र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासु॑: । स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
र॒यिः । न । यः । पि॒तृ॒ऽवि॒त्तः । व॒यः॒ऽधाः । सु॒ऽप्रनी॑तिः । चि॒कि॒तुषः॑ । न । शासुः॑ । स्यो॒न॒ऽशीः । अति॑थिः । न । प्री॒णा॒नः । होता॑ऽइव । सद्म॑ । वि॒ध॒तः । वि । ता॒री॒त् ॥
पितृवित्तः पितुः सकाशाल्लब्धः रयिः धनमिव यः अग्निः वयोधाः अन्नस्य दाता । यथा पैतृकं धनं विश्रम्भेण व्यवह्रियमाणं सत् अन्नप्रदं भवति तद्वदग्निरपि सर्वेषु यज्ञेषु विश्रम्भेण व्यवहृतः सन् अन्नप्रदो भवतीत्यर्थः । चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य शासुः शासनमिव सुप्रणीतिः सुखेन प्रणेतव्यः । यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते । यश्च स्योनशीः सुखप्रदे गार्हपत्यायतनादौ शयानः अतिथिर्न सुखासने उपवेशितः अर्घपाद्यादिभिः सत्कृतोऽतिथिरिव प्रीणानः हविर्भिस्तर्पणीयः सोऽग्निः विधतः परिचरतो यजमानस्य सद्म गृहं वि तारीत् प्रवर्धयति ददाति वा । तत्र दृष्टान्तः । होतेव । होता होमकर्ताध्वर्युस्तत्तत्कर्मकरणेन फलैर्यजमानस्य गृहं यथा वर्धयति तद्वत् ॥ पितृवित्तः । ‘ विद्लृ लाभे ' । कर्मणि निष्ठा । ‘ यस्य विभाषा' इति इट्प्रतिषेधः । ‘ विभाषा गमहनविदविशाम्' इति क्वसौ अस्य धातोः इटः विकल्पितत्वात् तत्रापि विशिसाहचर्यात्तौदादिक एव विदिर्गृह्यते इत्युक्तम् (का. ७.२. ६८)। • वित्तो भोगप्रत्यययोः' (पा. सू. ८. २. ५८ ) इति निष्ठानत्वाभावो निपातितः । वयोधाः । डुधाञ् धारणपोषणयोः '। ‘आतो मनिन् ' इति विच् । सुप्रणीतिः। प्रणीयत इति प्रणीतिः । कर्मणि क्तिन् । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् कृदुत्तरपदप्रकृतिस्वरत्वम् । चिकितुषः । लिटः क्वसुः । षष्ठ्येकवचने ‘वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च' इति षत्वम् । शासुः । ‘ शासु अनुशिष्टौ'। ' शॄस्वृस्निहि । इत्यादिना विधीयमान उप्रत्ययो बहुलवचनादस्मादपि द्रष्टव्यः । तत्र ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम्। स्योनशीः । स्योनमिति सुखनाम । स्योने सुखकरे गार्हपत्यादिस्थाने शेते इति स्योनशीः । ‘ क्विप् च' इति क्विप् । प्रीणानः । ‘ प्रीञ् तर्पणे ' । कर्मणि शानचि व्यत्ययेन श्ना। विधतः । ‘ विध विधाने'। ‘ विधतिः परिचरणकर्मा' इति नैरुक्ताः । तुदादित्वात् शप्रत्ययः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
“Agni, like patrimonial wealth, is the giver of food; he is a director, like the instrumental uctions of one learned in scripture; he rests in the sacrificial chamber like a welcome guest, and like an officiating priest, he brings prosperity on the house of the worshipper.”
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासुः॑ ।
स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
He who gives vigour like wealth acquired by the fathers 1, who is a good guide like the instruction of a sage, who is pleased (by worship) like a comfortably resting guest 2, (Agni) has crossed the (sacrificial) seat of the worshipper like a Hotri.
Who confers vitality like wealth acquired from one’s father, providing good guidance like the instruction of a perceptive man,
resting in a comfortable place like a guest whose pleasure is served, like a Hotar he has traversed the (sacrificial) seat of him who does honor.
Der Kraft verschafft, wie Gut, ererbt vom Vater, schön leitend ist wie Unterricht des Weisen, Und weich gebettet wie ein lieber Gastfreund, durchzog den Sitz des Frommen wie ein Priester.
Der Kraft gibt wie der vom Vater ererbte Reichtum, ein guter Führer ist wie die Weisung des Kundigen, sich wohl fühlt wie der behagliche ruhende Gast, er schritt den Opferplatz des Verehrers ab wie der Opferpriester.
Кто дает жизненную силу, как богатство, полученное от отца,
(Кто) добрый вождь, как наставление мудрого,
(Кто) наслаждается, как гость на мягком ложе,
(Тот,) как хотар, переправился через (жертвенное) сидение почитающего (его).
दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ । पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥
दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा । क्रत्वा॑ । नि॒ऽपाति॑ । वृ॒जना॑नि । विश्वा॑ । पु॒रु॒ऽप्र॒श॒स्तः । अ॒मतिः॑ । न । स॒त्यः । आ॒त्माऽइ॑व । शेवः॑ । दि॒धि॒षाय्यः॑ । भू॒त् ॥
देवो न सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव यः अग्निः सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोग्निः क्रत्वा आत्मीयेन कर्मणा विश्वा वृजनानि । विभक्तिव्यत्ययः । सर्वेभ्यः संग्रामेभ्यः निपाति नितरां पालयति । वर्ज्यन्ते हिंस्यन्तेऽस्मिन्निति वृजनं संग्रामः । अपि च पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुतोऽग्निः अमतिर्न । रूपनामैतत् । रूपमिव सत्यः बाधरहितः । रूप्यत इति रूपं स्वरूपम् । यथा पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु कर्मसु स्वयमेक एवं व्याप्य वर्तते । सोऽग्निः शेवः सुखकरः । तत्र दृष्टान्तः । आत्मेव । परमप्रेमास्पदतया निरतिशयानन्दस्वरूपः आत्मा यथा सर्वान् सुखयति । ‘ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ. उ. ४. ३. ३२ ) • एष ह्येवानन्दयाति (तै.आ. ८.७) इति च श्रवणात् । तद्वदग्निरपि स्वर्गादिफलहेतुतया सुखयति । एवंभूतोऽग्निः दिधिषाय्यो भूत् सर्वैर्यजमानैर्धारणीयो भवति । परित्यागे हि वीरहत्यालक्षणो दोषो भवति । तथा च तैतिरीयकं– वीरहा वा एष देवानां योऽग्निमुद्वासयते' ( तै. सं. १.५. २. १ ) इति । सत्यमन्मा । मननं मन्म। ‘ मन ज्ञाने । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । सत्यमवितथं मन्म यस्य । बहुव्रीहिस्वरः। वृजनानि ।' वृजी वर्जने'। ‘कॄपॄवृजि°' इत्यादिना क्युप्रत्ययः । पुरूप्रशस्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘प्रवृद्धादीनां च ' ( पा. सू. ६. २. १४७ ) इत्युत्तरपदान्तोदात्तत्वम्। स ह्याकृतिगण इत्युक्तम् । अमतिः। ‘अम गत्यादिषु'। ‘अमेरतिः'। दिधिषाय्यः । दधातेः दिधिषाय्यः' (उ. सू. ३. ३७७ ) इति साय्यप्रत्ययान्तो निपात्यते ॥
“He who is like the divine Sun, who know the truth (of things), preserves by his actions (his votaries) in all encounters; like nature, he is unchangeable and, like soul, is the source of happiness; he is ever to be cherished.”
He who like Savitar the God, true-minded protecteth with his power. all acts of vigour,
Truthful, like splendour, glorified by many, like breath joy-giving,--all must strive to win him.
He who being truthful like the god Savitri 1 protects by his power of mind all settlements 2, praised by many like impetuous splendour 3, the truthful one has become dear like vital breath and worthy to be searched for 4.
Whose thoughts become reality like god Savitar’s, who protects all communities according to his will,
lauded by many like a (royal) emblem, really present and agreeable like one’s own self, he has become desirable to install.
Der treugesinnt wie Savitar, der Gott, ist, und alle Stätten schirmt mit seiner Weisheit, Der vielgerühmte, lauter wie der Lichtglanz, ist wünschenswerth wie holder Lebensodem.
Der aufrichtig in seinem Sinn wie der Gott Savitri, mit Umsicht alle Opferparteien überwacht, von vielen gepriesen, wahr wie ein Bildnis, lieb wie das eigene Selbst - ihn soll man zu halten suchen.
Кто истинен помыслами, как бог Савитар,
(Кто) силой духа охраняет все общины,
(Кто,) многопрославляемый, истинен, как образ (солнца),
Дорог, как (человек) сам себе – его надо стараться удержать!
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ । पु॒र॒:सद॑: शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥
दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उ॒प॒ऽक्षेति॑ । हि॒तऽमि॑त्रः॑ । न । राजा॑ । पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । अ॒न॒व॒द्या । पति॑जुष्टाऽइव । नारी॑ ॥
देवो न द्योतमानः सूर्य इव यः अग्निः विश्वधायाः सर्वस्य जगतो धर्ता । यथा सूर्यो वृष्ट्यादिप्रदानेन सर्वं जगत् धत्ते एवमग्निरपि यज्ञादिसाधनेन कृत्स्नस्य जगतो धारयिता । सोऽग्निः पृथिवीं पृथिव्याम् उपक्षेति सर्वेषां प्रियः सन् यज्ञगृहादौ निवसति । तत्र दृष्टान्तः । हितमित्रो न राजा । हितान्यनुकूलानि मित्राणि यस्य तादृशो राजा यथा सुखेन निवसति तद्वत् । यथा सर्वजनमित्रो राजा एवमग्निरपि सर्वजनमित्र इत्यर्थः । न ह्यग्निं कश्चन द्विष्टे । यस्याग्नेः पुरःसदः पुरस्तात् सीदन्त उपविशन्तः पुरुषाः शर्मसदो न वीराः पितृगृहे वर्तमानाः पुत्राः इव वर्तन्ते । पिता पुत्रानिव अग्निः स्वस्य परिचारकान् रक्षतीति भावः । सोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति । तत्र दृष्टान्तः । अनवद्या अनिन्दिता पतिजुष्टेव नारी स्वपतिना सेविता स्वीकृता योषिदिव । सा यथा पातिव्रत्येन शुद्धा सती सर्वकर्मयोग्या भवति एवमग्निरपि ॥ विश्वधायाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् कारकपूर्वादपि दधातेः वहिहाधाञ्भ्यश्छन्दसि' इति असुन् । ‘णित्’ इत्यनुवृत्तेः ‘आतो युक् चिण्कृतोः' इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । उपक्षेति । ‘ क्षि निवासगत्योः '। बहुलं छन्दसि ' इति विकरणस्य लुक् । अनवद्या । बहुव्रीहौ ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । पतिजुष्टेव । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । नारी । ‘ नृनरयोर्वृद्धिश्च ' (पा. सू. ४. १. ७३ ग. ) इति शार्ङ्गस्वादिषु पाठात् ङीनन्त आद्युदात्तः ॥
“He who, like the divine (Sun), is the supporter of the universe, abides on earth like a prince, (surrounded by) faithful friends; in his presence, men sit down like sons in the dwelling of a parent, and (in purity he resembles) an irreproachable and beloved wife.”
He who on earth dwells like a king surrounded by faithful friends, like a God all-sustaining,
Like heroes who preside, who sit in safety: like as a blameless dame dear to her husband.
(Agni) who possessing every refreshment dwells on the earth like a god, like a king who has made himself (valiant) friends 2, like heroes who sit in front and under shelter, like a blameless wife beloved by her husband.
Who, suckling all, dwells peacefully upon the earth, like a god, like a king with established alliances,
stationed in front like heroes stationed for protection, irreproachable like a wife pleasing to her husband—
Der wie ein Gott die Erde allerquickend bewohnt gleich wie ein König reich an Freunden, Wie Helden, die sich vorn beschirmend lagern, wie die vom Mann geliebte edle Gattin.
Der wie ein Gott die Erde bewohnt, allnährend, wie ein König, der gute Freunde hat, Wacht haltend wie die in Deckung liegenden Männer, untadelhaft wie die dem Gatten liebe Frau.
Кто живет на земле, как бог,
Все питающий, как царь, заключивший договоры,
Кто находится впереди, как воины, сидящие в (укрытии),
(Тот) безупречен, как любимая жена у мужа.
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ । अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥
तम् । त्वा॒ । नरः॑ । दमे॑ । आ । नित्य॑म् । इ॒द्धम् । अ॒ग्ने॒ । सच॑न्त । क्षि॒तिषु॑ । ध्रु॒वासु॑ । अधि॑ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि॑ । अ॒स्मि॒न् । भव॑ । वि॒श्वऽआ॑युः । ध॒रुणः॑ । र॒यी॒णाम् ॥
हे अग्ने तं त्वा पूर्वोक्तगुणविशिष्टं त्वां नरः यज्ञस्य नेतारो यजमानाः ध्रुवासु क्षितिषु निश्चलासु चलनरहितासु भूमिषु । निरुपद्रवेषु ग्रामेष्वित्यर्थः। दमे स्वकीये यज्ञगृहे नित्यम् इद्धम् अनवरतं समिद्भिः प्रज्वलितं कृत्वा आ सचन्त आभिमुख्येन सेवन्ते । किंच अस्मिन् अग्नौ द्युम्नं हविर्लक्षणमन्नं भूरि चरुपुरोडाशादिरूपेण बहुविधम् अधि नि दधुः स्थापितवन्तः । एवंगुणविशिष्टो योऽग्निः स त्वं विश्वायुः उक्तप्रकारेण सर्वान्नो भूत्वा रयीणां धनानां धरुणः धारयिता भव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ सचन्त । ‘ षच समवाये । छान्दसो वर्तमाने लङ् । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । भव । ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । धरुणः । ‘ धारेर्णिलुक् च ' इति उनप्रत्ययः ॥
“Such as you are, Agni, men preserve you constantly kindled in their dwellings, in secure plural ces, and offer upon you abundant (sacrificial) food; do you, in whom is all existence, be the bearer of riches (for our advantage).”
Thee, such, in settlements secure, O Agni, our men serve ever kindled in each dwelling.
On him have they laid splendour in abundance: dear to all men, bearer be he of riches.
Thee, O Agni, who art constantly kindled in the house, men have worshipped in their firm dwellings. They have placed in him rich splendour 1. Be thou possessed of all life, a supporter of riches 2.
You, o Agni, kindled here in the house as their own, do men attend on in their fixed abodes.
They deposited abundant heavenly brilliance within him. Become the foundation of riches for your whole lifetime!
So, Agni, sind um dich, den stets entflammten, im Haus die Männer in den festen Sitzen, Viel schönes haben sie in dich gesenket, sei allbelebend unsers Reichthums Träger.
Dir, Agni, der beständig im Hause entzündet wird, leisten die Männer in den festen Wohnsitzen Folge. Viel Ehre haben sie auf ihn gehäuft. Sei du lebenslänglich der Träger von Reichtümern!
Тебя, всегда зажженного в доме, мужи
Сопровождают, о Агни, в (своих) прочных жилищах.
Большим почетом окружили его люди.
Будь весь век опорой богатств!
वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायु॑: । स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥
वि । पृक्षः॑ । अ॒ग्ने॒ । म॒घऽवा॑नः । अश्युः॑ । वि । सू॒रयः॑ । दद॑तः । विश्व॑म् । आयुः॑ । स॒नेम॑ । वाज॑म् । स॒म्ऽइ॒थेषु॑ । अ॒र्यः । भा॒गम् । दे॒वेषु॑ । श्रव॑से । दधा॑नाः ॥
हे अग्ने मघवानः हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षः अन्नानि वि अश्युः व्याप्नुवन्तु । त्वयानुगृहीताः सर्वाण्यन्नानि लभन्ताम् । ये च सूरयः विद्वांसः त्वां स्तुवन्ति । ददतः ये च तुभ्यं हवींषि ददतः प्रयच्छन्तो वर्तन्ते ते सर्वे विश्वमायुः सर्वं जीवितं वि अश्युः व्याप्नुवन्तु । वयं च समिथेषु संग्रामेषु अर्यः अरेः शत्रोः संबन्धिनं वाजं अन्नं सनेम त्वदनुग्रहात् संभजेमहि । तदनन्तरं देवेषु त्वत्प्रमुखेष्विन्द्रादिषु श्रवसे यशसे तदर्थं भागं हविर्भागं दधानाः स्थापयन्तो भूयास्मेति शेषः ॥ अश्युः । ‘ अशू व्याप्तौ ' । व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ददतः । नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सनेम । वन षण संभक्तौ ' । व्यत्ययेन शः । अर्यः । अरिशब्दात् षष्येततकवचने “ जसादिषु च्छन्दसि वावचनम् ' इति घेर्ङिति' इति गुणाभावे यणादेशः। अरिशब्दः ‘अच इः' इति इप्रत्ययान्तः अन्तोदात्तः। उदात्तयण:०' इति विभक्तेरुदात्तत्वम् । भागम् । ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् ॥ ॥१९॥
“May your opulent worshippers, Agni, obtain (abundant) food; may the learned (who praise you) and offer you (oblations), acquire long life; may we gain in battles booty from our foes, presenting their portion to the gods for (the acquisition of) renown.”
May thy rich worshippers win food, O Agni, and princes gain long life who bring oblation.
May we get booty from our foe in battle, presenting to the Gods their share for glory.
May the liberal givers, O Agni, attain nourishment, may the rich 1 who bestow gifts (on us) attain to a full span of life. May we win in battles the booty of him who does not give 1, obtaining a (rich) share before the gods, that we may win glory 2.
Might the bounteous ones reach nourishments, o Agni, and (might) the patrons who give (reach) through a whole lifetime.
Might we gain the victory-prize in our clashes with the stranger,
acquiring a portion among the gods for our fame.
Die reichen Fürsten, Agni, welche spenden, lass Speis' erlangen, volle Lebensdauer, Uns treue lass in Kämpfen Gut erbeuten, die wir zum Ruhm ihr Theil den Göttern geben.
Unsere Gönner sollen Lebenskräfte erlangen, o Agni, die schenkenden Herren das volle Leben. Wir wollen den Siegerpreis gewinnen in den Wettkämpfen mit dem Nebenbuhler, von den Göttern unser Teil empfangend zum Ruhme.
Пусть достигнут, о Агни, щедрые покровители подкрепляющих сил!
Пусть до(стигнут) дарящие богатые жертвователи полного срока жизни!
Пусть завоюем мы добычу в битвах с врагом,
Получая долю, чтобы прославиться среди богов!
ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः । प॒रा॒वत॑: सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥
ऋ॒तस्य॑ । हि । धे॒नवः॑ । वा॒व॒शा॒नाः । स्मत्ऽऊ॑ध्नीः । पी॒पय॑न्त । द्युऽभ॑क्ताः । प॒रा॒ऽवतः॑ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । वि । सिन्ध॑वः । स॒मया॑ । स॒स्रुः॒ । अद्रि॑म् ॥
ऋतस्य हि ऋतं देवयजनदेशं प्राप्तमग्निमेव धेनवः अग्निहोत्रादिहविषां दोग्ध्र्यो गावः पीपयन्त क्षीरादिलक्षणं गव्यमपाययन् । कीदृश्यो गावः । वावशानाः अग्निं पुनःपुनः कामयमाना: स्मदूध्नीः । स्मच्छब्दो नित्यशब्दसमानार्थः । नित्यमूधसा युक्ताः । सर्वदा पयसः प्रदात्र्य इत्यर्थः । द्युभक्ताः दिवा प्रकाशेन संभक्ताः संश्लिष्टाः तेजस्विन्य इत्यर्थः । अपि च सिन्धवः स्यन्दनशीला नद्यः सुमतिम् अस्याग्नेः शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणाः याचमानाः सत्यः अद्रिं समया अद्रेः पर्वतस्य समीपे परावतः दूरदेशात् वि सस्रुः विशेषेण गच्छन्ति प्रवहन्ति । अग्नये दातव्यानां हविषां निष्पत्तये प्रवहन्तीत्यर्थः ॥ ऋतस्य । क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । वावशानाः । वश कान्तौ ' । यङन्तात् शानच् । ‘ न वशः ' ( पा. सू. ६. १. २० ) इति संप्रसारणप्रतिषेधः । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । अत एव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एव शिष्यते । स्मदूध्नीः । स्मत् नित्यान्यूधांसि यासाम् ।' ऊधसोऽनङ्' ( पा. सू. ५. ४. १३१ ) इति अनङादेशः समासान्तः । ‘ संख्याव्ययादेर्ङीप् ' ( पा. सू. ४. १. २६ ) इति ङीप् । भसंज्ञायाम् ‘ अलोपोऽनः' इति अलोपः। ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिस्वर एव शिष्यते । पीपयन्त । ‘पा पाने ' । अस्मात् हेतुमति णिच् । शाच्छासाह्वा ' इति युक्। ण्यन्तात् लुङि च्लेः चङादेशादि । ‘ चंङ्यन्यतरस्याम्' इति चङः पूर्वस्योदात्तत्वम् । ' हि च ' इति निघातप्रतिषेधः । परावतः परागतात् । दूरं हि परागतं भवति । अस्मिन् धात्वर्थे गम्यमाने ' उपसर्गाच्छन्दसि धात्वर्थे ' (पा. सू. ५. १. ११८) इति वतिः ॥
“The cows, loving (Agni, who has come to thehall of sacrifice), sharing his splendour, have brought with full udders (their milk) to be drunk. The rivers, soliciting his good will, have flowed from a distance in the vicinity of the mountain.”
The cows of holy law, sent us by Heaven, have swelled with laden udders, loudly lowing;
Soliciting his favour, from a distance the rivers to the rock have flowed together.
The lowing milch-cows of Rita, assigned by Heaven, were exuberant with their full udders. The rivers imploring the favour (of the gods) from afar have broken through the midst of the rock with their floods.
For the bellowing cows of truth, apportioned by heaven, swell with their udders;
from afar, seeking a portion of (your?) favor, the rivers have flowed
forth all at once over the rock.
Laut brüllend schwollen an des Opfers Kühe mit vollem Euter, sie, des Himmels Gabe; Von Ferne her nach Huld verlangend flossen quer durch den festen Fels hindurch die Ströme.
Denn die Kühe, die sich nach der Ordnung richten, strotzen brüllend mit gleichvollen Eutern, die von den Himmlischen geschenkten. Von weitem sind die Flüsse mitten durch den Fels hervorgebrochen, indem sie sich die Gunst ausbitten.
Ведь мычащие дойные коровы (космического) закона,
С полным выменем набухают (молоком), подаренные небом,
Испрашивая благословения, издалека
Притекли реки сквозь скалу.
त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धु॑: ॥
त्वे । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रवः॑ । द॒धि॒रे॒ । य॒ज्ञियाः॑ । नक्ता॑ । च॒ । च॒क्रुः । उ॒षसा । विरू॑पे॒ इति॒ विऽरू॑पे । कृ॒ष्णम् । च॒ । वर्ण॑म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति॑ धुः ॥
हे अग्ने सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं भिक्षमाणाः याचमानाः यज्ञियासः यज्ञार्हाः सर्वे देवाः दिवि द्योतमाने त्वे त्वयि श्रवः हविर्लक्षणमन्नं दधिरे अस्थापयन् । अग्निर्देवानामन्नादः' (तै. ब्रा. ३.१.४.१.) इति श्रुतेः। तदनन्तरं तादृशे हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उषसा उषःकालोपलक्षितमहः । नक्ता च नक्तं रात्रिं च चक्रुः अकुर्वन् । एतदेव स्पष्टयति । कृष्णं च वर्णं रात्र्यां श्यामलवर्णमन्धकारम् अह्नि अरुणम् आरोचनं श्वेतवर्णं तेजः च सं धुः सम्यक् स्थापितवन्तः ॥ त्वे। सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । नक्ता । तेनैव द्वितीयाया डादेशः । उषसा । तेनैव विभक्तेः आकारः । धुः । डुधाञ् धारणपोषणयोः' । लुङि ‘गातिस्था०' इति सिचो लुक् । आतः' इति झेः जुसादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ॥
“(The gods), who are entitled to worship, soliciting your good will, have entrusted to you, resplendent Agni, the (sacrificial) food, and, (for the due observance of sacred rites), they have made the night and morning of different colours, or black and purple.”
Agni, with thee, soliciting thy favour, the holy Ones have gained glory in heaven.
They made the Night and Dawn of different colours, and set the black and purple hues together.
Imploring favour from thee, O Agni, the worshipful (gods) have won glory in the sky. They have made Night and Dawn of different shapes; they have joined the black and red colour (to Night and Dawn).
Seeking a portion of favor in you, those worthy of worship [=gods] set their fame in heaven.
They made night and dawn of different forms, and they put together the black color and the red.
Von dir, o Agni, holden Sinn erbittend, erlangten Ruhm im Himmel die verehrten; Sie machten ungleichfarbig Nacht und Morgen, die rothe Farbe an die schwarze fügend.
Indem sie von dir, Agni, sich die Gunst ausbitten, haben die Opferwürdigen im Himmel Ruhm erworben. Sie haben Nacht und Morgen, die ungleichen, geschaffen, die dunkle und die rötliche Farbe aneinander gefügt.
Испрашивая, о Агни, у тебя благословения,
Достойные жертв (боги) приобрели славу на небе.
Они создали ночь и утреннюю зарю несхожими,
Они соединили черный и алый цвет (для них).
यान्रा॒ये मर्ता॒न्त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ । छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥
यान् । रा॒ये । म॒र्ता॑न् । सुसू॑दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ । छा॒याऽइ॑व । विश्व॑म् । भुव॑नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥
यान् मर्तान् मनुष्यानस्मान् राये धनाय सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि ते तादृशाः वयं च मघवानः धनिनः स्याम भवेम । रोदसी द्यावापृथिव्यौ अन्तरिक्षं च आपप्रिवान् स्वतेजसा वृष्ट्युदकेन व आपूरितवांस्त्वं च विश्वं भुवनं सर्वं जगत् सिसक्षि सेवसे अनुगृह्य सर्वं रक्षसीत्यर्थः । तत्र दृष्टान्तः । छायेव । यथा छत्रादेः छाया आतपादिजनितं क्लेशं निवार्य रक्षति तद्वत् ॥ राये । ऊडिदम् ' इति विभक्तेरुदात्तत्वम् । सुषूदः । 'षूद प्रेरणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।' यद्वृत्तान्नित्यम् । इति निघातप्रतिषेधः । सिसक्षि । ' षच समवाये' । बहुलं छन्दसि ' इति शपः श्लुः । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । आपप्रिवान् ।' प्रा पूरणे'। लिटः क्वसुः । ‘ वस्वेकाजाद्धसाम्' इति इडागमः । ‘ आतो लोप इटि च ' इति आकारलोपः । ‘ द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्भावादि ॥
“May we, mortals, whom you have directed (to the performance of sacrifices) for the sake of riches, become opulent; filling heaven and earth, and the firmament (with your radiance), you protect the whole world like a (sheltering) shade.”
May we and those who worship be the mortals whom thou, O Agni, leadest on to riches.
Thou hast filled earth and heaven and air's mid-region, and followest the whole world like a shadow.
And may we, our liberal givers and ourselves, be the mortals whom thou furtherest to wealth, O Agni 1. Like a shadow thou followest the whole world, having filled the two worlds (Heaven and Earth) and the air 2.
Might we—we and our patrons—be those mortals whom you will sweeten for wealth, o Agni.
Like a shadow you accompany all creation, having filled the two
world-halves and the space between.
Wir und die Fürsten seien unter denen, die du zu reichem Gute führst, o Agni, Gleich wie der Schatten folgst du jedem Wesen die Luft, den Himmel und die Erd' erfüllend.
Unsere Gönner und wir möchten die Sterblichen sein, die du zum Reichtum würdig machst, o Agni. Wie der Schatten begleitest du die ganze Welt, nachdem du Himmel und Erde, den Luftraum erfüllt hast.
Пусть станем мы и (наши) щедрые (покровители)
Теми смертными, кого ты, о Агни, совершенствуешь для богатства!
Как тень, ты следуешь за всей вселенной,
Заполнив (собой) оба мира (и) воздушное пространство.
अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोता॑: । ई॒शा॒नास॑: पितृवि॒त्तस्य॑ रा॒यो वि सू॒रय॑: श॒तहि॑मा नो अश्युः ॥
अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥
हे अग्ने त्वोताः त्वया रक्षिताः सन्तो वयम् अर्वद्भिः अस्मदीयैरश्वैः अर्वतः शत्रुसंबन्धिनः अश्वान् नृभिः अस्मदीयैर्भटैः नॄन् शत्रोर्भटान् । वीर्याज्जायन्ते इति वीराः पुत्राः । तैः वीरान् शत्रुपुत्रांश्च वनुयाम हन्याम । वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति ' ( निरु. ५. २ ) इति यास्कः । पितृवित्तस्य पित्रादिपरंपरया लब्धस्य रायः धनस्य ईशानासः स्वामिनः सूरयः विद्वांसः नः अस्माकं पुत्राः शतहिमाः शतं संवत्सरान् जीवन्तः सन्तः वि अश्युः विशेषेण भुञ्जताम् । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ॥ त्वोताः त्वयोताः ।' प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन आत्वम् । “ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । शतहिमाः । अत्र हिमशब्देन तद्वान् हेमन्तो लक्ष्यते । ब्राह्मणं च भवति - शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह ' ( तै. सं. १, ५, ८. ५ ) इति । शतं हिमाः शतं हेमन्तर्तवो येषां ते शतसंवत्सरजीविन इत्यर्थः । अश्युः । ‘ अश भोजने '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
“Defended, Agni, by you, may we destroy the horses (of your enemies) by (our) horses, their men by (our) men, their sons by (our) sons, and may our sons, learned and inheritors of ancestral wealth, live for a hundred winters.”
Aided by thee, O Agni, may we conquer steeds with steeds, men with men, heroes with heroes,
Lords of the wealth transmitted by our fathers: and may our princes live a hundred winters.
May we, O Agni, guarded by thee, conquer with our racers the racers, with our men the men, with our heroes the heroes (of our enemies). Being masters of the riches which their fathers 1 have conquered, may our rich (givers) reach a hundred winters.
Might we vanquish steeds with steeds, men with men, and heroes with heroes, o Agni, when aided by you.
As lords of wealth acquired from their fathers, might our patrons,
having a hundred winters, reach through (a whole lifetime).
Mit dir lass Renner uns durch Renner schlagen, durch Männer Männer und durch Helden Helden, Lass unsre Fürsten hundert Jahr' erreichen, verfügend über den ererbten Reichthum.
Mit den Rennpferden wollen wir, o Agni, die Rennpferde, mit den Mannen die Mannen, mit Söhnen die Söhne überbieten durch deinen Beistand. Im Besitz des vom Vater geerbten Reichtums sollen unsere Herren auf hundert Winter ihr Leben bringen.
Скакунами, о Агни, – скакунов, мужами – мужей,
Героями – героев хотим мы превзойти с твоей помощью!
Владея богатством, полученным от отца,
Пусть достигнут наши богатые жертвователи (срока жизни) в сто осеней!
ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ । श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । जुष्टा॑नि । स॒न्तु॒ । मन॑से । हृ॒दे । च॒ । श॒केम॑ । रा॒यः । सु॒ऽधुरः॑ । यम॑म् । ते॒ । अधि॑ । श्रवः॑ । दे॒वऽभ॑क्तम् । दधा॑नाः ॥
हे वेधः । मेधाविनामैतत् । मेधाविन् अग्ने एता उचथानि एतानि इदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ते तव मनसे मनोवृत्तये हृदे तद्वृत्तिमते अन्तःकरणाय च जुष्टानि सन्तु प्रियाणि भवन्तु । ते तव संबन्धिनः सुधुरः सुष्ठु निर्वाहकस्य । यद्वा । शोभनं धूर्वति दारिद्र्यं हिनस्तीति सुधूः । तादृशस्य रायः धनस्य यमं नियमनं कर्तुं शकेम शक्ता भूयास्म । किं कुर्वन्तः । देवभक्तं देवैः संभजनीयं श्रवः हविर्लक्षणमन्नम् अधि दधानाः अग्नेरुपरि धारयन्तः । अग्नौ हविर्भिर्होमं कुर्वन्तः इत्यर्थः ॥ उचथानि । वच परिभाषणे । रुविदिभ्यां कित्' (उ. सू. ३. ३९५) इति विधीयमानः अथप्रत्ययः कित्त्वं च बहुलवचनादस्मादपि भवति । वच्यादिना संप्रसारणम् । जुष्टानि । जुष्टार्पिते व च्छन्दसि, नित्यं मन्त्रे (पा. सू. ६. १. २०९ - २१० ) इत्याद्युदात्तत्वम् । हृदे। ‘ पद्दन्° ' इत्यादिना हृदयशब्दस्य हृदादेशः । शकेम। ‘ शक्लृ शक्तौ । ‘ लिङ्याशिष्यङ्' । सुधुरः । धुर्वी हिंसार्थः । ‘ क्विप् च ' इति क्विप् । राल्लोपः' इति वकारलोपः । ‘ न पूजनात्' इति समासान्तप्रतिषेधः । देवैर्भक्तं देवभक्तम् । ' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २० ॥ ॥ १२ ॥
“May these our praises, sapient Agni, be grateful to you, both in mind and heart; may we be competent to detain your well-supporting wealth, offering upon you their share of the (sacrificial food of the gods).”
May these our hymns of praise, Agni, Ordainer, be pleasant to thee in thy heart and spirit.
May we have power to hold thy steeds of riches, laying on thee the God-sent gift of glory.
May these hymns, O Agni, worshipper (of the gods), be grateful to thee, to thy mind and heart. May we be able to bridle thee, the well-harnessed wealth 1, acquiring the glory which the gods have assigned us.
Let these solemn speeches be pleasing to you, o Agni, ritual expert—to your mind and heart.
Might we be able to control (the prizewinning horses) of your wealth, (so they are) amenable to the chariot-pole, while we acquire the fame apportioned by the gods.
The next, rather sizable group of twenty hymns is attributed to Gotama Rāhūgaṇa, who could be the father or other ancestor of the poet of I.58–64, Nodhas Gautama. If so, the dazzling skill of the son is not on view in the work of his father in the opening Agni hymns (74–79) or in the All God hymns (89–90), which seem more dutiful than engaged, but when he treats other gods, especially the Maruts (85–88) and Dawn (92), his poetry can be inspired.
O Agni, Ordner, diese Sprüche mögen willkommen deinem Sinne sein und Herzen; Lass lenken uns des Reichthums schöne Rosse, und gotterlangte Herrlichkeit uns finden.
Diese Loblieder sollen. O Meister Agni, deinem Sinn und Herzen lieb sein. Wir möchten imstande sein, die wohlgeschirrten Rosse deines Reichtums zu lenken, gottgeschenkten Ruhm auf uns häufend.
О Агни-знаток, да будут эти высказывания
Приятны тебе: и уму, и сердцу!
Пусть сможем мы править хорошо запряженными (конями) богатства,
Приобретая славу, данную богами!