इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किण॑: । इन्द्रं॒ वाणी॑रनूषत ॥
इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ । इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥
गाथिनः गीयमानसामयुक्ता उद्गातारः इन्द्रम् इत् इन्द्रमेव बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना अनूषत स्तुतवन्तः । अर्किणः अर्चन-हेतु-मन्त्रोपेता होतारः अर्केभिः ऋग्रूपैर्-मन्त्रैः इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते वाणीः वाग्भिर्यजूरूपाभिः इन्द्रम् एव अनूषत ।
अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्-
'अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५. ४ ) इति। ‘ श्लोकः' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥
गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ' ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ' (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ' इति लुक् । 'पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः ।
अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ' पुंसि संज्ञायां घः प्रायेण ' (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति ।
अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः ।
वाणीः । ‘वृषादीनां च' ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च' ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ' वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा ।
अनूषत । ‘णु स्तुतौ ।' णो नः ' ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥
इन्द्रमिदिति। गाथिनः सामगा बृहद्बृहता साम्नेन्द्रमिदिन्द्रमेवानूषतास्तुवन्। ऋच् स्तुतावित्यस्माद्धातोरुत्पन्नोऽर्कशब्द ऋचमाचष्टे। अर्केभिग्भिरर्किणो बह्वृचा इन्द्रमस्तुवन्। वाणीरन्या अपि वाचो यजुरूपा इन्द्रमस्तुवन्।
“The chanters (of the Soma) extol Indra with songs, the reciters of the Ṛk with prayers, the priests of the Yajuṣ, with texts.”
इन्द्र॒ इद्धर्यो॒: सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ । इन्द्रो॑ व॒ज्री हि॑र॒ण्यय॑: ॥
इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चःऽयुजा॑ । इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥
इन्द्र इत् इन्द्र एव हर्योः हरिनामकयोरश्वयोः सचा सह युगपत् आ संमिश्लः सर्वतः सम्यग्मिश्रयिता । कीदृशोर्हर्योः । वचोयुजा । इन्द्रस्य वचनमात्रेण रथे युज्यमानयोः सुशिक्षितयोरित्यर्थः। अयम् इन्द्रः वज्री वज्रयुक्तः हिरण्ययः हिरण्मयः सर्वाभरणभूषित इत्यर्थः ॥ हर्योः । हरतः इति हरी । इन् । नित्त्वादाद्युदात्तः । 'सचा सह' ( निरु. ५. ५) इत्युक्तम् । संमिश्लः । मिश्रणं मिश्रः । मिश्रयतेर्घञ् (पा. सू. ३. ३. १८ ) । सम्यक् मिश्रो यस्यासौ संमिश्रः । लत्वं छान्दसम् । सम्यक् मिश्रयितेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वचोयुजा ॥ वचसा युज्येते इति वचोयुजौ । तयोः षष्ठीद्विवचनस्य ‘सुपां सुलुक्' इति आकारादेशः । युज्शब्दो धातुस्वरेणान्तोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । वज्री । वज्रमस्यास्ति । अत इनिठनौ' (पा. सू. ५. २. ११५) प्रत्ययस्वरः । हिरण्ययः । ‘ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि' (पा. सू. ६. ४. १७५ ) इति हिरण्यमयशब्दस्य मकारलोपो निपात्यते । अकारः प्रत्ययस्वरेण उदात्तः । पूर्वेण अनुदात्तेन सह ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तः ॥
“Indra, the blender of all things, comes verily with his steeds that are harnessed at his word; Indra, the richly-decorated, the wielder of the thunderbolt.”
Indra hath ever close to him his two bay steeds and word-yoked car,
Indra the golden, thunder-armed.
Indra, close-linked with his two fallow bays, (is mounted) on the two yoked by speech;
Indra is the golden wielder of the mace.
Indra mit seiner Füchse Paar, dem Wagen, der aufs Wort sich schirrt, der goldne Indra mit dem Blitz ,
Indra, der an dem Falbenpaar hängt, möge die aufs Wort sich schirrenden besteigen, Indra der Keulenträger, der goldige.
Это Индра связан с парой буланых коней.
(Пусть) с (нарядит своих коней), запрягаемых словом,
Индра-громовержец, золотистый!
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् ॥
इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से॑ । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि । वि । गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥
अयम् इन्द्रः दीर्घाय प्रौढाय निरन्तराय चक्षसे दर्शनाय दिवि द्युलोके सूर्यम् आ रोहयत् । पुरा वृत्रासुरेण जगति यत् आपातितं तमस्तन्निवारणेन प्राणिनां दृष्टिसिद्धयर्थमादित्यं द्युलोके स्थापितवानित्यर्थः । स च सूर्यः गोभिः स्वकीयरश्मिभिः अद्रिं पर्वतप्रमुखं सर्वं जगत् वि ऐरयत् विशेषेण दर्शनार्थं प्रेरितवान् प्रकाशितवानित्यर्थः । अथवा इन्द्रः एव गोभिः जलैर्निमित्तभूतैः अद्रिं मेघं व्यैरयत् विशेषेण प्रेरितवान् । पञ्चदशसंख्याकेषु रश्मिनामसु ' खेदयः किरणाः गावः ' ( नि. १. ५. ३ ) इति पठितम् । त्रिंशत्संख्याकेषु मेघनामसु ‘अद्रिः ग्रावा' (नि. १. १०.१ ) इति पठितम् ॥ दीर्घाय । प्रातिपदिकस्वरेणान्तोदात्तः । चक्षसे । चक्षेः ‘ सर्वधातुभ्योऽसुन्' ( उ. सू. ४. ६२८ ) इति असुन् । बहुलग्रहणात् ख्याञादेशाभावः । नित्त्वादाद्युदात्तः । सूर्यम् । सुवति प्रेरयतीति सूर्यः । ‘ षू प्रेरणे'। ‘धात्वादेः षः सः' । ‘राजसूयसूर्य ' (पा. सू. ३. १. ११४) इत्यादिना क्यप्प्रत्ययः, तस्य रुडागमश्च निपात्यते । क्यपः कित्त्वाद्गुणाभावः । पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । रोहयत् । रुहेः ण्यन्तात् लङि ‘बहुलं छन्दस्यमाङयोगेऽपि' ( पा. सू. ६. ४. ७५ ) इत्यडभावो निघातश्च । दिवि । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । अद्रिम् । अदिशदिभूशुभिभ्यः क्रिन्' (उ. सू. ४. ५०५) इति क्रिन्प्रत्ययः । अदन्ति पशवस्तृणादिकमत्र इति अद्रिः । नित्त्वादाद्युदात्तत्वम् । ऐरयत् ।' ईर गतौ' । ण्यन्तात् लङ् । निघातः ॥
“Indra, to render all things visible, elevated the sun in the sky, and charged the cloud with (abundant) waters.”
Indra hath raised the Sun on high in heaven, that he may see afar:
He burst the mountain for the kine.
Indra made the sun mount in heaven for the long view.
He propelled apart the rock with the cows (inside).
Die Sonne liess er, weit zu schaun, am Himmel steigen, er zerschlug Den Fels und liess die Kühe frei.
Indra ließ zu langandauerndem Schauer die Sonne am Himmel aufsteigen. Er sprengte den Fels mit den Rindern auf.
Индра поднял солнце на небо,
Чтоб долго можно было видеть (его).
Он расколол скалу с коровами (в ней).
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च । उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑: ॥
इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ । उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥
हे इन्द्र उग्रः शत्रुभिरप्रधृष्यस्त्वम् उग्राभिः अप्रधृष्याभिः ऊतिभिः अस्मद्विषयरक्षाभिः वाजेषु युद्धेषु नः अस्मान् अव रक्ष। तथा सहस्रप्रधनेषु च । सहस्रसंख्याकगजाश्वादिलाभयुक्तेषु महायुद्धेष्वपि रक्ष ॥ वाजेषु ।' वृषादीनां च ' (पा. सू. ६. १. २०३) इत्याद्युदात्तत्वम् । नोऽव । नसः सकारस्य रुत्वोत्वगुणेषु ' प्रकृत्यान्तःपादम् ' ( पा. सू. ६. १. ११५) इति प्रकृतिभावो न भवति अव्यपरे ' इति निषेधात् । अव । 'अव रक्षणे'। “ तिङ्ङतिङः' इति निघातः । यद्यपि सहस्रप्रधनेषु च अव इति अध्याहृतां क्रियामपेक्ष्य प्रथमायाः श्रूयमाणाया अव इति क्रियायाः ‘चवायोगे प्रथमा ' (पा. सू. ८. १. ५९) इति निघातनिषेधः प्राप्तः, तथापि वाजेषु इत्यत्र चकारस्य लुप्तत्वात् ' चादिलोपे विभाषा ' ( पा. सू. ८. १. ६३ ) इति निषेधस्य विकल्पितत्वादत्र निघातः प्रवर्तते । सहस्रशब्दः ‘ कर्दमादीनां च ' ( फि. सू. ५९ ) इति मध्योदात्तः । सहस्रप्रधनेषु वाजेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उग्रः।' उच समवाये । चस्य गः। ‘ ऋज्रेन्द्रा ' ( उ. सू. २. १८६ ) इति रन् । व्यत्ययेनान्तोदात्तः । ऊतिभिः । ऊतियूति° ' इत्यादिना क्तिन् उदात्तः ॥
“Invincible Indra, protect us in battles abounding in spoil, with insuperable defenceṣ ”
Help us, O Indra, in the frays, yea, frays, where thousand spoils are gained,
With awful aids, O awful One.
O Indra, help us when prizes and stakes of thousands (are set),
as the mighty one with mighty forms of help.
Hilf in den Schlachten, Indra, uns, im Kampf, der tausend Schätze bringt, Mit mächt'gen Hülfen, mächtiger!
Indra, steh uns in den Kämpfen um den Siegerpreis, und wo Tausend auf dem Spiel steht, bei als Gewaltiger mit gewaltigen Hilfen!
О Индра, помоги нам в состязаниях за награду,
И (там), где добыча – тысяча,
Сильный, с сильными подкреплениями!
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे । युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ । युज॑म् । वृ॒त्रेषु॑ । व॒ज्रिण॑म् ॥
वयम् अनुष्ठातारः महाधने प्रभूतधननिमित्तम् इन्द्रं हवामहे आह्वयामः । अर्भे अर्भके स्वल्पेऽपि धने निमित्तभूते सति इन्द्रं हवामहे । कीदृशमिन्द्रम् । युजं सहकारिणं समाहितं वा वृत्रेषु शत्रुषु धनलाभविरोधिषु प्राप्तेषु तन्निवारणाय वज्रिणं वज्रोपेतम् ॥ महाधनशब्दो यद्यपि संग्रामनामसु पठितस्तथापि महत् धनम् अत्र संग्रामे इति बहुव्रीहित्वे सति अन्तोदात्तत्वासिद्धेः नात्र तत् गृहीतम् । महाधने । महच्च तद्धनं चेति ‘समासस्य ' ( पा. सू. ६. १. २२३) इत्यन्तोदात्तः । अर्भे । अर्तिगॄभ्यां भन्' (उ. सू. ३. ४३२ )। नित्त्वादाद्युदात्तः । हवामहे । 'ह्वेञ् स्पर्धायां शब्दे च ' । ञित्त्वात् कर्त्रभिप्राये ( पा. सू. १. ३. ७२ ) आत्मनेपदम् । लटः स्थाने महिङ् (पा. सू. ३. ४. ७८ )। ‘टित आत्मनेपदानाम् ' (पा. सू. ३. ४. ७९ ) इति टेः एत्वम् । कर्तरि शप् ( पा. सू. ३. १. ६८)। ‘ह्वः संप्रसारणम्' ( पा. सू. ६. १. ३२ ) इत्यनुवृत्तौ बहुलं छन्दसि' (पा. सू. ६. १. ३४ ) इति संप्रसारणं वकारस्य उकारः । परपूर्वत्वम् । गुणावादेशौ । अतो दीर्घो यञि ' ( पा. सू. ७. ३. १०१ ) इति दीर्घत्वम् । तिङ्ङतिङः' इति निघातः । युजम् । युज समाधौ ' इत्यस्य क्विप् ।' युजेरसमासे' (पा. सू. ७. १. ७१ ) इति नुम् न भवति । स हि युजेः इति निर्देशात् इकाररहितस्य न भवति । ‘अनित्यमागमशासनम् ' ( परिभा. ९३. २ ) इति वा ‘ युजिर् योगे' इत्यस्यापि नुम् न भवति । वृत्रेषु । ' वृतु वर्तने' । प्रतिकूलतया वर्तन्ते इति वृत्राणि शत्रुकुलानि ।' स्फायितञ्चि°' (उ. सू. २. १७०) इत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । वज्रिणम् । अत इनिठनौ' ( पा. सू. ५. २. ११५ ) इति इनिः। प्रत्ययस्वरः ॥ ॥ १३ ॥
“We invoke Indra for great affluence, Indra for limited wealth; (our) ally, and wielder of the thunder-bolt against (our) enemies.”
In mighty battle we invoke Indra, Indra in lesser fight,
The Friend who bends his bolt at fiends.
Indra do we call upon when the stake is great and Indra when it’s small,
our mace-wielding yokemate amid obstacles.
Im grossen Kampfe rufen wir den Indra und im kleinen auch, den Freund, der auf die Feinde blitzt.
Indra rufen wir im großen Kampf, Indra im kleinen zum Bundesgenossen in der Feindeschlacht den Keulenträger.
Индру призываем мы в великой битве,
Индру – в малой
Как союзника при избиении врагов, (как) громовержца.
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि । अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
सः । नः॒ । वृ॒ष॒न् अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ । अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुतः ॥
हे सत्रादावन् अस्मदभीष्टानां सर्वेषां फलानां सह प्रदातः अतो व्रीह्यादिनिष्पत्यर्थं हे वृषन् वृष्टिप्रदेन्द्र नः अस्मदर्थम् अमुं दृश्यमानं चरुं मेघम् अपा वृधि उद्घाटय । तथैव अस्मभ्यम् अस्मदर्थम् अप्रतिष्कुतः प्रतिशब्दरहितः । यद्यत् अस्माभिर्याच्यते तत्र सर्वत्र नेति प्रतिशब्दं नोच्चारयति । अतोऽस्मद्विषये कदाचिदपि अप्रतिस्खलितः । एतदेवाभिप्रेत्य यास्क आह - ‘ अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा ' ( निरु. ६. १६) इति । वृषन् । आमन्त्रितनिघातः । अमुम् । प्रातिपदिकस्वरेणान्तोदात्तः । चरुम् । चरतीति चरुः ।“ भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' ( उ. सू. १. ७ ) इति उप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । सत्रादावन् । सत्राशब्दः सहार्थे । अभिमतफलजातं सकलं सह ददातीति सत्रादावा। ‘ आतो मनिन्क्वनिब्बनिपश्च' (पा. सू. ३. २. ७४) इति वनिप् । ‘ आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । पादादित्वान्न निघातः । अप । 'निपातस्य च' (पा. सू. ६. ३. १३६ ) इति दीर्घः । निपात आद्युदात्तः । वृधि। ‘वृञ् वरणे '। लोटः सिप् । तस्य ‘सेर्ह्यपिच्च' ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ स्वादिभ्यः श्नुः ' (पा. सू. ३. १. ७३) । तस्य ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति लुक् ।' श्रुशृणुपॄकृबृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । तस्य ङित्त्वात् पूर्वस्य गुणाभावः । निघातः । अस्मभ्यम् । अस्मच्छब्दात् 'भ्यसो भ्यम्' ( पा. सू. ७. १. ३० ) इति भ्यमादेशः । शेषे लोपः' (पा. सू. ७. २.९०) इति दकारलोपः। ‘ बहुवचने झल्येत्' ( पा. सू. ७. ३. १०३ ) इति एत्वं न भवति । अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य' ( पा. म. ७.१. ३० ) इत्युक्तम् । प्रातिपदिकस्वरेण स्म इत्यकार उदात्तः । ‘भ्यसोऽभ्यम्' इति अभ्यमादेशपक्षे “ शेषे लोपः' इति मपर्यन्तशेषस्य अद्शब्दस्य लोपः । तदा उदात्तनिवृत्तिस्वरेण अभ्यमः आदेः अकारस्योदात्तत्वम् ( पा. सू. ६. १. १६१ ) । अप्रतिष्कुतः केनचिदप्रतिशब्दितः । ‘ कुङ् शब्दे'। निष्ठा' ( पा. सू. ३. २. १०२ ) इति कर्मणि क्तप्रत्ययः । प्रतेः प्राक्प्रयोगः । पारस्करादेराकृतिगणत्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादेराकृतिगणत्वात् षत्वम् (पा. सू. ८. ३. ९८)। नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Shedder of rain, granter of all desires, set open this cloud. You are never uncompliant with our (requests).”
Unclose, our manly Hero, thou for ever bounteous, yonder cloud,
For us, thou irresistible.
You bull who give in every way, uncover yonder pot
for us, since you are one who cannot be repulsed.
Eröffne jenen Kessel uns, die Wolke, du der alles schenkt, O starker, unbezwinglicher!
Du Bulle, du Vollaufschenker, deck für uns jenen Speisetopf ohne Widerstreben auf!
О бык, тот котелок с едой,
О (ты,) дающий сполна, раскрой для нас,
(Ты,) не встречающий сопротивления!
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिण॑: । न वि॑न्धे अस्य सुष्टु॒तिम् ॥
तु॒ञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमाः॑ । इन्द्र॑स्य । व॒ज्रिणः॑ । न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥
तुञ्जेतुञ्जे तस्मिंस्तस्मिन् फलदातरि देवान्तरे ये स्तोमाः स्तोत्रविशेषाः उत्तरे उत्कृष्टाः सन्ति तैः स्तोमैः सर्वैरपि वज्रिणः वज्रयुक्तस्य अस्य इन्द्रस्य सुष्टुतिं योग्यां शोभनस्तुतिं न विन्धे न विन्दामि । इन्द्रस्यात्यन्तगुणबाहुल्येन देवान्तरेषूत्तमत्वेन प्रसिद्धान्यपि स्तोत्राणि न पर्याप्तानीत्यर्थः । एतामृचं यास्क एवं व्याचष्टे – तुञ्जस्तुञ्जतेर्दानकर्मणः। दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः' ( निरु. ६. १७-१८) इति ॥ तुञ्जेतुञ्जे । तुञ्जतिर्दानकर्मा इत्युक्तम् । ततः कर्तरि पचाद्यच् ( पा. सू. ३. १. १३४ )। ‘चितः' (पा. सू. ६. १.१६३ ) इत्यन्तोदात्तत्वम् । नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति द्विर्भावः। तस्य परमाम्रेडितम्' ( पा. सू. ८. १. २ ) इति द्वितीयस्याम्रेडितसंज्ञा । ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । दातरि दातरीत्यर्थः । निरुक्ते तु • दाने दाने' इत्यर्थतो व्याख्यानम् । उत्तरे । ‘ तॄ प्लवनतरणयोः '। भावे ‘ऋदोरप्' (पा. सू. ३. ३. ५७) । उच्छब्द उत्कृष्टवचनः । उत्कृष्टः तरो यस्येति बहुव्रीहिः । उच्छब्दो ‘निपाता आद्युदात्ताः' (फि. सू. ८० ) इत्याद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तोमाः ।' अर्तिस्तुसु° ' (उ. सू. १. १३७) इत्यादिना स्तोमशब्दो मनन्तो नित्त्वादाद्युदात्तः । विन्धे । वि लाभे'। लट् । स्वरितेत्त्वादात्मनेपदम् । उत्तमैकवचनमिट् (पा. सू. ३. ४. ७८ )। तुदादिभ्यः शः ' (पा. सू. ३. १. ७७)। ‘शे मुचादीनाम् ' ( पा. सू. ७. १. ५९ ) इति नुम् । दकारस्य व्यत्ययेन धकारः । अस्य । प्रकृतस्येन्द्रस्य परामर्शादन्वादेशे इदमोऽश् (पा. सू. २. ४. ३२)। शित्त्वात् सर्वादेशोऽनुदात्तः । सुष्टुतिम् । ‘ ष्टुञ् स्तुतौ'।' धात्वादेः षः सः । इति सत्वम् । ‘ स्त्रियां क्तिन् ' ( पा. सू. ३. ३. ९४ ) इति भावे क्तिन् । सु इति उदात्तेनोपसर्गेण प्रादिसमासः (पा. सू. २. २. १८)। ' उपसर्गात्सुनोति' (पा. सू. ८. ३. ६५) इत्यादिना षत्वम् । अत्र अव्ययपूर्वपदप्रकृतिस्वरत्वेन सोः प्राप्तमुदात्तत्वं बाधित्वा ‘ गतिकारकोपपदात्कृत्' इत्युत्तरपदप्रकृतिस्वरेण धातोरुदात्तत्वे प्राप्ते तदपवादत्वेन ‘तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इत्यनन्तरस्य गतिसंज्ञकस्य सोः एव उदात्तत्वेन भवितव्यम् । तत्तु मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ' ( पा. सू. ६. २. १५१ ) इत्युत्तरपदान्तोदात्तत्वेन बाध्यते । तथा च ‘ सुहवां सुष्टुती हुवे ' ( ऋ. सं. २. ३२. ४ ), ‘ वृष्णे चोदस्व सुष्टुतिम् ' ( ऋ. सं. ८. ७५. ६ ), ‘यास्ते राके सुमतयः ' ( ऋ. सं. २. ३२. ५ ) इत्यादौ अन्तोदात्तत्वमित्याहुः । यथा तु ‘ मन्क्तिन् ' इत्यादौ वृत्तौ उक्तं तथैव तन्न घटते इति लक्ष्यते । तत्र हि ‘ कारकाद्दत्तश्रुतयोरेवाशिषि ' ( पा. सू. ६. २. १४८ ) इत्यतः ‘कारकात्' इत्यनुवृत्तेः ' पाणिनिकृतिः इत्यादावेव ‘मन्क्तिन्' इत्यादिसूत्रमित्युक्तम् । कारकादित्येव । प्रकृतिः प्रहृतिः' (का. ६. २. १५१) इति च प्रत्युदाहृतम् । स्यादेतत् । स्तूयतेऽनयेति स्तुतिरिति क्तिना करणभूता ऋक् अभिधीयते । सुशब्देन च करणमेव विशेष्यते न धात्वर्थः । तथा चे सुष्टुतिरित्यत्र सुशब्दः कारकपर एव भविष्यति । प्रकृतिः प्रकृतिरित्यादौ तु प्रशब्दो धात्वर्थे विशेषणमेवेति तत्प्रत्युदाहरणोपपत्तिरिति । न । एवं सति सुशब्दस्य क्रियायोगाभावात् ' उपसर्गाः क्रियायोगे ' ( पा. सू. १. ४. ५९ ) इत्युक्ता उपसर्गसंज्ञा न स्याञ् । तथा च ‘ उपसर्गात्सुनोति सुवति' इत्यादिना षत्वं न स्यात् । ननु क्तिना करणमभिधीयते । क्रियासाधनं च करणम् । तथा च करणविशेषणस्यापि सुशब्दस्य करणान्तर्गतक्रियायोगादुपसर्गता भविष्यतीति । न । तथा सति यत्क्रियायुक्ताः तं प्रति उपसर्गसंज्ञका: ( पा. सू. १. ४. ६०. ३ ) इति करोत्यर्थमेव प्रति सोरुपसर्गता, न तु स्तुधात्वर्थं प्रतीत्यस्य षत्वं न स्यादेव । ननु स्तुधात्वर्थद्वारैव तत्करणस्य सुशब्दो विशेषणं भविष्यति। या हि शोभना स्तुतिस्तत्करणमपि शोभनमेवेति । एवं या स्तुधात्वर्थसंबन्धात् तं प्रति उपसर्गत्वेन षत्वमपि भविष्यति । तद्वारा करणविशेषणत्वात् कारकवचनोऽपि सुशब्दो भविष्यतीति वृत्त्यविरोधेनैव मन्क्तिनादिसूत्रस्य सुष्टुतिशब्दो विषयो भविष्यति । प्रकृतिः प्रहृतिरित्यत्र भावे क्तिन् प्रत्युदाहृतेति। न । तत्र प्रशब्दस्य करणपरत्वम्। करणे क्तिनुदाहरणेऽपि धात्वर्थमात्रविशेषणतैव विवक्षिता न तद्वारा प्रत्ययार्थविशेषणतापि इति तत्प्रत्युदाहरणोपपत्तिरिति । सुष्टुतिरित्यत्र पुनः क्तिनभिधेयकरणपर्यन्तं सुशब्दस्य व्यापार इत्युदाहरणतैव न प्रत्युदाहरणतेति । न । किमत्र सुशब्दः श्रुत्यैव प्रकृतिप्रत्ययार्थोभयविशेषणपरः, उत श्रुत्या एकं विशिनष्टि अर्थादितरदिति । यदाप्युभयपरत्वं तदापि किं यौगपद्येन उत क्रमेणेति । आद्ये प्रतिविशेष्यं विशेषणपदावृत्तिरिति प्रसङ्गः । द्वितीये विरम्यव्यापारापातः । न च शब्दबुद्धिकर्मणां विरम्यव्यापारः कस्यचित् दृष्टः इष्टो वा । अतो न श्रुत्या उभयपरत्वम् । अथैकत्र श्रुत्या तात्पर्यम् , अपरत्र तु अर्थादिति । तत्र धात्वर्थसंबन्धस्य आर्थिकत्वे षत्वासिद्धिः । प्रत्ययार्थसंबन्धस्य आर्थिकत्वे ‘मन्क्तिन्' इत्यादिस्वरासिद्धिः। आर्थिकेनापि कारकसंबन्धेवोदाहरणत्वाभिधाने प्रकृतिः प्रहृतिरित्यादिप्रत्युदाहरणं न स्यात् । श्रुत्या धात्वर्थमात्रसंबन्धस्यापि प्रशब्दस्यार्थात् तत्करणसंबन्धः केन वारयितुं शक्यते इत्येषा दिक् । अत इह प्रत्ययार्थमात्रसंबन्धपरत्वाङ्गीकारेण स्वरः सिध्यतु षत्वं तु छान्दसमस्तु । शोभना स्तुतिर्यस्यामिति बहुव्रीहिर्वा भवतु । एवं च ‘ नञ्सुभ्याम् ' इत्यन्तोदात्तं भविष्यति । अथवा सुष्टु स्तुवन्तीति सुष्टुतय इति करणभूता ऋचः स्तुतिशब्देनोच्यन्ते । क्तिच्क्तौ च संज्ञायाम् ' ( पा. सू. ३. ३. १७४ ) इति क्तिच्प्रत्यये सति चित्त्वादन्तोदात्तता भविष्यति । न च करणीभूतानामृचां कर्तृप्रत्ययेन क्तिचा कथमभिधानमिति वाच्यम् । काष्ठानि पचन्तीतिवत् तासामपि स्वव्यापारप्राधान्यविवक्षया करणत्वोपपत्तेरिति ॥
“Whatever excellent praises are given to other dignities, they are (also the due) of Indra the thunderer; I do not know his fitting praise.”
Still higher, at each strain of mine, thunder-armed Indra's praises rise:
I find no laud worthy of him.
The praises of mace-wielding Indra that go higher at every thrust— I cannot get enough of good praise for him.
Es steigen höher Stoss auf Stoss des Blitzers Indra Lieder auf, Nicht geht mir fehl sein Preisgesang.
Wenn bei jeder Schenkung die Loblieder auf den Keulenträger Indra immer höher gehen, ich kann mir doch in seinem Lobe nicht genug tun.
В каких порывах (вздымаются) высоко
Хвалы Индре-громовержцу --
Нет у меня недостатка в восхвалении его!
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा । ईशा॑नो॒ अप्र॑तिष्कुतः ॥
वृषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः इ॒य॒र्ति॒ । ओज॑सा । ईशा॑नः । अप्र॑तिऽस्कुतः ॥
वृषा कामानां वर्षितेन्द्रः ओजसा स्वकीयबलेनानुग्रहीतुं कृष्टी: मनुष्यान् इयर्ति प्राप्नोति । कीदृश इन्द्रः । ईशानः समर्थः अप्रतिष्कुतः प्रतिशब्दरहितः । याच्यमानं न परिहरतीत्यर्थः । इन्द्रस्य दृष्टान्तः । वंसगः वननीयगतिर्वृषभः यूथेव गोयूथानि यथा प्राप्नोति तद्वत् ॥ वृषा। ‘कनिन्युवृषितक्षिधन्विराजिद्युप्रतिदिवः' (उ. सू. १. १५४ ) इति वर्षतेः कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । यूथा इव । युवन्ति मिश्रीभवन्तीति यूथानि । ' यु मिश्रणामिश्रणयोः । ‘ तिथपृष्ठगूथयूथप्रोथाः' ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तो निपातितः । निपातनाद्दीर्घत्वम् । प्रत्ययस्वरेण आकार उदात्तः । ‘शेश्छन्दसि बहुलम्' ( पा. सू. ६. १. ७०) इति लुक् । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' ( पा. सू. २. १. ४. २ ) इति समासेऽपि स एव स्वरः । वंसगः । पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः (पा. सू. ६. ३. १०९)। कर्षन्तीति कृष्टयः । ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । चित्त्वादन्तोदात्तः । इयर्ति । ऋ सृ गतौ । तिप् । शपः श्लुः । ‘ श्लौ' (पा. सू. ६. १. १०) इति द्विर्भावः । अभ्यासस्य उरदत्वहलादिशेषौ (पा. सू. ७. ४. ६६; ६० )। ‘ अर्तिपिपर्त्योश्च' ( पा. सू. ७. ४. ७७) इति अकारस्य इकारः। अभ्यासस्यासवर्णे ' (पा. सू. ६. ४. ७८) इति इयङादेशः । अङ्गस्य गुणो रपररवम् । ओजसा । 'उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१) इत्यसुन तत्संनियोगेन बकारलोपः । लघूपधगुणः (पा. सू. ७. ३. ८६ )। नित्त्वादाद्युदात्तः । ईशानः । ईश ऐश्वर्ये' । लटः शानच् । अदिप्रभृतिभ्यः शपः' (पा. सू. ३. ४.७२ ) इति शपो लुक् । चितः' इत्यन्तोदात्तं बाधित्वा अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वेन धातुस्वर एव शिष्यते। अप्रतिष्कुतः अप्रतिशब्दितः । कु शब्दे । कर्मणि क्तः । पारस्करादित्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८)। नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“The shedder of rain, the mighty lord, the always compliant, invests men with his strength, as a bull (defends) a herd of kine.”
Even as the bull drives on the herds, he drives the people with his might,
The Ruler irresistible:
Like a bull his herds, the buffalo rouses the communities with his might, since he is the master who cannot be repulsed.
Wie Heerden ein gewalt'ger Bull, regt er die Völker an mit Macht Unwiderstehlich, er der Herr.
Wie ein Büffelbulle die Herden, so treibt er mit Gewalt die Völker, mächtig, ohne Widerstand.
Словно могучий бык – стада,
С силой гонит он народы,
Властный, не встречающий сопротивления.
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ । इन्द्र॒: पञ्च॑ क्षिती॒नाम् ॥
यः । एकः॑ । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ । इन्द्रः॑ । पञ्च॑ । क्षि॒ती॒नाम् ॥
यः इन्द्रः स्वयम् एकः एव चर्षणीनां मनुष्याणाम् इरज्यति ईष्टे; तथा वसूनां धनानाम् इरज्यति स इन्द्रः पञ्च निषादपञ्चमानां क्षितीनां निवासार्हाणां वर्णानामनुग्रहीतेति शैषः ॥ एकः ॥ ‘ इण् गतौ'। ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' ( उ. सू. ३. ३२३ ) इति कन् । बाहुलकात् कलोपाभावः । नित्त्वादाद्युदात्तत्वम् । चर्षणीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘ अन्तोदात्तात् ' इत्यनुवृत्तौ ' नामन्यतरस्याम्' ( पा. सू. ६. १. १७७ ) इति विभक्तेरुदात्तत्वम् । वसूनाम् । ‘ नित्' इत्यनुवृत्तौ ‘शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' ( उ. सू. १. १० ) इति उप्रत्ययः । नित्त्वादाद्युदात्तः । इरज्यति । कण्ड्वादिषु ' इरज् ईर्ष्यायाम् । अत्र ऐश्वर्यार्थः । ‘ कण्ड्वादिभ्यो यक्' ( पा. सू. ३. १. २७ )। प्रत्ययस्वरणोदात्तः । पञ्च । 'पचि व्यक्तीकरणे' । ‘पचेश्च' इति कनिन् । नित्त्वादाद्युदात्तः । क्षितीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘नामन्यतरस्याम्' इति विभक्तेरुदात्तत्वम् ॥
“Indra, who alone rules over men, over riches, and over the five (classes) of the dwellers on earth.”
Indra who rules with single sway men, riches, and the fivefold race
Of those who dwell upon the earth.
Indra, who alone has control over the settled domains and their goods, and over the five people,
Von allem, was da lebt, allein ist's Indra, der in seiner Hand Der fünf Geschlechter Güter hält.
Indra, der alleinig über die Völker, über die Schätze gebeut, über die fünf Stämme,
Кто один над людьми,
Над богатствами царствует,
Индра – над пятью поселениями (племен), –
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥
इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः । अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥
हे ऋविग्यजमानाः विश्वतः सर्वेभ्यो जनेभ्यः परि उपरि अवस्थितम् इन्द्रं वः युष्मदर्थं हवामहे आह्वयामः । अतः स इन्द्रः अस्माकं केवलः असाधारणः अस्तु । इतरेभ्योऽप्यधिकमनु ग्रहमस्मासु करोत्वित्यर्थः ॥ इन्द्रम् । रन्प्रत्ययान्तो नित्वादाद्युदात्तः । वः । ‘अनुदात्तं सर्वम् । इत्यनुवृत्तौ ‘ बहुवचनस्य वस्नसौ ' (पा. सू. ८. १. २१ ) इति वस् । विश्वतः । ‘ लिति' ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वमुदात्तम् । परि । निपातत्त्वादाद्युदात्तः । संहितायां ‘पञ्चम्याः परावध्यर्थे ' ( पा. सू. ८. ३. ५१ ) इति विसर्जनीयस्य सत्वम् । हवामहे । ह्वेञः शपि ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणपरपूर्वत्वे । गुणावादेशौ । जनेभ्यः । जन्यन्ते इति जनाः । जनयतेः कर्मणि घञ् । 'जनिवध्योश्च' (पा. सू. ७. ३. ३५) इति उपधाया वृद्ध्यभावः । ञित्वादाद्युदात्तत्वम् । अस्माकम् । अस्मच्छब्दोऽन्तोदात्तः । ‘ शेषे लोपः ( पा. सू. ७. २. ९० ) इत्यन्तलोपपक्षे ‘ साम आकम् ' (पा. सू. ७. १. ३३ ) इति आकारेण एकादश उदात्तः । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥ ॥ १४ ॥ ॥ २ ॥
_
इन्द्रं व इति। हे ऋत्विग्यजमाना वो युष्माकं जनेभ्यः पुत्रभृत्यादिजनसिद्ध्यर्थं विश्वतस्परि सर्वस्य जगत उपरि स्थितमुत्कृष्टत्वेन वर्तमानमिन्द्रं हवामह आह्वायामः। स चेन्द्रोऽस्माकं केवलोऽस्त्वसाधारणोऽस्तु। इतरयजमानेभ्योऽप्यधिकमनुग्रहमस्मासु करोत्वित्यर्थः।
“We invoke for you, Indra, who is everywhere among men; may he be exclusively our own.”
For your sake from each side we call Indra away from other men:
Ours, and none others', may he be.
Indra for you we invoke
On all sides from other men;
Be he ours only.
Indra do we summon for you from the men all around.
Let him be exclusively ours.
Wir rufen euch den Indra her von allen Orten, jedem Volk; Uns sei er eigen, keinem sonst.
Den Indra rufen wir für euch von allen Stämmen her; er soll uns alleine gehören.
(Этого) Индру для вас мы призываем
Отовсюду вокруг, (прочь) от всех племен –
Да будет он только наш!