उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑य॒: सनी॑ळाः । स्वसा॑र॒: श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गाव॑: ॥
उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त॑म् । पति॑म् । न । नित्य॑म् । जन॑यः । सऽनी॑ळाः । स्वसा॑रः । श्यावी॑म् । अरु॑षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती॑म् । उ॒षस॑म् । न । गावः॑ ॥
उशतीः उशत्यः कामयमानाः सनीळाः । नीळो निवासस्थानम् । समाननिवासस्थानाः एकपाण्यवस्थानात्। स्वसारः इत्यङ्गुलिनाम। एवंभूता अङ्गुलयः उशन्तं कामयमानमग्निं जनयः जायाः नित्यम् असाधारणं पतिं न भर्तारमिव उप प्र जिन्वन् । उपेत्य हविष्प्रदानादिकर्मणा प्रीणयन्ति । प्रीणयित्वा च चित्रं चायनीयं पूजनीयं तमग्निमञ्जलिबन्धनेन अजुष्रन् असेवन्त । तत्र दृष्टान्तः ।श्यावीं श्याववर्णां रात्रिसंबन्धात् कृष्णां ततः उच्छन्तीं सूर्यकिरणसंबन्धात् तमो वर्जयन्तीं अत एव अरुषीं आरोचमानां यद्वा शुभ्ररूपयुक्ताम् उषसं न उषोदेवतां गावः रश्मयो यथा सेवन्ते तद्वत् । यथा रश्मय उषसा नित्यसंबद्धा एवं सर्वेषु यज्ञेष्वग्निपरिचरणेनाङ्गुलयो नित्यसंबद्धा इति तात्पर्यार्थः ॥ जिन्वन् । जिवि प्रीणनार्थः । इदित्त्वात् नुम् । लेटि अडागमः । उशतीः । ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । ‘ शुतुरनुमः° ' इति नद्या उदात्तत्वम् । स्वसारः । ‘ असु क्षेपणे इत्यस्मात् ‘सुञ्यसेर्ऋन ' ( उ. सू. २. २५३ ) इति ऋन् ।' न षट्स्वस्रादिभ्यः ' ( पा. सू. ४. १. १० ) इति ङीप्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । अरुषीम् । अरुषमिति रूपनाम । ‘ऋ गतौ । ‘ऋहनिभ्यामुषच् ' ( उ. सू. ४. ५१३ )। 'छन्दसीवनिपौ' इति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । अजुष्रन् । जुषी प्रीतिसेवनयोः '। तौदादिकः । लङि व्यत्ययेन परस्मैपदम् । ‘रुट् इत्यनुवृत्तौ • बहुलं छन्दसि' इत्यन्तादेशस्य रुडागमः ॥
“The contiguous fingers, loving the affectionate Agni, as wives love their own husbands, plural ase him (with offered oblations), and honour him, who is entitled to honour, (with gesticulations), as the rays of light (are assiduous in the service) of the dawn, which is (at first) dark, (then) glimmering, and (finally) radiant.”
LOVING the loving One, as wives their husband, the sisters of one home have urged him forward,
Bright-coloured, even, as the cows love morning, dark, breaking forth to view, and redly beaming.
The loving (women) have (amorously) excited 1 their lover, as wives of the same nest (house) their own husband. The sisters have delighted in the dark and in the red (goddess) 2, as the cows in the brightly shining dawn.
The desirous females belonging to the same nest [=fingers] stimulate the desirous male [=Agni] close by—as wives of the same nest
[=household] stimulate their own husband.
The sisters [=fingers] have delighted in the dusky one and in the
ruddy one [=two fire-kindling sticks], like cows in the brilliantly
dawning dawn.
Ihn regten liebend an wie ihren Gatten, den liebenden, die Fraun im gleichen Sitze, Die Schwestern freun der schwarzen sich, der rothen, wie Rinder des in Glanz aufgehnden Morgens.
Die ebenbürtigen Finger regen verliebt den Verliebten auf wie die Frauen im gleichen Hause den rechtmäßigen Gatten. Die Schwestern haben für die Schwarze und die Rote eine Vorliebe wie die Kühe für die prächtig aufleuchtende Morgenröte.
Страстные (пальцы) возбуждают страстного,
Словно жены из одного дома – собственного мужа.
Сестрам понравились черная и алая,
Как коровам – ярко вспыхивающая заря.
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण । च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अह॒: स्व॑र्विविदुः के॒तुमु॒स्राः ॥
वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः॑ । नः॒ । उ॒क्थैः । अद्रि॑म् । रुज॑न् । अङ्गि॑रसः । रवे॑ण । च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति॑ । अह॒रिति॑ । स्वः॑ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥
नः अस्माकं पितरः अङ्गिरसः एतत्संज्ञा ऋषयः उक्थैः शस्त्रैरग्निं स्तुत्वा वीळु चिद्दृळ्हा। वीळु इति बलनाम । बलवन्तं दृढाङ्गमपि अद्रिम् अत्तारं पणिनामानमसुरं रवेण स्तुतिशब्दमात्रेणैव रुजन् अभञ्जन्। तैः स्तुतोऽग्निस्तमसुरं हतवानित्यर्थः । किंच बृहतः महतः दिवः द्युलोकस्य गातुं मार्गम् अस्मे अस्माकं चक्रुः कृतवन्तः । अवरकस्यासुरस्याग्निना हतत्वात् । मार्गं कृत्वा च स्वः सुष्ठु अरणीयमसुरराहित्येन सुखेन प्राप्यम् अहः दिवसं विविदुः अजानन् लब्धवन्तो वा । तथा केतुम् अह्नां केतयितारं ज्ञापयितारमादित्यम् उस्राः पणिनापहृता गाश्च विविदुरित्यनुषङ्गः । वीळु । ‘सुपां सुलुक्' ' इति विभक्तेर्लुक् । दृळ्हा । ‘ दृढः स्थूलबलयोः ' (पा. सू. ७. २. २०) इति निपातितः । ‘सुपां सुलुक्' इति डादेशः। रुजन् । “ रुजो भङ्गे'। तौदादिकः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः । विविदुः । ‘ विद ज्ञाने ', ' विद्लृ लाभे' इति वा । लिटि उसि रूपम् ॥
“Our forefathers, the Aṅgirasas, by their praises (of Agni), terrified the strong and daring devourer, (Paṇi), by the sound; they made for us a path to the vast heaven, and obtained accessible day, the ensign of day, (Āditya) and the cows (that had been stolen).”
Our sires with lauds burst e'en the firm-set fortress, yea, the Angirases, with roar, the mountain.
They made for us a way to reach high heaven, they found us day, light, day's sign, beams of morning.
Our fathers, the Aṅgiras 1, have broken even the strong fortresses by their hymns, the rock by their shouting. They have opened to us the path of the great heaven; they have obtained day and sun and the shine of the dawn 2.
Even the firm fastnesses did our fathers, the Aṅgirases, break with their hymns, and the rock with their shout.
They made the way of lofty heaven for us; they found the day and the sun, the beacon of the ruddy dawn.
Die festen Burgen brachen unsre Väter durch Spruch den Fels die Angiras mit Krachen; Sie bahnten uns den Weg zum hohen Himmel, und fanden Tag und Sonne, Licht und Morgen.
Unsere Väter, die Angiras´ haben durch ihre Lieder selbst die starken Bollwerke, den Fels mit lautem Ruf erbrochen. Sie haben für uns den Gang des hohen Himmels hergestellt: sie haben den Tag, die Sonne, das Wahrzeichen der Morgenröte gefunden.
Даже крепкие твердыни отцы наши Ангирасы
Проломили гимнами, (а) скалу – ревом.
Они создали нам проход к высокому небу.
Они нашли день, солнце, знамя утренней зари.
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः । अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । द॒धि॒ष्वः॑ । विऽभृ॑त्राः । अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥
ऋतं देवयजनदेशं प्राप्तमग्निमङ्गिरसो महर्षयः दधन् गार्हपत्यादिरूपेणाधारयन् । धारयित्वा च अस्य अग्नेः धीतिं कर्म अग्निहोत्रादिलक्षणं धनयन् धनमकुर्वन् । यथा पुरुषा धनं संपादयन्ति तद्वदग्निदेवत्यं कर्म अन्वतिष्ठन्नित्यर्थः । आदित् अङ्गिरसामनुष्ठानानन्तरमेव अर्यः अर्या धनस्य स्वामिन्यः दिधिष्वः तेन धनेन दिधिष्वोऽग्नीनां धारणं कुर्वत्यः । कृताग्न्याधाना इत्यर्थः। विभृत्राः आहितानग्नीन् अग्निहोत्रादिकर्मणि विहरन्त्यः अतृष्यन्तीः विषयान्तरतृष्णारहिताः अत एव अपसः अपसा कर्मणा युक्ताः एवंभूता यजमानलक्षणाः प्रजाः प्रयसा हविर्लक्षणेनान्नेन देवान् इन्द्रादीन् 'जन्म जातान् मनुष्यांश्च वर्धयन्तीः वर्धयन्त्यः सस्यः एनमग्निम् अच्छ आभिमुख्येन यन्ति प्राप्नुवन्ति परिचरन्तीति यावत् । दधन् । “ दध धारणे'। लङि व्यत्ययेन परस्मैपदम् । बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । धनयन् । धनशब्दात् ' तत्करोति' इति णिच् । ‘ इष्ठवण्णौ प्रातिपदिकस्य ' इति इष्ठवद्भावात् टिलोपः । लङि पूर्ववत् । अर्यः । ‘अर्यः स्वामिवैश्ययोः' ( पा. सू. ३. १. १०३ ) इति निपातितः । लिङ्गवचनव्यत्ययो ।' अर्यः स्वाम्याख्या चेत् ' (फि. सू. १७ ) इत्यन्तोदात्तत्वम् । दिधिष्वः । ‘ डुधाञ् धारणपोषणयोः ', ' षो अन्तकर्मणि ' इत्याभ्याम् ‘अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः । ( उ. सू. १. ९३ ) इति कूप्रत्ययान्तो निपातितः । प्रत्ययस्वरः । ‘उदात्तस्वरितयोर्यण:०' इति जसः स्वरितत्वम् । विभृत्राः । ‘ हृञ् हरणे'। विपूर्वादस्मादौणादिकः क्त्रप्रत्ययः । ‘ हृग्रहोर्भः ' इति भत्वम् । अतृष्यन्तीः । ‘ ञितृषा पिपासायाम् ' । जसि ' वा छन्दसि इति पूर्वसवर्णदीर्घस्य विकल्पितत्वात् पूर्वसवर्णदीर्घः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपसः । अपस्शब्दादुत्पन्नस्य मत्वर्थीयस्य विनो ‘ बहुलं छन्दसि' (पा. सू. ५. २. १२२ ) इति बहुलवचनात् लुक् । विनन्तस्य त्रिलिङ्गत्वेन नब्विषयत्वाभावात् प्रातिपदिकस्वरेणान्तोदात्तत्वम् । जन्म । जायन्ते इति जन्मानो मनुष्याः । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'सुपां सुलुक् ' इति शसो लुक् ॥
“They secured hi, (Agni, in the sacrificial chamber), they made his worship the source of wealth; whence opulent votaries preserve his fires and practise his rites. Free from all (other) desire, assiduous in his adoration, and sustaining gods and men by their offerings, they come into his presence.”
They stablished order, made his service fruitful; then parting them among the longing faithful,
Not thirsting after aught, they come, most active, while with sweet food the race of Gods they strengthen.
They founded the Rita; they set into motion the thought of it 1. Thus then the widely-spread (prayers) 2 of the poor 3 which seek to obtain (wealth), which are free from thirst 4, the active, approach 5 the tribe of the gods 6, strengthening them by offering them delight.
They set the truth in place and they set the vision of it in motion; just after that the voracious (visions) of the stranger are dispersed.
Never thirsting, (the [Aṅgirases’/poets’] visions), performing their tasks, go to the gods, strengthening their race with a pleasing offering.
Sie schufen Opfer, regten sein Gebet an; und Lieder, buhlend, strebend, sich verbreitend, Sie nahn sich dann, nicht schmachtend, eifrig wirkend, mit Labung stärkend das Geschlecht der Götter.
Sie stellten das Gesetz fest, sie brachten die Erkenntnis dieses in Umlauf. Seitdem sind die begehrlichen Gedanken des Nebenbuhlers wie Kinder, die noch getragen werden. Nur die gierlosen Gedanken des geschickten Sängers gehen zu ihnen, indem sie das Geschlecht der Götter mit Labsal stärken.
Они установили вселенский закон, привели в действие его силу прозрения.
И вот желающие прельстить человека (языки пламени Агни) разносятся в разные стороны.
Деятельные, (но) не жадные, они направляются к
Богам, усиливая (их) род подкрепляющим питьем.
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् । आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् । आदी॑म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥
मातरिश्वा व्यानवृत्तिरूपेणावस्थितो मुख्यप्राणः ईम् एनमग्निं यत् यदा मथीत् अमथ्नात् । अग्नेर्मन्थनस्य व्यानवायुसाध्यत्वम् ‘अथ यः प्राणापानयोः संधिः स व्यानः' इत्युपक्रम्य छन्दोगैराम्नातम्’ -- अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति' (छा.उ.१.३.३; ५) इति। मन्त्रान्तरं च भवति- आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः' (ऋ. सं. १. ९३. ६) इति । कीदृशो मातरिश्वा । विभृतः प्राणिषु प्राणापानादिपञ्चवृत्तिरूपेण विहृतो विभज्य स्थितः । तदपि प्राणसंवादे तैरेवाम्नातं-’ तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतत्प्राणमवष्टभ्य विधारयामीति' (प्र.उ. २. ३)। मन्थनेनोत्पन्नोऽयमग्निः श्येतः शुभ्रवर्णो भूत्वा गृहेगृहे सर्वस्मिन् यज्ञगृहे यदा जेन्यः प्रादुर्भूतः भूत् । यद्वा । रक्षसां जेन्यो जेताभिभविता भूत् । तथा च तैत्तिरीयकं -- देवासुराः संयत्ता आसन् ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वासुरानभ्यभवन्' (तै. सं. ६. २. २.६-७) इति । ऐतरेयिणोऽप्यामनन्ति- ते देवाः प्रतिबुध्याग्निं पुरस्तात्प्रातःसवने पर्यौहंस्तेऽग्निनैव पुरस्तात्प्रातःसवनेऽसुरक्षांस्यपाघ्नत' ( ऐ. ब्रा. ६. ४) इति । आत् यज्ञगृहे प्रादुर्भावानन्तरम् ईम् एनमग्निं भृगवाणः । भृगुर्ऋषिः । स इवाचरन् यजमानः दूत्यं दूतस्य कर्म आ विवाय शास्त्रमर्यादया प्रापयामास । तत्र दृष्टान्तः । सचा सन् । सखा भवन्नन्यो राजा सहीयसे अभिभवित्रे प्रबलाय राज्ञे न । यथा राज्ञे स्वपुरुषं दूतकर्म प्रापयति तद्वत् ॥ मथीत् । ‘मथे विलोडने'। लुङि 'ह्वयन्तक्षण' इति वृद्धिप्रतिषेधः । जेन्यः । ‘ जनी प्रादुर्भावे ' । अस्मादौणादिक एन्यप्रत्ययः टिलोपश्च इति भट्टभास्करमिश्रः। यद्वा। जि जये' इत्यस्मात् कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि ‘अचो यत्' इति यत्, तस्य नुडागमश्च । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी' इति यत् । तित्स्वरितम्' इति स्वरितत्वम् । यतोऽनावः । इत्याद्युदात्तत्वं तु अनित्यमिति ‘ वीरवीर्यौ च' इत्यत्र ज्ञापितम् । भृगवाणः भृगुरिवाचरन् । ‘ सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' (पा. म. ३. १. ११. ३) इति वचनात् क्विप् । तदन्तात् लठो व्यत्ययेन शानच् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे प्रत्ययान्तधातोरन्तोदात्तत्वे प्राप्ते वृषादेराकृतिगणवादाद्युदात्तत्वम् । विवाय । वी गत्यादिषु' । अस्मात् अन्तर्भावितण्यर्थात लिट् ॥
“When the diffusive vital air excites Agni, he becomes bright and manifest in every mansion, and the instrumental tutor of the rite, imitating Bhṛgu, prevails on him to perform the function of messenger, as a prince who has become a friend sends an ambassador to his more powerful (conqueror).”
Since Matarisvan, far-diffused, hath stirred him, and he in every house grown bright and noble,
He, Bhrgu-like I hath gone as his companion, as on commission to a greater Sovran.
When Mâtarisvan had produced him by attrition, he, the reddish, the noble one, who was brought to many places 1, has come to every house. Then the Bhrigu-like 2 has undertaken the messengership 3 (for the mortal) as for a mightier king, being attached to him.
When Mātariśvan, borne away, stole him, and he of worthy birth came to be gleaming in every house, after that (the fire) of the Bhr̥gus undertook the role of messenger, as if for a more powerful king, being associated with him.
Als ihn im Flug hervorrieb Matariçvan und herrlich er in jedem Hause glänzte, Da führte funkelnd er mit ihm im Bunde die Botschaft aus wie zu gewalt'germ König.
Als ihn verteilt der Matarisvan aus dem Holze rieb und der Rötlichschimmernde in jedem Hause heimisch wurde, da besorgte der Bhrigavana das Botenamt wie der Begleiter für einen mächtigeren König.
Когда Матаришван, носясь в разные стороны, похитил его,
Светлый стал родным в каждом доме.
И тогда он, близкий к Бхригу, взял на себя службу вестника,
Как тот, кто сопровождает очень сильного царя.
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् । सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् । सृ॒जत् । अस्ता॑ । धृष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥
महे महते पित्रे पालयित्रे दिवे द्योतमानाय देवगणाय ईम इमं रसं पृथिव्याः सारभूतं हविः यत् यदा यजमानः कः करोति तदानीं पृशन्यः स्पर्शनकुशलो राक्षसादिः चिकित्वान् हवींषि वहन्तं हे अग्ने त्वां जानन् 'अव त्सरत् त्वद्भयात्पलायते । अस्ता इषुक्षेपणशीलोऽग्निः धृषता धर्षकेण धनुषा अस्मै पलायमानाय राक्षसादये दिद्युं दीप्यमानं बाणं सृजत् विसृजति। देवः दीप्यमान उषःकालं प्राप्तोऽग्निः स्वायां स्वकीयायां दुहितरि दुहितृवत् समनन्तरभाविन्यामुषसि त्विषिं स्वकीयां दीप्तिं धात् स्थापयति । उषःकाले हि सूर्यकिरणाः प्रादुर्भवन्ति । तैः स्वकीयं प्रकाशमेकीकरोति । तथा च तैत्तिरीयकम्- उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे ' (तै. ब्रा. २. १. २. १०) इति । अत उषसि दीप्तिं निदधातीत्युच्यते ॥ कः । करोतेर्लुङि ‘मन्त्रे घस ' इत्यादिना च्लेर्लुक् । त्सरत् । ‘त्सर छद्मगतौ' । लेटि अडागमः । इतश्च ' इति इकारलोपः । पृशन्यः । ‘ स्पृश संस्पर्शने' । कॄपॄवृजि°' (उ. सू. २. २३९ ) इति विधीयमानः क्युप्रत्ययो बहुलवचनादस्मादपि भवति । स्पृशनं स्पर्शः । तत्र साधुः ' इति यत् । सलोपश्छान्दसः । ‘ तित्स्वरितम् ' इति स्वरितत्वम् । दिद्युम् । दिद्युदिति वज्रनाम । अन्त्यलोपश्छान्दसः । धात् । छान्दसो वर्तमाने लुङ् ॥ ॥ १५ ॥
“When (the worshipper) offers an oblation to his great and illustrious protector, the grasping (rākṣas), recognizing you, Agni, retires; but Agni, the archer, sends after him a blazing arrow from his dreadful bow, and the god bestows light upon his own daughter (the dawn).”
When man poured juice to Heaven, the mighty Father, he knew and freed himself from close embracement.
The archer boldly shot at him his arrow, and the God threw his splendour on his Daughter.
When he had created sap to the great father Heaven, the knowing one stealthily approached the speckled (cows). The archer fiercely shot an arrow at him. The god turned his impetuous power against his daughter 1.
When he made the sap [=semen] for great Father Heaven, noting the caresses he stealthily crept up (on him).
The archer boldly loosed a missile at him (when) the god placed his “spark” in his own daughter.
Als Trank er bracht' dem grossen Vater Himmel, entwand er klug sich aus der Tochter Armen, Der Schütze schoss den Pfeil auf ihn mit Kühnheit, da legt' der Gott den Glanz in seine Tochter.
Als er dem großen Vater Himmel Samen bereitet hatte, da schlich er heran, da er die Liebeslockungen bemerkt hatte. Der Schütze schoß dreist sein Geschoß auf ihn. Der Gott verrichtete seine Brunst an der eigenen Tochter.
Когда он создал (семенную) влагу для великого Отца-Неба,
(Тот) сполз вниз, искусный в ласках, понимающий.
Стрелок дерзко пустил стрелу в него.
Бог (-Небо) вложил (свой) пыл в собственную дочь.
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् । वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
स्वे । आ । यः । तुभ्य॑म् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ । वा॒ । दाशा॑त् । उ॒श॒तः । अनु॑ । द्यून् । वर्धः॑ । अ॒ग्ने॒ । वयः॑ । अ॒स्य॒ । द्वि॒ऽबर्हाः॑ । यास॑त् । रा॒या । स॒ऽरथ॑म् । यम् । जु॒नासि॑ ॥
हे अग्ने तुभ्यं त्वां स्वे दमे स्वकीये यज्ञगृहे यः यजमानः । एक आकारो मर्यादायाम् । यथाशास्त्रम् आ विभाति आ समन्तात् समिदादिभिः काष्ठैः प्रज्वलयति । अनु द्यून अनुदिवसम् उशतः कामयमानाय तुभ्यं नमो वा दाशात् हविर्लक्षणमन्नं वा दद्यात् । अस्य यजमानस्य हे अग्ने द्विबर्हाः द्वयोर्मध्यमोत्तमस्थानयोर्बृंहितो वर्धितस्त्वं वयः अन्नं वर्धो वर्धयैव । सरथं रथेन सहितं युयुत्सुं यं पुरुषं जुनासि युद्धे प्रेरयसि स पुरुषः राया धनेन यासत् संगच्छते ॥ तुभ्यम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थी । दाशात् । दाशृ दाने । लेटि आडागमः । उशतः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी। अनुद्यून् । द्युरियत्यहर्नाम । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्तेः' इति द्वितीया । वर्धो । वर्ध उ । वृधेर्ण्यन्तात् लोटि छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘ णेरनिटि ' इति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उञा सहैकदेशे ‘उञः (पा. सू. १. १. १७ ) इति प्रगृह्यत्वम् । यासत् । या प्रापणे '। ‘ सिब्बहुलं लेटि' इति सिप् । ‘ लेटोऽडाटौ ' इति अडागमः । जुनासि । जु इति गत्यर्थः सौत्रो धातुः । शपि प्राप्ते व्यत्ययेन श्ना ॥
“When (the worshipper) kindles you in his own dwelling, and presents an oblation to you, daily desiring it, do you, Agni, augmented in two ways, (as middling and as best), increase his means of sustenance; may he whom you sen dwith his car to battle, return with wealth.”
Whoso, hath flames for thee within his dwelling, or brings the worship which thou lovest daily,
Do thou of double might increase his substance: may he whom thou incitest meet with riches.
Augment, O Agni, twofold the strength of the man who worships 1 thee in his house, or offers adoration to the loving one 2 day by day. May he whom thou incitest be united with riches 3.
Who will radiate widely for you here in his own house, or through the days will piously offer reverence belonging to (you) who are eager
for it—
as the doubly lofty one, o Agni, you increase his vitality. He whom you speed will drive in the same chariot with Wealth.
Wer, Agni, dir im eignen Hause Licht schafft, und täglich dir Anbetung zollt, dem holden, Dem mehre du die Kraft, als zwiefach starker, mit Reichthum geh im Bunde, wen du förderst.
Wer für dich im eigenen Haus von Begeisterung erglüht, oder dir Verehrung darbringt alle Tage dem Verlangenden, dessen Kraft mehre du doppelt, o Agni! Mit dem Reichtum soll im gleichen Wagen fahren, wen du aneiferst.
Кто в своем доме для тебя ярко пылает,
Или кто целые дни поклоняется (тебе.) жаждущему (этого),
Увеличь, о Агни, его жизненную силу вдвойне!
Пусть едет в одной колеснице с богатством (тот,) кого ты поощряешь!
अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑: सचन्ते समु॒द्रं न स्र॒वत॑: स॒प्त य॒ह्वीः । न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
अ॒ग्निम् । विश्वाः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः॑ । स॒प्त । य॒ह्वीः । न । जा॒मिभिः॑ । वि । चि॒कि॒ते॒ । वयः॑ । नः॒ । वि॒दाः । दे॒वेषु॑ । प्रऽम॑तिम् । चि॒कि॒त्वान् ॥
विश्वाः पृक्षः चरुपुरोडाशादीनि सर्वाण्यन्नानि अग्निम् अङ्गनादिगुणयुक्तमेनम् अभि सचन्ते आभिमुख्येन समवयन्ति प्राप्नुवन्ति । तत्र दृष्टान्तः । स्रवतः समुद्रं न । यथा स्रवन्त्यो नद्यः समुद्रमभिगच्छन्ति तद्वत् । कीदृश्यो नद्यः। सप्त सप्तसंख्याकाः। ‘ इमं मे गङ्गे' इत्यस्यामृचि सप्त हि नद्यः प्राधान्येन श्रूयन्ते । यह्वीः । महन्नामैतत् । महत्यः। जामिभिः। जमन्त्येकस्मिन् पात्रे सह भुञ्जते इति जामयो ज्ञातयः । तैः नः अस्मदीयं वयः अन्नं न वि चिकिते न ज्ञायते । तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भावः । अतो हे अग्ने त्वं देवेषु । दीव्यन्तीति देवा धनपतयः। तेषु प्रमतिं प्रकर्षेण मननीयं धनं चिकित्वान् अवगच्छन् विदाः अस्मभ्यं लम्भय । यद्वा । प्रमतिं प्रकृष्टं स्तोत्रं देवेषु विदाः वेदय ज्ञापय ॥ पृक्षः । अन्ननामैतत् ।' पृची संपर्के' इत्यस्मात् औणादिकः कर्मणि क्विप् धातोः षुगागमश्च । यद्वा । असुनि ‘सुपां सुलुक्' इति जसो लुक् । स्रवतः । ‘ स्रु गतौ' । स्रवणं स्रवः । तत्कुर्वन्ति । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' इति क्विप् । एतदन्तात् धातोः ‘क्विप् च' इति क्विप् । ह्रस्वस्य पिति° ' इति तुक् । क्विबन्तात् धातोः सतिशिष्टत्वात् धातुस्वरेणान्तोदात्तत्वम् । यह्वीः । ‘ पिप्पल्यादिभ्यश्च ' ( पा. सू. ४. १. ४१ ग.) इति गौरादिषु पठितत्वात् तस्य च आकृतिगणत्वादत्रापि ङीष् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । चिकिते। छान्दसो वर्तमाने कर्मणि लिट् । विदाः। विद्लृ लाभे '। अन्तर्भावितण्यर्थात् लेटि आडागमः । तुदादित्वात् शः । आगमानुशासनस्यानित्यत्वात् नुमभावः । विकरणस्वरः शिष्यते । यद्वा । विदेर्ज्ञानार्थस्य लेटि व्यत्ययेन शः ॥
“All (sacrificial) viands concentrate in Agni, as the seven great rivers flwo into the ocean; our food is not partaken of by our kinsmen, therefore do you, who know (all things), make our desires known to the gods.”
All sacrificial viands wait on Agni as the Seven mighty Rivers seek the ocean.
Not by our brethren was our food discovered: find with the Gods care for us, thou who knowest.
Every nourishment goes towards Agni 1, as the seven young 2 rivers (flow) into the ocean. Our strength does not shine from kinsmen 3. Do thou therefore who knowest this, procure among the gods kindness for us.
All nourishments converge on Agni, like the seven youthful streams on the sea.
Our vitality is not widely perceptible in the form of our kin. Perceiving (it [=vitality]), find solicitude (for us) among the gods.
Zu ihm, dem Agni, streben alle Speisen, wie zu dem Meer die sieben schnellen Ströme; Nicht bei Verwandten ward uns Nahrung sichtbar; Fürsorge schaffe kundig uns bei Göttern.
Zu Agni gesellen sich alle Kräfte wie die sieben jüngsten Ströme zum Meere. Unsere Stärke ist nicht durch Verwandte ansehnlich. Mögest du als Kundiger bei den Göttern Vorliebe finden.
К Агни стекаются все силы наполнения,
Как семь юных потоков – к океану.
Наша жизненная сила значительна не благодаря родным.
Найди ты (нам) среди богов заботу, как понимающий!
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
आ । यत् । इ॒षे । नृ॒ऽपति॑म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निऽसि॑क्तम् । द्यौः । अ॒भीके॑ । अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । सु॒ऽआ॒ध्य॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥
अग्नेः यत् तेजः नृपतिं नृणाम् ऋत्विजां पालकं यजमानम् आनट् जाठररूपेण आ समन्तात् व्याप्नोत् । किमर्थम् । इषे अन्नाय । कीदृशम् । शुचि शुद्धं द्यौः दीप्तम् । तेन तेजसा परिपक्वमन्नं रसरूपं रेतः वीर्यम् अभीके अभ्यक्ते ऽभिगते ऽभिप्राप्ते गर्भस्थाने निषिक्तं नितरां सिक्तम् अग्निः
वक्ष्यमाणगुणविशिष्टपुत्ररूपेण जनयत् जनयतु । शर्धं बलवन्तम् अनवद्यम् अवद्यरहितं युवानं तरुणं जरारहितमित्यर्थः । स्वाध्यं शोभनकर्माणं शोभनप्रज्ञं वोत्पन्नं पुत्रं सूदयच्च योगादिकर्मसु प्रेरयतु च। यद्वा । रेत इत्युदकनाम। निषिक्तं मेघेन वृष्टमुदकम् इषेऽन्नाय सस्यादिनिष्पत्तयेऽग्नेर्यत्तेज आनट् व्याप्नोत् वृष्ट्युदकेन भौमाग्नेः संयोगे सति हि सस्यान्युत्पद्यन्ते । कीदृशं तेजः । नृपतिं नृणां रक्षकं शुचि दीप्तम्। तादृशेन तेजसा युक्तो द्यौर्दीप्तोऽग्निरभीके आसन्नकाले एव शर्धादिगुणविशिष्टं पुत्रं जनयतु तं च प्रेरयतु यज्ञादौ ।
इषे । 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् ।
नृपतिम् । ‘परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् ।
आनट् । ‘ अशू व्याप्तौ । लङि व्यत्ययेन परस्मैपद-श्नमौ। आडागमः । व्र्श्चादिषत्वे ष्टुत्वम् ।
निषिक्तम् । ‘ षिचिर् क्षरणे ' । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ' उपसर्गात्सुनोति' इति षत्वम् ।
अभीके । अभिपूर्वादञ्चतेः पचाद्यचि पृषोदरादित्वात् रूपसिद्धिः । यद्वा । इण् गतौ ' इत्यस्मात् औणादिकः कक्प्रत्ययः । उभयथापि दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । स्वाध्यम् । एरनेकाचः० ' इति यणादेशः । ‘ उदात्तस्वरितयोर्यणः० इति स्वरितत्वम् । जनयत् । जनेर्ण्यन्तात् लेट अडागमः । सूदयत् । ‘ षूद क्षरणे' । पूर्ववत् लेटि अडागमः ॥
“May that (digestive) faculty (of Agni) with regards food, be imparted to the devout and illustrious protector of priests, as the source of virile vigour; and may Agni be born as (his) robust, irreproachable, youthful and intelligent son, and instrumental gate him (to acts of worship).”
When light hath filled the Lord of men for increase, straight from the heaven descends the limpid moisture.
Agni hath brought to light and filled with spirit the youthful host blameless and well providing.
1 When the sharp splendour 2 reached the lord of men to incite him 3, the bright sperm poured down from Heaven (or, from the god Dyaus)4, Agni produced 5 and furthered the blameless, young, well-wishing host 6.
What time his glory urged the lord to strength,
Then (did) Dyaus (let) the pure seed be sprinkled openly;
Agni begot the host, the blameless, the youthful,
The worshipping, and gave it impulse.
When the (missile’s) sharp point reached the lord of men [=Agni] (for him) to release it, Heaven, at the moment of contact, (released) the blazing semen poured out.
Agni engendered the faultless young troop of good intention [=Aṅgirases] and sweetened it.
Wenn ihn, den Herrn, zur Labung Glanz erfüllt hat, dann strömt vom Himmel nieder reiner Same; Die tadellose junge Schar hat Agni, die sorgende, erzeugt und gross gezogen.
Als dem Männerherrn die Brunst ankam zum Genusse, da hat der Himmel den bei der Liebesbegegnung vergossenen reinen Samen zurückgelassen. Agni brachte die tadellose jugendliche Schar, die wohlgesinnte, zur Geburt und machte sie zu Meistern.
Когда страсть к наслаждению охватила господина людей,
(Отец-) небо при (любовном) соитии (испустил) чистое семя, которое разлилось.
Агни породил безупречную юную благосклонную
Толпу (Ангирасов) и сделал (их) прекрасными.
मनो॒ न योऽध्व॑नः स॒द्य एत्येक॑: स॒त्रा सूरो॒ वस्व॑ ईशे । राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
मनः॑ । न । यः । अध्व॑नः । स॒द्यः । एति॑ । एकः॑ । स॒त्रा । सूरः॑ । वस्वः॑ । ई॒शे॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । गोषु॑ । प्रि॒यम् । अ॒मृत॑म् । रक्ष॑माणा ॥
यः सूरः सूर्यः एकः एकाकी असहायः सन् अध्वनः दिव्यान् मार्गान् सद्यः एति आशु गच्छति । असहायत्वं च श्रूयते-’ सूर्य एकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरति ' ( तै. ब्रा. ३. ९. ५. ४ ) इति । शीघ्रगमनं च स्मर्यते-- योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ' इति । शीघ्रगमने दृष्टान्तः । मनो न । यथा मनः शीघ्रं गच्छति तद्वत् । स च सूरः वस्वः धनस्य सत्रा सहैव युगपदेव ईशे ईष्टे । यो हि शीघ्रं गच्छति स बहुदेशेष्ववस्थितानि धनानि प्राप्नोति । तथा राजाना राजमानौ सुपाणी शोभनबाहू मित्रावरुणा मित्रावरुणौ अस्मदीयासु गोषु प्रियं सर्वेषां प्रीतिकरम् अमृतम् अमृतवत्स्वादुभूतं पयः रक्षमाणा रक्षन्तौ वर्तेते । हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तसे इति भावः ॥ वस्वः । लिङ्गव्यत्ययः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ‘ घेर्ङिति' इति गुणाभावे यणादेशः । ईशे । ईश ऐश्वर्ये। ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । मित्रावरुणा । देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः। • देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् ॥
“The sun, who traverses alone the path of heaven with the speed of thought, is at once lord of all treasures; the two kings, Mitra and Varuṇa, with bounteous hands, are the guardians of the precious ambrosia of our cattle.”
He who like thought goes swiftly on his journey, the Sun, alone is ever Lord of riches.
The Kings with fair hands, Varuna and Mitra, protect the precious nectar in our cattle.
He who traverses the paths quickly 1 like thought, the Sun alone rules over wealth altogether. (There are) the two kings Mitra and Varuna with graceful hands 2, who watch over the beloved ambrosia 3 in the cows.
Who, like thought, travels his roads in a single day, the Sun alone is entirely master of goods,
(as are) the kings Mitra and Varuṇa, they of good hands, who guard their own dear immortal thing [=milk?] within the cows.
Die Sonn' allein, die wie der Geist die Wege im Nu durcheilt, besitzet allen Reichthum; Die Herrscher Mitra, Varuna, die milden, den lieben Nektar in den Kühen hegend.
Der Sonnengott, der wie der Gedanke in kürzester Frist seine Wege geht, gebeut allein über das Gut insgesamt, während die Könige Mitra und Varuna, die schönhändigen, die liebe Götterspeise in den Kühen bewachen.
Словно мысль (- в один миг), в один день проходя (свои) пути,
Солнце целиком владеет (всем) добром,
(А) два царя прекрасноруких, Митра и Варуна,
Охраняют в коровах любимый напиток бессмертия.
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् । नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या॑णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् । नभः॑ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अधि॑ । इ॒हि॒ ॥
हे अग्ने पित्र्याणि पितरं वसिष्ठमुपक्रम्यागतानि सख्या सखित्वानि मा प्र मर्षिष्ठाः मा विनाशय । अत्र मृष्यतेरुपसर्गवशादर्थान्तरे वृत्तिः । यतस्त्वं कविः क्रान्तदर्शी सन् अभि आभिमुख्येन विदुः सर्वं विद्वान् । नभो न रूपम् । यथान्तरिक्षं रूपवन्तः सूर्यरश्मय आच्छादयन्ति तद्वदाच्छादयति । जरिमा जरा मिनाति मां सूक्तद्रष्टारं हिनस्ति । अभिशस्तेः हिंसाहेतोः तस्याः जरायाः पुरा अधीहि मां बुध्यस्व । सा यथा न प्राप्नोति तथा कुरु । अमृतत्वं प्रयच्छेति यावत् ॥ सख्या । सख्युर्भावः सख्यम् । • सख्युर्यः' इति यः । पित्र्याणि । पितृभ्य आगतानि । ‘ पितुर्यच्च । (पा. सू. ४. ३. ७९ ) इति यत्प्रत्ययः । ‘ रीङृतः ' ( पा. सू. ७. ४. २७ ) इति रीङादेशः । ‘ यस्येति च ' इति ईकारलोपः । यतोऽनावः' इत्याद्युदात्तत्वम् । मर्षिष्ठाः । ‘ मृष तितिक्षायाम् । प्रार्थनायां छान्दसो लुङ् । ' न माङ्योगे ' इति अडभावः । विदुः । ‘ विद ज्ञाने'। ‘ बहुलमन्यत्रापि ' इति उसिप्रत्ययः । अत एव बहुलवचनाद्गुणाभावः । ‘ छन्दसि वाप्राम्रेडितयोः '( पा. सू. ८. ३. ४९ ) इति विसर्जनीयस्य षत्वम् । नभः । ‘ नहेर्दिवि भश्च' ( उ. सू. ४.६५०) इति असुन् । जरिमा । ‘ जॄष् वयोहानौ'। औणादिको भावे इमनिच्प्रत्ययः । मिनाति । ‘ मीञ् हिंसायाम् । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । अभिशस्तेः । अभिशस्यते हिंस्यतेऽनयेत्यभिशस्तिः । करणे क्तिन् । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । अधीहि । ‘ इक् स्मरणे '। लोटि अदादित्वात् शपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभावः ॥ ॥ १६ ॥
“Dissolve not, Agni, our ancestral friendship, for you are cognizant of the past as well as of the present; in like manner as light (speeds over) the sky, so decay impairs (my body); think of me before that source of destruction (prevails).”
O Agni, break not our ancestral friendship, Sage as thou art, endowed with deepest knowledge.
Old age, like gathering cloud, impairs the body: before that evil be come nigh protect me.
Do not forget, O Agni, who art a sage possessed of knowledge 1, our paternal friendship. Old age impairs the appearance (of men) as a cloud (covers the sun or the sky). Before this curse (attains us), think thou (of us) 2.
Agni, do not neglect our ancestral partnerships, being preeminent as a wise poet.
Old age alters our form like a cloud. Be attentive (to us) in the face of this curse.
O Agni, der du bist ein weiser Seher, vergiss nicht unsre väterliche Freundschaft; Das Alter mindert Schönheit wie der Nebel, vor solchem Uebel wollest du uns wahren.
Vergiß nicht, Agni, unsere väterliche Freundschaft, der du als Seher die Wissenden übertriffst! Das Alter verändert das Aussehen wie die Wolke ihr Aussehen ändert. Bevor solcher Vorwurf erhoben wird, gedenke unser!
Не забывай, о Агни, наших отеческих, дружеских чувств,
(Ты,) поэт, ведающий больше (всех).
Будто облако (меняется), старость уменьшает красоту.
Подумай (о нас, чтобы спасти) от этого проклятья!