वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोध॑: सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्य॑: । अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिर॒: सम॑ञ्जे वि॒दथे॑ष्वा॒भुव॑: ॥
वृष्णे॑ । शर्धा॑य । सुऽम॑खाय । वे॒धसे॑ । नोधः॑ । सु॒ऽवृ॒क्तिम् । प्र । भ॒र॒ । म॒रुत्ऽभ्यः॑ । अ॒पः । न । धीरः॑ । मन॑सा । सु॒ऽहस्त्यः॑ । गिरः॑ । सम् । अ॒ञ्जे॒ । वि॒दथे॑षु । आ॒ऽभुवः॑ ॥
अत्र पूर्वार्धेन स्तुतौ नोधाः प्रेर्यते । हे नोधः वृष्णे कामानां वर्षित्रे सुमखाय शोभनयज्ञाय वेधसे पुष्पफलादीनां कर्त्रे । वायौ सति हि पुष्पाणि फलानि चोत्पद्यन्ते । एवंविधाय मरुद्भ्यः । विभक्तिव्यत्ययः । मरुतां मितराविणां शर्धाय समूहाय सुवृक्तिं सुष्ठु आवर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रं प्र भर प्रेरय स्तुहीति यावत् । स्तुतौ प्रेरितो नोधा आह । धीरः धीमान् सुहस्त्यः शोभनाङ्गुलियुक्तः । कृताञ्जलिरित्यर्थः । एवंभूतोऽहं मनसा गिरः स्तुतिलक्षणा वाचः समञ्जे सम्यग्व्यक्ताः करोमि। या गिरः विदथेषु यज्ञेषु आभुवः । आङ् मर्यादायाम् । यथाशास्त्रं प्रयुक्ता भवन्तीति आभुवः । देवताभिमुखीकरणाय समर्थाः । यज्ञयोग्यैः स्तोत्रैर्मनःपूर्वकं मरुद्गणं स्तौमीति भावः । तत्र दृष्टान्तः । अपो न । यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत् ॥ वृष्णे । ‘ वृषु सेचने ' । कनिन्युवृषितक्षि° ' इत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावो नित्त्वादाद्युदात्तत्वम् । चतुर्थ्येकवचने अल्लोपोऽनः' इति अकालोपः । शर्धाय । ‘ शृधु प्रसहने । शर्ध्यते प्रसह्यते अनेन पर्वतादिकमिति शर्धो मरुत्संघः । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुमखाय । शोभनो मखो यस्य । ‘ नञ्सुभ्याम् ' इति प्राप्ते व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । नोधः । पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । सुहस्त्यः । हस्ते भवा हस्त्याः । भवे छन्दसि ' इति यत् । ‘ यतोऽनावः ' इत्याद्युदात्तत्वम् । ततः सुशब्देन बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
“Offer, Nodhas, earnest praise to the company of the Maruts, the senders of rain and ripeners of fruit, deserving of adoration. Composed, and with folded hands, I utter the praises conceived in my mind, which are efficacious in sacred rites, (and flow rreadily) as the waters.”
BRING for the manly host, wise and majestical, O Nodhas, for the Maruts bring thou a pure gift.
I deck my songs as one deft-handed, wise in mind prepares the water that hath power in solemn rites.
To the bullish troop, good battlers and ritual adepts, present a
well-turned (hymn), o Nodhas—to the Maruts.
As one clever in mind and with dexterous hands ornaments his work, I ornament the hymns standing ready at the rites.
Der starken Schar, der kampfestücht'gen, waltenden, den Maruts bring', o Nodhas, schönen Lobgesang, Ich schmücke, wie sein Werk des weisen Künstlers Hand, im Geist die Lieder, die das Fest verschönen, aus.
Der bullenhaften Schar, der freigebigen, meisterlichen, den Marut trag das Preislied vor, o Nodhas. Wie ein handfertiger Künstler mit Verstand sein Werk, mache ich die zum Opfer dienlichen Lobesreden salbungsvoll.
Мужественной толпе, очень щедрой, распоряжающейся (обрядом),-
Марутам, принеси прекрасный гимн, о Нодхас.
Как искусный (человек) с умелыми руками с душой (делает свою) работу,
(Так) умащаю я воспевания, (чтобы были они) помощниками на жертвенных раздачах.
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पस॑: । पा॒व॒कास॒: शुच॑य॒: सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥
ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः॑ । उ॒क्षणः॑ । रु॒द्रस्य॑ । मर्या॑ । असु॑राः । अ॒रे॒पसः॑ । पा॒व॒कासः॒ । शुच॑यः । सूर्याः॑ऽइव । सत्वा॑नः । न । द्र॒प्सिनः॑ । घो॒रऽव॑र्पसः ॥
ते मरुतः दिवः अन्तरिक्षात् जज्ञिरे प्रादुर्बभूवुः । कीदृशाः । ऋष्वासः दर्शनीयाः उक्षणः सेक्तारः । युवान इत्यर्थः । रुद्रस्य मर्याः । मर्यशब्दो मनुष्यवाची इह मरुतां मर्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मन्त्रान्तरे स्पष्टम् - आ ते पितर्मरुतां सुम्नमेतु' ( ऋ. सं. २. ३३. १ ) इति । असुराः शत्रूणां निरसितारः अरेपसः । रेप इति पापनाम । पापरहिताः पावकासः सर्वेषां शोधकाः सूर्याइव शुचयः दीप्ताः सत्वानो न यथा परमेश्वरस्य भूतगणा अतिशायितबलपराक्रमाः तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यन्ते - अथो ये अस्य सत्वानः ' ( तै. सं. ४. ५. १. ३) इत्यादौ तथा दर्शनात् । द्रप्सिनः वृष्ट्युदकबिन्दुभिर्युक्ताः । ‘ मरुतः सृष्टां वृष्टिं नयन्ति' (तै. सं. २. ४. १०.२ ) इति श्रुतेः। घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ‘ ऋषी गतौ । गत्यर्था बुद्ध्यर्था इति अत्र ज्ञानार्थः । ‘ सर्वनिघृष्व ' ( उ. सू. १. १५१ ) इत्यादौ प्रत्ययान्तो निपातितः । ‘ आज्जसेरसुक्' । उक्षणः । ‘ वा षपूर्वस्य निगमे ' इति उपधादीर्घाभावः । अरेपसः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु ।' प्र ईरसद्योस्तुट्च' ( उ. सू. ४. ५२६ ) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात् केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥
“They were born handsome and vigorous from the sky, the sons of Rudra, the conquerors of their foes, pure from sin, and purifying (all), radiant as suns, powerful as evil spirits, diffusers of rain-drops, and of fearful forms.”
They spring to birth, the lofty Ones, the Bulls of Heaven, divine, the youths of Rudra, free from spot and stain;
The purifiers, shining brightly even as suns, awful of form like giants, scattering rain-drops down.
They were born as the lofty bulls of heaven, the young bloods of Rudra, lordly, unblemished,
pure white, blazing like suns, like consummate warriors with their drops as banners, of frightful form.
Des Rudra Mannen, lebensvoll und fleckenlos, sind als des Himmels hohe Stiere sie erzeugt, Die flammenden, wie Sonnen leuchtendhellen Scheins, die tropfenden, wie Krieger furchtbar an Gestalt.
Sie sind als des Himmels hohe Bullen geboren, des Rudra Jungen, die makellosen Asura´s, lauter, rein wie die Sonnen, wie die bannertragenden Krieger tropfend, von furchtbarem Aussehen.
Они родились как высокие быки неба,
Юные мужи Рудры, Асуры беспорочные,
Очищающие, ясные, словно солнца,
Как воины, несущие знамена страшного вида.
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गाव॒: पर्व॑ता इव । दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥
युवा॑नः । रु॒द्राः । अ॒जराः॑ । अ॒भो॒क्ऽहनः॑ । व॒व॒क्षुः । अध्रि॑ऽगावः । पर्व॑ताःऽइव । दृ॒ळ्हा । चि॒त् । विश्वा॑ । भुव॑नानि । पार्थि॑वा । प्र । च्या॒व॒य॒न्ति॒ । दि॒व्यानि॑ । म॒ज्मना॑ ॥
युवानः तरुणाः रुद्राः रुद्रपुत्राः अजराः जरारहिताः अभोग्घनः ये देवान् हविर्भिर्न भोजयन्ति तेषां हन्तारः अधिगावः अधृतगमनाः परैरनिवारितगतयः पर्वताइव दृढाङ्गाः एवंभूता मरुतः ववक्षुः स्तोतॄणामभिमतं प्रापयितुमिच्छन्ति । अपि च विश्वा सर्वाणि भुवनानि सद्भावं प्राप्तानि पार्थिवा पृथिव्यां भवानि दिव्यानि दिवि भवानि च वसूनि दृळ्हा चित् दृढान्यपि मज्मना । मज्मनेति बलनाम । मज्मना शोधकेन बलेन प्र च्यावयन्ति प्रचालयन्ति ॥ अभोग्घनः । भोजयन्तीति भोजः । न भोजः अभोजः । तेषां हन्तारः । ‘ बहुलं छन्दसि ' इति हन्तेः क्विप् । झयो होऽन्यतरस्याम् ' ( पा. सू. ८. ४, ६२ ) इति हकारस्य घत्वम् । ‘ इन्हन्पूषार्यम्णां शौ ' ( पा. . ६. ४. १२) इति नियमात् दीर्घाभावः । ववक्षुः । ‘ वह प्रापणे '। अस्मात् इच्छासनि ‘ एकाचः०' इति इट्प्रतिषेधः । द्विर्भावः। ढत्वकत्वषत्वानि । ‘ सन्यतः' इति इत्वाभावश्छान्दसः । लिटि उसि • अमन्त्रे' (पा. सू. ३. १, ३५ ) इति निषेधात् आम्प्रत्ययाभावे । अतो लोपः । इति अकारलोपः । प्रत्ययस्वरः । पादादित्वात् निघाताभावः ॥
“Youthful Rudras, and undecaying destructive of those who do not worship (the gods), of unobstructed progress, and immoveable as mountains they are desirous of granting (the wishes of the worshipper), and by their strength agitate all substances, whether of heaven or of earth.”
Young Rudras, demon-slayers, never growing old, they have waxed, even as mountains, irresistible.
They make all beings tremble with their mighty strength, even the very strongest, both of earth and heaven.
The young unaging Rudras, who smite the miser though themselves not poor, have grown strong like mountains.
All earthly creations, even the firm ones, do they stir up, and the
heavenly ones as well, by their might.
Die ewig jungen Rudra's, feind dem Geizigen, die unaufhaltsam schreiten, wuchsen Bergen gleich; Mit ihrer Macht erschüttern alle Wesen sie, das feste auch, was auf der Erd', im Himmel ist.
Die jugendlichen Rudrasöhne, die alterlosen, die den Knauser erschlagen, selbst nicht karg, sind wie die Berge gewachsen. Alle irdischen und himmlischen Dinge, auch die festen, erschüttern sie mit Macht.
Юные Рудры, нестареющие, убивающие скупца,
(Сами) лишенные скаредности, выросли, как горы,
Все земные (и) небесные сущности,
Даже твердые, они сотрясают (своей) мощью.
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे । अंसे॑ष्वेषां॒ नि मि॑मृक्षुॠ॒ष्टय॑: सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नर॑: ॥
चि॒त्रैः । अ॒ञ्जिऽभिः॑ । वपु॑षे । वि । अ॒ञ्ज॒ते॒ । वक्षः॑ऽसु । रु॒क्मान् । अधि॑ । ये॒ति॒रे॒ । शु॒भे । अंसे॑षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः॑ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया॑ । दि॒वः । नरः॑ ॥
वपुरिति रूपनाम । वपुषे रूपाय शोभार्थं मरुतः चित्रैः नानाविधैः अञ्जिभिः रूपाभिव्यञ्जनसमर्थैराभरणैः स्वशरीराणि व्यञ्जते व्यक्तं कुर्वन्ति । अलंकुर्वन्तीत्यर्थः । वक्षःसु भुजान्तरेषु रुक्मान् रोचमानान् हारान् अधि येतिरे उपरि चक्रिरे । किमर्थम् । शुभे शोभार्थम् । अपि च एषां मरुताम् अंसेषु ऋष्टयः आयुधानि नि मिमृक्षुः निमृष्टाः स्थिता बभूवुः । तैरायुधैः सहिताः नरः नेतारो मरुतः दिवः अन्तरिक्षात् स्वधया स्वकीयेन बलेन साकं सह जज्ञिरे प्रादुर्बभूवुः ॥ येतिरे ।' यती प्रयत्ने । लिटि ‘ अत एकहल्मध्ये इति एत्वाभ्यासलोपौ । शुभे । ‘ शुभ दीप्तौ । संपदादिलक्षणो भावे क्विप्। सावेकाचः० ' इति चतुर्थ्या उदात्तत्वम् । मिमृक्षुः । ‘मृजूष् शुद्धौ' । सनि ऊदित्वात् इडभावः । ‘ हलन्ताच्च ' इति सनः कित्त्वाद्गुणाभावः । द्विर्वचनादि । सन्यतः' इति इत्वम् । लिटि उसि • अतो लोपः' इति अकारलोपः। जज्ञिरे । ‘ जनी प्रादुर्भावे'। लिटि • गमहन° ' इत्यादिना उपधालोपः ॥
“They decorate their person ns with various ornaments; they have plural ced, for elegance, brilliant (garlands) on their breasts; lances are borne upon their shoulders, and with them and their own strength have they been both, leaders, from the sky.”
With glittering ornaments they deck them forth for show; for beauty on their breasts they bind their chains of gold.
The lances on their shoulders pound to pieces; they were born together, of themselves, the Men of Heaven.
With bright unguents they anoint themselves for wonder; on their breasts they arrange brilliants for beauty.
On their shoulders spears have rubbed. They were born all at once by their own power, the men of heaven.
Mit buntem Schmucke schmücken sie zur Pracht sich aus, zum Prunke legten Goldschmuck sie an ihre Brust, Von ihren Schultern funkeln Speere hell herab, zugleich entsprang aus eigner Kraft des Himmels Schar.
Mit bunten Zierraten schmücken sie sich zur Schönheit, auf der Brust haben sie Goldmünzen angereiht zum Prunke. An ihren Schultern reiben sich die Speere; des Himmels Mannen wurden zugleich mit ihrer Eigenart geboren.
Яркими украшениями они украшают себя для привлекательности.
На груди они носят золотые пластинки для блеска.
Об плечи их трутся копья.
Вместе родились они со своими особенностями, (эти) мужи неба.
ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत । दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥
ई॒शा॒न॒ऽकृतः॑ । धुन॑यः । रि॒शाद॑सः । वाता॑न् । वि॒ऽद्युतः॑ । तवि॑षीभिः । अ॒क्र॒त॒ । दु॒हन्ति॑ । ऊधः॑ । दि॒व्यानि॑ । धूत॑यः । भूमि॑म् । पि॒न्व॒न्ति॒ । पय॑सा । परि॑ऽज्रयः ॥
ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणाः धुनयः मेघादीनां कम्पयितारः रिशादसः रिशानां हिंसकानामत्तारः । यद्वा । रिशतां हिंसतामसितारो निरसितारः । एवंभूता मरुतः तविषीभिः आत्मीयैर्बलैः वातान् पुरोवातादीन् विद्युतः विद्योतमानास्तडितश्च अक्रत कुर्वन्ति । कृत्वा च परिज्रयः परितो गन्तारः धूतयः कम्पयितारो मरुतः दिव्यानि दिवि भवानि ऊधः ऊधःस्थानीयान्यभ्राणि दुहन्ति रिक्तीकुर्वन्ति । जलरहितानि कुर्वन्तीत्यर्थः । तदनन्तरं भूमिं पयसा मेघान्निर्गतेनोदकेन जलेन पिन्वन्ति सिञ्चन्ति ॥ रिशादसः । ‘ रिश हिंसायाम् । इगुपधलक्षणः कः । रिशन्ति हिंसन्तीति रिशाः शत्रवः । तानदन्तीति रिशादसः । असुन्। नित्त्वादाद्युदात्तत्वम् । कृदुतरपदप्रकृतिस्वरत्वम् । यद्वा । रिशच्छब्दात् शत्रन्तात् “ असु क्षेपणे ' इत्यस्मात् क्विप् । व्यत्ययेन पूर्वपदस्य उपधादीर्घः अन्तोदात्तत्वं च । अक्रत । करोतेश्छान्दसो वर्तमाने लुङ् । मन्त्रे घस इति च्लेर्लुक् । ऊधः । ‘सुपां सुलुक् ' इति विभक्तेर्लुक् ॥ ॥ ६ ॥
“Enriching their worshipper, agitating the clouds, devourers of foes, they create the winds are lightnings by their power; the cirumambient and agitating Maruts milk heavenly udders, and sprinkle the earth with water.”
Loud roarers, giving strength, devourers of the foe, they make the winds, they make the lightnings with their powers.
The restless shakers drain the udders of the sky, and ever wandering round fill the earth full with milk.
Performing the master’s part, the boisterous ones who care for the stranger have produced winds and lightning flashes with their powers. The shakers milk the udder for heavenly (goods [=rain]). Swirling they swell the earth with milk.
Die Macht gebrauchend, stürmend, tilgend jeden Feind, erzeugen Winde, Blitze sie durch ihre Kraft, Und melken schüttelnd aus dem Euter Himmelsgut; die Erde füllen ringsum laufend sie mit Milch.
Reichmachend, lärmend, über Feinde triumphierend, haben sie die Winde, die Blitze durch ihre Kraft erzeugt. Die Schüttler melken die himmlischen Euter, sie überschwemmen herumfahrend die Erde mit Naß.
Действующие как владыки шумящие, заботящиеся о чужом,
(Своими) силами они создали ветры (и) молнии.
Сотрясатели доят небесное вымя.
Носящиеся вокруг делают землю набухшей от молока.
पिन्व॑न्त्य॒पो म॒रुत॑: सु॒दान॑व॒: पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुव॑: । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥
पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒ऽदान॑वः । पयः॑ । घृ॒तऽव॑त् । वि॒दथे॑षु । आ॒ऽभुवः॑ । अत्य॑म् । न । मि॒हे । वि । न॒य॒न्ति॒ । वा॒जिन॑म् । उत्स॑म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥
सुदानवः शोभनदानाः मरुतः पयः क्षीरवत् सारवतीः अपः पिन्वन्ति सिञ्चन्ति । आभुवः । आभवन्तीत्याभुव ऋविजः। ते विदथेषु यज्ञेषु घृतवत्। यथा घृतं सिञ्चत्येवं मरुतोऽपि वृष्टिं कुर्वन्तीति भावः । तत्र हेतुमाह । अत्यं न यथा अश्वं सादिनो विनयन्ति युद्धार्थं शिक्षन्येवं मरुतः वाजिनं वेगवन्तं मेघं मिहे वर्षणाय वि नयन्ति स्वाधीनं कुर्वन्तीति भावः । विनीय च स्तनयन्तं गर्जन्तम् अक्षितम् अक्षीणम् उत्सम् । उत्सवन्त्यस्मादाप इत्युत्सो मेघः। तं दुहन्ति रिक्तीकुर्वन्ति ॥ सुदानवः । नुप्रत्ययान्तो दानुशब्द आद्युदात्तः । बहुव्रीहौ ‘ आद्युदात्तं द्व्यच्छन्दसि इत्युत्तरपदाद्युदात्तत्वम् । मिहे । मिह सेचने '। संपदादिलक्षणो भावे क्विप् । 'सावेकाचः० ' इति विभक्तिरुदात्ता । स्तनयन्तम् । ‘ स्तन शब्दे ' । चुरादिरदन्तः । अतो लोपस्य स्थानिवद्भावात् वृद्ध्याद्यभावः ॥
“The munificent Maruts scatter the nutritious waters, as priests at sacrifices the clarified butter; as grooms lead forth a horse, they bring forth the rain from the fleeting-cloud, and milk it, thundering, and unexhausted.”
The bounteous Maruts with the fatness dropping milk fill full the waters which avail in solemn rites.
They lead, as 'twere, the Strong Horse forth, that it may rain: they milk the thundering, the never-failing spring.
The Maruts of good drops swell the waters, the ghee-rich milk, as they stand ready at the rites.
They lead (their horse) out to piss like a prize-seeking steed. They milk the thundering, imperishable well-spring.
Die tropfenreichen Maruts giessen Wasser aus und, bei den Opfern gegenwärtig, fette Milch, Zum Wasserlassen treiben sie das schnelle Ross, die Donnerwolke melkend, welche nie versiegt.
Die gabenschönen Marut lassen das Wasser, das schmalzreiche Naß anschwellen, das zum Opfer dienliche. Wie ein um den Preis leufendes Rennpferd richten sie ihre Rosse zum Harnen ab; sie melken den donnernden unversiegbaren Quell;
Щедрые Маруты делают набухшими воды,
Полное жира, молоко, (они,) помощники на жертвенных раздачах.
Как скакуна, завоевывающего награду, они отводят своих коней в сторону помочиться.
Они доят гремящий неиссякающий источник.
म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यद॑: । मृ॒गा इ॑व ह॒स्तिन॑: खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥
म॒हि॒षासः॑ । मा॒यिनः॑ । चि॒त्रऽभा॑नवः । गि॒रयः॑ । न । स्वऽत॑वसः । र॒घु॒ऽस्यदः॑ । मृ॒गाःऽइ॑व । ह॒स्तिनः॑ । स्वा॒द॒थ॒ । वना॑ । यत् । आरु॑णीषु । तवि॑षीः । अयु॑ग्ध्वम् ॥
महिष इति महन्नाम। महिषासः महान्तः । मायेति ज्ञाननाम । मायिनः प्राज्ञाः चित्रभानवः शोभनदीप्तयः गिरयो न स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ताः रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टाः यूयं हस्तिनः हस्तवन्तः मृगाइव गजा इव वना वनानि वृक्षजातानि खादथ भक्षयथ । प्रभङ्क्थेति यावत् । यत् यस्मात् आरुणीषु अरुणवर्णासु वडवासु तविषीः बलानि अयुग्ध्वं संयोजितवन्तः । तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्तत्संयुक्ता भवन्तः सर्वं भञ्जन्तीत्यर्थः ॥ रघुष्यदः । स्यन्दू प्रस्रवणे'। रघु शीघ्रं स्यन्दन्ते गच्छन्तीति रघुष्यदः । ‘ क्विप् च' इति क्विप् । अनिदिताम् ' इति नलोपः । ‘ वालमूललघ्वलम्° ' ( पा. म. ८. २. १८) इति लत्वविकल्पः । कृदुत्तरपदप्रकृतिस्वरत्वम् । खादथ । ‘ खादृ भक्षणे ' । अयुग्ध्वम् । ‘ युजिर् योगे । लुङि च्लेः सिच् । एकाचः० ' इति इट्प्रतिषेधः । ‘ धि च ' (पा. सू. ८. २. २५) इति सकारलोपः । ‘चोः कुः' इति कुत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥
“Vast, possessed of knowledge, bright-shining, like mountains in stability and quick in motion, you, like elephants, break down the forests when you put vigour into your ruddy (mares).”
Mighty, with wondrous power and marvellously bright, selfstrong like mountains, ye glide swiftly on your way.
Like the wild elephants ye eat the forests up when ye assume your strength among the bright red flames.
Buffalos, masters of artifice, of bright radiance, self-powerful like mountains yet quick streaming,
like wild elephants you chew up the woods, when you have yoked your own powers to those of your ruddy (horses).
Ihr zauberreichen Büffel strahlend hell an Glanz voll eigner Kraft wie Berge ihr, in schnellem Lauf Vernichtet gleich den Elefanten Wälder ihr, wenn ihr in eure rothen Stuten Kraft gelegt.
Die Büffel, die verwandlungsfähigen, von prächtigem Glanze, selbststark wie die Berge, schnellaufend. Wie die Elefantentiere fresset ihr die Bäume ab, wenn ihr eure Stärken an die der roten Rosse gespannt habt.
Быки, способные к волшебным превращениям, испускающие яркие лучи,
Сильные сами собой, словно горы, быстрые в беге,
Как слоны, вы вырываете (с корнем) деревья,
Когда сопрягаете (свои) силы с (силами) рыжих (кобылиц).
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः । क्षपो॒ जिन्व॑न्त॒: पृष॑तीभिॠ॒ष्टिभि॒: समित्स॒बाध॒: शव॒साहि॑मन्यवः ॥
सिं॒हाःऽइ॑व । ना॒न॒द॒ति॒ । प्रऽचे॑तसः । पि॒शाःऽइ॑व । सु॒ऽपिशः॑ । वि॒श्वऽवे॑दसः । क्षपः॑ । जिन्व॑न्तः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सम् । इत् । स॒ऽबाधः॒ । शव॑सा । अहि॑ऽमन्यवः ॥
प्रचेतसः प्रकृष्टज्ञाना मरुतः सिंहाइव नानदति भृशं शब्दं कुर्वन्ति । यथा सिंहा गिरिगह्वरेषु गम्भीरं शब्दं कुर्वन्ति एवं मरुत्सु अप्यागतेषु गम्भीरः शब्द उत्पद्यते इति भावः । तथा सुपिशः शोभनावयवाः शोभनालंकारा वा । तत्र दृष्टान्तः । पिशाइव । पिश इति रुरुनाम । यथा रुरवः स्वशरीरगतैः श्वेतबिन्दुभिरलंकृतास्तद्वत् । विश्ववेदसः सर्वज्ञाः क्षपः शत्रूणां क्षपयितारः जिन्वन्तः स्तोतॄन् प्रीणयन्तः शवसा बलेन अहिमन्यवः आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा । मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कृष्टबुद्धय इत्यर्थः । एवंभूता मरुतः पृषतीभिः । पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेतबिन्द्वङ्किता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ताः। ताभिः ऋष्टिभिः आयुधैश्च सहिताः सन्तः सबाधः शत्रुभिर्बाधितान् यजमानान् समित् समानमेव युगपदेव रक्षितुमागच्छन्तीति शेषः ॥ नानदति । ‘ नद अव्यक्ते शब्दे ' । अस्मात् यङ्लुगन्तात् लट् । पिशाइव। ‘ पिश अवयवै । इगुपधलक्षणः कः । सुपिशः । सुपूर्वात् “ पिश अवयवे' इत्यस्मात् ‘क्विप् च ' इति क्विप् । पृषतीभिः । ‘पृषु सेचने । ‘ वर्तमाने पृषद्वृहन्महज्जगच्छतृवच्च ' ( उ. सू. ३, २४१ ) इति शतृवद्भावात् 'उगितश्च ' इति ङीप् । अत एव ‘शतुरनुमः' इति नद्या उदात्तत्वे प्राप्ते ‘बृहन्महतोरुपसंख्यानम्' इति नियमात् तस्याभावः ॥
“The most wise Maruts roar like lions; the all-knowing are graceful as the spotted deer, destroyign (their foes), delighting (their worshippers); of deadly strength in their anger, they come with their antelopes and their arms, (to defend the sacrificer) against interruption.”
Exceeding wise they roar like lions mightily, they, all-possessing, are beauteous as antelopes;
Stirring the darkness with lances and spotted deer, combined as priests, with serpents' fury through their might.
Like lions the discerning ones keep roaring, beautifully marked like mottled (deer), granting all possessions.
Animating the nights, urgently they (join) together with their dappled (mares), with their spears—those who have a snake’s fury in their
strength.
Wenn sie erscheinen, toben sie den Löwen gleich, wie schöngeschmückte Hirsche, die allwissenden, Die Nacht belebend durch Gazellen, Schwerterglanz, wie Schlangen grimmig, alle kräftig, eifervoll.
Sie brüllen wie die Löwen, die Verständigen; wie die gefleckten Hirsche sind sie schön gezeichnet, geschmückt, die Allwissenden. Die Nächte belebend haben sie sich mit ihren Schecken, mit den Speeren, mit der Stärke eng zusammen getan, im Zorn den Schlangen gleichend.
Они громко рычат, словно львы, (Маруты-) прозорливцы,
Прекрасно разукрашенные, словно пятнистые антилопы, всеведущие.
Оживляя ночи пестрыми антилопами, копьями,
Они грозно (появляются) со (своей) мощью, яростные, как змеи.
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूरा॒: शव॒साहि॑मन्यवः । आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥
रोद॑सी॒ इति॑ । आ । व॒द॒त॒ । ग॒ण॒ऽश्रि॒यः॒ । नृऽसा॑चः । शूराः॑ । शव॑सा । अहि॑ऽमन्यवः । आ । व॒न्धुरे॑षु । अ॒मतिः॑ । न । द॒र्श॒ता । वि॒द्युत् । न । त॒स्थौ॒ । म॒रु॒तः॒ । रथे॑षु । वः॒ ॥
हे गणश्रियः गणशः श्रयमाणाः सप्तगणरूपेणावस्थिताः नृषाचः नॄन् यजमानान् हविःस्वीकरणाय सेवमानाः शूराः शौर्योपेता एवंभूता हे मरुतः शवसा बलेन अहिमन्यवः आहननस्वभावकोपयुक्ताः सन्तः रोदसी द्यावापृथिव्यौ आ वदत आ समन्ताच्छब्दयत । युष्मदागमने सति भवदीयशब्देन द्यावापृथिव्यौ पूर्णे कुरुतेति भावः । किंच हे मरुतः वः युष्माकं तेजः वन्धुरेषु । बन्धककाष्ठनिर्मितं सारथेः स्थानं वन्धुरमित्युच्यते । तद्युक्तेषु रथेषु आ तस्थौ आतिष्ठति । अवस्थितं सत्सर्वैर्दृश्यते । तत्र दृष्टान्तद्वयमुच्यते । अमतिर्न । अमतिरिति रूपनाम । यथा निर्मलं रूपं सर्वैर्दृश्यते। दर्शता विद्युन्न । यथा वा दर्शनीया विद्युन्मेघस्था सर्वैर्दृश्यते एवं रथे स्थितानां युष्माकं ज्योतिरपि सर्वैर्दृश्यते इत्यर्थः ॥ वदत। ‘ ऋचि तुनुघ० ' इत्यादिना दीर्घः । नृषाचः । पादादित्वादामन्त्रिताद्युदात्तत्वम् । अमतिः । अम गत्यादिषु । ‘ अमेरतिः ' ( उ. सू. ४. ४९९ ) इति औणादिकः अतिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दर्शता । ‘ भृमृदृशि° ' इत्यादिना अतच्प्रत्ययः । चित्त्वादन्तोदात्तत्वम् ॥
“Maruts, who are distinguished in troops, who are benevolent to men, who are heroes, and whose strength is deadly in your anger, you make heaven and earth resound (at your coming); your (glory) sits in the seat-furnished chariots, conspicuous as (a beautiful) form, or as the lovely lightning.”
Heroes who march in companies, befriending man, with serpents' ire through strength, ye greet the earth and heaven.
Upon the seats, O Maruts, of your chariots, upon the cars stands lightning visible as light.
Salute the two world-halves [=ródasī], you who are splendor in a flock, who accompany the superior man [=Indra], champions with a
snake’s fury in your strength.
She [=Rodasī], like lightning lovely to look at, has mounted your
chariot like the ensign on chariot boxes, o Maruts.
In Scharen schreitend redet Erd' und Himmel an wie Schlangen grimmig, heftig, Helden, Männern hold, Auf euren Sitzen schimmert es wie heller Glanz, auf euren Wagen, Maruts, steht es wie ein Blitz.
Kündet euch beiden Rodhasi an, ihr erlesene Schar, dem Herren folgend, ihr Tapferen, mit eurer Stärke, im Zorn den Schlangen gleichend! Auf die Wagensitze aufgestiegen, schön wie ein Bildnis, steht Rodasi wie der Blitz auf eurem Wagen, Marut.
Обратитесь к двум мирам, о прекрасные (своей) толпой,
Герои, следующие за господином, со (своей) мощью, яростные, как змеи!
(Взойдя) на сиденья (колесниц,) прекрасная, как солнечное сияние,
(Родаси,) словно молния, находится на колесницах ваших, о Маруты.
वि॒श्ववे॑दसो र॒यिभि॒: समो॑कस॒: सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिन॑: । अस्ता॑र॒ इष्॑म दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नर॑: ॥
वि॒श्वऽवे॑दसः । र॒यिऽभिः॑ । सम्ऽओ॑कसः । सम्ऽमि॑श्लासः । तवि॑षीभिः । वि॒ऽर॒प्शिनः॑ । अस्ता॑रः । इषु॑म् । द॒धि॒रे॒ । गभ॑स्त्योः । अ॒न॒न्तऽशु॑ष्माः । वृष॑ऽखादयः । नरः॑ ॥
विश्ववेदसः सर्वज्ञाः रयिभिः धनैः समोकसः समाननिवासाः समवेता वा । धनाधिपतय इत्यर्थः । तविषीभिः बलैः संमिश्लासः संमिश्राः । संयुक्ता इत्यर्थः । विरप्शिनः । महन्नामैतत् । महान्तः । अस्तारः शत्रूणां निरसितारः अनन्तशुष्माः अनवच्छिन्नबलाः वृषखादयः । वृषा इन्द्रः खादिः आयुधस्थानीयो येषां ते तथोक्ताः । यद्वा । वृषा सोमः खादिः खाद्यः पेयो येषां ते । नरः । नेतारः । एर्वभूता मरुतः । गभस्तिरिति बाहुनाम । गभस्त्योः बाह्वोः इषुं दधिरे । शत्रूणां निरसनाय धनुर्बाणादिकमायुधं धारयन्ति ॥ समोकसः । ‘ उच समवाये । असुनि बहुलवचनात् कुत्वमिति ‘ ओक उचः के ' इत्यत्रोक्तम् (का. ७. ३. ६४ )। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘ संमिश्लासः । कपिलकादित्वात् लत्वम् । विरप्शिनः । ‘ रप लप व्यक्तायां वाचि । विपूर्वादस्मात् बहुलवचनात् शक्प्रत्ययः । विविधं शब्दं रपन्तीति विरप्शाः स्तोतारः । ते एषां सन्तीति विरप्शिनः । यद्वा । विविधं रपणं विरप्शम् । तदेषामस्तीति । मरुतो हि विविधं शब्दं कुर्वते । इनिप्रत्ययस्वरः । अस्तारः । ताच्छीलिकः तृन् । इडभावश्छान्दसः । नित्त्वादाद्युदात्तत्वम् । अनन्तशुष्माः । नास्त्यन्तोऽस्येति अनन्तः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अनन्तः शुष्मो बलं येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषखादयः । ‘ खादृ भक्षणे ' । औणादिक इन्प्रत्ययः । वृषशब्दः कनिन्प्रत्ययान्त आद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ७ ॥
“The Maruts, who are all-knowing, co-dwellers with wealth, combined with strength, loud-sounding, repellers of foes, of infinite prowess, whose weapon (of offence) is Indra, and who are leaders (of men), hold in their hands the shaft.”
Lords of all riches, dwelling in the home of wealth, endowed with mighty vigour, singers loud of voice,
Heroes, of powers infinite, armed with strong men's rings, the archers, they have laid the arrow on their arms.
Granting all possessions, at home with riches, linked with powers, copious,
the archers have taken their arrows in their fists, the superior men of endless tempests and bullish bangles.
Mit allen Schätzen und mit Gütern reich begabt, mit Kraft versehen, strotzend von der höchsten Macht, Als Schützen nahmen in die Arme sie den Pfeil endlos an Kraft, die Männer, mit den Ringen stark.
Allwissend, an Reichtümer gewöhnt, mit den Stärken gepaart, im Überfluß lebend, haben die Schützen den Pfeil in die Hand genommen, die Männer von unbegrenztem Mute, Riesenspangen tragend.
Всеведущие, живущие со (своими) богатствами,
Владеющие силами, имеющие (все) в избытке,
Стрелки из лука взяли в руки стрелу,
Мужи безграничного пыла, носящие толстые кольца.
हि॒र॒ण्यये॑भिः प॒विभि॑: पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् । म॒खा अ॒यास॑: स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
हि॒र॒ण्यये॑भिः । प॒विऽभिः॑ । प॒यः॒ऽवृधः॑ । उत् । जि॒घ्न॒न्ते॒ । आ॒ऽप॒थ्यः॑ । न । पर्व॑तान् । म॒खाः । अ॒यासः॑ । स्व॒ऽसृतः॑ । ध्रु॒व॒ऽच्युतः॑ । दु॒ध्र॒ऽकृतः॑ । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥
मरुतः हिरण्ययेभिः सुवर्णमयैः । यद्वा । हितरमणीयैः पविभिः स्थानां चक्रैः पर्वतान् पर्ववतो मेघान् यद्वा शिलोच्चयान् उज्जिघ्नन्ते ऊर्ध्वं गमयन्ति । स्थानात् प्रच्यावयन्तीत्यर्थः । तत्र दृष्टान्तः । पथ्यः न। यथा पथि गच्छन् रथो मार्गे आस्थितं तृणवृक्षादिकं चूर्णीकृत्योर्ध्वं नयति गमयति । यद्वा । यथा संयुक्ता गजा मार्गस्थितं वृक्षादिकं भग्नं कुर्वन्ति । कीदृशा मरुतः । पयोवृधः पयसो वृष्ट्युदकस्य वर्धयितारः । यद्वा पृश्नेः पयसा वर्धमानाः । ‘ पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) । इति श्रूयते । मखाः । मख इति यज्ञनाम । तद्वन्तः । अयासः देवयजनदेशं प्रति गन्तारः स्वसृतः शत्रून्प्रति स्वयमेव सरन्तो गच्छन्तः ध्रुवच्युतः धुवाणां निश्चलानां पर्वतादीनामपि च्यावयितारः दुध्रकृतः दुध्रं दुष्टानां धारयितारमात्मानं कुर्वाणाः । यद्वा । दुर्धरमन्यैर्धर्तुमशक्यमात्मानं कुर्वाणाः । भ्राजदृष्टयः दीप्यमानायुधाः ॥ उज्जिघ्नन्ते । हन्तेर्व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । ‘ गमहन° 'इत्यादिना उपधालोपः । ‘ हो हन्तेः० ' इति घत्वम् । व्यत्ययेन अन्तादेशः । पथ्यः । पथि भवः । भवे छन्दसि ' इति यत् ।' नस्तद्धिते' ( पा. सू. ६. ४. १४४ ) इति टिलोपः । व्यत्ययेनान्तस्वरितत्वम् । यद्वा । छन्दसीवनिपौ° ' इति मत्वर्थीय ईकारः । ‘ उदात्तस्वरितयोर्यणः० ' इति विभक्तेः स्वरितत्वम् । अयासः । अय पय गतौ । अयन्ते इत्ययाः । पचाद्यच् । आज्जसेरसुक्' । दुध्रकृतः । अत्र दुःशब्देन दुष्टा लक्ष्यन्ते । ‘धृञ् धारणे' । दुष्टान् धारयतीति दुध्रः । मूलविभुजादित्वात् (पा. सू. ३. २. ५. २) कप्रत्ययः । यद्वा । ‘ ईषद्दुःसुषु° ' इति दुःशब्दे उपपदे कमणि खल् । गुणाभावश्छान्दसः । तं कुर्वन्तीति दुध्रकृतः । करोतेः क्विप् च ' इति क्विप् । रेफलोपश्छान्दसः ॥
“Augmenters of rain, they drive with golden wheels the clouds asunder, as elephants (in a herd break down the trees in their way); they are honoured with sacrifices, visitants of the hall of offering, spontaneous assailers (of their foes), subverters of what are stable, immoveable themselves, and wearers of shining weapons.”
They who with golden fellies make the rain increase drive forward the big clouds like wanderers on the way.
Self-moving, brisk, unwearied, they o'erthrow the firm; the Maruts with bright lances make all things to reel.
With their golden wheel-rims the milk-strong ones keep pounding the mountains like wayfarers (pounding the road with their feet)—
unruly battlers, self-propelling, stirring (even) the fixed, acting
headstrong, the Maruts with their glinting spears.
Wie Wegebahner drängen sie die Berge weg mit ihren goldnen Rädern, sie an Fluten reich, Rastlose Kämpfer, Festen brechend in der Fahrt, die Maruts stürmend, blitzend hell mit Schwerterschein.
Mit ihren goldenen Radschienen reißen die Naßreichen die Berge auf wie die Straßenfahrer die Steine, die freigebigen Marut, die unverzagten, von selbst laufend, das Feste erschütternd, trotzbietend, mit blinkenden Speeren.
Усиленные влагой, золочеными ободьями
Они подбрасывают горы, разбивая (их), как едущие по дороге (-камешки),
Борцы неутомимые, бегущие по своему (побуждению), сотрясатели твердого,
Совершающие дикие (поступки) Маруты со сверкающими копьями.
घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि । र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥
घृषु॑म् । पा॒व॒कम् । व॒निन॑म् । विऽच॑र्षणिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । गृ॒णी॒म॒सि॒ । र॒जः॒ऽतुर॑म् । त॒वस॑म् । मारु॑तम् । ग॒णम् । ऋ॒जी॒षिण॑म् । वृष॑णम् । स॒श्च॒त॒ । श्रि॒ये ॥
घृषुं शत्रूणां बलस्य घर्षकं विनाशयितारं पावकं सर्वेषां शोधकं वनिनम् । वनमित्युदकनाम । उदकवन्तम् । वृष्टिप्रदमित्यर्थः । विचर्षणिं विशेषेण सर्वस्य द्रष्टारं रुद्रस्य महादेवस्य सूनुं पुत्रभूतम् । एवंविधं मरुतां समूहं हवसा आह्वानसाधनेन स्तोत्रेण गृणीमसि शब्दयामः । स्तुम इत्यर्थः । हे ऋत्विग्यजमानाः यूयमपि श्रिये ऐश्वर्याय धनार्थं मारुतं गणं मरुतां संघं सश्चत प्राप्नुत । कीदृशम् । रजस्तुरं पार्थिवस्य पांसोस्त्वरयितारं प्रेरकमित्यर्थः। तवसं प्रवृद्धं ऋजीषिणम् । तृतीयसवने हि मरुतः स्तूयन्ते तत्र च ऋजीषमभिषुण्वन्तीति ऋजीषसंबन्धः श्रुतः । अतस्तद्वन्तं वृषणं कामानां वर्षितारम् ॥ हवसा । ह्वेञः असिप्रत्यये बहुलं छन्दसि' इति संप्रसारणम् । गृणीमसि । गॄ शब्दे । इदन्तो मसिः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । रजस्तुरम् । रजांसि तुतोर्तीति रजस्तूः । ‘ तुर स्वरणे'। क्विप् च ' इति क्विप् । वृषणम् । वा पपूर्वस्य निगमे ' इति दीर्घाभावः । सश्चत ॥ ग्लच्च षस्ज गतौ ' इत्यत्र सश्चिमप्येके इति धातुवृत्तावुक्तम् । गतिकर्मसु च सश्चतीति पठितम् । श्रिये । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् ।
“We invoke with praise the foe-destroying, all-purifying, water-shedding, all-surveying band of Maruts, the offspring of Rudra; (priests) to obtain prosperity, have recourse to the dust-raising and powerful band of Maruts, receiving libations from sacred vessels, and showering down (benefits).”
The progeny of Rudra we invoke with prayer, the brisk, the bright, the worshipful, the active Ones
To the strong band of Maruts cleave for happiness, the chasers of the sky, impetuous, vigorous.
The ardent, pure, winning, unbounded offspring of Rudra do we hymn with an invocation.
The space-traversing, powerful Marut flock, possessing the silvery
drink, bullish—follow it for splendor.
Die lust'gen Flammer, sie die muntern, spendenden, des Rudra Söhne preisen wir mit unserm Ruf, Die Marutschar die starke, Luft durchdringende, die vorwärts strebt, die kräft'ge ehrt zu eurem Heil.
Die kampflustige, lautere, sieggewohnte, ausgezeichnete Söhneschar des Rudra feiern wir mit Anruf. An die Marutschar, die die Lüfte durcheilt, an die starke, die den Trestersoma bekommt, an die bullige schließt euch an, um den Vorrang zu gewinnen!
Бодрых, очищающих, победоносных, очень подвижных
Сыновей Рудры мы воспеваем, призывая.
За пересекающею пространство толпой Марутов,
Пьющей (сому,) из выжимок, следуйте для блеска!
प्र नू स मर्त॒: शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त । अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥
प्र । नु । सः । मर्तः॑ । शव॑सा । जना॑न् । अति॑ । त॒स्थौ । वः॒ । ऊ॒ती । म॒रुतः॑ । यम् । आव॑त । अर्व॑त्ऽभिः॑ । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ । आ॒ऽपृच्छ्य॑म् । क्रतु॑म् । आ । क्षे॒ति॒ । पुष्य॑ति ॥
स मर्तः मनुष्यः शवसा बलेन जनान् जातान् अन्यान् पुरुषान् अति अतीत्य नु क्षिप्रं तस्थौ प्रतिष्ठितो भवति । हे मरुतः वः युष्माकम् ऊती ऊत्या रक्षणेन यं पुरुषम् आवत अरक्षत । अपि च स पुरुषः अर्वद्भिः अश्वैः साधनभूतैः वाजम् अन्नं नृभिः स्वकीयैर्मनुष्यैः धना धनानि च भरते संपादयति । तथा आपृच्छ्यम् आप्रष्टव्यं शोभनं क्रतुम् अग्निष्टोमादिकर्म आ क्षेति आप्नोति । पुष्यति प्रजया पशुभिः पुष्टो भवति च ॥ ऊती । तृतीयायाः पूर्वसवर्णदीर्घत्वम् । नृभिः । नृ चान्यतरस्याम् ' इति विभक्त्युदात्तत्वप्रतिषेधः । आपृच्छ्यम् । छन्दसि निष्टर्क्य इत्यादौ आङ्पूर्वात् पृच्छतेः क्यच्प्रत्ययान्तो निपात्यते । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । कृदुत्तरपदप्रकृतिस्वरत्वम् । क्षेति । ‘क्षि निवासगत्योः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । पुष्यति । ‘ पुष पुष्टौ ' । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् । तिङः परत्वात् निघाताभावः ॥
“The man whom, Maruts, you defend with your protection, quickly surpasses all men in strength; with his horses he acquires food, and with his men, riches; he performs the required worship, and he prospers.”
Maruts, the man whom ye have guarded with your help, he verily in strength surpasseth all mankind.
Spoil with his steeds he gaineth, treasure with his men; he winneth honourable strength and prospereth.
That mortal has now stood out beyond the people in strength by your aid—the one whom you helped, Maruts.
He bears away the prize for himself with his steeds, bears away the
stakes with his men, bears resolve worthy of the asking. He dwells
peacefully; he thrives.
Der Mann fürwahr geht allen Menschen vor an Kraft, den ihr, o Maruts, vorwärts bringt durch eure Huld, Durch Renner trägt er Preis davon, durch Helden Gut, empfängt und bringt zur Blüte vielbegehrte Kraft.
Der Sterbliche überragt fürwahr durch eure Hilfe an Macht die anderen Leute, o Marut, dem ihr beisteht. Mit seinen Rennpferden trägt er den Siegerpreis davon, Schätze mit seinen Mannen. Er besitzt gesuchten Rat, er gedeiht.
А тот смертный действительно, превосходит людей силой
Благодаря вашей помощи, (тот,) кому вы помогли.
Со (своими) скакунами он приносит награду, богатства - со (своими) мужами.
Он владеет силой духа, о которой стоит просить. Он процветает.
च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन । ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमा॑: ॥
च॒र्कृत्य॑म् । म॒रु॒तः॒ । पृ॒त्ऽसु । दु॒स्तर॑म् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । म॒घव॑त्ऽसु । ध॒त्त॒न॒ । ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन॑यम् । श॒तम् । हिमाः॑ ॥
हे मरुतः मघवत्सु हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रं धत्तन स्थापयत । दत्तेति यावत् । कीदृशं पुत्रम् । चर्कृत्यं कार्येषु पुनःपुनः पुरस्कर्तव्यम् । सर्वकर्मकुशलमित्यर्थः । पृत्सु संग्रामेषु दुष्टरं दुःखेन तरितव्यम् । अजेयमित्यर्थः । द्युमन्तं दीप्तिमन्तं शुष्मं शत्रूणां शोषकं बलवन्तं धनस्पृतं धनानां स्प्रष्टारं धनैः प्रीतं वा उक्थ्यम् । उक्थं स्तोत्रम् । तदर्हम् । प्रशस्यमित्यर्थः । विश्वचर्षणिं विशेषेण द्रष्टारं सर्वज्ञम् । एवंविधं तोकं पुत्रं तनयं पौत्रं च शतं हिमाः हेमन्तर्तूपलक्षितान् शतं संवत्सरान् जीवन्तः सन्तः पुष्येम पोषयेम । अत्र हिमशब्देन तद्युक्ता हेमन्तर्तवोऽभिधीयन्ते । तथा च ब्राह्मणमेवमाम्नायते- शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह ' ( तै. सं. १. ५.८.५) इति ॥ चर्कृत्यम्। ‘ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ' ( परिभा. ९३.९) इति न्यायेन करोतेर्यङ्लुगन्तात् “ विभाषा कृवृषोः ' ( पा. सू. ३. १. १२० ) इति क्यप् । तुगागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' (पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृदादेशः । दुष्टरम् । ‘ तॄ प्लवनतरणयोः । ‘ ईषद्दुःसुषु । इति खल् । सुषामादेराकृतिगणत्वात् षत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । धत्तन । ‘ तप्तनप्तनथनाश्च ' इति तस्य तनादेशः ॥
“Maruts, grant to your wealthy (worshippers a son), eminent for good works, invincible in battle, illustrious, the annihilator (of his adversaries), the seizer of wealth, the deserver of praise, and all-discerning; may we cherish such a son and such a grandson for a hundred winterṣ ”
O Maruts, to the worshippers give glorious strength invincible in battle, brilliant, bringing wealth,
Praiseworthy, known to all men. May we foster well, during a hundred winters, son and progeny.
O Maruts, confer on the bounteous (patrons) brilliant bluster ever to be celebrated, difficult to overcome in battles,
gaining the stakes, worthy of hymns, governing all domains. May we thrive in life and lineage for a hundred winters.
O schenkt, ihr Maruts, preisenswerthe, schöne Kraft den Opferherrn, die unbesiegbar ist im Kampf Die Schatz erringt, bei Menschen hochgepriesen wird; lasst hundert Jahr mit Kind und Enkeln blühen uns.
Bringet, ihr Marut, unseren Gönnern rühmlichen, glänzenden Mut, der in den Kämpfen unüberwindlich, Schätze gewinnt, in Liedern besungen, in allen Landen bekannt! Wir möchten unseren leiblichen Samen hundert Winter mehren.
Наделите, о Маруты (наших) щедрых (покровителей) достойной воспевания
Отвагой, неодолимой в сражениях, сверкающей,
Захватывающей богатство, достойной прославления, всем известной!
Да будем мы процветать сто зим в наших детях и потомках!
नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त । स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒रऽव॑न्तम् । ऋ॒ति॒ऽसह॑म् । र॒यिम् । अ॒स्मासु॑ । ध॒त्त॒ । स॒ह॒स्रिण॑म् । श॒तिन॑म् । शू॒शु॒ऽवांस॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
हे मरुतः स्थिरं स्थास्नुं वीरवन्तं वीरैः पुत्रैस्तद्वन्तम् । यद्वा । वीर्योपेतम्। ऋतीषाहं गन्तॄणां शत्रूणामभिभवितारं एवंविधं रयिं पुत्रलक्षणं धनम् अस्मासु धत्त स्थापयत । सहस्रिणं शतिनम् एतत्संख्याकधनवन्तं अत एव शूशुवांसं प्रवृद्धम् । अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले जगम्यात् आगच्छतु ॥ नू ष्ठिरम् । ‘ ऋचि तुनुध° ' इति दीर्घः । पूर्वपदात् ' इति षत्वम् । ऋतीषाहम् । ऋ गतौ । कर्तरि क्तिच् । षह अभिभवे । ‘ छन्दसि सहः' इति ण्विप्रत्ययः । ‘ अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् । सुषामादित्वात् षत्वम् । शूशुवांसम् । टुओश्वि गतिवृद्धयोः' । लिटः क्वसुः । ‘ विभाषा श्वेः ' (पा. सू. ६. १. ३०) इति संप्रसारणम् । द्विर्वचने तुजादित्वात् अभ्यासस्य दीर्घत्वम् । ‘ वस्वेकाजाद्धसाम्' इति नियमात् इडभावः । प्रत्ययस्वरः ॥ ॥ ८ ॥ ॥ ११ ॥
“Grant us, Maruts, durable riches, attended by posterity, and mortifying to our enemies; (riches) recknoned by hundreds and thousands, and ever increasing; may they who have acquired wealth by pious acts, come hither quickly in the morning.”
Will ye then, O ye Maruts, grant us riches, durable, rich in men, defying onslaught.
A hundred, thousandfold, ever increasing? May he, enriched with prayer, come soon and early.
Now, Maruts, confer on us durable wealth consisting of heroes, victorious in the clash,
swelling in hundreds and thousands. – Early in the morning—soon—he should come, rich through (his) insight.
The next nine hymns (I.65–73) are ascribed to Parāśara Śāktya and are dedicated only to Agni. The first six (65–70) are in the relatively rare dvipadā virāj meter, while the last three are in triṣṭubh. Despite the difference in meter, there is a strong sense of unity in this group of hymns, in phraseology, in style, and in theme. Moreover, somewhat in Vālakhilya fashion there are several paired hymns, especially I.65–66 and I.68–69 (with I.70 acting as a climatic third to that pairing).
The most important theme running through the series is Agni’s function as the locus and target of joint action undertaken by men and by gods, and as the representative of the unity thus produced. In this capacity for mortals he is named the Vaiśvānara fire (“fire belonging to all men”—for another, nearby Agni Vaiśvānara hymn see I.59), and the series I.68–70 contains an extended pun on the constituents of this epithet. In the divine realm the joint action of the gods is represented by the Tānūnaptra rite and its foundation myth, treated in I.72 (see Proferes 2007: 51–61). These complementary aspects of Agni are not restricted to the hymns just named, but surface throughout this series, which thus shows a rare thematic unity.
Nun gebt uns feste heldenreiche Habe, o Maruts, welche jedem Angriff trotze, Die hundertfach und tausendfach sich mehre. Der huldvoll sorget, komme früh am Morgen.
Und nun bringet uns, ihr Marut, dauerhaften Reichtum an Söhnen, der die Angriffe besteht, tausendfältigen, hundertfältigen, überlegenen! - Recht bald am Morgen soll sich der einstellen, der durch die Weisheit Schätze erwirbt.
Наделите же нас, о Маруты, прочным
Богатством, состоящим из героев, выдерживающим натиск,
Тысячным, сотенным, сильно набухшим!
Да придет (к нам) быстро рано утром (бог,) богатый даром видения!