र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
र॒यिः । न । चि॒त्रा । सूरः॑ । न । स॒म्ऽदृक् । आयुः॑ । न । प्रा॒णः । नित्यः॑ । न । सू॒नुः ॥
रयिरिति दशर्चं द्वैपदमध्ययनतः पञ्चर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम् । अनुक्रान्तं च । रयिरिति ॥ विनियोगो लैङ्गिकः ॥
“[1-2] Agni who is like wondrous wealth, like the all-surveying Sun, like vital breath, like a well-conducted son, like a rider-bearing steed, like a milk-yielding cow, who is pure and radiant, consumes the forests.”
LIKE the Sun's glance, like wealth of varied sort, like breath which is the life, like one's own son,
Like a swift bird, a cow who yields her milk, pure and refulgent to the wood he speeds.
Like unto excellent wealth, like unto the shine of the sun, like unto living breath, like unto one's own 1 son.
Glittering like wealth, like the sight of the sun,
like life-breath, like one’s own son;
Wie schöner Reichthum, – wie Sonne strahlend, wie Hauch und Leben – wie eigner Sohn lieb; Wie schneller Vogel – eilt ins Gehölz er, wie Milch die Kuh lässt, – hellstrahlend, leuchtend.
Wie ansehnlicher Reichtum, wie der Sonne Anblick, wie der Lebenshauch, wie der leibliche Sohn
तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥
तक्वा॑ । न । भूर्णिः॑ । वना॑ । सै॒स॒क्ति॒ । पयः॑ । न । धे॒नुः । शुचिः॑ । वि॒भाऽवा॑ ॥
अयमग्निः रयिर्न धनमिव चित्रा चायनीयो विचित्ररूपो वा सूरो न सूर्य इव संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता आयुर्न प्राणः आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव' प्रियतमः । यद्वा । यथा प्राणवायुः आयुः जीवनमवस्थापयति । तथा चाम्नायते-’ यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः' (कौ.उ.३.२) इति । एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता। नित्यः न सूनुः नित्यो ध्रुवः पुत्र इव प्रियकारी। यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता । तथा चाम्नायते-’ पुत्रः पित्रे लोककृज्जातवेदः' (तै. ब्रा. ३. ७. ७. १०) इति । तक्वा न गतिमानश्व इव भूर्णिः भर्ता । यथाश्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः। पयो न धेनुः पय इव प्रीणयिता शुचिः दीप्तः विभावा विशिष्टप्रकाशयुक्तः । एवंगुणविशिष्टोऽग्निः वना वनान्यरण्यानि सिषक्ति दग्धुं समवैति सेवते वा ॥ चित्रा । ‘सुपां सुलुक् ' इति सोः पूर्वसवर्णदीर्घत्वम् । नित्यः ।' नेर्ध्रुवे ' ( पा. म. ४. २. १०४ ) इति त्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्वे उपसर्गस्वर एव शिष्यते । तक्वा । ‘ तक हसने ' । गतिकर्मसु पठितत्वादत्र गत्यर्थः । तकति गच्छतीति तक्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । भूर्णिः । ‘ घृणिः पृश्निः' इत्यादौ भरतेर्निप्रत्ययान्तो निपातितः ॥
He offers safety like a pleasant home, like ripened corn, the Conqueror of men.
Like a Seer lauding, famed among the folk; like a steed friendly he vouchsafes us power.
Like unto a quick takvan 1 he (Agni) holds the wood, like milk, like a milch cow 2, bright and shining.
Like a swooping (bird), ever restless, he clings to the wood;
like a milk-cow (yielding) milk, (he is) blazing and widely radiant.
Wie schöner Reichthum, – wie Sonne strahlend, wie Hauch und Leben – wie eigner Sohn lieb; Wie schneller Vogel – eilt ins Gehölz er, wie Milch die Kuh lässt, – hellstrahlend, leuchtend.
wie ein flüchtiges Raubtier sucht er die Wälder auf, wie die Kuhmilch hell, glänzend.
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नाम् ॥
दा॒धार॑ । क्षेम॑म् । ओकः॑ । न । र॒ण्वः॑ । यवः॑ । न । प॒क्वः । जेता॑ । जना॑नाम् ॥
Sayana bhashya empty
“[3-4] Like a secure mansion, he proects property; he (nourishes people) like barley; he is the conqueror of (hostile)) men; he is like a ṛṣi, the praiser (of the gods), eminent amongst (devout) person ns; as a spirited horse (goes to battle), he repairs delighted to the hall of sacrifice; may be bestow upon us food.”
With flame insatiate, like eternal might; caring for each one like a dame at home;
Bright when he shines forth, whitish mid the folk, like a car, gold-decked, thundering to the fight.
He holds safety, pleasant like a homestead, like ripe barley, a conqueror of men,
Delightful like a home, he maintains peace;
ripe like grain, a conqueror of peoples.
Behagen schafft er, – hold wie ein Wohnhaus, wie reife Gerste, – der Männer Sieger, Wie Sänger rauschend, – gerühmt bei Menschen, wie lieber Renner – verschafft er Labung.
Er sichert die Ruhe, behaglich wie das Heim, wie reifes Korn, der Besieger der Völker.
ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥
ऋषिः॑ । न । स्तुभ्वा॑ । वि॒क्षु । प्र॒ऽश॒स्तः । वा॒जी । न । प्री॒तः । वयः॑ । द॒धा॒ति॒ ॥
अयमग्निः क्षेमं लब्धस्य धनस्य रक्षणं दाधार धारयति । स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः । ओको न निवासस्थानं गृहमिव रण्वः रमणीयः । यद्वा । गन्तव्यः । गृहवत् सर्वैः प्राप्यते इत्यर्थः। यवो न यव इव पक्वः । यथा पक्वो यव उपभोगयोग्यः भवति तद्वदग्निरपि पाकादिकार्यहेतुतया उपभोग्यः इत्यर्थः । जनानां जेता शत्रुजनानां मध्येऽभिभविता ऋषिर्न मन्त्रद्रष्टा ऋषिरिव स्तुभ्वा देवानां स्तोता विक्षु यजमानलक्षणेषु मनुष्येषु प्रशस्तः प्रख्यातः वाजी न अश्व इव प्रीतः हर्षयुक्तः । यथाश्वो हर्षयुक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः । एवंभूतोऽग्निः वयः अन्नं दधाति दधातु । अस्मभ्यं ददात्वित्यर्थः । वय इत्यन्ननाम। ‘ वयः क्षद्म' इति तन्नामसु पाठात् ॥ दाधार । तुजादीनाम् ' इति अभ्यासस्य दीर्घत्वम् । क्षेमम् । क्षियति निवसत्यनेनेति क्षेमः । ‘ अर्तिस्तुसु ' इत्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । रण्वः । ‘ रवि धवि गत्यर्थाः । अस्मात् कर्मणि कप्रत्ययः । इदित्त्वात् नुम् । जेता । तृनन्त आद्युदात्तः । जनानाम् । यतश्च निर्धारणम् ' ( पा. सू. २. ३. ४१ ) इति निर्धारणे षष्ठी, नेयं कर्मणि षष्ठी इति ‘न लोकाव्ययनिष्ठा । इति षष्ठीप्रतिषेधो न भवति । स्तुभ्वा। स्तोभतिः स्तुतिकर्मा । ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप्॥
He strikes with terror like a dart shot forth, e'en like an archer's arrow tipped with flame;
Master of present and of future life, the maidens' lover and the matrons' Lord.
Like a Rishi uttering (sacred) shouts, praised among the clans; like a well-cared-for race-horse 1, Agni bestows vigour.
Having rhythm like a seer, lauded among the clans;
well treated like a winning horse, he confers vitality.
Behagen schafft er, – hold wie ein Wohnhaus, wie reife Gerste, – der Männer Sieger, Wie Sänger rauschend, – gerühmt bei Menschen, wie lieber Renner – verschafft er Labung.
lobsingend wie ein Rishi, unter allen Völkern gefeiert, wie ein freudiges Streitroß leiht er die Kraft.
दु॒रोक॑शोचि॒: क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥
दु॒रोक॑ऽशोचिः॑ । क्रतुः॑ । न । नित्यः॑ । जा॒याऽइ॑व । योनौ॑ । अर॑म् । विश्व॑स्मै ॥
Sayana bhashya empty
“[5-6] Agni of unattainable brightness, is like a vigilant sacrificer; he is an ornament to all (in the sacrificial chamber), like a woman in a dwelling; when he shines with wonderful lustre, he is like the white (sun) or like a golden chariot amongst men, resplendent in battle.”
To him lead all your ways: may we attain the kindled God as cows their home at eve.
He drives the flames below as floods their swell: the rays rise up to the fair place of heaven.
He to whose flame men do not grow accustomed 1, who is like one's own mind 2, like a wife on a couch, enough for all (happiness).
Whose blaze is beyond domestication like one’s own will;
like a wife in the lap, enough for anyone.
Nicht leicht entzündbar, – wie Kraft beständig, wie Frau im Hause – bereit für jeden; Hell, wenn er aufstrahlt – wie Licht in Häusern, wie goldner Wagen – in Schlachten eilend.
Dessen Flamme schwer heimisch wird, und doch ist er eingeboren wie die Einsicht, für jeden bereit wie die Frau auf dem Lager
चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
चि॒त्रः । यत् । अभ्रा॑ट् । श्वे॒तः । न । वि॒क्षु । रथः॑ । न । रु॒क्मी । त्वे॒षः । स॒मत्ऽसु॑ ॥
दुरोकशोचिः दुष्प्रापतेजाः क्रतुर्न नित्यः। क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा सः कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । योनौ गृहे वर्तमाना जायेव योषिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निः विश्वस्मै सर्वस्मै यष्टृजनाय अरम् अलं भूषणं भवति । यथा जायया गृहमलंकृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सत् दृश्यते इत्यर्थः । चित्रः चायनीयो विचित्रदीप्तिर्वा यत् यदायमग्निः अभ्राट् भ्राजते तदानीं श्वेतो न शुभ्रवर्ण आदित्य इव भवति। रात्रौ हि अहनि सूर्य इवाग्निः' प्रकाशको भवति । विक्षु प्रजासु रथो न रथ इव रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः समत्सु संग्रामेषु त्वेषः दीप्तः । एवंभूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः ॥ दुरोकशोचिः । ‘ उच समवाये । ‘ ईषद्दुःसुषु° ' इति कृच्छ्रार्थे खल् । बहुलवचनात् कुत्वम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । दुरोकं शोचिस्तेजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरम् । वालमूल° ' ( पा. म. ८. २. १८) इत्यादिना लकारस्य रेफादेशः । अभ्राट् । ‘ भ्राजृ दीप्तौ ' । लङि व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिषत्वे जश्त्वम्। अडागम उदात्तः । यद्वृत्तयोगादनिघातः। समत्सु । समानं माद्यन्त्येष्विति समदः संग्रामाः । औणादिकः अधिकरणे क्विप्। समानस्य च्छन्दसि ' इति सभावः । यद्वा । सम्यगत्ति भक्षयति वीरानिति समत् । संपूर्वादत्तेः ‘क्विप् च ' इति क्विप् ॥
चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
When the bright (Agni) has shone forth, he is like a white (horse [?]) 1 among people, like a chariot with golden ornaments, impetuous in fights.
When, glittering, he has flashed like a white (horse) among the clans, like a brilliant chariot (he is) dazzling in combats.
Nicht leicht entzündbar, – wie Kraft beständig, wie Frau im Hause – bereit für jeden; Hell, wenn er aufstrahlt – wie Licht in Häusern, wie goldner Wagen – in Schlachten eilend.
Wenn er prächtig erglänzte wie ein Schimmel unter dem Volke, wie ein goldverzierter Wagen in den Kämpfen wutentbrannt.
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
सेना॑ऽइव । सृ॒ष्टा । अम॑म् । द॒धा॒ति॒ । अस्तुः॑ । न । दि॒द्युत् । त्वे॒षऽप्र॑तीका ॥
Sayana bhashya empty
“[7-8] He terrifies (his adversaries) like an army sent (against an enemy), or like the bright-pointed shaft of an archer. Agni, as Yama, is all that is born; as Yama, all that will be born; he is the lover of maidens, the husband of wives.”
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
Like an army which is sent forward he shows his vehemence, like an archer's shaft with sharp point.
Set loose like an army, he initiates an onslaught,
like the arrow of an archer with its dazzling point.
Entsandtem Speer gleich – erregt er Schrecken, wie Pfeil des Schützen – mit Flammenspitze; Zugleich Vergangnes, – zugleich Zukünft'ges, der Mädchen Freier, – der Frauen Gatte.
Wie ein losgelassenes Heer macht er Panik; wie das Geschoß des Schützen von glühendem Aussehen
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥
य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥
सृष्टा प्रेरिता सेनेव स्वामिना सह वर्तमाना भटसंहतिरिव अयमग्निः अमं शत्रूणां भयं दधाति विदधाति । करोतीत्यर्थः । यद्वा । सृष्टा सेनेव अमं बलं दधाति । स यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनान्तरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । त्वेषप्रतीका दीप्तमुखा अस्तुर्न दिद्युत् क्षेप्तुः संबन्धिनी इषुरिव । सो यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयते इत्यर्थः । अत्र निरुक्तं-- सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीका' ( निरु. १०. २१ ) इत्यादि । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इन्द्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम् । अस्मिन्नर्थे यास्केन मन्त्रब्राह्मणे दर्शिते-’ यमो ह जात इन्द्रेण सह संगतः । यमाविहेह मातरेत्यपि निगमो भवति' ( निरु. १०, २१ ) इति । यः जातः उत्पन्नो भूतसंघो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव। सर्वेषां भावानामाहुतिद्वारा अग्न्यधीनत्वात् । कनीनां कन्यकानां जारः जरयिता । यतो विवाहसमये अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा जनीनां जायानां कृतविवाहानां पतिः भर्ता । तथा चाख्यायते- अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोमः ईषदुपजातभोगेच्छां तां विश्वावसवे गन्धर्वाय प्रादात् । स च गन्धर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छत् ' इति । इममर्थं काचिदृक् स्पष्टं ब्रूते-'सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ' ( ऋ. सं. १०. ८५. ४१ ) इति । यास्कस्त्वाह- तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति' ( निरु. १०. २१ ) इति । यद्वा । जनीनां पालयिता यतोऽयम् अनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तते इति सेना । ‘ वोपसर्जनस्य ' इति सभावः । बहुव्रीहिस्वरः । जनित्वम् । जनी प्रादुर्भावे'। ‘ कृत्यार्थे तवैकेन् इति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वम् । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक् च' (पा. सू. ३. ३. २०. ४ ) इति निपात्यते । कनीनाम् । कन्याशब्दात षष्ठ्येकवचने ‘ बहुलं छन्दसि ' इति बहुलग्रहणात् संप्रसारणम् । परपूर्वत्वम् । जनीनाम् । जन्यन्ते आसु इति जनयः स्त्रियः । ‘ इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥
He who is born is one twin; he who will be born 1 is the other twin—the lover of maidens, the husband of wives 2.
(The one) twin [=Sun?] has been born, (the other) twin [=Soma?] is what is to be born:
(the one [=Sun]) is the lover of girls [=Dawns?]; (the other [=Soma]) the husband of women [=cows’ (milk)?].
Entsandtem Speer gleich – erregt er Schrecken, wie Pfeil des Schützen – mit Flammenspitze; Zugleich Vergangnes, – zugleich Zukünft'ges, der Mädchen Freier, – der Frauen Gatte.
Als Yama ist er geboren, als Yama erzeugt er das künftige Geschlecht; der Buhle der Mädchen, der Gatte der Frauen.
तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥
तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥
Sayana bhashya empty
“[9-10] Let us approach that blazing Agni with animal and vegetable offerings, as cows hasten to their stalls. He has tossed about his flames (in every direction), like running streams of water; the rays comingle (with the radiance) visible in the sky.”
तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥
1 As cows go to their stalls, all that moves and we, for the sake of a dwelling, reach him who has been kindled.
With our movable (goods [=livestock]) and with our settled
household, we,
like cows (going) home, approach him, on your behalf, when he has been kindled.
Zu dem entflammten – gehn eure Wege, in unser Haus wir – wie heim die Kühe; Wie Strom die Fluten – trieb er herab sie, die Kühe brüllten, – wie Licht zu schauen.
Zu diesem eurem Agni kommen die Wanderer und wir mit der Hausgenossenschaft wie die Kühe nach Hause, wenn er angezündet ist
सिन्धु॒र्न क्षोद॒: प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒: स्व१॒॑र्दृशी॑के ॥
सिन्धुः॒ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्ते । गावः॑ । स्वः॑ । दृशी॑के ॥
वः इति व्यत्ययेन बहुवचनम्। हे अग्ने तं त्वां चराथा। चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्या आहुतिरपि चरथा इत्युच्यते । उपचारात् कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनया आहुत्या । वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतिः। पूर्ववत् तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरोडाशाद्याहुत्या च वयम् इद्धं प्रदीप्तमग्निं नक्षन्ते व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टान्तः। अस्तं न गावः । अस्तमिति गृहनाम। यथा गावो गृहं व्याप्नुवन्ति तद्वत् । अत्र यास्कः- ‘तं वश्चराथा चरन्त्या पश्वाहुत्या वसत्या च निवसन्त्यौषधाहुत्यास्तं यथा गाव आप्नुवन्ति तथाप्नुयाम' ( निरु. १०. २१) इति । अयमग्निः सिन्धुर्न क्षोदः स्यन्दनशीलमुदकमिव नीचीः नितरामञ्चतीः इतस्ततो नितरामुद्गच्छन्तीर्ज्वालाः प्र ऐनोत् प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वालाः दग्धव्यं प्रति गच्छन्तीति भावः । स्वः नभसि वर्तमाने दृशीके दर्शनीये तस्मिन्नग्नौ गावः गमनस्वभावा रश्मयः नवन्त संगच्छन्ते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकः अथक्प्रत्ययः । दीर्घश्छान्दसः । सुपां सुलुक् ' इति विभक्तेः आकारः । वसत्या । ‘ वहिवस्यर्तिभ्यश्चित्' (उ, सू. ४, ५०० ) इति अतिप्रत्ययः । ‘ उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । अस्तम् । अस्यते अस्मिन् सर्वमित्यस्तं गृहम् । ‘असिहसि' इत्यादिना तन्। 'तितुत्र' इति इट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । नक्षन्ते । नक्षतिर्व्र्याप्तिकर्मा । ' नक्ष गतौ । व्यत्ययेनात्मनेपदम् । चादिलोपे विभाषा ' इति निघाताभावः । नीचीः । निपूर्वात् ' अञ्चतेश्चोपसंख्यानम् ' ( पा. सू. ४. १. ६. २ ) इति डीप् ।' अचः' इति अकारलोपे ' चौ ' इति दीर्घत्वम् । ‘न्यधी च ' ( पा. सू. ६. २. ५३) इति गतेः प्रकृतिस्वरत्वम् । ऐनोत् । • इण् गतौ ' । अन्तर्भावितण्यर्थात् छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । “ दृशिर् प्रेक्षणे ' । “ अनिदृशिभ्यां च ' इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
सिन्धु॒र्न क्षोदः॒ प्र नीची॑रैनो॒न्नव॑न्त॒ गावः॒ स्व१॒॑र्दृशी॑के ॥
Like the flood of the Sindhu 1 he has driven forward the downwards-flowing (waters) 2. The cows lowed at the sight of the sun 3.
Like a river its gush, he has sent forth those [=butter offerings?] heading downward.
The cows cry out upon seeing the sun.
Zu dem entflammten – gehn eure Wege, in unser Haus wir – wie heim die Kühe; Wie Strom die Fluten – trieb er herab sie, die Kühe brüllten, – wie Licht zu schauen.
Wie die Stromflut die Wasser, hat er sie abwärts getrieben. Es brüllen die Kühe im Anblick der Sonne.