नि काव्या॑ वे॒धस॒: शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥
नि । काव्या॑ । वे॒धसः॑ । शश्व॑तः । कः॒ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता॑नि । विश्वा॑ ॥
नि काव्येति दशर्चमष्टमं सूक्तं त्रैष्टुभम् आग्नेयं पराशरस्यार्षं +++(अनुक्रमणिकायां)+++ अनुक्रान्तं च ।
नि काव्येति ॥ प्रातर् अनुवाकाश्विन-शस्त्रयोर् उक्तो विनियोगः ॥
शश्वतः शाश्वतस्य नित्यस्य वेधसो विधातुर् ब्रह्मणः सम्बन्धीनि काव्या काव्यानि मन्त्र-रूपाणि स्तोत्राण्य् अयम् अग्निर् नि कः । नियमेन स्वात्माभिमुखं करोति।
किं कुर्वन् ? नर्या नृभ्यो हितानि नृषु साधूनि वा पुरूणि बहूनि धनानि हस्ते दधानो हस्ते धारयन् । ईदृग्-भूतम् अग्निम् अवलोक्य सर्वे जनाः स्तुवन्तीति भावः ।
स्तोतृभ्यो धनेष्व् अप्य् अग्नेर् धनं न क्षीयत इत्याह - अग्निर् इति ।
अयम् अग्नी रयीणां रयिपतिर् भुवत् । धनानां मध्ये यानि धनान्य् उत्कृष्टानि, तेषां स्वामी भवति ।
किं कुर्वन्? विश्वा विश्वानि सर्वाण्य् अमृतानि । हिरण्यनामैतत् । अमृतं हिरण्यम् । अथ ५-२८-११ । इति श्रुतेः । सर्वाणि हिरण्यानि स्तोतृभ्यः सत्रा सहैव चक्राणः कुर्वन् । युगपत् प्रयच्छन्न् इत्यर्थः ॥
कः । करोतेश्छान्दसो लुङ् । मन्त्रे घसेति च्लेर्लुक् । हल्ङ्याभ्य इति तकारलोपः । नर्या । नरशब्दाद्धितार्थे गवादिलक्षणो यत्प्रत्ययो द्रष्टव्यः (पा ५-१-२) यद्वा । तत्र साधुरिति यत् । चक्राणः । करोतेर्लटः शानच् । बहुलं छन्दसीति विकरणस्य श्लुः । नन्वेवं सत्यभ्यस्तानामादिरित्याद्युदात्तत्वं प्राप्नोति । एवम् । तर्हि लिटः कानजस्तु । तस्यार्धधातुकत्वेनाभ्यास्ताद्युदात्तत्वाभावे चित्स्वर एव शिष्यते ॥ १ ॥
“Agni, holding in his hands many good things for men, appropriates the prayers addressed to the eternal creator. Agni is the lord of riches, quickly bestowing (on those who praise him) all golden (gifts).”
THOUGH holding many gifts for men, he humbleth the higher powers of each wise ordainer.
Agni is now the treasure-lord of treasures, for ever granting all immortal bounties.
He has brought down (i. e. surpassed) the wisdom of many a worshipper 1, he who holds in his hand all manly power. Agni has become the lord of treasures, he who brought together all (powers of) immortality.
He outdoes the poetic skills of each and every ritual expert, taking in his hand many manly powers.
Agni has become the wealth-lord of wealth, making wholly his own all immortal things.
Er übertrifft jedwedes Ordners Weisheit, in Händen tragend viele Männergaben; Der Schätze Schatzherr ist geworden Agni, vollbringend alles stets, was unvergänglich.
An Sehergabe stellt er alle Meister in Schatten, der viele Manneskräfte in der Hand hält. Agni ward der Herr der Reichtümer, der alle unsterblichen Kräfte insgesamt sich angeeignet hat.
По вспышкам вдохновения он превосходит любого искушенного (жреца),
Держа в руке многие силы мужества.
Агни стал господином богатств,
Забрав себе целиком все бессмертное.
अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः । श्र॒म॒युव॑: पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः । श्र॒म॒ऽयुवः॑ । प॒द॒व्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥
अस्मे अस्माकं वत्सं वत्सवद् अत्यन्तं प्रियम् । यद्वा । वत्सः पुत्रः पश्चाद् उत्पन्नत्वात् । तद्वद् अग्निर् अप्य् अस्याकं पुत्रः । तथा चाम्नायते - "ममैव सन् वह हव्यान्य् अग्ने । पुत्रः पित्रे लोककृज् जातवेदः ।" तै ब्रा ३-७-७-१० । इति ।
परि षन्तं परितः / सर्वत्र वर्तमानम् । देवेभ्यो निर्गत्याश्वत्थवेण्वादिषु निलीनं सन्तमित्यर्थः । एवंविधम् अग्निम् इच्छन्तो विश्वे ऽमृताः सर्वेऽमरण-धर्माणो देवा अमूरा अमूढा मरुतश् च।
न विन्दन् - तम् अग्निं नालभन्त । अलभमानाश् च ते श्रमयुवो हव्य-वाहनस्याभावेन हविषाम् अभावात् तज्जन्येन श्रमेण क्लेशेनैकीभूताः तस्याग्नेर् अन्वेषणाय पदव्यः पादैर् गच्छन्तः धियन्धा धियाम् अग्नेः शयनासन-स्थानादि-लक्षणानां कर्मणां धारयितारः । एवंविधा सन्तश् चारु चारुणि शोभनेऽग्नेः परम उत्तमेऽन्त्ये पदे । यत्र ह्य् अग्निर् निलीनो वर्तते तत्रेत्यर्थः । तस्मिन् पदे तस्थुः स्थितिवन्तः । बहुविधेन प्रयासेनाग्निं ददृशुरित्यर्थः ॥
परि षन्तम् । उपसर्गप्रादुर्भ्यामस्तिर्यच् परः (पा ८-३-८७) इति षत्वम् । श्रमयुवः । यु मिश्रणे । श्रमेण यूयन्त इति श्रमयुवः । क्विब्वचिप्रच्छीत्यादिना (उ २-५७) विधीयमानौ क्विब्दीर्घावस्मादपि धातोर्भवतः । तन्वादित्वादुवङ् । पदव्यः । वी गत्यादिषु । पादेन वियन्ति गच्छन्तीति पदव्यः । क्विप्चेति क्विप् । धियन्धाः । आतोऽनुपसर्गे क इति कः । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । तस्थुः । पादादित्वान्निघाताभावः । चारु । सुपां सुलुगिति सप्तम्या लुक् ॥ २ ॥
“All the immortals, and the unbewildered (Maruts), wishing for him who was (dear) to us as a son, and was everywhere around, discovered him not; oppressed with fatigue, wandering on foot, and cognizant of his acts, they stopped at the last beautiful (hiding) plural ce of Agni.”
The Gods infallible all searching found not him, the dear Babe who still is round about us.
Worn weary, following his track, devoted, they reached the lovely highest home of Agni.
1 All the clever immortals when seeking did not find the calf though sojourning round about us. The attentive (gods), wearying themselves, following his footsteps 2, stood at the highest, beautiful 3 standing-place of Agni.
Among us they did not find what was enclosing the calf [=Agni], though all the immortals—no fools—were seeking it.
Taking pains, following the track, producing insight, they took their stand at the dear (name) of Agni, on the highest track.
Nicht fanden sie das Kind, das bei uns weilte, die weisen Götter alle, die es suchten; Sich mühend blieben achtsam stehn die Führer dort an dem schönen, höchsten Ort des Agni.
bei uns fanden alle weisen Unsterblichen suchend den nicht, der das Kalb gefangen hielt. Sich mühend, seine Spur verfolgend, sinnend machten sie Halt bei der entferntesten Spur, bei der teuren Spur des Agni.
У нас не нашли теленка, находящегося (в укрытии где-то) вокруг,
Все (эти) ищущие бессмертные мудрецы,
Утомляясь, идя по следу, пуская в ход силу видения.
Они оказались в высшем месте – (это) милое (место) Агни.
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् । नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒॑: सुजा॑ताः ॥
ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः॑ । त्वाम् । इत् । शुचि॑म् । घृ॒तेन॑ । शुच॑यः । स॒प॒र्यान् । नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । असू॑दयन्त । त॒न्वः॑ । सुऽजा॑ताः ॥
शुचयः शोधयितारो दीप्ता वा मरुतो हे अग्ने शुचिं शुद्धं दीप्यमानं वा त्वाम् इद् देवेभ्यो निर्गतं त्वाम् एवोद्दिश्य तिस्रः शरदस् त्रीन् संवत्सरान् घृतेनाज्येन यद् यदा सपर्यान् पूजां कुर्युः तदानीं त्वमाविर् अभूः । तदनन्तरं ते मरुतस् त्वयानुगृहीताः ।
सन्तो यज्ञियानि यज्ञार्हाणि यज्ञे प्रयोक्तुं योग्यानि नामानि चित् नामान्यपि दधिरे अधारयन् । नामानि च तैत्तिरीयके समाम्नायन्ते - "ईदृक् चान्याद्यक् च तादृङ् च प्रतिदृङ् च मितश्च सम्मितश्च सभराः"- तै । सं ४-६-५-५ । इद्यादीनि । एतैश्चाग्नि-चयने मारुताः सप्त-कपाला हूयन्ते ।
नामानि धारयित्वा च सुजाताः पूर्वं रूपं परित्यज्य शोभनम् अमृतत्वं प्राप्ताः सन्तस् तन्वः स्वकीयानि शरीराण्य् असूदयन्त स्वर्गं प्रापितवन्तः ॥
तिस्रः शसि त्रिचतुरोः स्त्रियां तिसृचतसृ इति पूर्वसवर्णदीर्घत्वे प्राप्तेऽचि र ऋत इति रेफादेशः । त्रिशब्दः फिषः । फि । १-१ । इत्यन्तोदात्तः । तिस्रादेशस्यापि स्थानिवद्भावेनान्तोदात्तत्व उदात्तयणो हल्पूर्वादिति शस उदात्तत्वम् ।
शरदः । शृ हिंसायाम् । शीर्यन्तेऽस्यामोषधय इति शरत्संवत्सरः । शृदृभसोऽदि (उ १-१२९) इत्यदिप्रत्ययः । उभयत्र कालाध्वनोरत्यन्तसंयोगे (पा २-३-५) इति द्वितीया ।
सपर्यान् । सपर पूजायाम् । कण्ड्वादिः । लेट्याडागमः । इतश् च लोप इतीकारलोपः ।
यज्ञियानि । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घप्रत्ययः ॥ ३ ॥
“Inasmuch, Agni, as the pure (Maruts) worshipped you, (equally) pure, with clarified butter for three years, therefore they acquired names worthy (to be treated) at sacrifice, and, being regenerated obtained celestial bodies.”
Because with holy oil the pure Ones, Agni, served thee the very pure three autumn seasons,
Therefore they won them holy names for worship, and nobly born they dignified their bodies.
When the bright ones 1 had done service 2 to thee, the bright one, Agni, with Ghrita through three autumns, they assumed worshipful names; the well-born shaped their own bodies.
Since, o Agni, for three autumns they [=gods?] served just you, the glowing one, with ghee—themselves glowing—
they also acquired names worthy of worship and, well-born, they
sweetened their own bodies.
Als Agni dich, den reinen, dann die reinen drei Herbste durch mit Opferbutter ehrten, Erlangten sie auch opferwerthe Namen, die edlen machten herrlich ihre Leiber.
Da dich, den Reinen, o Agni, die Reinen drei Herbste lang mit Schmalz ehrten, haben sie sich selbst den opferwürdigen Namen erworben und ihre Leiber vervollkommnet, ihr Edelgeborenen.
Так как три осени тебя, о Агни,
Чистого, они, чистые, почитали жиром,
Они приобрели себе имена, достойные жертв,
(И) сделали совершенными (свои) тела, (они) прекраснорожденные.
आ रोद॑सी बृह॒ती वेवि॑दाना॒: प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः । वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥
आ । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । वेवि॑दानाः॑ । प्र । रु॒द्रिया॑ । ज॒भ्रि॒रे॒ । य॒ज्ञिया॑सः । वि॒दत् । मर्तः॑ । ने॒मऽधि॑ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् ॥
- बृहती महत्यौ रोदसी द्यावापृथिव्यावा वेविदाना अत्यर्थं ज्ञापयन्तः । कुत्राग्निर्वर्तत इति परस्परं वदन्तो द्यावापृथिव्योर्मध्ये वर्तमाना इत्यर्थः ।
- यद्वा । महत्योर्द्यावापृथिर्व्योर् मध्य आ वेविदाना अग्निमुपलभमानाः ।
एवम्भूता यज्ञियासो यज्ञार्हा देवा रुद्रियाः ।
- रुद्रोऽग्निः । देवानामसुरैः सह युद्ध समये तैर् देवैः स्थापितं धनम् अपहृत्य गतवन्तम् अग्निं देवा आगत्याग्नि-सकाशाद् बलेन तद्धनम् अगृह्णन् । तदानीं सोऽग्निर् अरोदित् । तस्माद् रुद्र इत्याख्यायते ।
- तथा च तैत्तिरीयकम् । तद् अग्निर् न्यकामयत। तेनापाक्रामत्। तद् देवा विजित्यावरुरुत्समाना अन्वायन्। तदस्य सहसादित्सन्त। सोऽरोदीत्। यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम् । तै । सम् । १-५-१-१ । इति ।
तस्य रुद्रस्यार्हाणि स्तोत्राणि प्र जभ्रिरे । प्रजह्रिरे । चक्रुर् इत्य् अर्थः ।
नेमधिता । नेमशब्दोऽर्धवचनः ।
- तथा च यास्कः । त्वो नेम इत्यर्धस्य (नि ३-२०) इति । सर्वेषां देवानाम् अर्धभागेन धीयते धार्यत इति नेमधित इन्द्रः । सर्वे देवा एकोऽर्धः । इन्द्र एक एवापरोऽर्ध इति यावत् ।
- तथा च तैत्तिरीयकम् । यत् सर्वेषाम् अर्धम् इन्द्रः। प्रति तस्माद् इन्द्रो देवतानां भूयिष्ठ-भाक्-तमः । तै सं ५-४-८-३ । इति ।
तेनेन्द्रेण सहितो मर्तो मरुद्गणः परम उत्तमे ऽत्ये पदे स्थाने ऽश्वत्थादौ तस्थिवांसं स्थितवन्तम् अग्निं चिकित्वाञ् जानन्न् इदत् । अलभत ॥
वेविदानाः । विदेर् ज्ञानार्थाल् लाभार्थाद् वा यङन्ताल्लटः शानच् । बहुलं छन्दसीति शपो लुक् । छन्दस्य् उभयथेति शानच आर्धधातुकत्वाद् अतोलोप-यलोपौ । अभ्यस्तानाम् आदिर् इत्याद्य् उदात्तत्वम् ।
विदत् । विद्लृ लाभे । लुङिल्बदित्वात् च्लेरङादेशः ।
नेमधिता । दधातेः कर्मणि निष्ठा । सुधित वसुधित नेमधित (पा ७-४-४५) इति धिभावो निपात्यते । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयाया अकारः ।
तस्थिवांसम् । तिष्ठतेर् लिटः क्वसुः । वस्वेकाजाद्घसाम् इतीडागमः ॥ ४ ॥
“Those who are to be worshipped, (the gods), inquiring between the expansive heaven and earth (for Agni), recited (hymns) dedicated to Rudra; the troop of mortal (Maruts), with (Indra), the shrer of half the oblation, knowing where Agni was hiding found him in his excellent retreat.”
Making them known to spacious earth and heaven, the holy Ones revealed the powers of Rudra.
The mortal band, discerning in the distance, found Agni standing in the loftiest station.
Acquiring (or, exploring?) for themselves the two great worlds, the worshipful ones brought forward their Rudra-like powers 1. The mortal, when (beings) were in discord 2, perceived and found out Agni standing in the highest place.
Ever possessing the two lofty world-halves [/Rodasī], the sons of Rudra [=Maruts], worthy of worship, pressed forward.
In the opposite position a mortal, perceiving him, found Agni standing on the highest track.
Erreichend beide hocherhabne Welten beeilten sich die hehren Rudrasöhne, Aufmerkend sah der Mensch vom untern Standpunkt den Agni, wie am höchsten Ort er dastand.
Bei beiden hohen Rodasi Himmel und Erde Gehör findend haben sich die opferwürdigen Rudrasöhne an die Spitze gesetzt. Ein Sterblicher fand den Agni, als sie sich geteilt hatten, und entdeckte ihn, als er an der fernsten Spur sich aufhielt.
Достигнув двух высоких миров,
Рудры, достойные жертв, понеслись вперед.
Смертный, разбирающийся в меняющемся положении, нашел
Агни, находящегося в высшем месте.
सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् । रि॒रि॒क्वांस॑स्त॒न्व॑: कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
स॒म्ऽजा॒ना॒नाः । उप॑ । सी॒द॒न् । अ॒भि॒ऽज्ञु । पत्नी॑ऽवन्तः । न॒म॒स्य॑म् । न॒म॒स्य॒न्निति॑ नमस्यन् । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । स्वाः । सखा॑ । सख्युः॑ । नि॒ऽमिषि॑ । रक्ष॑माणाः ॥
घर्माभिष्टवे सञ्जानाना इत्येषा । अथोत्तरम् इति खण्डे सूत्रितम् - सञ्जानाना उप सीदन्नभिज्ञ्वादशभिर्विवस्वतः (आ ४-७) इति ॥
हे अग्ने त्वां सञ्जानानाः सम्यग् जानन्तो देवा उप सीदन् - उपसीदन्ति प्राप्नुवन्ति । उपसत्तिं कृत्वा च पत्नीवन्तः सपत्नीकाः सन्तो नमस्यं नमस्कारार्हम् अभिज्ञु अभिमुख्येनावस्थित-जानुयुक्तं त्वां नमस्यन् अपूजयन् ।
पूजयित्वा च सख्युर् मित्रस्य तव निमिषि दर्शने निमित्तभूते सति रक्षमाणास् त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्वास् तन्वः स्वकीयानि शरीराणि रिरिक्वांसो ऽनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वन्तः शोषयन्तः कृण्वत यागान् अकुर्वन् । "देवा वै यज्ञमतन्वत ।" ऐ ब्रा २-११ । इति श्रुतेः ॥
नमस्यन् । नमोवरिवश्चित्रङ इति पूजार्थे क्यच् । लङि बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः ।
रिरिक्वांसः । रिचिर् विरेचने । लिटः क्वसुः ।
निमिषि । मिष स्पर्धायां । अत्रोपसर्गवशाद् दर्शनार्थः । सम्पदादिलक्षणो भावे क्विप् ।
रक्षमाणाः । कर्मणि लटः शानच् । यकि प्राप्ते व्यत्ययेन शप् ॥ ५ ॥
“The gods, discovering you, sat down, and with their wives paid reverntial adoration to you upon their knees. Secure on beholding their friend, of being protected, your friends, the gods, abandoned the rest of their bodies in sacrifice.”
Nigh they approached, one-minded, with their spouses, kneeling to him adorable paid worship.
Friend finding in his own friend's eye protection, they made their own the bodies which they chastened.
Being like-minded they reverentially approached him on their knees. Together with their wives they venerated the venerable one. Abandoning their bodies they made them their own, the (one) friend waking when the (other) friend closed his eyes.
Coming to an agreement, they reverently approached him on bended knee; along with their wives, they did reverence to the one worthy of reverence.
Having given up their bodies, they made (each other’s bodies) their
own, guarding them (as) a comrade does (that of) his comrade when he closes his eyes.
Sie sassen eines Sinnes kniend um ihn mit ihren Fraun, den ehrenwerthen ehrend, Hingebend schafften sie sich neue Leiber, der eine achtend auf den Wink des andern.
Eines Sinnes geworden nahten sie kniebeugend mit ihren Gattinnen und huldigten ihm, dem Huldigung gebührt. Nachdem sie die bisherigen Leiber aufgegeben hatten, nahmen sie die ihrigen an, indem ein Freund wachte, während der Freund die Augen schloß.
Став единодушными, они приблизились коленопреклоненно
Вместе с женами (и) поклонились ему, достойному поклонения.
Оставив (прежние) тела, они создали свои (теперешние),
Бодрствуя (так: один) друг (бодрствует), когда (другой) друг закрыл глаза.
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः । तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषा॑: प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥
त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे॒ इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ताः । य॒ज्ञिया॑सः । तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥
त्रिः सप्त एकविंशतिसङ्ख्याकानि गुह्यानि रहस्यानि वेदैक-समधि-गम्यानि यद् यानि पदा पदानि । पद्यते गम्यते स्वर्ग एभिरिति व्युत्पत्त्या पदशब्देनात्र यज्ञा उच्यन्ते । ते चैक-विंशति-सङ्ख्याकाः । औपासन-होम-वैश्वदेवादयः सप्त पाकयज्ञाः । अग्न्याधेय-दर्शपूर्णमासादयः सप्त हविर्यज्ञाः । अग्निष्टोमात्यग्निष्टोमादयः सप्त सोमयज्ञाः । एवम् एकविंशति सङ्ख्याकानि यज्ञलक्षणानि पदानि हे अग्ने त्वे इत् त्वय्य् एव निहिता स्थापितानि । तेषां सर्वेषां त्वत्-प्रधानत्वात् । न ह्य् अग्निम् अन्तरेण यागा अनुष्ठातुं शक्यन्ते ।
यज्ञियासो यज्ञार्हा अर्थित्व-सामर्थ्य-वैदुष्यादिभिर् अधिकार-हेतुभिर् युक्ताः । तथा चोक्तम् - "अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्य् अधिकारी"ति । एवंविध-लक्षणोपेता यजमानास् तानि पदान्य् अविदन् । अलभन्त । लब्ध्वा च तेभिर् यज्ञ-लक्षणैः पदैर् अमृतम् अमरणधर्माणं त्वां रक्षन्ते । पालयन्ति । यजन्तीत्यर्थः । सजोषास्तैर्यजमानैः समानप्रीतिस्त्वं पशून् गवाश्वादि-पशूंश् च स्थातॄन् व्रीह्यादि-स्थावराणि चरथं पशुव्यतिरिक्तम् अन्यद् यत् प्राणिजातम् अस्ति तच्छ पाहि । रक्ष । तेषु हि रक्षितेषु त्वदीया यागाः कर्तुं शक्यन्ते नान्यथा । अतस्त्वमेवमुच्यस इत्यर्थः ॥ यत् । सुपां सुलुगिति विभक्तेर्लुक् । गुह्यानि । गुहायां भवानि । भवे छन्दसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । त्वे सुपां सुलुगिति सप्तम्याः शे आदेशः । अविदन् । विद्लृ लाभे । लुङि लृदित्त्वादङ् । पशून् स्थातृन् । उभयत्रोभयथर्क्षु (पा ८-३-८) इत्युभयथाभावान्नकारस्य रुत्वाभावः ॥ ६ ॥
“(Devout men), competent to offer sacrifices, have known the thrice seven mystic rites comprised in you, and with them, worshipped you; do you, therefore, with like affection, protect their cattle, and all that (belongs to them), moveable or stationary.”
Soon as the holy beings had discovered the thrice-seven mystic things contained within thee,
With these, one-minded, they preserve the Amrta: guard thou the life of all their plants and cattle.
When the worshipful (gods) have discovered the thrice seven secret steps (or, places) laid down in thee, they concordantly guard with them immortality. Protect thou the cattle and that which remains steadfast and that which moves.
Since those worthy of worship found deposited just in you the three times seven secret tracks,
with these do they, of one accord, guard their own immortal one.
Protect the livestock, both the still and the moving.
Da dreimal sieben tief verborgne Spuren, die in dir sind, die heiligen gefunden, Behüten sie vereint durch sie den Nektar; das Vieh beschirme, und was steht und wandelt.
Seit die Opferwürdigen die dreimal sieben geheimen Worte, die bei dir verborgen waren, gefunden hatten, bewachen sie einträchtig mit diesen den Unsterblichen. Hüte du die Tiere und alles was steht und geht!
С тех пор как достойные жертв (боги) нашли спрятанные
В тебе трижды семь тайных слов,
Ими они единодушно охраняют бессмертие.
Защити скот, а также неподвижные и подвижные (существа)!
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः । अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥
वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ । अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥
हे अग्ने वयुनानि - ज्ञान-नामैतत्। इह तु ज्ञातव्ये वर्तते ।
सर्वाणि ज्ञातव्यानि विद्वान् जानंस्त्वं क्षितीनां यजमान-लक्षणानां प्रजानां जीवसे जीवितुं शुरुधः क्षुद्-रूपस्य शोकस्य रोधयित्रीर् इषो ऽन्नान्य् आनुषक् अनुषक्तं सन्ततं यथा भवति तथा वि धाः - विधेहि - कुर्व् इत्य् अर्थः ।
एवं यजमानान् अन्न-समृद्धान् कृत्वा ऽनन्तरम् । हविर्वाट् - तैर् देवेभ्यः प्रत्तं+++(=दत्तं)+++ हविर् वहन् दूतो ऽभवः - देवानां दूतो भवसि ।
कीदृशस् त्वम्? अन्तर् विद्वान् द्यावापृथिव्योर् मध्ये जानन् ।
किं जानन्? अध्वनो मार्गान् ।
कीदृशान् ? देवयानान् । देवा यैर् मार्गैर् यान्ति गच्छन्ति ताञ् जानन्नित्यर्थः । अतन्द्रः पुनर्हविर्-वहनेऽप्यनलसः ॥
वयुनानि । अज गतिक्षेपणयोः । अजियमिशीङ् भ्यश्च (उ ३-६१) इति कर्मण्युनप्रत्ययः । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावः ।
क्षितीनाम् । क्षियन्ति, निवसन्तीति क्षितयो मनुष्याः । क्तिच् क्तौ च सञ्ज्ञायामिति कर्तरि क्तिच् । अन्तोदात्ताद्ध्रस्वान्तात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् ।
शुरुधः । शुचम् । रुन्धन्तीति शुरुधः । क्विप्चेति क्विप् । पूर्वपदस्यान्त्यलोपः । पृषोदरादित्वात् ॥ ७ ॥
“Agni, who are cognizant of all things to be known, ever provide for the subsistence of men, grief-alleviating (food); so shall you be the diligent bearer of oblations, and messenger of the gods, knowing the paths between (earth and heaven), by which they travel.”
Thou, Agni, knower of men's works, hast sent us good food in constant course for our subsistence:
Thou deeply skilled in paths of Gods becamest an envoy never wearied, offering-bearer.
Knowing, O Agni, the established orders 1 of (human) dwellings, distribute in due order gifts 2 that they may live. Knowing the ways which the gods go 3, thou hast become the unwearied messenger, the bearer of oblations.
Knowing the patterns of the settled peoples, o Agni, distribute
proliferating riches in proper order (for them) to live.
Inwardly knowing the roads leading to the gods, you have become the tireless messenger carrying the oblations.
Der, Agni, du der Menschen Werke kennest, gib nacheinander Tränke uns zum Leben; Der Wege kundig, die die Götter wandern, warst unermüdet Bote du und Opfrer.
Agni, Der du die Wege der Völker kennst, teile die Gaben der Reihe nach aus zum Leben! Du wardst der unermüdliche Bote, der Opferfahrer, der die von Göttern begangenen Pfade herauskennt.
О Агни, знающий границы (людских) поселений,
Даруй по очереди подкрепления, чтобы (люди) жили!
О знающий изнутри пути, исхоженные богами,
Ты стал неутомимым вестником, возницей жертвенных возлияний.
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् । वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥
स्वु॒ऽआध्यः॑ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः॑ । वि । ऋ॒त॒ऽज्ञाः । अ॒जा॒न॒न् । वि॒दत् । गव्य॑म् । स॒रमा॑ । दृ॒ळ्हम् । ऊ॒र्वम् । येन॑ । नु । क॒म् । मानु॑षी । भोज॑ते । विट् ॥
स्वाध्यः शोभनकर्मयुक्ता यह्वीर् यह्वो महत्यः सप्त गङ्गाद्याः सप्त नद्यो दिवो द्युलोकादागत्य भूम्यां प्रवहन्तीति शेषः ।
हे अग्ने ईदृग्-विधा नद्यस् त्वया स्थापिताः । अग्नौ होमे सति हि तेन तृप्तः सूर्यो वृष्टिं करोति । तस्मिन्नर्थे स्मृतिः पूर्वमुदाहृता । अतो वृष्टि-द्वाराग्निर् एव नदीः करोतीत्य् उच्यते ।
तथा ऋतज्ञा ऋतं यज्ञं जानन्तो ऽङ्गिरसो रायो वल-नाम्नासुरेणापहृतस्य गोरूपस्य धनस्य दुरो द्वाराणि गमन-मार्गान् अजानन् । त्वया ज्ञानवन्तः ।
त्वत्-साध्येन यागेन प्रीत इन्द्रो गवाम् अन्वेषणाय सरमां नाम देवशुनीं प्रेषितवान् । सा च सरमा गवां स्थानम् अवगत्येन्द्रस्य न्यवेदयत् । इन्द्रश् च तान् अङ्गिरसो गाः प्रापयत् । अत एतत् सर्वं त्वम् एव कृतवान् ।
अङ्गिरोभ्यः सकाशाद् गव्यं गवि भवं दृळ्हं स्थूलं बहुलम् इत्यर्थः । एवंविधं पयोलक्षणम् ऊर्वम् अन्नं सरमा देवशुनी विदत् । अलभत । कम् इत्य् एतत् पादपूरणम् ।
येन नु येन हि गव्येन मानुषी विट् मनोः सम्बन्धिनी प्रजा भोजते इदानीं भुङ्क्ते । तद् गव्यम् अपि परम्परयाग्निर् एव करोति ॥
स्वाद्यः । सु-अङ्-पूर्वाद् धीशब्दाज् `जस्य् एर् अनेकाच` इति यणादेशः ।
यह्वीः । वा छन्दसीति पूर्व-सवर्ण-दीर्घत्वम् ।
गव्यम् । सर्वत्र गो-रजादि-प्रत्यय-प्रसङ्गे यद्वक्तव्यम् इति भावार्थे यत् ।
ऊर्वम् । उर्वी हिंसार्थः । ऊर्वति क्षुधं हिनस्तीत्य् ऊर्वम् अन्नम् । पचाद्यच् ।
भोजते । भुज पालनाभ्यवहारयोः । श्नमि प्राप्ते व्यत्ययेन शप् ॥ ८ ॥
“The seven pure rivers that flow from heaven (are directed, Agni, by you; by you, the priests), skilled in sacrifices, knew the doors of the (cave where) the treasure, (their cattle), were concealed for you Saramā discovered the abundant milk of the kine with which man, the progeny of Manu, still is nourished.”
Knowing the Law, the seven strong floods from heaven, full of good thought, discerned the doors of riches.
Sarama found the cattle's firm-built prison whereby the race of man is still supported.
They who knew the right way and were filled with good intentions, beheld from heaven the seven young 1 (rivers) and the doors of riches. Saramâ found the strong stable of the cows from which human clans receive their nourishment 2.
Very attentive, (they discerned) the seven young maidens of heaven [=rivers]; knowing the truth, they discerned the doors of wealth.
Saramā found the firmly fixed cattle-pen, by which, even now, the clan stemming from Manu benefits.
Vom Himmel her ersahn die heil'gen kundig die sieben Ströme und des Reichthums Thore; Und Sarama fand auf den festen Kuhstall, von dem zumeist sich nährt der Stamm der Menschen.
In guter Absicht brachten sie die sieben jüngsten Ströme des Himmels; sie machten die Tore des Reichtums ausfindig, des rechten Weges kundig. Sarama fand die eingeschlossene Kuhherde, von der noch jetzt der menschliche Stamm zehrt.
С добрыми намерениями они (спустили) с неба семь юных (рек).
Знатоки закона, они познали врата богатства.
Сарама нашла загон с коровами, крепко (запертый),
С помощью которого и сейчас наслаждается род человеческий.
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । म॒ह्ना म॒हद्भि॑: पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् । म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेः ॥
य आदित्या अमृतत्वायामरणत्वसिद्धये गातुं मार्गम् उपायं कृण्वानासः कुर्वाणाः सन्तो विश्वा विश्वानि सर्वाणि स्वपत्यानि शोभनान्य् अपतन-हेतुभूतानि चतुर्-दशरात्र--षट्-त्रिंशद्-रात्रादित्यानाम् अयनादीनि कर्माण्य् आ तस्थुः आस्थितवन्तः - कृतवन्त इत्यर्थः । तथा च तैत्तिरीयकम् - "आदित्या अकामयन्त सुवर्गं लोकमियामेतीति । त एतँ षट् त्रिंशद्रात्रमपश्यन् तमाहरन् तेनायजन्तेति च ।" तै सं ७-४-६-१ । महद्भिर् अनुष्ठानेन महानुभावैस् तैः पुत्रैः सहिता माता जनयित्र्य् अदितिर् अदीना पृथिवी धायसे सर्वस्य जगतो धारणाय मह्ना स्वकीयेन महत्त्वेन वि तस्थे- विशेषेण तिष्ठति । हे अग्ने यतस् त्वं वेः आदित्यैर् अनुष्ठितेषु यागेषु चरुपुरोडाशादीनि हवींष्य् अभक्षयः, अत एतत् सर्वं जातमित्यर्थः ॥
कृण्वानासः । कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेनाकारान्तादेशश्च । तस्यतो लोपे सति स्थानिवद्भावाद्गुणाभावः । शानचश्चित्त्वादन्तोदात्तत्वम् । अज्जसेरसुक् ।
मह्ना । महिम्नेत्यस्य । वर्णलोपश्छान्दसः ।
धायसे । वहिहाधाञ्भ्यश्छन्दसीति दधातेर्भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युक् ।
वेः । वी गति-प्रजन-कान्त्य्-अशन-खादनेषु । लङि सिप्यदादित्वाच्छपो लुक् । बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः ।
धायस इत्यस्य वाक्यान्तर-गतत्वाद् अस्य निघाताभावः ॥ ९ ॥
“You have been fed, (Agni, with oblations) ever since the Ādityas, devising a road to immortality; instrumental tuted all (the sacred rites) that secured them from failing and mother earth, Aditi, strove with her magnitude to uphold (the world), along with her mighty sons.”
They who approached all noble operations making a path that leads to life immortal,
To be the Bird's support, the spacious mother, Aditi, and her great Sons stood in power.
The Earth has spread herself far and wide with them who are great in their greatness, the mother Aditi, for the refreshment of the bird 1, with her sons who have assumed all powers of their own dominion 2, preparing (for themselves) the way to immortality.
Those who mounted upon (those actions [=sacrifice]) that bring good descendants, making themselves a way toward immortality,
by means of (those) sons, great in their greatness, the earth,
their mother Aditi, spread out, in order to suckle the bird
[=Agni? sun?].
Mit denen, welche alles Schöne wirkten, den Weg sich zur Unsterblichkeit bereitend, Den grossen Söhnen dehnt sich weit der Himmel, die Mutter Aditi zum Trunk des Vogels.
Während sie lauter gute Nachkommenschaft erlangten und sich zur Unsterblichkeit den Weg bereiteten, hat sich die Erde von den an Macht Großen getrennt, die Mutter von ihren Söhnen, die Aditi um den Vogel zu nähren.
Вы (те,) что совершили прекрасные дела,
Создавая себе путь к бессмертию, –
Благодаря (этим) великим (своим) величием распространилась земля,
Мать – благодаря сыновьям, Адити – для кормления птицы.
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् । अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् । अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥
अस्मिन्न् अग्नौ चारु शोभनां श्रियं परिस्तरण-परिषेचनादिरूपां यज्ञ सम्पदम् अधि नि दधुः - यजमाना स्थापितवन्तः ।
निधाय च यद् यदा ऽक्षी यज्ञस्याज्यभाग-लक्षणे चक्षुषी अकृण्वन् कुर्वन्ति । "चक्षुषी वा एते यज्ञस्य यदाज्यभागौ ।" तै सं २-६-२-१ । इति श्रुतेः ।
तदानीं दिवो द्युलोकाद् अमृता अमरणधर्माणो देवा यागसमयो जात इत्य् अवगम्यागच्छन्तीति शेषः । अधाज्यभागानन्तरं सृष्टा अग्नेर् उत्पन्नाः सिन्धवो न शीघ्रं गच्छन्त्यो नद्य इव नीचीर् नितरां सर्वासु दिक्षु गच्छन्तीर् अरुषीर् आरोचमानाः । यद्वा - निर्मलरूपाः ।
हे अग्ने एवम्भूतास् त्वदीया ज्वालाः क्षरन्ति - सञ्चलन्ति । सर्वासु दिक्षूद्गच्छन्तीत्यर्थः । आगता देवाश् च प्राजानन् । अस्माकं होमायेदृश्यो ज्वाला उत्पन्ना इति हृष्टाः सन्तः प्रकर्षेण जानन्ति ॥
अक्षी । परत्वान्नुमं बाधित्वा ई च द्विवचने (पा ७-१-७७) इत्यक्षिशब्दस्येकारान्तादेशः । स चोदात्तः । ईत्वे कृते सकृद्गतपरिभाषया । परि ४० । पुनर्नुम्नभवति । सवर्णदीर्घः ।
नीचीः । निपूर्वादञ्चतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अञ्चतेश्चोपसङ्ख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । न्यधी च (पा ६-२-५३) इति गतेः प्रकृतिस्वरत्वम् । अरुषी । अरुषमिति रूपनाम । ऋहनिभ्यामुषजित्यर्तेरुषच् । छन्दसीवनिपाविति मत्वर्थीय ईकारः ॥ १० ॥
“(The offerers of oblations) have plural ced in this (Agni) the graceful honours (of the ceremony), and the two portions of clarified butter that are the two eyes (of the sacrifice); then the immortals come from heaven, and your bright flames, Agni, spread in all directions like rushing rivers, and the gods perceive it (and rejoice).”
When Gods immortal made both eyes of heaven, they gave to him the gift of beauteous glory.
Now they flow forth like rivers set in motion: they knew the Red Steeds coming down, O Agni.
When the immortals created the two eyes of heaven 1, they placed fair splendour in him (Agni) 2. Then they rush down 3 like streams let loose. The red ones have recognised, O Agni, those which are directed downwards 4.
They deposited (their?) own dear splendor within him, when the immortals made the two eyes of heaven [=sun and moon].
Then like rivers sent surging they stream: heading downwards, the
ruddy ones have recognized the way, o Agni.
Die Ew'gen legten in ihn holde Schönheit, als sie des Himmels beide Augen schufen; Dann rannen, gleich wie ausgegossne Ströme, herab den Weg die Morgenröthen, Agni!
Sie verleihen ihm schöne Pracht, als die Unsterblichen die beiden Augen des Himmels schufen. Nun fließen sie losgelassen wie die Ströme; die abwärts fließenden Schmalzgüsse fanden den Weg zu den rötlichen Flammen, o Agni.
Бессмертные наделили его чудесной красотой,
Когда создавали два глаза неба.
Вот текут (жертвенные возлияния), выпущенные, как реки;
Устремленные вниз, они познали (твои) рыжие (языки пламени), о Агни.