प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् । सु॒वृ॒क्तिभि॑: स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥
प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय॑ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व॑णसे । अ॒ङ्गि॒र॒स्वत् । सु॒वृ॒क्तिऽभिः॑ । स्तु॒व॒ते । ऋ॒ग्मि॒याय॑ । अर्चा॑म अ॒र्कम् । नरे॑ । विऽश्रु॑ताय ॥
शवसानाय । शव इति बलनाम । तदिवाचरते। यथा बलं शत्रून् हन्ति तथा शत्रूणां हन्तेत्यर्थः । गिर्वणसे । गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । एवंभूतायेन्द्राय । शूषमिति सुखनाम । शूषं सुखहेतुभूतम् ।' आङ्गूषः स्तोम आघोषः ' ( निरु. ५. ११ ) इति यास्कः। आङ्गूषं स्तोत्रम् अङ्गिरस्वत् अङ्गिरस इव प्र मन्महे वयं स्तोतारः प्रकर्षेणावगच्छामः। अवगत्य च सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः स्तुवते स्तोत्रं कुर्वते ऋषये य इन्द्र ऋग्मियोऽर्चनीयो भवति । यद्वा । कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः । नरे सर्वेषां नेत्रे । यद्वा । नरे यजमाने । विश्रुताय यष्टव्यतया विशेषेण प्रख्याताय। एवंभूताय तस्मै अर्कं मन्त्ररूपं स्तोत्रम् । अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५. ४) इति यास्कः । अर्चाम पूजयाम । उच्चारयामेत्यर्थः ॥ मन्महे। मनु अवबोधने ' । तनादित्वात् उप्रत्ययः । लोपश्चास्यान्यतरस्यां म्वोः ' ( पा. सू. ६. ४. १०७ ) इति मकारादौ प्रत्यये उकारलोपः । शवसानाय । शव इवाचरति शवस्यते । अस्मात् लटः शानच् । बहुलं छन्दसि ' इति शपो लुक् । शानचः ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । चितः इत्यन्तोदात्तत्वम् । ननु क्यङो ङित्त्वात् ' तास्यनुदात्तेत्' इति शान्चोऽनुदात्तेन भवितव्यम् । एवं तर्हि ताच्छीलिकः चानश् । तस्य सार्वधातुकरवेऽपि सार्वधातुकत्वाभावात् चितः स्वर एव शिष्यते । शूषम् । ‘शूष प्रसवे'। पचाद्यच् । आङ्गूषम् । आङ्पूर्वात् घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात् । आङो ङकारस्य इत्संज्ञाभावश्छान्दसः । चित्स्वरेणोत्तरपदस्यान्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । घञि वा थाथादिना उत्तरपदान्तोदात्तत्वम् । गिर्वणसे ।' गॄ शब्दे ' । संपदादिलक्षणो भावे क्विप् । 'ऋत इद्धातोः' इति इत्वम् । गीर्भिर्वन्यते संभज्यते इति गिर्वणः । औणादिकः कर्मणि असुन्। संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘हलि च ' इति दीर्घाभावः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् पूर्वपदप्रकृतिस्वरत्वम् । अङ्गिरस्वत्। ‘ तेन तुल्यम्' इति वतिः ।' नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (पा. सू. १. ४. १८. ३) इति भसंज्ञायां रुत्वाद्यभावः । प्रत्ययस्वरः । सुवृक्तिभिः । वृजी वर्जने' । भावे क्तिन् । “ तितुत्र' इति इट्प्रतिषेधः । शोभनमावर्जनं येषाम् । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ननु क्तिनन्तस्योत्तरपदस्याद्युदात्तत्वात् ' आद्युदात्तं द्व्यच्छन्दसि ' इति वचनादुत्तरपदाद्युदात्तत्वं प्राप्नोति । एवं तर्हि तत्पुरुषोऽस्तु । शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि । करणे क्तिन् । ' तादौ च निति” ' इति गतेः प्रकृतिस्वरत्वे प्राप्ते ‘मन्क्तिन्” ' इत्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदान्तोदात्तत्वमकारकादपि व्यत्ययेन भवति । स्तुवते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ऋग्मियाय । एकाचो नित्यं मयटमिच्छन्ति' (का.४. ३. १४४) इति ऋक्शब्दात् विकारार्थे मयट् । 'स्वादिष्वसर्वनामस्थाने' (पा. सू. १. ४. १७ ) इति पदसंज्ञायां कुत्वजश्त्वे । व्यत्ययेन इत्वम् । यद्वा ।' ऋच स्तुतौ' इत्यस्मात् भावे मक् । बहुलवचनात् कुत्वं जश्त्वं च । ऋग्मं स्तुतिमर्हतीति ऋग्मियः । अर्हार्थे घच् । ' चितः ' इत्यन्तोदात्तत्वम् । अर्चाम ।' अर्च पूजायाम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । अर्कम् । अर्च्यतेऽनेनेत्यर्कः । ‘ पुंसि संज्ञायां घः प्रायेण ' इति घप्रत्ययः । चजोः कु घिण्ण्यतोः ' इति कुत्वम् । नरे । नृशब्दात् चतुर्थ्येकवचने गुणश्छान्दसः । विश्रुताय । श्रु श्रवणे' । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“We mediate like Aṅgiras, an acceptable adress to that powerful and praise-deserving Indra, who is to be adored by his worshippers (with prayers) of efficacy, to bring him to the ceremony; let us repeat a prayer to the celebrated leader of all.”
LIKE Angiras a gladdening laud we ponder to him who loveth song, exceeding mighty.
Let us sing glory to the far-famed Hero who must be praised with fair hymns by the singer.
We think up a fortifying song for the forceful one who longs for hymns, just as the Aṅgirases did.
A chant with the good twists of a praiser we chant to the one worthy of chant, to the widely famed superior man.
Ein Preislied weihn wir andachtsvoll dem starken, dem Liederfreund wie Angiras ein Loblied; Lasst Sang uns singen dem berühmten Manne, mit Hymnen ihm, der Lob verdient und Ehre.
Wir ersinnen für den Mächtigen eine Stärkung, für den Lobbegehrenden ein Loblied in der Weise der Angiras. Auf ihn, der für den Sänger in schönen Preisreden zu preisen ist, wollen wir einen Lobgesang singen, auf den berühmten Herrn.
Мы придумываем для мощного великолепную
Похвалу, для жаждущего воспевания – в стиле Ангирасов,
(Тому,) кто участвует в восхвалении (самого себя) прекрасными словами, (ему,) достойному гимна,
Мы споем песню – мужу знаменитому!
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ । येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥
प्र । वः॒ । म॒हे । महि॑ । नमः॑ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य॑म् । श॒व॒सा॒नाय॑ । साम॑ । येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । अर्च॑न्तः । अङ्गि॑रसः । गाः । अवि॑न्दन् ॥
हे ऋत्विजः वः यूयं महे महते शवसानाय बलमिवाचरते । अतिबलायेत्यर्थः । उत्तरवाक्ये यच्छब्दश्रुतेः तच्छब्दाध्याहारः । एवंभूताय तस्मै इन्द्राय महि महत् प्रौढं नमः स्तोत्रं प्र भरध्वं प्रकर्षेण संपादयत । किं तत् स्तोत्रमित्याह । आङ्गूष्यं साम आघोषयोग्यं रथन्तरादिसाम । तन्निपाद्यतामित्यर्थः। ‘ अभि त्वा शूर' (ऋ. सं. ७. ३२. २२ ) इत्यादिषु ऋक्षु यद्गानं तस्य सामेत्याख्या। तथा चोक्तं-' गीतिषु सामाख्या' (जै. सू. २. १. ३६) इति । येन इन्द्रेण नः अस्माकं पितरः पितृविशेषाः पूर्वे पूर्वपुरुषाः अङ्गिरसः पणिनाम्नासुरेणापहृतानां गवां 'पदज्ञाः मार्गज्ञाः सन्तोऽत एव अर्चन्तः तं पूजयन्तः गा अविन्दन् अलभन्त ॥ वः । प्रथमार्थे द्वितीया । पदज्ञाः । पदानि जानन्तीति । अतोऽनुपसर्गे कः' इति कः । ‘ आतो लोप इटि च' इति आकारकोपः ॥ अविन्दन् ।' विद्लृ लाभे'। ‘शे मुचादीनाम्' इति नुमागमः ॥
“Do you, priests, offer to the vast and most powerful, Indra, earnest veneration, a chant fit to be sung aloud; for through him our forefathers, the Aṅgirasas, worshipping him, and knowing the footmark, recovered (the stolen) cattle.”
Unto the great bring ye great adoration, a chant with praise to him exceeding mighty,
Through whom our sires, Angirases, singing praises and knowing well the places, found the cattle.
Present your great reverence to the great one, a songful melody to the forceful one,
with which our forefathers, the Aṅgirases, knowing the track [/word], chanting, found the cows.
Dem grossen traget euer gross Gebet vor, laut tönenden Gesang dem kraftbegabten, Durch den des Weges kundig unsre Ahnen, die Angiras, durch Lied die Kühe fanden.
Bringet dem Großen eure große Huldigung dar, die liedgemäße Sangesweise dem Mächtigen, mit der unsere Vorväter, die spurenkundigen Angiras, unter Lobsingen die Rinder auffanden!
Принесите ваше великое поклонение великому,
Мощному – сопровождаемый восхвалением напев,
С помощью которого наши древние отцы – знающие след
Ангирасы, распевая хвалу, нашли коров.
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् । बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नर॑: ॥
इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥
अत्रेदमाख्यानम् । सरमा नाम देवशुनी । पणिभिर्गोष्वपहृतासु तद्गवेषणाय तां सरमामिन्द्रः प्रहैषीत्। यथा लोके व्याधो वनान्तर्गतमृगान्वेषणाय श्वानं विसृजति तद्वत् । सा च सरमा एवमवोचत्। हे इन्द्र अस्मदीयाय शिशवे तद्गोसंबन्धि क्षीराद्यन्नं यदि प्रयच्छसि तर्हि गमिष्यामीति । स तथेत्यब्रवीत् । तथा च शाट्यायनकम्-अन्नादिनीं ते सरमे प्रजां करोमि या नो गा अन्वविन्दः' इति ततो गत्वा गवां स्थानमज्ञासीत् । ज्ञात्वा चास्मै न्यवेदयत् । तथा निवेदितासु गोषु तमसुरं हत्वा ता गाः स इन्द्रोऽलभतेति । अयमर्थोऽस्यां प्रतिपाद्यते ॥ इन्द्रस्य अङ्गिरसाम् ऋषीणां च इष्टौ प्रेषणे सति सरमा देवशुनी तनयाय स्वपुत्राय धासिम् अन्नं विदत् अविन्दत् । धासिः इत्यन्ननाम, ‘ धासिः इरा' (नि. २.७. ११) इति तन्नामसु पाठात् । तथा गोषु निवेदितासु बृहस्पतिः बृहतां देवानामधिपतिरिन्द्रः अद्रिम् अत्तारमसुरं भिनत् अवधीत् । तेनापहृताः गाः विदत् अलभत । ततः नरः नेतारो देवाः उस्रियाभिः गोभिः सह । उस्रिया इति गोनाम । सं वावशन्त भृशं हर्षशब्दमकुर्वन् । यद्वा । गोभिः साधनभूताभिस्तदीयं क्षीरादिकमकामयन्त समगच्छन्तेत्यर्थः ॥ इष्टौ ।' इष गतौ । इत्यस्मात् भावे क्तिनि मन्त्रे वृष° ' इत्यादिना क्तिन उदात्तत्वम् । विदत् । ‘ विद्लृ लाभे ' । लुङि लृदित्त्वात् अङ्।' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अङ एव स्वरः शिष्यते । पादादित्वात् निघाताभावः । सरमा । सरमा सरणात् ' (निरु. ११. २४ ) इति यास्कः । सर्तेः औणादिकः अमप्रत्ययः । धासिम् । धेट् पाने'। धीयते पीयते इति धासिः । औणादिकः सिप्रत्ययः । यद्वा । दधातेः पोषणार्थात् सिप्रत्ययः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (पा. सू. ६. १. १५७. ग.) इति सुडागमस्तलोपश्च । बृहच्छब्दः अन्तोदात्तः । तस्य केचिदाद्युदात्तत्वं वर्णयन्तीत्युक्तम् । पतिशब्दो डतिप्रत्ययान्त आद्युदात्तः । अतः ‘ उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । उस्रियाभिः । निवसत्यस्यां क्षीरादिकमिति उस्रा गौः । ‘ वस निवासे ' इत्यस्मात् ‘ स्फायितञ्चि° ' इत्यादिना अधिकरणे रक्। ‘ वचिस्वपि ' इत्यादिना संप्रसारणम् । ‘ उस्राशब्दात् स्वार्थे पृषोदरादित्वेन घप्रत्ययः' इति निघण्टुभाष्यम् । घस्य इयादेशः । प्रत्ययस्वरः । वावशन्त । वाशृ शब्दे ' । अस्मात् यङन्तात् लङि झस्य अन्तादेशे सति तस्य छन्दस्युभयथा' इति आर्धधातुकत्वात् अतोलोपयलोपौ । व्यत्ययेन धातोर्ह्रस्वत्वम् । यद्वा । ‘वश कान्तौ ' इत्यस्मात् यङि ‘न वशः ' ( पा. सू. ६. १. २० ) इति संप्रसारणे प्रतिषिद्धे पूर्ववत् प्रक्रिया ॥
“When the search was set on foot by Indra and the Aṅgirasas, Suramā secured food for her young; then Bṛhaspati slew the devourer and rescued the kine, and the gods, with the cattle, proclaimed their joy alouḍ ”
When Indra and the Angirases desired it, Sarama found provision for her offspring.
Brhaspati cleft the mountain, found the cattle: the heroes shouted with the kine in triumph.
At the desire of Indra and the Aṅgirases, Saramā found the wellspring for posterity.
Br̥haspati: he split the rock; he found the cows. The superior men
bellowed together with the ruddy (cows).
Auf Indra's und der Angirasen Antrieb fand Sarama für ihre Kinder Nahrung, Fels spaltend fand Brihaspati die Kühe, die Männer jauchzten mit den morgenrothen.
Als Indra und die Angiras auf der Suche waren, fand Sarama Nahrung für ihre Nachkommenschaft. Brihaspati spaltete den Fels, fand die Rinder. Die Männer stimmten in das Gebrüll der Kühe mit ein.
Когда Индра и Ангирасы (были) заняты поисками,
Сарама нашла пищу для (своего) потомка.
Брихаспати расколол скалу, нашел коров.
Мужи присоединились к реву коров.
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै॑: स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः । स॒र॒ण्युभि॑: फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः । स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । दश॑ऽग्वैः ॥
अङ्गिरसो द्विविधाः । सत्रयागमनुतिष्ठन्तो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः ।' नवग्वा नवनीतगतयः' (निरु. ११. १९) इति यास्को व्याचख्यौ। ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः। तादृशैरुभयविधैः विप्रैः मेधाविभिः सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः सप्त सप्तसंख्याकैः । सप्त ह्यत्र मेधातिथिप्रभृतयोऽङ्गिरसो दृश्यन्ते । एवंभूतैरङ्गिरोभिः सुष्टुभा शोभनस्तोभयुक्तेन स्वरेण उदात्तादिश्रव्यस्वरोपेतेन । यद्वा । मन्द्रमध्यमादिस्वरेण स्तुभा स्तोत्रेण स्वर्यः सुष्ठु प्राप्यः । यद्वा । शब्दनीयः स्तुत्य इत्यर्थः । हे शक्र शक्तिमन् इन्द्र एवंभूतः सः त्वम् अद्रिम् आदरणीयं वज्रेण छेत्तव्यमित्यर्थः । फलिगम् । प्रतिफलं प्रतिबिम्बम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छति आधारत्वेनेति फलिगः । यद्वा । व्रीह्यादि फलम् । तदस्मिन् सति भवतीति फलि वृष्टिजलम् । तद्गच्छतीति फलिगः । एवंभूतं वलं मेघं रवेण आत्मीयेन शब्देन दरयः अभाययः। त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः । यद्वा । अद्रिः पर्वतः। अद्यतेऽस्मिन् पटलादिकमिति' । फलिगो मेघः । ‘ फलिगः उपलः ' ( नि. १. १०. १७ ) इति तन्नामसु पाठात् । वलोऽसुरः । ' देवा वै वले गाः पर्यपश्यन् ' ( ऐ. ब्रा. ६. २४ ) इत्यादौ असुरे प्रयुक्तत्वात् । एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः ॥ सः इत्येकः पादपूरणः । सुष्टुभा । स्तोभतिः स्तुतिकर्मा । संपदादिलक्षणो भावे क्विप्। शोभनः स्तुप् स्तोभो यस्य । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ‘ उपसर्गात्सुनोति' इति षत्वम् । स्तुभा । करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति ‘क्विप् च' इति कर्तरि क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । स्वर्यः । स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्' इति ण्यत् । वृद्ध्यभावश्छान्दसः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । नवग्वैः । नवशब्दे उपपदे गमेर्भावे क्विपि ' गमः क्वौ ' ( पा. सू. ६. ४. ४० ) इत्यनुनासिकलोपे ' ऊ च गमादीनामिति वक्तव्यम् ' ( पा. सू. ६. ४. ४०. २ ) इति ऊकारान्तादेशः । नवभिः गूः गमनं येषां ते नवग्वाः। अकारोपजनश्छान्दसः । यद्वा । गमेर्भावे ड्वप्रत्ययः । पूर्ववत् बहुव्रीहिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सरण्युभिः । सरणमात्मन इच्छन्तः सरण्यवः । क्यचि अन्त्यलोपश्छान्दसः । क्याच्छन्दसि' इति उः। फलिगम् । फलि उदकं गच्छतीति फलिगः । ‘डोऽन्यत्रापि दृश्यते ' ( पा. म. ३. २. ४८ ) इति गमेर्डः । वलम् । वृणोतीति वलः । पचाद्यच् । कपिलकादित्वात् लत्वम् (पा. म. ८. २. १८)। दरयः । ‘दॄ विदारणे' । वृद्धौ कृतायां दॄ भये इति घटादिषु पाठात् मित्त्वे • मितां ह्रस्वः' इति ह्रस्वत्वम् ॥
“Powerful Indra, who are to be gratified with a laudatory and well-accented hymn by the seven priests, whether engaged for nine months, or for ten; and, desirous of (safe) protection, you have terrified by your voice the divisible fructifying cloud.”
Mid shout, loud shout, and roar, with the Navagvas, seven singers, hast thou, heavenly, rent the mountain;
Thou hast, with speeders, with Dasagvas, Indra, Sakra, with thunder rent obstructive Vala.
He with (his flock) of good rhythm, he with rhythm, with the seven inspired poets, with the Navagvas, he, the resounding one, with sound (split) the rock.
With the hastening ones, o able Indra, you cleft the bolt, with a roar you cleft Vala with the Daśagvas.
Mit Jubelruf mit lautem Schall zerbrachst du mit sieben Sängern, mit der Schar der Neuner Den Fels mit Krachen, o gewalt'ger Indra, die Wolkenhöhle mit den raschen Zehnern.
Du sprengtest mit der schmetternden Schar, du unter schmetterndem Tone mit den sieben Redegewaltigen, laut mit leiser Stimme zusammen mit den Navagva´s den Fels, mit den Saranyu´s den Phaliga, o mächtiger Indra, unter Geschrei den Vala im Bunde mit den Dasagva´s.
Вместе с громогласной (толпой), с громким гласом с семью вдохновенными
С (пронзительным) звуком звучный проломил скалу вместе с Навагва,
Вместе с быстрыми – вместилище влаги (?), Индра могучий,
Вместе с Дашагва – с ревом Валу.
गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑: । वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ । वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥
हे दस्म दर्शनीय शत्रूणामुपक्षयितर्वा इन्द्र त्वम् अङ्गिरोभिः ऋषिभिः गृणानः स्तूयमानः सन् उषसा सूर्येण च सह गोभिः किरणैः अन्धः अन्धकारं वि वः व्यवृणोः व्यनाशय इत्यर्थः । तथा हे इन्द्र त्वं भूम्याः पृथिव्याः सानु समुच्छ्रितप्रदेशं वि अप्रथयः विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा दिवः अन्तरिक्षस्य रजः रजसो लोकस्य उपरम् उप्तं मूलप्रदेशम् अस्तभायः अस्तभ्नाः । यथान्तरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । चित्स्वरेणान्तोदात्तत्वम् । दस्म । ‘ दसु उपक्षये '। ‘इषियुधीन्धिदसि° ' ( उ. सू. १. १४२ ) इत्यादिना मक् । वः । वृञ् वरणे ' । लुङि सिपि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । गुणे 'हल्ङ्याब्भ्यः' इति सलोपः । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । अन्धः । ‘ तमोऽप्यन्ध उच्यते नास्मिन् ध्यानं भवति ' ( निरु. ५. १ ) इति यास्कः । रजः । ‘ लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इत्युक्तत्वात् रजःशब्दो लोकवचनः । ‘ सुपां सुलुक्° ' इति षष्ठ्या लुक् । अस्तभायः । लङि ‘ स्तम्भुस्तुम्भु° ' ( पा. सू. ३. १. ८२ ) इत्यादिना श्नाप्रत्ययः । ‘ छन्दसि शायजपि ' ( पा. सू. ३. १. ८४ ) इति अहावपि व्यत्ययेन श्नाप्रत्ययस्य शायजादेशः । ‘ अनिदिताम् । इति नलोपः । अडागमः ॥ ॥ १ ॥
“Destroyer of foes, praised by the Aṅgirasas, you have scattered the darkness with the dawn, and with the rays of the sun; you have made straight the elevations of the earth; you have strengthened the foundations of the ethereal region.”
Praised by Angirases, thou, foe-destroyer, hast, with the Dawn, Sun, rays, dispelled the darkness.
Thou Indra, hast spread out the earth's high ridges, and firmly fixed the region under heaven.
Being hymned by the Aṅgirases, o wondrous one, you uncovered the blinding darkness [/soma stalk] along with the dawn, with the sun,
with the cows.
You spread out the back of the earth, Indra; you propped up the nearer realm of heaven.
Von Angiras gerühmt, enthülltest, hehrer, das Dunkel du durch Morgen, Sonne, Strahlen, Du Indra dehntest aus der Erde Rücken, befestigtest den untern Raum des Himmels.
Von den Angiras´ gepriesen hast du Meister das Dunkel aufgedeckt samt der Morgenröte, der Sonne, den Rindern. Du hast den Rücken der Erde ausgebreitet, Indra; du hast den unteren Raum des Himmels gestützt.
Воспеваемый Ангирасами, о удивительный, ты раскрыл
Мрак вместе с утренней зарей, солнцем, коровами.
Ты распространил, о Индра, поверхность земли.
Ты укрепил нижнее пространство неба.
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंस॑: । उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
तत् । ऊँ॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ । उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥
दस्मस्य दर्शनीयस्य अस्य इन्द्रस्य तदु तदेव कर्म प्रयक्षतमम् अतिशयेन पूज्यम् । दंसः इति कर्मनाम । दंसः तदेव कर्म चारुतमम् अतिशयेन शोभनम् । किं तदित्यत आह। अयमिन्द्रः उपह्वरे उपह्वर्तव्ये गन्तव्ये पृथिव्याः संबन्धिनि समीपदेशे उपराः उप्ताः स्थापिताः मध्वर्णसः मधुरोदकाः चतस्रः नद्यः प्रधानभूता गङ्गादिनदीः अपिन्वत् असिञ्चदिति यत् एतत् कर्म तदन्येन कर्तुमशक्यत्वात् पूज्यमित्यर्थः ॥ प्रयक्षतमम् । ‘यक्ष पूजायाम् । यक्ष्यते इति यक्षः । अतिशयेन यक्षो यक्षतमः । पुनः प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दंसः। ‘दसि दंसनदर्शनयोः'। चुरादिरात्मनेपदी । दंस्यते कर्तव्यतया दृश्यते इति दंसः कर्म । औणादिकः कर्मणि असुन् । उपह्वरे ।
ह्वृ कौटिल्यै '। कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते । उपह्वरन्ति गच्छन्त्यस्मिन् नद्य इत्युपह्वरो भूप्रदेशः । ‘ पुंसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८) इत्यधिकरणे घप्रत्ययः । गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिन्वत् । ‘ पिवि सेचने '। भौवादिकः । चतस्रः । शस् । ‘ त्रिचतुरोः स्त्रियां तिसृचतसृ' (पा. सू. ७. २. ९९ ) इति चतुर्शब्दस्य चतस्रादेश आद्युदात्तो निपातितः । पूर्वसवर्णदीर्घे प्राप्ते ' अचि र ऋतः ' ( पा. सू. ७. २. १०० ) इति रेफादेशः । चतुर्शब्दस्य आद्युदात्तत्वात् स्थानिवद्भावेन चतस्रादेशस्य आद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामर्थ्यात् यणादेशस्य वा पूर्वविधौ स्थानिवद्भावात् “ चतुरः शसि ' इत्यन्तोदात्तत्वस्याभावः । न च ' न पदान्त°' इति स्थानिवद्भावप्रतिषेधः, स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव ( पा. सू. १. १. ५८.१ ) इति नियमात् ॥ ।
“The deeds of that graceful Indra are most admirable; his exploits are most glorious, in that he has replenished the four rivers of sweet water, spread over the surface of the earth.”
This is the deed most worthy of all honour, the fairest marvel of the Wonder-Worker,
That, nigh where heaven bends down, he made four rivers flow full with waves that carry down sweet water.
This is his most conspicuous deed, the dearest wonder of the
wondrous one,
that he made the four nearer (celestial?) rivers with their honeyed floods swell in their eddying.
Und das ist seiner Werke allerstärkstes, die schönste Wunderthat des wunderbaren, Dass an dem Abhang er die untern Ströme, die vier von süssem Honig flutend füllte.
Das ist eine erstaunliche Tat, das beste Meisterstück des Meisters, daß er die vier süßflutenden Ströme unten in ihrem Schoße schwanger milchstrotzend machte.
А самое поразительное его деяние,
Лучший удивительный подвиг удивительного состоит в том,
Что в излучине, внизу, он наполнил
Четыре реки, струящиеся сладкими потоками.
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्य॒: स्तव॑मानेभिर॒र्कैः । भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसा॑: ॥
द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः । भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥
अयास्यः । यासः प्रयत्नः । तत्साध्यो यास्यः । न यास्योऽयास्यः । युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः । कथं साध्यते इत्यत आह । स्तवमानेभिः स्तोत्रं कुर्वद्भिः पुरुषैः अर्कैः स्तुतिरूपैर्मन्त्रैः स्तूयमानः सन्निन्द्रः सुसाध्यः भवति । यद्वा । अयास्यः पञ्चवृत्तिर्मुख्यप्राणः । स हि आस्यात् मुखात् अयते गच्छति निष्क्रामति । तदुपासकोऽप्यङ्गिरा उपचारात् अयास्य उच्यते । तथा च छन्दोगैराम्नातं -- तं हायास्य उद्गीथमुपासांचक्रे एतमु एवायास्यं मन्यन्त आस्याद्यदयते तेन । ( छा. उ. १. २. १२ ) इति । अथवा । अयमास्ये मुखे वर्तते इत्ययास्यः । तथा च वाजसनेयकं-- ‘ ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति ' (बृ. उ. १. ३. ८ ) इति । पूर्ववदुपासकोऽप्ययास्यः । तेन ऋषिणा स्तवमानेभिः गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वद्भिः अर्कैः मन्त्रैः करणभूतैः स्तूयमानः सन् सनजा। सना इति निपातो नित्यार्थः । नित्यजाते सर्वदा विद्यमानस्वभावे इत्यर्थः। प्रथमभावविकारवाचिना जनिना द्वितीयो भावविकारः सत्ता लक्ष्यते । यथा “ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति । ‘औत्पत्तिकमिति नित्यं ब्रूमः' (शा. भा. १.१.५) इति हि तद्भाष्यम्। सनीळे समानं नीळम् ओको निवासस्थानं ययोस्ते । संलग्ने इत्यर्थः । एवंविधे द्यावापृथिव्यौ द्विता द्विधा वि वव्रे विवृते अकरोत् भेदेनास्थापयदित्यर्थः । मेने मननीये परमे उत्कृष्टे व्योमन् विविधरक्षणे नभसि वर्तमानः भगो न सूर्य इव सुदंसाः शोभनकर्मेन्द्रः रोदसी द्यावापृथिव्यौ अधारयत् अपोषयत् । यद्वा । मेना इति स्त्रीनाम । तथा च यास्कः--- ‘ मेनाग्ना इति स्त्रीणां मेना मानयन्त्येनाः ' (निरु. ३. २१ ) इति । स्त्रीरूपमापन्ने रोदसी इन्द्रोऽपुष्यदित्यर्थः४॥ द्विता । द्विधा इत्यस्य धकारस्य तकारश्छान्दसः । सनजा । ‘ जनी प्रादुर्भावे ' । अस्मात् भावे ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि जनेर्डप्रत्ययः । सना नित्यं जो जननं ययोस्ते सनजे । पूर्वपदस्य ह्रस्वश्छान्दसः । एवमादित्वादन्तोदात्तत्वम् । तदेव बहुव्रीहिस्वरेण शिष्यते । सुपां सुलुक्' इति विभक्तेः आकारः । अयास्यः । ‘ यसु प्रयत्ने '। यासः प्रयत्नः । तत्र भवो यास्यः । ‘ भवे छन्दसि ' इति यत् । न यास्योऽयास्यः । ‘ परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । श्रुत्युक्तनिर्वचने तु पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । मेने । सप्तम्येकवचनस्य ' सुपां सुलुक् ' इति शेआदेशः । ‘ शे' (पा. सू. १. १. १३) इति प्रगृह्यत्वम् । यद्वा । मन्यते इति मेना । पचाद्यच् ।' नशिमन्योरलिढ्येत्वं वक्तव्यम् ' ( पा. सू. ६. ४. १२०.५) इति एत्वम् । ततः टाप् । द्विवचने 'ईदूदेद्द्विवचनम् ' ( पा. सू. १. १. ११ ) इति प्रगृह्यत्वम् । सुदंसाः । दंस इति कर्मवाची । असुन्प्रत्ययान्तः आद्युदात्तः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् ॥
“He who is not to be attained by violence, but (is easily propitiated) by those who praise him with sacred hymns, parted twofold the eternal and united (sphered of heaven and earth); the graceful Indra cherished the heaven and earth, like the sun in the august and most excellent sky.”
Unwearied, won with lauding hymns, he parted of old the ancient Pair, united ever.
In highest sky like Bhaga, he the doer of marvels set both Dames and earth and heaven.
Another time, with his chants that were being sung, the irrepressible one uncovered the age-old pair belonging to the same nest [=the two worlds].
As Bhaga [/a (good) portion] (supports) his two consorts, he of very wondrous power supported the two world-halves in farthest heaven.
Zwiefach enthüllte er die urgebornen, verschwisterten mit Preisgesängen rastlos, Wie Bhaga trug er in dem höchsten Weltraum das Frauenpaar, die beiden Welten, kraftvoll.
Aufs neue hat er die beiden Alten, die Verschwisterten enthüllt - er und Ayasya durch die gesungenen Preislieder. Wie ein reicher Herr seine beiden Frauen hielt er im höchsten Himmel die beiden Rodasi fest, ein schönes Meisterstück machend.
Раскрыл он также двух древних, родственных –
(Он,) неистовый, с помощью исполняемых песен.
Словно богатый господин – двух жен, на верхнем небе
Держит он оба мира, (он,) совершающий удивительный подвиг.
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवै॑: । कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ । कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥
विरूपे शुक्लकृष्णतया विषमरूपे पुनर्भुवा पुनःपुनः प्रतिदिवसं जायमाने युवती तरुण्यौ रात्र्युषसोः सर्वदैकरूप्यात् । एवंभूते रात्र्युषसौ दिवं द्युलोकं भूम भूमिं च सनात् चिरकालादारभ्य स्वेभिरेवैः स्वकीयैर्गमनैः परि चरतः पर्यावर्तते । अयमेवार्थः स्पष्टीक्रियते । अक्ता रात्रिः कृष्णेभिः अन्धकाररूपैर्वर्णैरुपलक्षिता उषाः च रुशद्भिः दीप्यमानैः वपुर्भिः स्वशरीरभूतैस्तेजोभिरुपलक्षिता अन्यान्या परस्परव्यतिहारेण आ चरतः आवर्तते । हे इन्द्र एतत्सर्वं त्वयैव कार्यते त्वदधीनत्वात् सर्वासां देवतानामित्यर्थः ॥ भूम । ‘सुपां सुलुक्' इति द्वितीयाया डादेशः । छान्दसो ह्रस्वः । एवैः । ‘ इण् गतौ'। ‘ इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) इति भावे वन्प्रत्ययः । नित्त्वदाद्युदात्तत्वम् । अक्ता । नक्ता इति रात्रिनाम । नलोपश्छान्दसः । वपुर्भिः । ‘ अर्तिपॄवपि । (उ. सू. २. २७४ ) इत्यादिना उस् । नित्त्वादाद्युदात्तः । अन्यान्या । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् ' (पा. म. ८. १. १२. ११) इति द्विर्भावे तस्य परमाम्रेडितम्' (पा. सू. ८. १. २ ) इति आम्रेड़ितसंज्ञायाम् ‘अनुदात्तं च' (पा. सू. . १. ३ ) इति आम्रेडितस्यानुदात्तत्वम् ॥
“(Night and dawn), of various complexion, repeatedly born, but ever youthful, have traversed in their revolutions alternately, from a remote period, earth and heaven; night with her dark, dawn with her luminous limbs.”
Still born afresh, young Dames, each in her manner, unlike in hue, the Pair in alternation
Round heaven and earth from ancient time have travelled, Night with her dark limbs, Dawn with limbs of splendour.
From of old the two young girls of distinct forms, (ever) regenerating, (go) around heaven and earth along their own courses—
Night with her black, Dawn with her gleaming white shapes progress one after the other.
Stets wandeln um den Himmel, um die Erde, an Farbe ungleich, neu sich stets verjüngend, Nach ihrer Art mit schwarzem, rothem Schmucke die Nacht und Morgenröthe nacheinander.
Seit alters umwandeln die beiden ungleichen Jungfrauen aus eigenem Triebe Himmel und Erde, immer wiederkehrend: die Nacht mit dunklen Farben angetan, die Morgenröte mit hellen, kommen sie eine um die andere.
Издревле вокруг неба и земли (движутся) две несхожие
Юницы, возвращаясь снова (и снова) по своей привычке:
Ночь с черными очертаниями, утренняя заря – со светлыми.
Они движутся, приближаясь: то одна, то другая.
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसा॑: । आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पय॑: कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ । आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥
स्वपस्यमानः । स्वपः शोभनं कर्म । तदिवाचरन् शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इन्द्रः सख्यं यजमानानां सखित्वं सनेमि पुराणं दाधार धारयति पोषयतीत्यर्थः । सनेमीति पुराणनाम। ‘प्रवयाः सनेमि' (नि. ३. २७. ४ ) इति पाठात् । किंच आमासु चित् आर्द्रासु अपरिपक्कासु गोषु च अन्तः मध्ये पक्वं परिपक्वं पयः दधिषे धारयसि । तथा कृष्णासु कृष्णवर्णासु रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं रुशत् दीप्यमानं श्वेतवर्णं पयः दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यः' इति यः । प्रत्ययस्वरः । दाधार । ‘ धृञ् धारणे' । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । पक्वम् । ‘पचो वः ' (पा. सू. ८. २. ५२ ) इति निष्ठातकारस्य वत्वम् । रोहिणीषु ।' रुह बीजजन्मनि प्रादुर्भावे । ‘ रुहे रश्च लो वा ' ( उ. सू. ३. ३७४ ) इति इतन्प्रत्ययान्तो रोहितशब्द आद्युदात्तो वर्णवाची । ‘ वर्णानुदात्तात्तोपधातो नः ' ( पा. सू. ४. १. ३९ ) इति डीप्; तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते ॥
“The son of strength assiduous in good works, diligent in pious acts, retains his ancient friendship (for his votary). You, (Indra), provide within the yet immature cows, whether black or red, the mature and glossy milk.”
Rich in good actions, skilled in operation, the Son with might maintains his perfect friendship.
Thou in the raw cows, black of hue or ruddy, storest the ripe milk glossy white in colour.
Possessing very wondrous power, doing good work, the son with his strength supported the partnership to its full extent.
You placed the “cooked” (milk) even within the “raw” (cows), the
gleaming white milk in the black and in the red (cows).
Schönwirkend reich an Wunderkraft bewahrte der Sohn mit Kraft die unversehrte Freundschaft; In rohe Kühe legtest du die gare, die weisse Milch in schwarze und in rothe.
In vollem Umfang hat der Sohn der Gewalt die Freundschaft gehalten, guteswirkend, ein schönes Meisterstück machend: In die rohen Kühe legtest du die gekochte Milch, die weiße in die schwarzen, in die rötlichen.
Прекрасно действующий сын силы
Целиком поддержал дружбу, (он,) совершающий удивительный подвиг:
Ведь в сырых (коров) ты вложил вареное
Молоко, в черных (и) в рыжих – белое.
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒: सहो॑भिः । पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥
स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः । पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥
सनात् चिरकालादारभ्य सनीळाः समाननिवासस्थानाः अवाताः । वातं गमनं तद्रहिताः एकपाण्यवस्थानात् । ‘ अवनयः' इति अङ्गुलिनाम। एवंभूताः अवनीः अङ्गुलयः पुरु पुरूणि बहूनि 'सहस्रा असंख्यातानि व्रता व्रतानि इन्द्रसंबन्धीनि कर्माणि अमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः सहोभिः अस्मीयैर्बलैः रक्षन्ते पालयन्ति । अपि च स्वसारः स्वयमेव सरन्त्योऽङ्गुलयः पत्नीः पालयित्र्यः अह्रयाणं लज्जारहितं प्रगल्भमित्यर्थः । यद्वा । अह्रीतयानं प्रशस्तगमनमिन्द्रं जनयो न । जनयः इति देवानां पत्न्य उच्यन्ते - देवानां वै पत्नीर्जनयः । इति श्रुतेः । ता इव दुवस्यन्ति परिचरन्ति । अञ्जलिबन्धनेन इन्द्रं प्रीणयन्तीत्यर्थः॥ अवनीः । ‘अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि ' ( निरु. ३. ९) इति यास्कः। ‘सुपां सुलुक्' इति जसः पूर्वसवर्णदीर्घत्वम् । अवाताः । ‘ वा गतिगन्धनयोः '।' असिहसि°' इत्यादिना भावे तन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । व्रता । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । दुवस्यन्ति । दुवस्यतिः परिचरणकर्मा । कण्ड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वात् निघाताभावः। अह्रयाणम् । ‘ ह्री लज्जायाम् '। 'बहुलं छन्दसि' इति श्लोरभावः । व्यत्ययेन शानच् । मुगभावश्छान्दसः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । ‘ बहुलं छन्दसि’ इति शपो लुकि ‘छन्दस्युभयथा ' इति शानच आर्धधातुकत्वेन ङित्त्वाभावे गुणायादेशौ । पूर्ववत् समासस्वरौ । यास्कस्तु एवं व्याख्यत् - ‘ अह्रयाणोऽह्रीतयानः' (निरु. ५. १५) इति ॥ ॥ २ ॥
“From a remote time the contiguous, unshifting, and unwearied fingers practise with (all) their energies many thousand acts of devotion (towards Indra); and like the wives (of the gods), the protecting sisters worship him who is without shame.”
Their paths, of old connected, rest uninjured; they with great might preserve the immortal statutes.
For many thousand holy works the Sisters wait on the haughty Lord like wives and matrons.
From of old the streams coming from the same nest, unquenchable and immortal, guard their commandments with their powers.
For many thousands (of aeons?), like lady wives, the sisters [=streams? thoughts?] offer friendship to the unabashed one.
Die Götter wahren stets die heil'ge Ordnung, mit Kraft die ew'gen Ströme, die vereinten; Die vielen tausend Schwestern, sie verehren den kühnen Helden wie vermählte Frauen.
Seit alters halten die verschwisterten Ströme, die unsterblichen, die durch keine Gewalten bezwungen werden, seine Gebote. Viele tausend Schwestern beeifern sich um ihn wie vermählte Frauen um den nicht Schüchternen.
Издревле родственные потоки, неприступные,
Охраняют (твои) обеты, бессмертные, своими силами.
Много тысяч сестер, словно замужние женщины,
Задаривают неробкого (мужчину).
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः । पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥
स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ । पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥
हे दस्म दर्शनीयेन्द्र अर्कैः शस्त्ररूपैर्मन्त्रैः नमसा नमस्कारेण यस्त्वं नव्यः स्तुत्यो भवसि । सनायुवः सनातनमग्निहोत्रादि नित्यं कर्म आत्मन इच्छन्तः वसूयवः वसु धनमात्मन इच्छन्तो धनकामा वा मतयः मेधाविनस्त्वां दद्रुः बहुना प्रयासेन जग्मुः । हे शवसावन् बलवन्निन्द्र तैः प्रयुक्ताः मनीषाः स्तुतयः त्वा त्वां स्पृशन्ति प्राप्नुवन्ति । तत्र दृष्टान्तः। उशतीः उशत्यः कामयमानाः पत्नीः पत्न्यः उशन्तं कामयमानं पतिं न । यथा पतिं संभजन्ते तद्वत् ॥ सनायुवः । सना इत्येतदव्ययं नित्यत्वमाचष्टे। तेन च तद्वान् लक्ष्यते । सना सनातनं कर्म आत्मन इच्छन्तीति सनायुवः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । जसि वर्णव्यत्ययेन उत्वम् । मतयः । ‘ मन ज्ञाने ' । मन्यन्ते इति मतयः स्तोतारः।' क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ' न क्तिचि दीर्घश्च' इति निषेधे प्राप्ते बाहुलकात् “ अनुदात्तोपदेश° ' इत्यादिना अनुनासिकलोपः । चित्त्वादन्तोदात्तत्वम् । दद्रुः । ‘ द्रा कुत्सायां गतौ' । लिटि उसि ‘अतो लोप इटि च' इति आकारलोपः । उशतीः। ‘वश कान्तौ'। लटः शतृ । अदादित्वात् शपो लुक् । शतुर्ङित्त्वात् ग्रहिज्यादिना संप्रसारणम् । ‘ उगितश्च' इति ङीप्। ‘शतुरनुमः' इति नद्या उदात्तत्वम् । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घः । शवसावन् । मतुपि अकारोपजनश्छान्दसः । यद्वा । मत्वर्थीय आवनिप् ॥
“Beautiful Indra, who are to be praised with holy hymns, the pious who are desirous of holy rites, those who are anxious for riches, and those who are wise, repair to you with veneration; powerful Indra, their minds adhere to you, as affectionate wives to a loving husbaṇḍ+”
Thoughts ancient, seeking wealth, with adoration, with newest lauds have sped to thee, O Mighty.
As yearning wives cleave to their yearning husband, so cleave our hymns to thee, O Lord most potent.
The age-old thoughts, with reverence, with chants, seeking goods, have run anew (to you), wondrous one.
Like eager wives their eager husband, the inspired thoughts caress you, you strong one.
Die alten Lieder eilen neu, o hehrer, zu dir voll Andacht preisend, Gut begehrend, Wie voll Begier die Frauen zu dem Gatten, liebkosend dich, o starker, die Gesänge.
Ehrfürchtig sind die altgewohnten frommen Gedanken aufs neue mit Preisreden, um Gutes bittend, zu dir geeilt, du Meister. Die Gedicht hätscheln dich wie verliebte Gattinnen den Gatten, du Machtvoller.
Издревле жаждущие, стремящиеся к добру молитвы
С поклонением и снова с песнями устремились (к тебе,) о удивительный.
Словно страстные жены – страстного мужа,
Ласкают тебя молитвы, о (ты,) полный мощи.
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म । द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीर॒: शिक्षा॑ शचीव॒स्तव॑ न॒: शची॑भिः ॥
स॒नात् । ए॒व । तव॑ । रायः॑ । गभ॑स्तौ । न । क्षीय॑न्ते । न । उप॑ । द॒स्य॒न्ति॒ । द॒स्म॒ । द्यु॒मान् । अ॒सि॒ । क्रतु॑ऽमान् । इ॒न्द्र॒ । धीरः॑ शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । नः॒ । शची॑भिः ॥
हे दस्म दर्शनीयेन्द्र । गभस्तिरिति बाहुनाम । तव गभस्तौ हस्ते सनादेव चिरकालादारभ्य स्थितानि रायः धनानि न क्षीयन्ते न विनश्यन्ति । नोप दस्यन्ति च स्तोतृभ्यो दत्तेऽपि त्वद्धस्तगतं धनमुपक्षयं न प्राप्नोति । अपि तु वर्धते । हे इन्द्र धीरः बुद्धिमान् धृष्टो वा त्वं द्युमान् दीप्तिमान् असि । तथा क्रतुमान् लोकरक्षणहेतुभूतकर्मयुक्तोऽसि । हे शचीवः कर्मवन्निन्द्र तव शचीभिः त्वदीयैः कर्मभिः नः अस्मभ्यं धनं शिक्ष देहि। शिक्षतिर्दानकर्मा ॥ क्षीयन्ते। ‘क्षीञ् हिंसायाम् । अस्मात् कर्मकर्तरि कर्मवद्भावात् यगात्मनेपदे। वत्करणं स्वाश्रयमपि यथा स्यात्' (का.३.१ ८७) इति कर्मवद्भावात् ‘अचः कर्तृयकि' (पा. सू. ६. १. १९५) इत्याद्युदात्तत्वम् । ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । शचीवः । शची अस्यास्तीति शचीवान् । छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः ' इति नकारस्य रुत्वम् ॥
“Beautiful Indra, the riches that have long since been held in your hands have suffered neither loss nor diminution. You, Indra, are illustrious, addicted to good works, and resolute; enrich us, you who are diligent in action, by your acts.”
Strong God, the riches which thy hands have holden from days of old have perished not nor wasted.
Splendid art thou, O Indra, wise, unbending: strengthen us with might, O Lord of Power.
Though (originating) from of old, the riches in your hand do not become exhausted, nor do they give out, wondrous one.
You are brilliant, Indra, you are resolute and insightful. Do your best for us with your abilities, able one.
In deinem Arme dauern stets die Güter, o hehrer, nie verkümmern noch vergehn sie; Du, Indra, bist gewaltig, glanzreich, weise; o stärke, starker, uns mit deiner Stärke.
Seit alters her schon nehmen die Reichtümer in deiner Hand nicht ab, noch versiegen sie, du Meister. Du bist glanzvoll, einsichtsvoll, weise, o Indra. Bemüh dich für uns nach deinen Kräften, du Kraftvoller!
Ведь издревле богатства в твоей руке
Не исчезают, не иссякают, о удивительный.
Ты блестящий, наделенный силой духа, о Индра, мудрый.
Постарайся для нас в меру сил твоих, о полный сил!
स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय । सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स॒ना॒य॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय । सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
स इन्द्रः सनायते नित्य इवाचरति सर्वेषामाद्यो भवति । हे शवसान बलवन् इन्द्र हरियोजनाय । हरी अश्वौ रथे योजयतीति हरियोजनः । सुनीथाय सुष्ठु नेत्रे । एवंभूताय तस्मै तुभ्यं गोतमः गोतमस्य ऋषेः पुत्रः नोधाः ऋषिः नव्यं नूतनं ब्रह्म एतत्सूक्तरूपं स्तोत्रं नः अस्मदर्थम् अतक्षत् अकरोत् । अतोऽस्माभिरनेन स्तोत्रेण स्तुतः सन् धिया बुद्ध्या कर्मणा वा प्राप्तवसुरिन्द्रः प्रातःकाले मक्षु शीघ्रं जगम्यात् आगच्छतु ॥ सनायते । सना इति निपातो नित्यशब्दसमानार्थः । तस्मादाचारार्थे क्यङ्प्रत्ययः । सुनीथाय । ‘णीञ् प्रापणे ' इत्यस्मात् औणादिकः थक्प्रत्ययः । थाथादिस्वरः ॥ ॥ ३ ॥
“Mighty Indra, Nodhas, the son of Gotama, has composed for us this new hymn, (addressed) to you, who have been forever, who harness your coursers (to your car) and are the sure guide (of all). May he who has acquired wealth by propitious acts, come hither quickly in the morning.”
O mighty Indra, Gotama's son Nodhas hath fashioned this new prayer to thee Eternal,
Sure leader, yoker of the Tawny Coursers. May he, enriched with prayer, come soon and early.
For the age-old “Fallow-bay-yoking” (oblation) Gotama has fashioned a newer sacred formulation, Indra—
Nodhas (has fashioned it) for us for good guidance, o forceful one. – Early in the morning—soon—he should come, bringing goods
through his insight.
Ein neu Gebet hat, Indra, dir, dem alten, dem Füchseschirrer, der uns herrlich leitet, O starker, Nodhas Gotama bereitet. Der huldvoll sorget, komme früh am Morgen.
Ein neues Erbauungslied hat dir zu der altgewohnten Falbenschirrung Nodhas, der Gotamide, verfertigt, o Indra, der du unser guter Führer bist, du Gewaltiger. - Recht bald am Morgen soll sich der einstellen, der durch die Weisheit Schätze erwirbt.
Для издревле существующего запрягания буланых коней,
О Индра, Готама выточил новую молитву,
Для прекрасного вождя нашего, о мощный, – Нодхас (сделал это).
Да придет (к нам) быстро ранним утром (бог,) богатый даром видения!