह्वा । ‘बहुलं छन्दसि ' इति कृतसंप्रसारणस्य ह्वेञः ‘हुवः श्लुवच्च ' ( उ. सू. २.२१८) इति क्विप् धातोर्दीर्घश्च । धातुस्वरेणान्तोदात्तत्वम् । तृतीयैकवचने ‘ उदात्तस्वरितयोर्यणः° ' इति स्वरितत्वम् । ‘उदात्तयणो हल्पूर्वात्' इत्यस्य विभक्त्युदात्तत्वस्य ‘नोङ्धात्वोः ' (पा. सू. ६. १. १७५) इति प्रतिषेधः । अञ्जे। “ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' । व्यत्ययेन आत्मनेपदम् । वन्दध्यै । ' वदि अभिवादनस्तुत्योः'। तुमर्थे सेसेन्' इति कध्यैप्रत्ययः । गूर्तश्रवसम् । ‘गॄ शब्दे'। निष्ठायां ‘श्र्युकः किति' इति इट्प्रतिषेधः । ‘बहुलं छन्दसि' इति उत्वम् । ‘हलि च' इति दीर्घः । ‘नसत्तनिषत्त' (पा. सू. ८. २. ६१ ) इत्यादौ निपातनात् निष्ठानत्वाभावः । गूर्तं श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । दर्माणम् । ‘दॄ विदारणे'। ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन् ।' नेड्वशि कृति' इति इट्प्रतिषेधः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । यद्वा । औणादिको मनिप्रत्ययो द्रष्टव्यः॥ ॥ २७ ॥
“To propitiate that Indra for the sake of food, I combinepraise with utterance, as (a man harnesses) a horse (to a car), in order to celebrate the heroic, munificent, and food-conferring Indra, the destroyer of the cities (of the asuras).”
So with my tongue I deck, to please that Indra, my hymn, as 'twere a horse, through love of glory,
To reverence the Hero, bounteous Giver, famed far and wide, destroyer of the castles.
Just for this one, for Indra, do I anoint the chant with my tongue [/the offering ladle], as one anoints a team when seeking fame—
to extol the hero accustomed to giving [/gifts], the splitter of
strongholds whose fame is sung.
Ihm schmücke ich voll Schatzbegier das Preislied, mit meiner Zung' dem Indra wie ein Ross aus; Den Mann zu preisen, der am Opfer Lust hat, den Burgzerstörer, dessen Ruhm man preiset.
Für ihn will ich, wie man ein Rennpferd salbt, um Ruhm zu gewinnen, für Indra das Preislied mit der Zunge salbungsvoll machen, um den schenkgewohnten Helden zu loben, den Brecher der Burgen, dessen Ruhm gefeiert wird.
Это ему, Индре, я умащаю песню языком,
Как (умащают) коня из желания славы,
Чтобы почтить героя, любящего одарять,
Взламывателя крепостей, (бога), чья слава воспета.
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वपः॑ऽतमम् । स्व॒र्य॑म् । रणा॑य । वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑नः । तु॒ज॒ता । कि॒ये॒धाः ॥
त्वष्टा विश्वकर्मा अस्मा इदु अस्मै एवेन्द्राय वज्रं वर्जकमायुधं रणाय युद्धार्थं तक्षत् तीक्ष्णमकरोत् । कीदृशं वज्रम् । स्वपस्तमम् अतिशयेन शोभनकर्माणं स्वर्यं सुष्ठु शत्रुषु प्रेर्यं यद्वा स्तुत्यम् । तुजन् शत्रून् हिंसन् ईशानः ऐश्वर्यवान् कियेधाः बलवान् एवंगुणविशिष्ट इन्द्रः वृत्रस्य चित् आवरकस्यासुरस्य मर्म मर्मस्थानं तुजता हिंसता येन वज्रेण विदत् प्राहार्षीदित्यर्थः ॥ स्वपस्तमम् । शोभनमपः कर्म यस्यासौ । अतिशयेन स्वपाः स्वपस्तमः । तमपः पित्त्वादनुदात्तत्वम् । सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । स्वर्यम् । ‘स्वर्यं ततक्ष' (ऋ. सं. १. ३२. २ ) इत्यत्रोक्तम् । विदत् । ‘विद्लृ लाभे'। लृदित्वात् च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि' इति अडभावः । यद्वृत्तयोगदनिघातः । तुजन् । तुज हिंसायाम् । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । ईशानः । ‘ईश ऐश्वर्य' । शानचि अदादित्वात् शपो लुक् । अनुदातेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । तुजता । ‘शतुरनुमः! इति विभक्तेरुदात्तत्वम् । कियेधाः । अत्र निरुक्तं - कियेधाः कियद्धा इति वा क्रममाणधा इति वा ' ( निरु. ६. २०) इति । अस्यायमभिप्रायः । कियत् किंपरिमाणमित्यस्य बलस्य तादृशं बलं दधाति धारयतीति कियद्धाः। यः कोऽप्यस्य बलस्येयत्तां न जानातीत्यर्थः । यद्वा। क्रममाणमाक्रममाणं परेषां बलं धारयति निवारयतीति क्रममाणधाः । उभयत्रापि पृषोदरादित्वात् पूर्वपदस्य कियेभावः । दधातेर्विच् ॥
“For that Indra, verily Tvaṣṭā sharpened the well-acting, sure-aimed thunderbolt for the battle, with which fatal (weapon) the foe-subduing and mighty sovereign severed the limbs of Vṛtra.”
Even for him hath Tvastar forged the thunder, most deftly wrought, celestial, for the battle,
Wherewith he reached the vital parts of Vrtra, striking-the vast, the mighty with the striker.
Just for this one Tvaṣṭar fashioned the mace of best workmanship, the reverberating one, for battle [/for joy],
with which he found the mortal spot of that very Vr̥tra, as, gaining mastery, he thrust with the thrusting (mace), while conferring (who knows) how much.
Ihm hat zur Schlacht den Blitz gezimmert Tvaschtar den himmlischen, der schönstes Werk vollendet, Mit dem er traf die Weichen auch des Vritra, mit raschem rasch der Herrscher vielen spendend.
Ihm zimmerte Tvastri die Keule, die sehr kunstreiche, sausende zum Kampfe, mit der er sogar des Vritra verwundbare Stelle fand, als er mit der losfahrenden Keule auf ihn losfuhr, allvermögend, was es auch sei schaffend.
Это ему Тваштар выточил ваджру,
Самую искусную, со свистом (рвущуюся) в бой,
С помощью которой он нашел уязвимое место даже у Вритры,
Нападая нападающей (ваджрой), властный, добивающийся чего угодно.
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ । मु॒षा॒यद्विष्णु॑: पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
अ॒स्य । इत् । ऊँ॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒वान् । चारु॑ । अन्ना॑ । मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥
इत् उ इत्येतत् निपातद्वयं पादपूरणम् । यद्वा अवधारणार्थम् । मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः महः महतः अस्य यज्ञस्य सवनेषु अवयवभूतेषु प्रातःसवनादिषु त्रिषु सवनेषु पितुं सोमलक्षणमन्नं सद्यः पपिवान्। यदाग्नौ हूयते तदानीमेव पानं कृतवानित्यर्थः । तथा चार्वन्ना चारूणि शोभनानि धानाकरम्भादिहविर्लक्षणान्यन्नानि भक्षितवानिति शेषः। किंच विष्णुः सर्वस्य जगतो व्यापकः पचतं परिपक्वमसुराणां धनं यदस्ति तत् मुषायत् अपहरन् सहीयान् अतिशयेन शत्रूणामभिभविता अद्रिमस्ता अद्रेर्वज्रस्य क्षेपकः । एवंभूत इन्द्रः ‘तिरः सत इति प्राप्तस्य' (निरु. ३. २०) इति यास्कः । तिरः प्राप्तः सन् वराहं मेघं विध्यत् अताडयत् । यद्वा । विष्णुः सुत्यादिवसात्मकः यज्ञः । यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा' (तै. सं. ६.२.४.२) इत्याम्नानात् । स विष्णुः पचतं परिपक्वमसुरधनं यत्तत् मुषायत् अचूचुरत् । तदनन्तरं दीक्षोपसदात्मनां दुर्गरूपाणां सप्तानामह्नां परस्तादासीत् । अद्रिमस्ता सहीयानिन्द्रो दुर्गाण्यतीत्य तिरः प्राप्तः सन् वराहमुत्कृष्टदिवसरूपं तं यज्ञं विध्यत् । तथा च तैत्तिरीयकं-- वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति' इति, ‘स दर्भपुञ्जीलमुद्वृह्य सप्त गिरीन्भित्त्वा तमहन्' (तै. सं. ६. २. ४. २-३ ) इति च ॥ महः महतः । अच्छब्दलोपश्छान्दसः । यद्वा । मह इत्येतत् पितुविशेषणम् । महः प्रशस्तं पितुमित्यर्थः । पपिवान् । पिबतेर्लिटः क्वसुः । वस्वेकाजाद्धसाम्' इति इडागमः । ‘आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । चारु ।' सुपां सुलुक् इति विभक्तेर्लुक् । मुषायत् । ‘मुष स्तेये '।' घञर्थे कविधानम् ' इति भावे कप्रत्ययः । मुषमात्मन इच्छति । ‘सुप आत्मनः क्यच् । 'न च्छन्दस्यपुत्रस्य ' इति ईत्ववत् दीर्घस्यापि प्रतिषेधे व्यत्ययेन दीर्घः । अस्मात् क्यजन्तात् लटः शतृ। आगमानुशासनस्यानित्यत्वात् नुमभावः। द्वितीयपक्षे तु क्यजन्तात् लङि ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । अत्र स्तेयेच्छया तदुत्तरभाविनी क्रिया लक्ष्यते । पचतम् । ‘भृमृदृशि° ' इत्यादिना पचतेः अतच्प्रत्ययः । चित्त्वादन्तोदात्तत्वम् । विध्यत् । व्यध ताडने '। लङि दिवादित्वात् श्यन् । तस्य ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । श्यनो नित्त्वादाद्युदात्तत्वम् । पादादित्वात् निघाताभावः । वराहम् । वरमुदकमाहारो यस्य । यद्वा । वरमाहरतीति वराहारः सन् पृषोदरादित्वात् वराह इत्युच्यते । अत्र निरुक्तं- वराहो मेघो भवति वराहारः । वरमाहारमाहार्षीरिति च ब्राह्मणम् ' (निरु. ५. ४) इति । यज्ञपक्षे तु वरं च तदहो वराहः । ‘राजाहःसखिभ्यः ( पा. सू. ५. ४. ९१ ) इति समासान्तः टच्प्रत्ययः । चित्त्वादन्तोदात्तत्वम् । अस्ता। ‘असु क्षेपणे' इत्यस्मात् साधुकारिणि 'तृन्' (पा. सू. ३. २. १३५)। इडभावश्छान्दसः। 'न लोकाव्यय इति षष्ठीप्रतिषेधः ॥
“Quickly quaffing the libations, and devouring the grateful viands (presented) at the three (daily) sacrifices which are dedicated to the creator (of the world), he, the pervadere of the universe, stole the ripe (treasures of the asuras); the vanquisher (of his foes), the hurler of the thunderbolt, encountering pierced the cloud.”
As soon as, at libations of his mother, great Visnu had drunk up the draught, he plundered.
The dainty cates, the cooked mess; but One stronger transfixed the wild boar, shooting through the mountain.
Just this one—he, having already drunk in an instant the nourishment of his great (father), the pleasing foods at his mother’s
soma-pressings—
while Viṣṇu the stronger stole the cooked (rice-porridge), he pierced the boar through the stone, (Indra) the archer.
Sogleich erstarkt noch bei der Mutter Säften, als er den Trank geschlürft, die schöne Speise, Stahl wirksam siegreich er den hellentflammten und traf den Eber über Felsen schiessend.
Bei seiner Mutter Somaspenden hat er sogleich den Trank seines großen Vaters getrunken, seine Lieblingsspeisen. Vishnu, der Stärkere, stahl den gekochten Reisbrei; er traf den Eber durch den Fels hindurch schießend.
Это у своей матери на выжиманиях сомы он сразу
Выпил напиток великого (отца), любимые яства.
Более сильный Вишну отнял вареную (пищу).
Ранил кабана, стреляя сквозь скалу, стрелок.
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः । परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वुः । परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॑भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः ॥
अस्मै एव इन्द्राय अहिहत्ये अहेर्वृत्रस्य हनने निमित्तभूते सति ग्नाश्चित् गमनस्वभावा अपि स्थिताः देवपत्नीः देवानां पालयित्र्यो गायत्र्याद्या देवताः अर्कम् अर्चनसाधनं स्तोत्रम् ऊवुः समतन्वत चक्रुरित्यर्थः । स च इन्द्रः उर्वी विस्तृते द्यावापृथिवी द्यावापृथिव्यौ परि जभ्रे स्वतेजसा परिजहार अतिचक्रामेत्यर्थः । ते द्यावापृथिव्यौ अस्य इन्द्रस्य महिमानं न परि ष्टः न परिभवतः ॥ ऊवुः । ‘वेञ् तन्तुसंताने '। लिटि ‘ वेञो वयिः' (पा. सू. २. ४. ४१ )। लिटः कित्त्वात् यजादित्वेन संप्रसारणे क्रियमाणे यकारस्य ‘लिटि वयो यः' (पा. सू. ६. १. ३८) इति प्रतिषेधात् वकारस्य संप्रसारण परपूर्वत्वं द्विर्वचनादि। ‘वश्चास्यान्यतरस्यां किति' (पा. सू. ६. १. ३९) इति यकारस्य वकारादेशः । जभ्रे। ‘हृञ् हरणे'। लिटि ञित्वात् कर्त्रभिप्राये आत्मनेपदम् । हृग्रहोर्भः' इति भत्वम् । उर्वी। उरुशब्दात् 'वोतो गुणवचनात्' इति ङीष् । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । स्तः । अस्तेर्लटि रूपम्। उपसर्गप्रादुर्भ्यामिति षत्वं सांहितिकम्॥
“To that Indra the women, the wives of the gods, addressed their hymns, on the destruction of Ahi; he encompasses the extensive heaven and earth; they two do not surpass your vastness.”
To him, to Indra, when he slew the Dragon, the Dames, too, Consorts of the Gods, wove praises.
The mighty heaven and earth hath he encompassed: thy greatness heaven and earth, combined, exceed not.
Just for this one, for Indra, even the ladies, the Wives of the Gods, wove a chant at the Vr̥tra-smashing.
He held encircled broad heaven and earth; they did not encompass his greatness.
Ihm woben auch die Fraun, die Götterweiber dem Indra Loblied, als er schlug den Drachen, Er hat umfasst die weiten Erd' und Himmel, nicht kommen gleich sie beide deiner Grösse.
Ihm, dem Indra, haben sogar die Götterfrauen, die Gemahlinnen der Götter im Drachenkampf ein Preislied erschallen lassen. Er hält Himmel und Erde umfasst, die weiten; Nicht umschließen die beiden seine Größe.
Это ему даже жены, супруги богов,
Индре, соткали песню при убийстве змея.
Он охватил небо и землю, обоих широких.
Его величия они не объемлют.
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒त्वम् । दि॒वः । पृ॒थि॒व्याः । परि॑ । अ॒न्तरि॑क्षात् । स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽअ॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥
अस्येदेव । इत् इति पादपूरणः । अस्यैवेन्द्रस्य महित्वं माहात्म्यं प्र रिरिचे अतिरिच्यते । अधिकं भवतीत्यर्थः । अत्रोपसर्गो धात्वर्थस्य निवृत्तिमाचष्टे । यथा प्रस्मरणं प्रस्थानमिति । कुतः सकाशात् प्ररिरिचे इत्यत आह । दिवः द्युलोकात् पृथिव्याः भूलोकात् अन्तरिक्षात् द्यावापृथिव्योर्मध्ये वर्तमानादन्तरिक्षलोकाच्च । परि उपर्यर्थः। त्रीन् लोकानतीत्योपरि प्ररिरिचे इत्यर्थः। दमे दमयितव्ये विषये स्वराट् स्वेनैव तेजसा राजमानः विश्वगूर्तः विश्वस्मिन् सर्वस्मिन् कार्ये उद्गूर्णः समर्थः । यद्वा विश्वं सर्वमायुधं गूर्तम् उद्यतं यस्य स तथोक्तः । स्वरिः शोभनशत्रुकः । शोभने शत्रौ हन्तव्ये सति हन्ता वीर्यवत्तम इति गम्यते । यथा “ अकवारिं दिव्यं शासमिन्द्रम् ' (ऋ. सं. ३. ४७. ५) इति । अकुत्सितारिमिति हि तस्यार्थः । अमत्रः युद्धादिषु गमनकुशलः । मात्रया इयत्तया रहितो वा । ' अमत्रोऽमात्रो महान्भवत्यभ्यमितो वा ' (निरु. ६. २३ ) इति यास्कः । एवंभूतः इन्द्रः रणाय रणं युद्धम् आ ववक्षे आवहति मेघान् प्रापयति । मेघैः परस्परयुद्धं कारयित्वा वृष्टिं चकारेति भावः । यद्वा । युद्धाय स्वकीयान् भटान् गमयति ॥ अस्य । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । रिरिचे। 'रिचिर विरेचने '। छन्दसि लुङलङ्लिटः' इति वर्तमाने कर्मणि लिट् । पृथिव्याः । ‘उदात्तयण:०' इति विभक्तेरुदात्तत्वम् । स्वराट्। ‘राजृ दीप्तौ' इत्यस्मात् ‘सत्सूद्विष° ' इति क्विप्। व्रश्चादिना षत्वे जश्त्वम् । दमे । ‘दम उपशमे ' इत्यस्मात् कर्मणि घञि ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः ' (पा. सू. ७. ३. ३४ ) इति वृद्धिप्रतिषेधः । घञो ञित्वादाद्युदात्तत्वम् । विश्वगूर्तः । ‘गॄ निगरणे'। अस्मात् निष्ठायां ‘श्र्युकः किति' इति इट्प्रतिषेधः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । यद्वा । ‘गूरी उद्यमे । अस्मात् निष्ठा । ‘नसत्तनिषत्त ' इत्यादौ निपातनात् निष्ठानत्वाभावः । तत्पुरुषपक्षे मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । बहुव्रीहिपक्षे तु ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । अमत्रः । अम गत्यादिषु । ‘अमिनक्षियजिबन्धि ' इत्यादिना औणादिकः अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ववक्षे । वहेर्लेटि ‘सिब्बहुलं लेटि' इति सिप् । ‘बहुलं छन्दसि' इति शपः श्लुः । ढत्वकत्वषत्वानि । लोपस्त आत्मनेपदेषु' इति तलोपः । रणाय । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । यद्वा ।' गत्यर्थकर्मणि ' (पा. सू. २. ३. १२ ) इति चतुर्थी ॥
“His magnitude verily exceeds that of the heaven, and earth and sky; Indra, self-irradiating in his dwelling, equal to every exploit, engaged with no unworthy foe, and killed in conflict, calls to battle.”
Yea, of a truth, his magnitude surpasseth the magnitude of earth, mid-air, and heaven.
Indra, approved by all men, self-resplendent, waxed in his home, loud-voiced and strong for battle.
Just this one—his greatness projected beyond heaven and earth, beyond the midspace.
Sovereign king, Indra, sung by all in the house, a reverberant tankard, waxed strong for battle [/for joy].
Es überragte wahrlich seine Grösse die weite Luft, den Himmel und die Erde; Selbstleuchtend wuchs im Hause allgepriesen der mächt'ge Indra tobend auf zum Kampfe.
Seine Größe reicht über Himmel und Erde, über das Luftreich hinaus. Indra ist der Selbstherrscher in seinem Hause, von allen gepriesen; ein nobler Herr, ein Gefäß ist er zum Kampf herangewachsen.
Это его величие выходит за пределы
Неба, земли, воздушного пространства.
Индра-самодержец в доме (своем), всеми воспетый,
Прекрасный (убийца) врагов, неистовый, он усилился для битвы.
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्र॑: । गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्तम् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्रः॑ । गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥
अस्यैवेन्द्रस्य शवसा बलेन शुषन्तं शुष्यन्तं वृत्रम् इन्द्रः वज्रेण वि वृश्चत् व्यच्छिनत् । तथा गा न चौरैरपहृताः गाव इव व्राणाः वृत्रेणावृतः अवनीः रक्षणहेतुभूता अपः अमुञ्चत् अवर्षीत् । तथा दावने हविर्दात्रे यजमानाय सचेताः तेन यजमानेन समानचित्तः सन् श्रवः कर्मफलभूतमन्नम् अभि आभिमुख्येन ददातीति शेषः ॥ शुषन्तम् । शुष शोषणे'। श्यनि प्राप्ते व्यत्ययेन शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वर एवं शिष्यते। व्राणाः । ‘वृञ् वरणे' । कर्मणि लटः शानचि ‘बहुलं छन्दसि' इति यको लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । अवनीः । अवतेः करणे ‘अर्तिसृधृधमि° ' ( उ. सू. २. ३५९ ) इत्यादिना अनिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दावने । ‘आतो मनिन् ' इति वनिप् । चतुर्थ्येकवचने अल्लोपाभावश्छन्दसः ॥ ॥ २८ ॥
“Indra, by his vigour, cut to pieces with his thunderbolt Vṛtra, the absorber (of moisture), and set free the preserving waters, like cows (recovered from thieves); and, consentient (to the wishes)of the giver of the oblation, (grants him) food.”
Through his own strength Indra with bolt of thunder cut piece-meal Vrtra, drier up of waters.
He let the floods go free, like cows imprisoned, for glory, with a heart inclined to bounty.
Just this one—with his swelling strength Indra hewed apart snorting Vr̥tra with his mace.
The streams, pent up like cows, he released toward fame, of one mind (with them), for giving.
Den Vritra schlug mit seinem Blitze Indra, den schnaufenden durch seines Blitzes Stärke, Entliess die Ström', wie eingesperrte Kühe, um holdgesinnt ruhmreiches Gut zu schenken.
Durch seine Kraft allein zerhieb Indra mit der Keule den wütenden Vritra. Die Flüsse, die wie die Kühe eingesperrt waren, befreite er, auf Ruhm ausgehend, zu schenken einverstanden.
Это только своей мощью шипящего
Вритру Индра разрубил ваджрой.
Как запертых коров, он освободил реки,
(Стремясь) навстречу славе, согласный дарить.
अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑व॒: परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् । ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणि॑: कः ॥
अ॒स्य । इत् । ऊँ॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑वः । परि॑ । यत् । वज्रे॑ण । सी॒म् । अय॑च्छत् । ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये । गा॒धम् । तु॒र्वणिः॑ । क॒रिति॑ कः ॥
अस्यैवेन्द्रस्य त्वेषसा दीप्तेन बलेन सिन्धवः समुद्राः। यद्वा । गङ्गाद्याः सप्त नद्यः रन्त स्वे स्वे स्थाने रमन्ते । यत् यस्मात् अयमिन्द्रः वज्रेण सीम् एनान् सिन्धून् वज्रेण परि अयच्छत् परितो नियमितवान् । अपि च ईशानकृत् वृत्रादिशत्रुवधेनात्मानमैश्वर्यवन्तं कुर्वन् इन्द्रः दाशुषे हविर्दत्तवते यजमानाय फलं दशस्यन् प्रयच्छन् तुर्वणिः तूर्णसंभजनः । ‘तुर्वणिस्तूर्णवनिः ' (निरु. ६. १४) इति यास्कः । यद्वा । तुर्विता शत्रूणां हिंसिता । एवंभूत इन्द्रः तुर्वीतये एतत्संज्ञाय उदके निमग्नाय ऋषये गाधम् अवस्थानयोग्यं धिष्ण्यप्रदेश कः अकार्षीत् ॥ रन्त । ‘रमु क्रीडायाम् । छान्दसे लङि बहुवचने ' बहुलं छन्दसि' इति शपो लुक् । धातोरन्त्यलोपश्छान्दसः । अयच्छत्। 'यम उपरमे'। इषुगमियमां छः' इति छत्वम् । कः । करोतेर्लुङि ‘ मन्त्रे घसह्वरणश° ' ( पा. सू. २. ४. ८० ) इत्यादिना च्लेर्लुक् । गुणः । हल्ङ्यादिना तलोपः। ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः ॥
“Through his power, the rivers sport, since he has opened (a way for them) by his thunderbolt; establishing his supremacy and granting a (recompense) to the giver (of the oblation), he, the swift-moving provided a resting plural ce for Tūrvīti.”
The rivers played, through his impetuous splendour, since with his bolt he compassed them on all sides.
Using his might and favouring him who worshipped, he made a ford, victorious, for Turviti.
Just this one—the rivers with their glittering came to rest when he held them encircled with his mace.
Performing the master’s part, showing favor to the pious man, the victorious one made a ford for Turvīti.
Auf seinen Antrieb rannen hin die Ströme, als er auf Vritra mit dem Blitz gezielet, Der Herrscher, Gunst dem Huldiger erweisend, macht' freie Bahn als Sieger dem Turviti.
Durch seinen Feuereifer standen die Ströme still, als er sie mit der Keule zurückhielt. Reich machend, dem Opferwilligen gefällig, bereite der Erretter dem Turviti eine Furt.
Это из-за его пыла остановились реки,
Когда ваджрой он их задержал.
Делая властелином, радуя почитателя,
Спаситель создал брод для Турвити.
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः । गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वृ॒त्राय॑ । वज्र॑म् । ईशा॑नः । कि॒ये॒धाः । गोः । न । पर्व॑ । वि । र॒द॒ । तिर॑श्चा । इष्य॑न् । अर्णां॑सि । अ॒पाम् । च॒रध्यै॑ ॥
तूतुजानः इति क्षिप्रनाम । तूतुजानः त्वरमाणः । यद्वा । शत्रून् हिंसन्। ईशानः ईश्वरः सर्वेषां कियेधाः कियतोऽनवधृतपरिमाणस्य बलस्य धाता । यद्वा । क्रममाणं शत्रुबलं दधात्यवस्थापयतीति कियेधाः । हे इन्द्र एवंभूतस्त्वम् अस्मै वृत्राय वज्रं प्र भर। इमं वृत्रं वज्रेण प्रहरेत्यर्थः । प्रहृत्य च अर्णांसि वृष्टिजलानि इष्यन् तस्मात् वृत्राद्गमयंस्त्वम् अपां चरध्यै तासामपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृत्रस्य मेघरूपस्य पर्व पर्वाण्यवयवसंधीन् तिरश्चा तिर्यगवस्थितेन वज्रेण वि रद विलिख । छिन्द्धीत्यर्थः । तत्र दृष्टान्तः । गोर्न । यथा मांसस्य विकर्तारो लौकिकाः पुरुषाः पशोरवयवानितस्ततो विभजन्ति तद्वत्। अत्र निरुक्तम्- अस्मै प्रहर तूर्णं त्वरमाणो वृत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णाँस्यपां चरणाय' ( निरु. ६. २० ) इति ॥ भर । 'हृग्रहोर्भः' इति भत्वम् । “ द्व्यचोऽतस्तिङः' इति सांहितिको दीर्घः । तूतुजानः । तुज हिंसायाम् । कानचि ‘तुजादीनां दीर्घोऽभ्यासस्य ' इति अभ्यासस्य दीर्घत्वम् । छन्दस्युभयथा ' इति कानचः सार्वधातुकत्वे सति ' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कियेधाः । ‘तुजता कियेधाः' ( ऋ. सं. १. ६१.६) इत्यत्रोक्तम् । रद । ‘रद विलेखने । ‘तिङ्ङतिङः' इति निघातः । तिरश्चा। तिरोऽञ्चतीति तिर्यङ्। ऋत्विक्' इत्यादिना क्विन् । अनिदिताम्' इति नलोपः । तृतीयैकवचने भसंज्ञायाम् ' अचः' इति अकारलोपः । श्रुत्वेन सकारस्य शकारः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्। इष्यन् । ‘इष गतौ ' इत्यस्मात् अन्तर्भावितण्यर्थात् शतरि ‘दिवादिभ्यः श्यन्' । तस्य नित्त्वादाद्युदात्तत्वम् । चरध्यै। ‘तुमर्थे सेसेन्' इति चरतेः अध्यैप्रत्ययः॥
“Indra, who are the quick moving and strength-endowed lord (of all), hurl your thunderbolt against this Vṛtra and sever his joints, as (butchers cut up) a cow, that the rains may issue from him, and the waters flow (over the earth).”
Vast, with thine ample power, with eager movement, against this Vrtra cast thy bolt of thunder.
Rend thou his joints, as of an ox, dissevered, with bolt oblique, that floods of rain may follow.
Toward just this one, toward Vr̥tra, bear down the mace, thrusting, gaining mastery, conferring (who knows) how much.
Scrape through him crosswise as if through the joints of a cow, dispatching the floods of waters to wander.
Auf diesen Vritra schleudre heftig stürmend den Blitz, als Herrscher vieles Gut verleihend; Wie Rindersehnen schneide mitten durch ihn, die Flut entlassend, dass die Wasser strömen.
Auf ihn schleudere im Anlauf die Keule, auf Vritra, allvermögend, was es auch sei schaffend! Wie das Gelenk des Rindes zerteile ihn quer durch, indem du die Wasserfluten zum Laufen loslässest!
Это ему быстро принеси
Ваджру для Вритры, (ведь он) властный, добивающийся чего угодно.
Как быка – по суставу, раздели его наискось,
Посылая струиться бурные потоки вод!
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः । यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥
अ॒स्य । इत् । ऊँ॒ इति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्यः॑ । उ॒क्थैः । यु॒धे । यत् । इ॒ष्णा॒नः । आयु॑धानि । ऋ॒घा॒यमा॑णः । नि॒ऽरि॒णाति॑ । शत्रू॑न् ॥
उक्थैः शस्त्रैः नव्यः स्तुत्यो य इन्द्रः अस्येदु अस्यैव तुरस्य युद्धार्थं त्वरमाणस्येन्द्रस्य पूर्व्याणि पुराणानि कर्माणि एतत्कृतानि बलकर्माणि हे स्तोतः प्र ब्रूहि प्रशंस। यत् यदा युधे योधनाय आयुधानि वज्रादीनि इष्णानः अभीक्ष्ण्येन प्रेरयन् शत्रून् ऋघायमाणः हिंसंश्चेन्द्रः निरिणाति अभिमुखं गच्छति। तदानीं प्र ब्रूहीति पूर्वेण संबन्धः । पूर्व्यम् इति पुराणनाम। ‘पूर्व्यम् अह्वाय' (नि. ३. ७. ५) इति पुराणनामसु पाठात् ॥ तुरस्य । ‘तुर त्वरणे ' । इगुपधलक्षणः कः । नव्यः । ‘णु स्तुतौ । ‘अचो यत्' इति यत् । गुणः । ‘धातोस्तन्निमित्तस्यैव ' इति अवादेशः । इष्णानः । ‘इष आभीक्ष्ण्ये ' । क्रैयादिकः । व्यत्ययेन आत्मनेपदम् । शानचः चित्त्वादन्तोतत्वम् । ऋघायमाणः। ‘नहि त्वा रोदसी उभे ऋघायमाणम् ' ( ऋ. सं. १, १०. ८) इत्यत्र व्युत्पादितम्। निरिणाति। ‘री गतिरेषणयोः'। क्र्यादिभ्यः श्ना'। ‘प्वादीनां ह्रस्वः' इति ह्रस्वत्वम्॥ तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः शिष्यते । ‘तिङि चोदात्तवति' इति गतेः निघातः । यद्वृत्तयोगात् “ तिङ्ङतिङः' इति निघाताभावः ॥
“Proclaim, with new hymns, the former exploits of that quick-moving Indra, when wielding his weapons in battle, he encounters and destroys his enemies.”
Sing with new lauds his exploits wrought aforetime, the deeds of him, yea, him who moveth swiftly,
When, hurling forth his weapons in the battle, he with impetuous wrath lays low the foemen.
Of just this one, the precipitous—proclaim his former deeds anew with solemn words,
when, propelling his own weapons to battle, showing his mettle, he dissolves his rivals.
Des starken Indra alte Heldenthaten verkünde nun aufs neue durch Gesänge, Wie er zum Kampfe seine Waffen schwingend, im Zorne bebend niederwirft die Feinde.
Seine, des Überlegenen, früheren Taten verkünde aufs Neue in Lobgedichten, daß er nach seinen Waffen zum Kampfe verlangend, drohend den Feind niederwerfe!
Это его, стремительного (бога), прежние подвиги
Снова провозгласи в хвалебных песнях,
Чтобы возбуждая оружие для боя,
Буйствуя, он разогнал врагов.
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते । उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥
अ॒स्य । इत् । ऊँ॒ इति॑ । भि॒या । गि॒रयः॑ । च॒ । दृ॒ळ्हाः । द्यावा॑ । च॒ । भूमा॑ । ज॒नुषः॑ । तु॒जे॒ते॒ इति॑ । उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वानः । ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्या॑य । नो॒धाः ॥
अस्यैवेन्द्रस्य भिया पक्षच्छेदभयेन गिरयः पर्वता अपि दृळ्हाः निश्चलाः स्वस्वदेशेऽवतिष्ठन्ते । जनुषः प्रादुर्भूतादस्मादेवेन्द्रात् भीत्या द्यावा भूमा च द्यावापृथिव्यावपि तुजेते । तुजिर्हिँसार्थोsप्यत्र कम्पने द्रष्टव्यः । कम्पेते इत्यर्थः । किंच वेनस्य कान्तस्यास्य ओणिं दुःखस्यापनायकं रक्षणम् उपो जोगुवानः अनेकैः सूक्तैः पुनःपुनरुपशब्दयन् उपश्लोकयन्नित्यर्थः । एवंभूतः नोधाः ऋषिः सद्यः तदानीमेव वीर्याय भुवत् वीर्यवानभवत् ॥ द्यावा च भूमा । द्यावा भूमेत्यनयोर्मध्ये चशब्दस्य पाठश्छान्दसः। दिवो द्यावा' इति दिव् शब्दस्य द्यावादेशः ।‘सुपां सुलुक्' इति विभक्तेः डादेशः।‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । पदद्वयप्रसिद्धिरपि सांप्रदायिकी । जनुषः । ‘जनी प्रादुर्भावे'। ‘जनेरुसिः'(उ. सु. २. २७२) इति औणादिक उसिप्रत्ययः । जोगुवानः । गुङ् अव्यक्ते शब्दे । अस्मात् यङ्लुगन्तात् व्यत्ययेन शानच् । ‘अदादिवच्च' इति वचनात् शपो लुक् । उवङादेशः । ‘अभ्यस्तानामादिः' इस्याद्युदात्तत्वम् । ओणिम् । ओणृ अपनयने '। अस्मात् औणादिक इप्रत्ययः । भुवत् । भवतेर्लेटि अडागमः । ‘बहुलं छन्दसि ' इति शपो लुक् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधः । नोधाः । ‘नोधा ऋषिर्भवति नवनं दधाति ' ( निरु. ४. १६ ) इति यास्कः । तस्मात् धाञः असुन् नवशब्दस्य नोभावश्च ॥
“Through fear of him, the stable mountains (are still), and through dread of his appearance, heaven and earth tremble; may, Nodhas, praising repeatedly the preserving power of that beloved Indra, be speedily (blessed) with vigour.”
When he, yea, he, comes forth the firm. Set mountains and the whole heaven and earth, tremble for terror.
May Nodhas, ever praising the protection of that dear Friend, gain quickly strength heroic.
Just this one—in fear of his birth both the firmly fixed mountains and heaven and earth thrust against each.
Constantly calling upon him [=Indra], who is a (protective) arm for the seeker, in an instant Nodhas [=the poet] will be (there) for his
[=Indra’s] (next?) manly deed.
Die festen Berge, ja auch Erd' und Himmel bewegen sich aus Furcht vor dem gebornen, Verkündend laut die Hülfe nun des holden, mög' Nodhas schnell zu Heldenkraft gelangen.
Aus Furcht vor seiner Geburt fahren sowohl die festen Berge wie Himmel und Erde erschrocken zusammen. Ihn Anrufend, der für den Seher ein schützender Arm ist, möge Nodhas alsbald seiner Mannestat gewärtig sein.
Это в страхе перед его рождением
Дрожат твердые горы, небо и земля.
Громко призывая (защищающую) длань провидца,
Нодхас сразу стал готовым к подвигу.
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः । प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्र॑: ॥
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ । यत् । व॒व्ने । भूरेः॑ । ईशा॑नः । प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्ये । सुष्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥
एकः एक एव शत्रून् जेतुं समर्थः भूरेः बहुविधस्य धनस्य ईशानः स्वामी यत् स्तोत्रं वव्ने ययाचे एषां स्तोतॄणां संबन्धि । यद्वा । विभक्तिव्यत्ययः । एतैः त्यत् तत्प्रसिद्धं स्तोत्रम् अस्मै इन्द्राय
"अनु दायि अकारीत्यर्थः । उत्तरार्धस्येयमाख्यायिका । स्वश्वो नाम कश्चित् राजा । स च पुत्रकामः सूर्यमुपासांचक्रे । तस्य च सूर्य एव पुत्रो बभूव । तेन सह एतशनाम्नो महर्षेर्युद्धं जातमिति तदेतदिहोच्यते । अयम् इन्द्रः सौवश्व्ये स्वश्वपुत्रे सूर्ये पस्पृधानं स्पर्धमानं सुष्विं सोमानामभिषोतारम् एतशम् एतत्संज्ञकमृषिं प्र आवत् प्रारक्षत् ॥ दायि । बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । वव्ने । वनु याचने '। लिटि व्यत्ययेन उपधालोपः । पस्पृधानम् । ‘स्पर्ध संघर्षे '। अस्मात् लिटः कानच् । द्विर्वचने ‘शर्पूर्वाः खयः' इति पकारः शिष्यते । धात्वकारस्य लोपो रेफस्य संप्रसारणं च पृषोदरादित्वात् । चित्त्वादन्तोदात्तत्वम् । सौवश्व्ये। स्वश्वः इति जनपदशब्दः क्षत्रिये संज्ञात्वेन वर्तते । ‘वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' (पा. सू. १. १. ७३. ५) इति वृद्धसंज्ञायां ‘वृद्धेत्कोसलाजादाञ्ञ्यङ्' (पा. सू. ४. १. १७१ ) इति अपत्यार्थे ञ्यङ्प्रत्ययः । ‘न य्वाभ्यां पदान्ताभ्याम् । (पा. सू. ७. ३. ३) इति वृद्धेः प्रतिषेधः ऐजागमश्च । ञित्त्वादादाद्युदात्तत्वम् । सुष्विम्। ‘षुञ् अभिषवे'।' उत्सर्गश्छन्दसि' (पा. सू. ३. २. १७१. २) इति अस्मात् किन्प्रत्ययः । लिङ्वद्भावात् द्विर्भावः । यणादेशः । उवङादेशाभावश्छान्दसः ॥
“To him has that praise been offered which he, sole (victor over his foes), and lord of maniford wealth, prefers (to receive) from those (who praise him). Indra has defended the pious sacrificer Etaśa when contending with Sūrya, the son of Svaśva.”
Now unto him of these things hath been given what he who rules alone o'er much, electeth.
Indra hath helped Etasa, Soma-presser, contending in the race of steeds with Surya.
Just to this one has this (soma-drinking?) been conceded by them [=gods], since he alone won (it?), becoming master of much.
Indra aided Etaśa, who was contending for the sun; he will aid the
soma-presser contending for good horses.
So ist ihm das von Göttern zugestanden, was er begehrt, der eine viel besitzend, Er half dem Ross im Wettlauf mit der Sonne, dem Frommen half zu hohem Glücke Indra.
Ihm Ward das von ihnen zugestanden, was er allein errungen hat, der über vieles Macht hat. Dem um den Surya kämpfenden Etasa, dem Somaopferer, stand Indra bei im Wettstreit um die besten Rosse.
Это ему из (всех) них было дано то,
Чего он один мог добиться, властвуя над многим.
Эташу, борящегося за солнце,
Жертвователя сомы, Индра поддержал в конном состязании.
ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् । ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
ए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवृ॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मासः । अ॒क्र॒न् । आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
हर्योरश्वयोर्योजनं यस्मिन् रथे स तथोक्तः । तस्य स्वामित्वेन संबन्धी हारियोजनः । हे हारियोजन इन्द्र गोतमासः गोतमगोत्रोत्पन्ना ऋषयः सुवृक्ति सुष्ठु आवर्जकान्यभिमुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मन्त्रजातानि ते तव एव अक्रन् अकृषत। एषु स्तोतृषु विश्वपेशसं बहुविधरूपयुक्तं धियं धाः । धिया लभ्यत्वात् धीः धनमुच्यते । यद्वा । धीशब्दः कर्मवचनः । पश्वादिबहुविधरूपं धनम् अग्निष्टोमादिकं बहुविधरूपं कर्म वा आ धाः । धेहि स्थापय । प्रातः इदानीमिव परेद्युरपि प्रातःकाले धियावसुः बुद्ध्या कर्मणा वा प्राप्तधन इन्द्रः मक्षु शीघ्रं जगम्यात् अस्मद्रक्षणार्थमागच्छतु ॥ एव ।' निपातस्य च ' इति संहितायां दीर्घः । सुवृक्ति । ‘सुपां सुलुक् ' इति शसो लुक् । अक्रन् । करोतेर्लुङि ‘मन्त्रे घसह्वर' इत्यादिना च्लेर्लुक् । अन्तादेशः । तस्य ङित्त्वात् गुणाभावे यणादेशः । इतश्च ' इति इकारलोपे संयोगान्तलोपे च अडागमः । धाः । ‘छन्दसि लुङ्लङ्लिटः' इति लोडर्थे लुङि “ गातिस्था" ' इति सिचो लुक् । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः॥ ॥२९॥
“Indra, harnesser of steeds, the descendants of Gotama have offered to you prayers of efficacy to secure your presence; bestow upon them every sort of affluence; may he who has acquired wealth by pious acts, come hither quickly in the morning.”
Thus to thee, Indra, yoker of Bay Coursers, the Gotamas have brought their prayers to please thee.
Bestow upon them thought, decked with all beauty. May he, enriched with prayer, come soon and early.
Thus have the Gotamas made you sacred formulations for the
“Fallow-bay-yoking” (oblation), with a good twist, o Indra.
Do you confer on them an insight with all its ornaments. – Early in the morning—soon—he should come bringing goods through his
insight.
So haben preisend dir, der Füchse anschirrt, die Gotamer Gebet verrichtet, Indra, Lass reich mit Gut geschmückt sein ihre Andacht. Der huldvoll sorget, komme früh am Morgen.
So haben dir, du Trinker des Falbenanschirrungsschoppens, mit schöner Lobrede die Gotamiden eine Erbauung bereitet, o Indra. Leg in sie die Dichtung mit allen Zierden! - Recht bald am Morgen soll sich der einstellen, der durch die Weisheit Schätze erwirbt.
Так тебе, о Индра – обладатель колесницы с упряжкой буланых коней,
Люди из рода Готамы с помощью прекрасных речей создали молитвы.
Вложи в них поэтический дар со всеми украшениями!
Да придет (к нам) быстро ранним утром (бог,) богатый даром видения!