प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥
प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥
द्वादशेऽनुवाके नव सूक्तानि । तत्र पश्वेत्यादीनि षट् सूक्तानि द्वैपदानि तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते । अयुक्सङ्ख्यासु तु यान्त्यातिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः सूत्र्यते हि । पश्वा न तायुमिति द्वैपदम् (आ ८-१२) इति ॥ तत्र पश्वेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । पश्वा दश पराशरः शाक्त्यो द्वैपदं तदिति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते । वसिष्ठस्य सुतः शुक्तिः शक्तेः पुत्रः पराशर इति । द्विपदा विराट् छन्दः । विंशतिका द्विपदा विराजः । अनु १२-८ । इति हि तल्लक्षणम् । अग्निर्देवता । परमाग्नेयमैन्द्रादिति परिभाषितम् । पश्वा न तायुमित्यारभ्येत्था हीत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । द्वैपदं तदित्युक्तत्वादिदमादीन षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि ॥ दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात्पूर्वमेतद्द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतं ॥
“[1-2] The firm and plural cid divinites followed you, Agni, by your footmarks, when hiding in the hollow (of the water), like a thief (who has stolen) an animal; you, claiming oblations, and bearing them to the gods; all the deities who are entitled to worship, sit down near to you.”
ONE-MINDED, wise, they tracked thee like a thief lurking in dark cave with a stolen cow:
Thee claiming worship, bearing it to Gods: there nigh to thee sate all the Holy Ones.
1 Thee who hidest thyself in secret like a thief with an animal 2 (which he has stolen) — who hadst harnessed 3 adoration and carriedst adoration —
Hiding in secret like a thief with livestock,
yoking homage, conveying homage:
Dir nahten einig, – die weisen schreitend, wie einem Viehdieb, – der sich versteckt hält, Die hehren alle, – um dich sich setzend, Der Andacht anschirrt – und Andacht fähret.
Ihm, der heimlich davongeht wie der Dieb mit dem Vieh, der die Anbetung an seinen Wagen spannt, der Anbetung fährt
स॒जोषा॒ धीरा॑: प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
स॒जोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥
धीराः मेधाविनो देवाः सजोषाः समानप्रीतयः सन्तो हे अग्ने त्वां पदैः मार्गे पादकृतैर्लाञ्छनैः अनु ग्मन् अन्वगमन् । कीदृशम् । पश्वा अपहृतेन पशुना सह वर्तमानं तायुं न । तायुरिति स्तेननाम । यथा स्तेनः परकीयं पश्वादिधनमपहृत्य दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत् । गुहा चतन्तं अब्रूपायां गुहायां गच्छन्तं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते-- ’ स निलायत सोऽपः प्राविशत् ' (तै. सं. २. ६. ६. १ ) इति । यद्वा । अश्वत्थगुहायां वर्तमानम्। श्रूयते च -– अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् ' ( तै. ब्रा. १. १. ३. ९ ) इति । तथा नमो युजानं हविर्लक्षणमन्नमात्मना संयुजानं नमो वहन्तं देवेभ्यः प्रत्तं हविर्वहन्तम् । यजत्राः यजनीयाः विश्वे सर्वे देवा हे अग्ने त्वा त्वाम् उप सीदन् समीपं प्राप्नुवन् ददृशुरित्यर्थः । पश्वा । तृतीयैकवचनस्य ' जसादिषु च्छन्दसि वावचनम् ' इति नाभावाभावः । ‘उदात्तयण: ' इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठात् अङ्गप्रत्ययान्तः । वृषादिषु पाठादाद्युदात्तत्वम् ।' सुपा सुलुक्' इति सप्तम्या लुक् । युजानम् । शानचि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । सजोषाः । ‘ जुषी प्रीतिसेवनयोः'। समानं जुषन्त इति सजोषसः । ‘ समानस्य च्छन्दसि° ' इति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इति जसः सुः । ग्मन् । गमेर्लुङि ‘ मन्त्रे घस ' इति च्लेर्लुक् ।' गमहन° ' इत्यादिना उपधालोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । यजत्राः ।“ अमिनक्षि' इत्यादिना अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
The Gods approached the ways of holy Law; there was a gathering vast as heaven itself.
The waters feed with praise the growing Babe, born nobly in the womb, the seat of Law.
The wise unanimously followed by thy foot-marks 1. All (gods) deserving worship (reverentially) sat down near thee.
(You) did the clever, of one accord, follow along your tracks;
all those worthy of the sacrifice reverently approached you.
Dir nahten einig, – die weisen schreitend, wie einem Viehdieb, – der sich versteckt hält, Die hehren alle, – um dich sich setzend, Der Andacht anschirrt – und Andacht fähret.
ihm gingen die Weisen einträchtig auf seinen Spuren nach. Dir nahten alle Opferwürdigen.
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
ऋ॒तस्य॑ । दे॒वाः । अनु॑ । व्र॒ता । गुः॒ । भुव॑त् । परि॑ष्टिः । द्यौः । न । भूम॑ ॥
Sayana bhashya empty
“[3-4] The gods followed the traces of the fugitive; the search spread everywhere, and earth became like heaven; the waters swelled (to conceal him), who was much enlarged by praise, and was manifested as it were in the womb in the waters, the source of sacrificial food.”
Like grateful food, like some wide dwelling place, like a fruit-bearing hill, a wholesome stream.
Like a steed urged to run in swift career, rushing like Sindhu, who may check his course?
The gods followed the laws of Rita. There was an encompassing as the heaven (encompasses) the earth 1.
The gods followed the commandments of truth.
Like heaven (enclosing) the earth was his enclosing.
Die Götter folgten – des Opfers Werken, umgeben rings es – wie Erd' der Himmel; Die Wasser nähren – mit Lob das Kindlein, das schöngeborne – im Schooss des Opfers.
Die Götter befolgten die Gebote der Wahrheit. Man hielt ihn eingeschlossen wie der Himmel die Erde umschließt
वर्ध॑न्ती॒माप॑: प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥
वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥
‘उक्त एवार्थः स्पष्टीक्रियते । देवाः ऋतस्य गतस्य पलायितस्याग्नेः व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाणि अनु गुः अन्वेष्टुमगमन् । तदनन्तरं परिष्टिः परितः सर्वतोऽन्वेषणं भुवत् अभवत् । भूम भूमिरप्यग्नेरन्वेष्टृभिर्देवैः द्यौर्न स्वर्ग इवाभूत् । इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ताः' इत्यर्थः । आपः अब्देवताः ईम् एनमुदके प्रविष्टमग्निं वर्धन्ति प्रवर्धयन्ति । यथा देवा न पश्यन्ति तथारक्षन्नित्यर्थः । कीदृशम् । पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । ऋतस्य योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले गर्भे गर्भस्थाने मध्ये सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनन्तरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकं -–‘स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीत् ' (तै. सं. २. ६. ६. १ ) इति ॥ व्रता। ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । गुः । ‘ इण् गतौ । इणो गा लुङि' इति गादेशः । गातिस्था' इति सिचो लुक् । आतः' इति झेर्जुस् । ‘ उस्यपदान्तात् ' इति पररूपत्वम् । परिष्टिः । ‘ इषु इच्छायाम्' । क्तिनि “ तितुत्र ' इति इट्प्रतिषेधः । शकन्ध्वादित्वात्पररूपत्वम् (पा. सू. ६. १. ९४. ४) । ‘तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । भूम । सुपां सुलुक्' इति सोः डादेशः । ह्रस्वश्छान्दसः । वर्धन्ति । छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । ‘पन स्तुतौ ' । औणादिको भावे उप्रत्ययः । सुशिश्विम् । ‘ टुओश्वि गतिवृद्ध्योः । ‘ आदृगमहनजनः० ' इत्यत्र ' उत्सर्गश्छन्दसि ' (पा. सू. ३. २. १७१. २) इति वचनात् किप्रत्ययः । वचिस्वपि ' इत्यादिना संप्रसारणम् । लिङ्वद्भावात् द्विर्भावे ‘बहुलं छन्दसि ' इति उकारस्य इत्वम् । छान्दसो यणादेशः । ‘ सुः पूजायाम् ' ( पा. सू. १. ४. ९४ ) इति सोः कर्मप्रवचनीयत्वम् । ‘स्वती पूजायाम् ' ( पा. म. २. २. १८. ४ ) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।
Kin as a brother to his sister floods, he eats the woods as a King eats the rich.
When through the forest, urged by wind, he spreads, verily Agni shears the hair of earth.
In the lap, in the womb of Rita, the waters nourish the fine child with praise, him who is well born.
With wonder the waters strengthen the lovely child,
well-begotten in the lap of truth, in its womb.
Die Götter folgten – des Opfers Werken, umgeben rings es – wie Erd' der Himmel; Die Wasser nähren – mit Lob das Kindlein, das schöngeborne – im Schooss des Opfers.
ihn ziehen die Wasser groß, der unter Beifall sich schön entwickelt, aus dem Schoße, dem Mutterleib der Zeit schön geboren.
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म॑ । क्षोदः॑ । न । श॒म्ऽभु ॥
Sayana bhashya empty
“[5-6] Agni is grateful as nourishment, vast as the earth, productive (of vegetable food), as a mountain, delightful as water; he is like a horse urged to a charge in battle and like flowing waters; who can arrest him?”
Like a swan sitting in the floods he pants wisest in mind mid men he wakes at morn.
A Sage like Soma, sprung from Law, he grew like some young creature, mighty, shining far.
Like good fortune, like a broad abode, like the fertile hill 1 like the refreshing stream,
Like thriving that brings delight, like a broad (place of) peaceful dwelling, like a mountain a source of benefit, like a gush (of water) that brings blessings;
Wie schöne Nahrung, – wie weiter Wohnsitz, wie Berge thalreich, – wie Ströme heilvoll, Wie auf der Rennbahn – ein Ross hinschiessend, wie Meere wogend – wer mag ihn hemmen?
Erfreulich wie der Vermögenszuwachs, wie ein ausgedehnter Wohnsitz, eine Nutzquelle wie ein Berg, wohltätig wie die Wasserflut
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्त॒: सिन्धु॒र्न क्षोद॒: क ईं॑ वराते ॥
अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । इ॒म् । व॒रा॒ते॒ ॥
रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिव अग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्य अग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गन्तव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे हविर्भिः प्राप्यते इति भावः। पृथ्वी विस्तीर्णा क्षितिर्न भूमिरिव अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुञ्जते तद्वदग्नावपि पचन्तः सर्वे भुञ्जते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः स्वर्गफलं भुञ्जते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान् प्राणिनो भुनक्ति स्वकीयफलमूलादिदानेन पालयति तद्वदयमपि पापादनुष्ठातॄन् प्रमुञ्चति । तथा चाम्नायते---‘अग्निर्मा तस्मादेनसः प्र मुञ्चतु' ( तै. सं. १. ८. ५. ३) इति । शंभु सुखकरं क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे अत्यो न सततगमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावः । अपि च सिन्धुर्न क्षोदः । स्यन्दनशीलमुदकमिव अयमपि शीघ्रगामी । यथा निम्नप्रदेशाभिमुखो जलप्रवाहो दुर्निर्वारः तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मात् ईम् एनमग्निं कः वराते को वारयेत् । कोऽपि वारयितुं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः। रण्व्यते' प्राप्यते इति रण्वः। ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्मणि पचाद्यच् । भुज्म । ‘भुज पालनाभ्यवहारयोः । इषियुधीन्धि°' इति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुक्' इति सोर्लुक् । अज्मन् । “ अज गतिक्षेपणयोः ' । मनिनि वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४. ५६. २ ) इति वचनात् वीभावाभावः । ‘ सुपां सुलुक्' इति सप्तम्या लुक् । सर्गप्रतक्तः । ‘ सृज विसर्गे ' इत्यस्मात् घञन्तः सर्गशब्द आद्युदात्तः । तञ्चु गतौ । अस्मादन्तर्भावितण्यर्थात् निष्ठायां ‘ यस्य विभाषा ' इति इट्प्रतिषेधः । अनिदिताम्' इति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अन्तर्भावितण्यर्थात् लेटि लेटोऽडाटौ' ति आडागमः । व्यत्ययेन शप् । 'वैतोऽन्यत्र ' ( पा. सू. ३. ४.९६ ) इति ऐत्वस्य विकल्पितत्वादभावः ॥
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥
Like a racer urged forward in the race, like the rapids of the Sindhu 1 — who can hold him back?
Like a steed on its course, launched in a surge,
like a river (sending) its gush: who can obstruct him?
Wie schöne Nahrung, – wie weiter Wohnsitz, wie Berge thalreich, – wie Ströme heilvoll, Wie auf der Rennbahn – ein Ross hinschiessend, wie Meere wogend – wer mag ihn hemmen?
pfeilschnell wie ein Rennpferd auf der Rennbahn, wie die Stromflut
जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
जा॒मिः । सिन्धू॑नाम् । भ्राता॑ऽइव । स्वस्रा॑म् । इभ्या॑न् । न । राजा॑ । वना॑नि । अ॒त्ति॒ ॥
Sayana bhashya empty
“[7-8] He is the kind kinsman of the waters, like a brother to his sister; he consumes the forest as a rājā (destroys) his enemies; when excited by the wind, he traverses the woods, and shears the hairs of the earth.”
जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
(He is) the kinsman of the rivers, as a brother of his sisters. He eats the forests as a king (eats, i. e. takes the wealth of) the rich 1.
Akin to the rivers, like a brother to his sisters,
(yet,) like a king his vassals, he devours the wood.
Verwandt den Fluten, – der Schwester Bruder, ausbeutend Hölzer, – wie Herrn die Diener; Wenn windgejagt er – durchstürmt die Wälder, dann schneidet Agni – der Erde Haar
Den Flüssen verschwistert, wie der Bruder den Schwestern; wie der König die Reichen frißt er die Hölzer auf
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥
सिन्धूनां स्यन्दनशीलानामपामयमग्निः जामिः बन्धुः । तासामुत्पादकत्वात्। तथा चाम्नातम्’ अग्नेरापः ' (तै. आ. ८. १) इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बन्धुर्बभूवेत्यर्थः । तत्र दृष्टान्तः । स्वस्रां स्वसॄणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निः वनानि महान्त्यरण्यानि अत्ति भक्षयति । दहतीत्यर्थः। तत्र निदर्शनम् । राजा इभ्यान्न भियं यन्तीति नैरुक्तव्युत्पत्त्या इभ्याः शत्रवः । तान् यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः। तान् यथा धनमपहरन् राजा हिनस्ति तद्वदित्यर्थः । अपि च यत् यदा वातजूतः वातेन प्रेरितः सन् वना वनान्यरण्यानि व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीम् अग्निर्ह असावग्निरेव पृथिव्याः भूमेः संबन्धीनि रोम औषधिरूपाणि रोमाणि दाति छिनत्ति। भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छान्दसः । अस्थात् । लुङि ‘गातिस्था' इति सिचो लुक् । दाति । ‘दाप् लवने '। अदादित्वात् शपो लुक् ॥
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
When he has spread through the forests, driven by the wind, Agni shears the hair of the earth.
When, sped by the wind, he has spread out through the wood,
Agni cuts the hair of the earth.
Verwandt den Fluten, – der Schwester Bruder, ausbeutend Hölzer, – wie Herrn die Diener; Wenn windgejagt er – durchstürmt die Wälder, dann schneidet Agni – der Erde Haar ab.
wenn er vom Winde getrieben sich im Holze ausbreitet, mäht Agni das Haar der Erde.
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
श्वसि॑ति । अ॒प्ऽसु । हं॒सः । न । सीद॑न् । क्रत्वा॑ । चेति॑ष्ठः । वि॒शाम् । उ॒षः॒ऽभुत् ॥
Sayana bhashya empty
“[9-10] He breathes amidst the waters like a sitting swan; awakened at the dawn, he restores by his operations consciousness to men; he is a creator, like Soma; born from the waters (where he lurked) like an animal with coiled-up limbs, he became enlarged and his light (spread) afar.”
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
Sitting in the waters he hisses like a swan. (He is) most famous by his power of mind, he who belongs to the clans, awakening at dawn.
He hisses like a wild goose sitting in the waters;
awakening at dawn, he is the most conspicuous to the clans by his
intention.
Gleich einem Schwane – im Wasser zischt er, sehr klug an Einsicht – früh wach bei Menschen, Wie Soma waltend, – nach Brauch entsprossen, wie junges Füllen, – weitleuchtend, kräftig.
Er zischt dasitzend wie der Schwan im Wasser, durch Einsicht ausgezeichnet, der Frühwache der Ansiedelungen
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभा॑: ॥
सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥
अयमग्निर्देवेभ्यः पलायितः सन् अप्सु उदकेषु श्वसिति प्राणिति । निगूढो वर्तते इत्यर्थः । तत्र दृष्टान्तः । हंसो न सीदन् । उदकमध्ये उपविशन् हंस इव । कीदृशोऽग्निः । क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठः अतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अन्धकारावृतं सर्वमग्नेः प्रकाशाज्जानन्ति । उषर्भुत् उषस्युषःकालेऽग्निहोत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । ‘ सोमो वा ओषधीनां राजा ' ( तै. सं. ६. १. ९. १; तै. ब्रा. ३. ९. १७. १ ) इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तिरीयकम्- अग्निरन्नादोऽन्नपतिः ' ( तै. ब्रा. २. ५. ७. ३ ) इति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम्’ एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः' इति । ऋतप्रजातः । ऋतमित्युदकनाम । ऋतादुदकात् प्रादुर्भूतः पशुर्न शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन् विभुः प्रभूतः संपन्न: । यद्वा शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभूतावयवो जात इत्यर्थः । दूरेभाः । दूरे विप्रकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसतीति पूर्वेण संबन्धः । श्वसिति । ‘ श्वस प्राणने ' । अदादित्वात शपो लुक् । रुदादिभ्यः सार्वधातुके' ( पा. सू. ७. २. ७६ ) इति इडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः । उषसि बुध्यते इत्युषर्भुत् ।' बुध अवगमने '। क्विप् च ' इति क्विप् । ‘ एकाचो बशः° ' इति भष्भावः । ‘ अहरादीनां पत्यादिषूपसंख्यानम् ' (पा, म. ८. २. ७० ) इति सकारस्य रेफादेशः । शिश्वा । ' शो तनूकरणे' । ‘ आदेचः' इति आत्वम् । शः कित्सन्वच्च ' ( उ. सू. १. २० ) इति उप्रत्ययः । सन्वद्भावात् द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावात् “ आतो लोप इटि च' इति आकारलोपः । प्रथमपक्षे ' सुपां सुलुक्' इति सोः आकारः । द्वितीये तु पूर्ववत् नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलम्' इति बहुव्रीहावपि बहुलवचनात् अलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
A performer of worship like Soma, the god born from Rita, like a young (?) 1 beast, far-extending, far-shining.
Like soma, a ritual expert, begotten of truth;
ranging widely like livestock with their young, far-radiant.
Gleich einem Schwane – im Wasser zischt er, sehr klug an Einsicht – früh wach bei Menschen, Wie Soma waltend, – nach Brauch entsprossen, wie junges Füllen, – weitleuchtend, kräftig.
wie Soma ein Meister, rechtzeitig geboren; wie die Herde durch das Jungvieh sich mehrend, weithin scheinend.