त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः । यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हास॑: कि॒रणा॒ नैज॑न् ॥
त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । घाः॒ । यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥
हे इन्द्र त्वं महान् गुणैः सर्वाधिको भवसि । यो ह यः खलु त्वम् अमे असुरकृते भये सति जज्ञानः तदानीमेव प्रादुर्भूतः सन् शुष्मैः शत्रूणां शोषकैरात्मीयैर्बलैः द्यावा पृथिवी द्यावापृथिव्यौ धाः अधारयः । तादृशाद्भयात् अमूमुचः इत्यर्थः । किंच। यद्ध ते यस्य खलु तव संबन्धिन्या भिया भीत्या विश्वा विश्वानि व्याप्तानि यानि भूतजातानि गिरयश्चित् ये च शिलोच्चयाः । अभ्वा । महन्नामैतत् । अन्यान्यपि महान्ति यानि सन्ति । तेऽपि सर्वे दृळ्हासः दृढा अपि ऐजन् अकम्पिषत । तत्र दृष्टान्तः । किरणा न । यथा सूर्यरश्मय इतस्ततो नभसि कम्पन्ते तद्वत् ॥ जज्ञानः । जनी प्रादुर्भावे'। लिटः कानच् ।' गमहन° ' इत्यादिना उपधालोपः। स्थानिवद्भावात् द्विर्भावादि। ‘ चितः' इत्यन्तोदात्तत्वम् । द्यावापृथिवी इत्यस्य समस्तपदस्य मध्ये जज्ञान इत्यस्य पाठश्छान्दसः । यत् ।' सुपां सुलुक्° ' इति षष्ठ्या लुक् । अभ्वा । आ समन्ताद्भ वन्ति सद्भावं प्राप्नुवन्तीति अभ्वा महान्तः । आङ्पूर्वात् भवतेः औणादिको ड्वन्प्रत्ययः । उपसर्गस्य ह्रस्वत्वं च । यद्वा । नञ्पूर्वात् भवतेः प्राप्त्यर्थात् ' नञि भुवो डित् ' इति क्वन्प्रत्ययः । महान्तो हि प्राप्तुं न शक्यन्ते । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । किरणाः । कीर्यन्ते विक्षिप्यन्ते इति किरणाः । ‘ कॄ विक्षेपे ' । ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः ' ( उ. सू. २. ८२ ) इति क्युप्रत्ययः । योरनादेशे प्रत्ययाद्युदात्तत्वम् । 'ऋत इद्धातोः' इति इत्वम् । ऐजन् । ‘एजृ कम्पने' । लङि आडागमः । स चोदात्तः । वृद्धिश्च ॥
“Indra, you are the mighty one, who, becoming manifest in (the hour of) alarm, did sustain by your energies heaven and earth; then, through fear of you, all creatures, and the mountains, and all other vast and solid things, trembled, like the (tremulous) rays of the sun.”
THOU art the Mighty One; when born, O Indra, with power thou terrifiedst earth and heaven;
When, in their fear of thee, all firm-set mountains and monstrous creatures shook like dust before thee.
You are great, Indra, you who, on just being born, with your tempests put heaven and earth in (the path of your) onslaught,
so that all the vast masses, even the mountains, though firmly fixed, stirred like dust-motes in fear of you.
Gross bist du, Indra, der du kaum geboren mit deinen Kräften Erd' und Himmel schrecktest, Da alles, selbst die mächt'gen, festen Berge aus Furcht vor dir wie Stäubchen sich bewegten.
Du, Indra, bist der Große, der du eben geboren durch deinen Ungestüm Himmel und Erde in Panik versetztest, als alle Ungeheuer, selbst die festen Berge, aus Furcht vor dir wie Stäubchen sich hin und herbewegten.
Ты велик, о Индра: ведь (ты – тот,) кто порывами неистовства,
(Едва) родившись, небо и землю поверг в ужас,
Когда все чудовища (и) даже твердые горы,
Из страха перед тобой задрожали, как былинки.
आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् । येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् । येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥
हे इन्द्र त्वं यत् यदा विव्रता विविधकर्माणौ हरी त्वदीयावश्वौ आ वेः रथे आगमयसि रथे योजयसीत्यर्थः । तदानीं ते तव 'बाह्वोः हस्तयोः जरिता स्तोता वज्रम् आ धात् स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमन्तरेण वज्रं त्वद्धस्ते दृश्यते इत्यर्थः । हे अविहर्यतक्रतो प्रेप्सितकर्मन्निन्द्र अमित्रान् शत्रून् येन वज्रेण इष्णासि अभिगच्छसि । हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत त्वं पूर्वीः बह्वीः पुरः असुरपुराणि भेत्तुमभिगच्छसीत्यर्थः । विव्रता । व्रतमिति कर्मनाम । विविधं व्रतं ययोस्तौ । ‘ सुपां सुलुक् ' इति पूर्वसवर्णदीर्घत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेः । ‘ वी गतिप्रजनकान्त्यशनखादनेषु । अन्तर्भावितण्यर्थात् छान्दसे लङि सिपि अदादित्वात् शपो लुक् । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । धात् । दधातेः छान्दसे लुङि ‘ गातिस्था° ' इति सिचो लुक् । पूर्ववत् अडभावः । अविहर्यतक्रतो । ‘ हर्यतिः प्रेप्साकर्मा ' (निरु. ७. १७ ) इति यास्कः । ‘हर्य गतिकान्त्योः । कान्तिरभिलाषः । विहर्यतोऽनभिलषितः । अविहर्यतोऽभिलषित इत्यर्थः । तादृशः क्रतुः कर्म यस्य स तथोक्तः । अमित्रान् । न सन्ति मित्राण्येष्विति बहुव्रीहौ ' नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । इष्णासि । ‘इष आभीक्ष्ण्ये । अत्र गत्यर्थः । ‘क्र्यादिभ्यः श्ना'। सिपः पित्त्वादनुदात्तत्वे तस्यैव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥
“When, Indra, you harness your variously moving horses, your praiser plural ces your thunderbolt in your hands, wherewith, accom;oisher of undesired acts, you assail your enemies, and glorified by many, destroy their numerous cities.”
When thy two wandering Bays thou drawest hither, thy praiser laid within thine arms the thunder,
Wherewith, O Much-invoked, in will resistless, thou smitest foemen down and many a castle.
When, Indra, you pursued hither your two fallow bays who follow separate commandments, the singer placed the mace in your two arms, with which, o you whose resolve is not to be deflected, you dispatch the foes and their many strongholds, o much invoked one.184 I.64
Wenn, Indra, du die schnellen Rosse herführst, so legt den Blitz in deinen Arm der Sänger, Mit dem du triffst, o unaufhaltsam thät'ger, die Feind' und viele Burgen, vielgerufner!
Wenn du, Indra, das widerspenstige Falbenpaar hertreibst, so legt der Sänger dir die Keule in die Arme, mit der du die Feinde in die vielen Burgen treibst, du Vielgerufener, dessen Rat nicht verschmäht wird.
Когда, о Индра, ты пригоняешь пару буланых коней, рвущихся в разные стороны,
Певец вкладывает тебе в руки ваджру,
Которой, о (бог) с неодолимой силой духа, ты загоняешь
Недругов в (их) многочисленные крепости, о многопризываемый.
त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् । त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् । त्वम् । शुष्ण॑म् वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒मते॑ । सचा॑ । अ॒ह॒न् ॥
हे इन्द्र त्वं सत्यः सत्सु भवः सर्वोत्कृष्ट इत्यर्थः । एतान् शत्रूनभिगतः सन् धृष्णुः तेषां धर्षयिता तिरस्कर्ता। किंच त्वम् ऋभुक्षाः ऋभूणामधिपतिः । तेषु कृतनिवासो वा । यद्वा । महन्नामैतत् । महान् प्रवृद्धोऽसि । नर्यः नृभ्यो हितः । तथा त्वं षाट् शत्रूणामभिभविता हन्तेत्यर्थः । किंच। वृजने इत्यादीनि त्रीणि संग्रामनामानि । अत्र पूर्वे विशेषणे । वृजने वर्जनयुके । संग्रामे हि वीराः पुरुषा वर्ज्यन्ते हिंस्यन्ते । पृक्षे संपर्चनीये वीरैः योद्धुं प्राप्तव्ये । एवंविधे आणौ संग्रामे द्युमते दीप्तिमते यूने तरुणाय कुत्साय सचा त्वं सहायो भूत्वा शुष्णं शोषयितारमेतस्संज्ञमसुरम् अहन् अवधीः ॥ ऋभुक्षाः । ऋभुरिति मेधाविनाम । उरु विस्तीर्णं भाति । यद्वा । ऋतेन यज्ञेन भाति भवतीति वा ऋभुः । उरुशब्दे ऋतशब्दे वोपपदे भातेर्भवतेर्वा ‘मृगय्वादयश्च' (उ. सू. १. ३८) इति कुप्रत्ययः पूर्वपदस्य ऋभावश्च निपात्यते । क्षयतिरैश्वर्यकर्मा । तेषामीष्टे इति ऋभुक्षाः । यद्वा । ‘ क्षि निवासगत्योः । तेषु निवसतीति - पतेस्थ' ( उ. सू. ४. ४५२) इति विधीयमान इनिप्रत्ययो बहुलवचनादस्मादपि भवति । टिलोपश्च । सौ ‘पथिमथ्यृभुक्षामात्' (पा.सू. ७. १. ८५) इति आत्वम् । प्रत्ययस्वरः। षाट् । ' सह अभिभवे । छन्दसि सहः ' ( पा. सू. ३. २. ६३ ) इति केवलादपि ण्विः । षत्वं छान्दसम् । द्युमते। द्यौर्दीप्तिरस्मिन्नस्तीति द्युमान् ।' स्वादिष्वसर्वनामस्थाने इति पदसंज्ञायां दिव उत्' इति उत्वम् । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ॥
“You, Indra, the best of all beings, the assailer and humiliator (of your foes), the chief ot the Ṛbhus, the friend of man, the subduer of enemies, did aid the young and illustrious Kutsa, and slew Śuṣna, in the deadly and close-fought fight.”
Faithful art thou, these thou defiest, Indra; thou art the Rbhus' Lord, heroic, victor.
Thou, by his side, for young and glorious Kutsa, with steed and car in battle slewest Susna,
You are trusty, Indra, and bold against them. You are master of the R̥bhus, favorable to men; you are victorious.
You smashed Śuṣṇa in his (war-)band, when strengthening nourishment and the axle-pin (were at stake), for the young, heaven-bright Kutsa, in partnership.
Du, Indra, bist wahrhaftig, Feind bezwingend, du Ribhuherr, und mannhaft du und siegreich, Du schlugst im Felsthal auf beladnem Wagen den Çuschna für den schönen Jüngling Kutsa.
Du, der wahre Mutige, o Indra, du der Ribhuksan, du, der Mannhafte, bist der Bezwinger dieser. - Du hast den Susna im Ringkampf um die Stärke, um den Achsennagel für den jugendlichen glanzvollen Kutsa mit ihm im Bunde erschlagen.
Ты истинный, о Индра, храбрый,
Ты Рибхукшан, мужественный, ты покоритель этих...
В поединке, в состязании в силе, в борьбе за чеку колесницы ты убил
Шушну для юного блистательного Кутсы (с которым ты был) вместе.
त्वं ह॒ त्यदि॑न्द्र चोदी॒: सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः । यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः । यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒णः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥
हे इन्द्र त्वं ह त्वं खलु सखा कुत्सस्य सहायः सन् त्यत् तत् प्रसिद्धं धनं जयलक्षणं यशो वा चोदीः प्रेरितवान् अकार्षीरित्यर्थः । हे वृषकर्मन् वृष्ट्युदकसेचनरूपकर्मोपेत वज्रिन् वज्रवन्निन्द्र वृत्रं सर्वस्य धनस्यावरीतारं कुत्सस्य शत्रुं यत् यदा उभ्नाः अतुभ्नाः अहिंसीः । अपि च हे शूर शत्रूणां प्रेरक वृषमणः कामाभिवर्षकमनस्केन्द्र वृथाषाट् अनायासेन शत्रूणामभिभविता त्वं यद्ध यदा खलु योनौ वीरैर्मिश्रणीये संग्रामे दस्यून् कुत्सस्योपक्षयितॄन् अन्यान् शत्रून् पराचैः परागमनैः वि अकृतः पराङ्मुखा यथा भवन्ति तथा व्यच्छिनः । तदानीं कुत्सः सर्वं यशः प्राप्नोदित्यर्थः ॥ चोदीः । ‘चुद प्रेरणे । लुङि ' नेटि' (पा. सू. ७. २. ४ ) इति सिचि वृद्धिप्रतिषेधः । उभ्नाः । ‘ णभ तुभ हिंसायाम् । क्रैयादिकः । लङि सिमि तल्लोपश्छान्दसः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि' इति अडभावः । पराचैः इत्येतदव्ययं नीचैरुच्चैरितिवत् इति भट्टभास्करमिश्रः । ‘पराचैः पराञ्चनैः ' (निरु. ११. २५) इति निरुक्तम् । दस्यून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा' इति ऊकारस्य सानुनासिकता । अकृतः । ‘ कृती छेदने । लङि सिपि तुदादित्वात् शप्रत्ययः । आगमानुशासनस्यानित्यत्वात् ‘शे मुचादीनाम् इति नुमागमस्याभावः । शस्य ङित्त्वात् गुणाभावः ॥
“You verily did animate him to (acquire) such (renown) as that which, sender of rain and wielder of the thunderbolt, you (dis-acquire) when you slew Vṛtra, and when, munificent hero, who easily conquer (your foes) you did put to fight the Dasyus in battle.”
That, as a friend, thou furtheredst, O Indra, when, Thunderer, strong in act, thou crushedst Vrtra;
When, Hero, thou, great-souled, with easy conquest didst rend the Dasyus in their
distant dwelling.
You then, Indra, as partner provided the spur, when you knotted up Vr̥tra, you mace-bearer of bullish deeds,
when, you champion of bullish mind, you cut apart the Dasyus in their womb far away, as one who is victorious at will.
᳓
Das auch betriebst als Freund du eifrig, Indra, dass Vritra du bezwangst mit Blitz, gewalt'ger, Dass ferne du in ihrem Sitz die Bösen, stiermuth'ger Held, mit schnellem Sieg zerstücktest.
Du, Indra, hast da als Verbündeter Mut gemacht, als du tatengewaltiger Keulenträger den Vritra bändigtest, als du bullenmutiger Held in der Ferne die Dasyu´s in ihrem Neste zerhiebst, mühelos siegend.
Ты в самом деле, о Индра, вдохновлял (нас) как союзник,
Когда обуздал Вритру, о громовержец, готовый к мужественным деяниям,
Когда, о герой отважный, как бык, далеко-далеко,
В (их) лоне, ты, легко побеждая, изувечил дасью.
त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ । व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ । वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥
हे इन्द्र त्वं ह त्वं खलु त्यत् तस्य दृळ्हस्य चित् दृढस्य कस्यचिदपि अरिषण्यन् रेषणमनिच्छन् एवंस्वभावो भवसि । देवतात्वेनानुग्रहीतृत्वात् । तथापि मर्तानां स्तोतॄणामस्माकं शत्रुभिः अजुष्टौ अप्रीतौ सत्याम् अस्मत् अर्वते अस्मदीयाश्वाय गन्तुं काष्ठाः दिशः आ समन्तात् वि वः विवृताः कुरु। यथा सर्वासु दिक्षु अस्मदीया अश्वाः प्रतिरोधमन्तरेण गच्छन्ति तथा कुरु इत्यर्थः। किंच तत्रत्यान् अमित्रान् हे वज्रिन वज्रवन्निन्द्र घनेव घनेन कठिनेन पर्वतेनेव वज्रेण श्नथिहि श्नथय जहीत्यर्थः । यद्वा । मर्तानां मनुष्याणां मध्ये यस्मिन् कस्मिंश्चित्तव अप्रीतो सत्यां तस्य शत्रोर्दृढस्यापि अरिषण्यन रेषणं हिंसनमनिच्छन् वर्तसे । यस्मिंस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे । अतस्तव प्रियाणामस्माकमर्वते इत्यादि पूर्ववत् ॥ त्यत् । सुपां सुलुक् ' इति षष्ठ्या लुक् । अरिषष्यन् । रिष्टशब्दात् क्यचि दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति' (पा. सू. ७. ४. ३६ ) इति रिषण्भावो निपात्यते । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मत् । पूर्ववत् षष्ठ्या लुक् । अर्वते । ‘ अर्वणस्रसावनञः' इति नकारस्य तकारादेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । परिशेषात् धातुस्वरः । घनेव । मूर्तौ घनः' (पा. सू. ३. ३. ७७ ) इति काठिन्ये गम्यमाने हन्तेः अप्प्रत्ययान्तो निपात्यते । श्नथिहि । श्नथ हिंसार्थः । ण्यन्तात् लोटि ‘बहुलं छन्दसि' इति शपो लुक् ॥ ॥ ४ ॥
“Do you, Indra, who are unwilling to harm any resolute (mortal), set open all the quarters (of the horizon) to the horses of us who praise you, (when we are exposed) to the aversion (of our enemies); and, wielder of the thunderbolt, demolish our foes, as with a club.”
This doest thou, and art not harmed, O Indra, e'en in the anger of the strongest mortal.
Lay thou the race-course open for our horses: as with a club, slay, Thunder-armed! our foemen.
You then, Indra, intending no harm to mortals, in your displeasure (you opened up the doors) even of the stronghold,
opened the barriers for the steed (that comes) from us. As if with a
deadly weapon, mace-bearer, pierce the foes.
Der, Indra, du auch bei dem Groll des stärksten der Sterblichen doch nimmer Schaden leidest, Eröffne uns die Bahnen für den Renner; wie Keulen schlage, Blitzesherr, die Feinde.
Du, Indra, hast damals ohne Schaden von dem, was zum Missfallen der Sterblichen gar fest verschlossen war - Öffne unsererseits dem Rennpferd die Schranken! Wie mit dem Hammer triff die Feinde, du Keulenträger!
Ты в самом деле, о Индра, не терпя ущерба
Даже от того, что (было) твердым к неудовольствию смертных...
Открой с нашей стороны барьеры для выпущенного скакуна!
Словно молотом, о громовержец, раздроби недругов!
त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते । तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥
त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण॑ऽसातौ । स्वः॑ऽमीळ्हे । नरः॑ । आ॒जा । ह॒व॒न्ते॒ । तव॑ । स्व॒धा॒ऽवः । इ॒यम् । आ । स॒ऽम॒र्ये । ऊ॒तिः । वाजे॑षु । अ॒त॒साय्या॑ । भू॒त् ॥
हे इन्द्र अर्णसातौ अर्णानां गन्तॄणां युद्धे प्रवृत्तानां पुरुषाणां सातिर्लाभो यस्मिन् स्वमींळ्हे । मीळ्हमिति धननाम । सुष्ठु अरणीयं धनं यस्मिन् । एवंभूते आजा आजौ संग्रामे त्यत् तं प्रसिद्धं त्वामेव नरः योद्धकामाः पुरुषाः सहायार्थं हवन्ते आह्वयन्ति । यद्वा । अर्णस उदकस्य सातिर्लाभो यस्मिन् वृत्रादियुद्धे तस्मिन्नित्यर्थः । वृष्टिनिरोधकेन वृत्रेण सह वर्षणार्थं तव यद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयन्तीति भावः । यस्मादेवं तस्मात् हे स्वधावः हे अन्नवन् बलवन् वा इन्द्र समर्ये संग्रामे तव संबन्धिनी इयम् ऊतिः त्वदीयमिदं रक्षणम् आ अस्मदाभिमुख्येन भूत् भवतु । वाजेषु संग्रामेषु या एषा ऊतिः अतसाय्या योद्धृभिः प्राप्तव्या भवति ॥ त्यत् । ‘ सुपां सुलुक्” ' इति द्वितीयाया लुक् । अर्णसातौ । ‘ ऋ गतौ । बहुलवचनात् औणादिको नप्रत्ययः । ‘ षणु दाने' इत्यस्मात् भावे क्तिनि ‘ जनसनखनाम्' इत्यनुनासिकस्य आत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । ‘ उदके नुट् च ' ( उ. सू. ४. ६३६ ) इति अर्तेः असुनूप्रत्ययो नुडागमश्च । ‘ पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः' (पा. म. ६. ३. १०९. ६) इति सलोपः । नित्त्वादाद्युदात्तत्वम् । पूर्ववत् बहुव्रीहिस्वरः । स्वर्मीळ्हे । स्वर्शब्दः ‘न्यङ्स्वरौ स्वरितौ ' (फि. सू. ७४ ) इति स्वरितः । बहुव्रीहिस्वरेण स एव शिष्यते । आजा । ‘सुपां सुलुक्' इति सप्तम्या डादेशः । स्वधावः । ‘ मतुवसो रुः' इति मतुपो रुत्वम् । अतसाय्या । अत सातत्यगमने' । औणादिकः साय्यप्रत्ययः तस्य अडागमश्च । आगमानुदात्तत्वे प्रत्ययाद्युदात्तत्वम् । भूत् । 'छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङि • बहुलं छन्दस्यमायोगेऽपि ' इति अडभावः ॥
“Men invoke you, such as you are, in the thick-throned and wealth-bestowing conflict. May this your succour, powerful Indra, ever be granted in war, worthy to be enjoyed (by warriors) in battle.”
Hence men invoke thee, Indra, in the tumult of battle, in the light-bestowing conflict.
This aid of thine, O Godlike One, was ever to be implored in deeds of might in combat.
On you then, Indra, the superior men call, at the winning of the flood, in the contest whose prize is the sun.
This help of yours here in the clash when prizes (are at stake), o
autonomous one, has become something unshakeable.
Dich rufen ja im Schlachtgewühl, o Indra, im Kampfe um des Himmels Gut die Männer; Denn diese deine Hülfe muss man anflehn, o Selbstgebieter, in der Schlacht, im Wettkampf.
Dich, Indra, rufen da die Männer im Kampfe, wenn es gilt, Wasser zu gewinnen, das Sonnenlicht zu erkämpfen. Diese deine Hilfe soll im Wettstreit, in den Kämpfen um den Siegerpreis erreichbar sein, du Eigenartiger.
Тебя в самом деле, о Индра, в борьбе
За захват потоков, в борьбе за солнечный свет призывают мужи.
Эта помощь твоя (в состязании) за награды
Да будет доступна (нам), о обладающий своей волей.
त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य॑न् । पुरः॑ । व॒ज्रि॒न् । पु॒रु॒ऽकुत्सा॑य । द॒र्द॒रिति॑ दर्दः । ब॒र्हिः । न । यत् । सु॒ऽदासे॑ । वृथा॑ । वर्क् । अं॒होः । रा॒ज॒न् । वरि॑वः । पू॒रवे॑ । कः ॥
हे वज्रिन् वज्रवन् इन्द्र पुरुकुत्साय एतत्संज्ञाय ऋषये युध्यन् तदीयशत्रुभिः सह युद्धं कुर्वाणः त्वम् एव त्यत् ताः सप्त पुरः तदीयानि सप्तसंख्यानि नगराणि दर्दः व्यदारयः अभैत्सीरित्यर्थः । अपि च सुदासे एतत्संज्ञाय राज्ञे अंहोः एतत्संज्ञस्यासुरस्य संबन्धि यत् धनमस्ति तत् वृथा अनायासेन बर्हिर्न बर्हिरिव वर्क् अवृणक् अच्छिनः इत्यर्थः । तदनन्तरं पूरवे त्वां हविषा पूरयते तस्मै सुदासे हे राजन् स्वामिन् इन्द्र वरिवः धनं कः अकार्षीः ॥ त्यत् । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । दर्दः । दॄ विदारणे'। अस्मात् यङ्लुगन्तात् लङि सिपि ‘अदादिवच्च' इति वचनात् शपो लुक् । 'हल्ङ्याब्भ्यः° ' इति सलोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । सुदासे। शोभनं ददातीति सुदाः । असुन् । ‘सुदाः कल्याणदानः' (निरु. २. २४ ) इति यास्कः । वर्क्। वृजी वर्जने'। लङि सिपि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । लघूपधगुणे पूर्ववत् सलोपः। अडभावश्च । चोः कुः' इति कुत्वम् । कः । डुकृञ् करणे । लुङि सिपि ‘ मन्त्रे घस” ' इति च्लेर्लुक् । पूर्ववत् सलोपाडभावौ ॥
“Indra, wielder of the thunderbolt, warring on behalf of Purukutsa, you did overturn the seven cities; you did cut off for Sudāsa wealth of Aṅhas, as if (it had been a tuft) of sacred grass, and did give it to him, O king, ever satiating you (with oblations).”
Warring for Purukutsa thou, O Indra, Thunder-armed! breakest down the seven castles;
Easily, for Sudas, like grass didst rend them, and out of need, King, broughtest gain to Puru.
You then, mace-bearing Indra, attacking, split seven fortifications for Purukutsa, one after the other.
When at will you twisted them like ritual grass for Sudās, o king, from narrowness you made wide space for Pūru.
Du, Indra, hast zerstört die sieben Burgen, o Blitzesherr, für Purukutsa kämpfend; Als du dem Sudas gleich wie Streu sie umwarfst, dem Puru du, o König, aus der Noth halfst.
Du Keulenträger Indra brachst da kämpfend die sieben Burgen für Purukutsa. Da du für Sudas die Feinde mühelos hinlegtest wie Opfergras, da schafftest du, o König, dem Puru Befreiung aus Not.
Ты в самом деле, о Индра, сражаясь, семь
Крепостей пробуравил, о громовержец, для Пурукутсы.
(Тем,) что для Судаса ты легко бросал наземь (врагов), словно жертвенную солому,
Ты создал для Пуру широкий выход из бедствия, о царь.
त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒: परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥
त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष॑म् । आपः॑ । न । पी॒प॒यः॒ । परि॑ऽज्मन् । यया॑ । शूर॑ । प्रति॑ । अ॒स्मभ्य॑म् । यंसि॑ । त्मन॑म् । ऊर्ज॑म् । न । वि॒श्वध॑ । क्षर॑ध्यै ॥
हे देव द्योतमान इन्द्र त्वं नः अस्माकं चित्रां चायनीयां त्यां ताम् इषम् अन्नं परिज्मन् परितो व्याप्तायां भूमौ पीपयः प्रावर्धयः । यथा सर्वा भूमिरन्नेन परिपूर्णा भवति तथा कुर्वित्यर्थः । तत्र दृष्टान्तः । आपो न । यथा अपो वृष्ट्युदकानि भूम्यां वर्षणेन प्रवर्धयसि तद्वत् । यद्वा । भूमौ वर्तमानानस्मान् यथा अपः पाययसि तद्वत् चित्रामिषमपि पाययेति भावः । हे शूर इन्द्र यया इषा त्मनम् आत्मानं जीवम् अस्मभ्यं प्रति यंसि प्रयच्छसि । तत्र दृष्टान्तः । विश्वध विश्वतः सर्वतः क्षरध्यै क्षरितुम् ऊर्जं न उदकमिव । यथास्मभ्यं बहुलमुदकं प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि प्रयच्छसीति भावः ॥ आपः । शसि प्राप्त व्यत्ययेन जस् ।' अप्तृन्” इत्यादिना दीर्घः। पीपयः । ‘स्फायी ओप्यायी वृद्धौ' । ण्यन्तात् छान्दसे लुङि ‘ प्यायः पी' (पा. सू. ६. १. २८) इति व्यत्ययेन पीभावः । ‘ णिश्रिद्रुस्रुभ्यः । इति च्लेः चङादेशः । णिलोपादीनि । यद्वा । ' पीङ् पाने' इत्यस्मात् लुङि चङि पूर्ववत् । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । परिज्मन् । जमतिर्गतिकर्मा । ‘ अज गतिक्षेपणयोः । आभ्यां परिपूर्वाभ्यां ‘श्वन्नुक्षन्' इत्यादौ कनिन्प्रत्ययान्तो निपातितः । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । यंसि । “ यम उपरमे '। बहुलं छन्दसि ' इति शपो लुक् । त्मनम्। ‘ आङोऽन्यत्रापि च्छन्दसि दृश्यते ' ( का. ६. ४. १४१. १) इत्यात्मनः आकारलोपः । संज्ञापूर्वकस्य विधेरनित्यत्वात् उपधादीर्घाभावः । विश्वध। विश्वशब्दात्तसिलः सकारलोपो धत्वं च पृषोदरादित्वात् । क्षरध्यै। ‘ क्षर संचलने'। तुमर्थे सेसेन् ' इति अध्यैन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“Increase, divine Indra, for us throughout the earth, abundant food, (that it may be as plural ntiful) as water, by which, hero, you bestow upon us (existence), as you cause water to flow on every side.”
O Indra, God who movest round about us, feed us with varied food plenteous as water-
Food wherewithal, O Hero, thou bestowest vigour itself to flow to us for ever.
You, god Indra, will make this bright refreshment swell for us as waters do in their circling,
the refreshment with which, o champion, you will extend yourself
toward us like nourishment to flow everywhere.
Du, Indra, füll uns diese reiche Labung wie Wasserfluten zu uns rings umwandelnd, Durch die du Held uns Lebenshauch verleihest, der überall wie Labetrunk uns ströme.
Du mögest uns jenes wunderbare Labsal wie die Gewässer in ihrem Laufe anschwellen lassen, Gott Indra, mit dem du Held uns den Lebensgeist aufrichten mögest, daß er wie die Lebenskraft allezeit uns durchströme.
Ты, о бог Индра, для нас ту яркую
Питательную силу сделал набухшей, словно воды в своем круговом течении,
С помощью которой, о герой, ты наделяешь нас
Жизненным дыханием, чтобы оно везде струилось в нас как сила (жизни).
अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् । सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
अका॑रि । ते॒ । इ॒न्द्र॒ । गोत॑मेभिः । ब्रह्मा॑णि । आऽउ॑क्ता । नम॑सा । हरि॑ऽभ्याम् । सु॒ऽपेश॑सम् । वाज॑म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
हे इन्द्र ते तव गोतमेभिः गन्तृतमैरेतत्संज्ञैर्ऋषिभिः अकारि स्तोत्रं कृतमित्यर्थः। एतदेव स्पष्टीकरोति । ब्रह्माणि मन्त्रजातानि नमसा हविर्लक्षणेनान्नेन सह हरिभ्याम् अश्वाभ्यां युक्ताय तुभ्यम् ओक्ता आभिमुख्येन उक्तानि। यद्वा । मर्यादायाम् आकारः । यथाशास्त्रं प्रयुक्तानि । स त्वं सुपेशसम् । पेश इति रूपनाम । बहुविधरूपयुक्तं वाजम् अन्नं नः अस्मभ्यम् आ भर आहर देहीति यावत् । धिया बुद्ध्या कर्मणा वा प्राप्तधन इन्द्रः प्रातःकाले अस्मद्रक्षणार्थं जगम्यात् आगच्छतु ॥ ओक्ता । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । सुपेशसम् ।' पिश अवयवे'। असुन्। बहुव्रीहौ ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । भर। 'हृग्रहोर्भः' इति भत्वम् । 'द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः ॥ ॥ ५ ॥
“Praises have been offered to you, Indra, by the sons of Gotama; (they have been) uttered with reverence (to you), borne (hither) by your steeds; grant us various sorts of food. May he who has acquired wealthy by pious acts, come hither quickly in the morning.”
Prayers have been made by Gotamas, O Indra, addressed to thee, with laud for thy Bay Horses.
Bring us in noble shape abundant riches. May he, enriched with prayer, come soon and early.
(This hymn) has been made for you, Indra, by the Gotamas; sacred formulations have been spoken with reverence to your two fallow bay horses.
Bring a well-ornamented prize here to us. – Early in the morning—
soon—he should come, bringing goods through his insight.
Von Gotamern sind dir und deinen Füchsen, o Indra, Sprüche demuthsvoll gesprochen; O bring uns her viel reichversehne Nahrung. Der huldvoll sorget, komme früh am Morgen.
Es sind dir, Indra, von den Gotamiden Erbauungen gemacht worden, unter Verbeugung für die beiden Falben ausgesprochen. Bring uns ausgezeichnete Belohnung ein! - recht bald am Morgen soll sich der einstellen der durch die Weisheit Schätze erwirbt.
Людьми из рода Готамы тебе, о Индра, сотворены
Молитвы, приглашения с поклонением двум буланым коням.
Принеси нам прекрасно украшенную награду!
Да придет (к нам) быстро ранним утром (бог,) богатый даром видения!