उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
उ॒प॒ऽप्र॒यन्तः॑ । अ॒ध्व॒रम् । मन्त्र॑म् । वो॒चे॒म॒ । अ॒ग्नये॑ । आ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥
अध्वरं हिंसाप्रत्यवायरहितमग्निष्टोमादियज्ञम् उपप्रयन्तः उपेत्य प्रकर्षेण यन्तो गच्छन्तः प्राप्त्यविच्छेदेन सम्यगनुतिष्ठन्तः इत्यर्थः । तादृशा वयम् अग्नये अङ्गनादिगुणयुक्ताय देवाय मन्त्रं मननसाधनमेतत्सूक्तरूपं स्तोत्रं वोचेम । वक्तारो भूयास्मेत्याशास्यते । कीदृशायाग्नये । आरे अस्मे च शृण्वते । चशब्दः अप्यर्थे आरेशब्दात्परो द्रष्टव्यः । आरे च दूरेऽपि स्थित्वास्माकं स्तुतीः शृण्वते । अस्मासु प्रीत्यतिशयेन सर्वत्र प्रवर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः ॥ वोचेम । ‘ ब्रुवो वचिः । ‘ लिङयाशिष्यङ्'। ‘वच उम्' इति उमागमः । शृण्वते । ‘शतुरनुमः' इति । विभक्तेरुदात्तत्वम् ॥
“Hastening to the sacrifice, let us repeat a prayer to Agni, who fears us from afar.”
As forth to sacrifice we go, a hymn to a hymn let us say,
Who hears us even when afar;
Going forward to the sacrifice let us repeat a prayer to Agni who hears us, may he be afar or with us—
As we approach the sacrifice,
Let us utter a hymn to Agni,
Who heareth us, even from afar.
Reverently approaching the ceremony, might we speak a solemn formula to Agni,
to him who listens, (when he is) in the distance and with us (here),
Zum Opfer schreitend wollen wir dem Agni sprechen ein Gebet, Der uns auch aus der Ferne hört,
Zum Opferdienst antretend wollen wir dem Agni ein Dichterwort aufsagen, der auch in der Ferne auf uns hört;
Приступая к обряду,
Мы хотим произнести молитву Агни –
Ведь он слышит нас и издалека,
यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ । अर॑क्षद्दा॒शुषे॒ गय॑म् ॥
यः । स्नीहि॑तीषु । पू॒र्व्यः । स॒म्ऽज॒ग्मा॒नासु॑ । कृ॒ष्टिषु॑ । अर॑क्षत् । दा॒शुषे॑ । गय॑म् ॥
पूर्व्यः चिरंतनः यः अग्निः स्नीहितीषु वधकारिणीषु कृष्टिषु शत्रुभूतासु प्रजासु संजग्मानासु संगतासु सतीषु दाशुषे हवींषि दत्तवते यजमानाय गयं धनम् अरक्षत् रक्षति तस्मै मन्त्रं वोचेमेति पूर्वेण संबन्धः ॥ स्नीहितीषु । ‘ष्णिह स्नेहने'। चुरादिः । ‘ स्नेहयति' (नि. २. १९. १३) इति वधकर्मसु पठितः । स्नेह्यन्ते हिंस्यन्ते प्रजा आभिरिति स्नेहितयः । करणे क्तिन् । ‘ तितुत्रेष्वग्रहादीनामिति वक्तव्यम् ' (पा. म. ७. २. ९. १) इति वचनात् निगृहीतिर्निपठितिरितिवत् इडागमः । व्यत्ययेन एकारस्य ईकारादेशः क्तिनो दीर्घश्च । नित्वादाद्युदात्तत्वम् । संजग्मानासु । ‘ समो गम्यृच्छि ' इति आत्मनेपदम् । लिटः कानच् । ‘गमहन' इत्यादिना उपधालोपः । अरक्षत् । ‘ छन्दसि लुङलङ्लिटः' इति वर्तमाने लङ् ॥
“Who, existing of old, has preserved wealth for the sacrificer, when malevolent men are assembled together.”
Who, from of old, in carnage, when the people gathered, hath preserved
His household for the worshipper.
He who foremost 1 in … 2, when the human tribes met (in battle), has preserved his home to the worshipper.
Who, at the forefront in the “blizzards” (of attacks) when the separate peoples were clashing together,
guarded for the pious man his patrimony.
Der, wenn im Kampf die Völker sich befehden, als der erste stets Dem Frommen Haus und Hof beschützt.
Der auch im Schlachtgetümmel vorangehend, wenn die Völker aneinandergeraten sind, dem Opferspender das Haus schützte.
(Тот,) кто, находясь впереди в сражениях,
Когда столкнулись народы,
Спас домашнее имущество почитающему (его).
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे ॥
उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः॑ । उत् । अ॒ग्निः । वृ॒त्र॒ऽहा । अ॒ज॒नि॒ । ध॒न॒म्ऽज॒यः । रणे॑ऽरणे ॥
अग्निः उत् अजनि अरण्योः सकाशादुत्पन्नः । उत अनन्तरं जन्तवः जाताः सर्वे ऋत्विजः ब्रुवन्तु तमग्निं स्तुवन्तु । कीदृशोऽग्निः । वृत्रहा वृत्राणामावरकाणां शत्रूणां हन्ता रणेरणे सर्वेषु संग्रामेषु धनंजयः शत्रुधनानां जेता ॥ धनंजयः । ‘ संज्ञायां भृतॄवृजि ' (पा. सू. ३. २. ४६ ) इति खच्। ' अरुर्द्विषदजन्तस्य°' (पा. सू. ६. ३. ६७ ) इति मुम् । चित्स्वरेणान्तोदात्तत्वम् । रणेरणे। रण शब्दार्थः । रणन्ति दुन्दुभयोऽस्मिन्निति रणः संग्रामः । ‘वशिरण्योरुपसंख्यानम् ' ( पा. सू. ३. ३. ५८. ३) इति अप् । 'नित्यवीप्सयोः' इति द्विर्वचनम् । आम्रेडितानुदात्तत्वम् ॥
“Let men praise Agni as soon as genitive rated, the slayer of Vṛtra, and the winner of booty in many a battle.”
And let men say, Agni is born, e'en he who slayeth Vrtra, he
Who winneth wealth in every fight.
And let the people say 'Agni is born, the slayer of foes (or, the slayer of Vritra), he who wins the prize in every battle.'
And let the people say: “Agni, the Vr̥tra-smasher, has arisen,
who wins the stakes in every battle!”
Die Menschen mögen es gestehn: »Agni erstand als Siegesheld, Der Beute macht in jeder Schlacht.«
Und die Leute sollen sagen: Agni, der Vritratöter, ist erstanden, der in jedem Kampfe der Beutegewinner ist.
И пусть люди говорят:
"Возник Агни, побеждающий сопротивление,
Завоевывающий награду в битве за битвой".
यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ । द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥
यस्य॑ । दू॒तः॑ । असि॑ । क्षये॑ । वेषि॑ । ह॒व्यानि॑ । वी॒तये॑ । द॒स्मत् । कृ॒णोषि॑ । अ॒ध्व॒रम् ॥
हे अग्ने यस्य यजमानस्य क्षये देवयजनलक्षणे गृहे देवानां दूतः त्वम् असि भवसि । यस्य च हव्यानि चरुपुरोडाशादीनि हवींषि वीतये देवानां भक्षणाय वेषि गमयसि । यस्य च अध्वरं यज्ञं दस्मत् सर्वैर्दर्शनीयं कृणोषि करोषि । ' तमित्सुहव्यम्' इत्युत्तरया संबन्धः ॥ वेषि । वी गत्यादिषु । अन्तर्भावितण्यर्थात् लट् । अदादित्वात् शपो लुक् । पादादित्वात् निघाताभावः । दस्मत् । ‘ दसि दंसनदर्शनयोः । ‘ इषियुधीन्धि ' इत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यापत्त्या तकारः । कृणोषि । ‘ कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योर च' इति उप्रत्ययः; तत्संनियोगेन वकारस्य अकारः । तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः। यस्य इत्यनुषङ्गात् निघाताभावः ।
“(The sacrificer), in whose house you are the messenger of the gods, whose offering you convey for their food, and whose sacrifice you render acceptable.”
Him in whose house an envoy thou lovest to taste his offered gifts,
And strengthenest his sacrifice,
The man in whose home thou art a messenger, and to whose sacrificial food thou eagerly comest for feasting, to whose worship thou impartest wonderful power—
The man whose messenger you are in the dwelling place, for whom you pursue (the gods) to pursue the oblations,
whose ceremony you perform wondrously—
In wessen Haus du Bote bist, die Tränke zu verzehren kommst, Und herrlich machst sein Opferfest,
In wessen Haus du der Bote bist, die Opferspenden entgegenzunehmen wünschest und den Opferdienst gelingen lässest,
В чьем жилище ты бываешь вестником,
(К кому) идешь, чтобы принять жертвенные возлияния,
(И) искусно совершаешь обряд, –
तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो । जना॑ आहुः सुब॒र्हिष॑म् ॥
तम् । इत् । सु॒ऽह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒ऽदे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति॑ । जनाः॑ । आ॒हुः॒ । सु॒ऽब॒र्हिष॑म् ॥
हे सहसो यहो बलस्य पुत्र अङ्गिरः अङ्गनादिगुणयुक्ताग्ने यो यजमानः पूर्वमुक्तः तमित् तमेव यजमानं सुहव्यं शोभनहविष्कं सुदेवं शोभनदैवतं सुबर्हिषम् । बर्हिरिति यज्ञनाम । शोभनयज्ञं च जनाः सर्वे मनुष्याः आहुः कथयन्ति ॥ सुहव्यमित्यादिषु नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सहसो यहो। सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकमामन्त्रितानुदात्तत्वम् ॥ ॥ २१ ॥
“Him, Aṅgiras, son of strength, men call forunate in his sacrifice, his deity, his oblations.”
Him, Angiras, thou Son of Strength, all men call happy in his God,
His offerings, and his sacred grass.
Such a man the people call a giver of good oblations, O Aṅgiras, a friend of the gods, O son of strength 1, and a possessor of a good Barhis (or sacrificial grass).
Just he has good oblations, has the gods with him, o Aṅgiras, young (son) of strength,
has a good ritual grass-strew—so the people say.
Den nennet reich gesegnet man, o Angiras, o Sohn der Kraft, An Opfern, Göttern und an Streu;
Den nennen die Leute einen guten Opferspender, einen Götterliebling, dessen Barhis gut ist, o Angiras, du jüngster Sohn der Kraft.
Только его люди называют, о Ангирас,
Хорошо возливающим, хорошим для богов,
О юный (сын) силы, (жертвователем) с хорошей жертвенной соломой.
आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये । ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥
आ । च॒ । वहा॑सि । तान् । इ॒ह । दे॒वान् । उप॑ । प्रऽश॑स्तये । ह॒व्या । सु॒ऽच॒न्द्र॒ । वी॒तये॑ ॥
हे सुश्चन्द्र शोभनाह्लादनाग्ने तान् देवान् इह अस्मिन् कर्मणि उप अस्मत्समीपं प्रशस्तये स्तुतये आ वहासि च आवह प्रापय च । आगतेभ्यस्तेभ्यः हव्या हव्यानि चरुपुरोडाशादीनि हवींषि वीतये भक्षणाय प्रापयेत्यर्थः ॥ वहासि । वह प्रापणे' । लेटि आडागमः। प्रशस्तये । शंसु स्तुतौ ' । भावे क्तिन् । तितुत्र' इति इट्प्रतिषेधः। ‘ अनिदिताम्' इति नलोपः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । सुश्चन्द्र । ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ' इति सुट् ॥
“Bring hither, radiant Agni, the gods, to (receive) our praise and our oblations for their food.”
Hitherward shalt thou bring these Gods to our laudation and to taste.
These offered gifts, fair-shining One.
And thou shalt conduct them hither, the gods 1, that we may praise them, that they may eagerly come, O resplendent one, to the sacrificial offerings.
And you will convey the gods here for their glorification,
(for them) to pursue the oblations, o much gleaming one.
Und fahre du, o glänzender, die Götter zur Verherrlichung Und zum Genuss der Tränke her.
Wenn du die Götter hierher fährst zum Lobpreis, um die Opferspenden entgegenzunehmen, du Schönglänzender.
О если б ты привез сюда этих
Богов для прославления,
Для принятия жертвенных возлияний, о (бог) с прекрасным блеском!
न योरु॑प॒ब्दिरश्व्य॑: शृ॒ण्वे रथ॑स्य॒ कच्च॒न । यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥
न । योः । उ॒प॒ब्दिः । अश्व्यः॑ । शृ॒ण्वे । रथ॑स्य । कत् । च॒न । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ॥
हे अग्ने यत् यदा दूत्यं देवानां दूतत्वं यासि प्राप्नोषि कच्चन कदाचन तदानीं सर्वदापि योः गच्छतस्तव रथस्य अश्व्यः अश्वैरुत्पादितः उपब्दिः श्रवणार्हः शब्दः न शृण्वे न श्रूयते । रथस्य शीघ्रगमनेनास्माभिः शब्दो नोपलभ्यते इत्यर्थः ॥ योः । ‘ या प्रापणे' इत्यस्मात् यो द्वे च ' (उ. सू. १. २१ ) इति औणादिकः कुप्रत्ययः । बहुलवचनात् द्विर्भावाभावः। उपब्दिरित्येतत् श्रोतुमर्हस्य शब्दस्याख्या । तथा च तैत्तिरीयाणां प्रातिशाख्यं “ सशब्दमुपब्दिमत् ' (तै. प्रा. २३. ९) इति । शृण्वे । ' श्रु श्रवणे '। कर्मणि लटि ‘ श्रुवः शृ च ' इति व्यत्ययेन श्नुः ऋभावश्च । ' लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘ हुश्नुवोः सार्वधातुके' इति यणादेशः ॥
“Whenever you go, Agni, on a mission of the gods, the neighing of the horses of your (swift) moving chariot, however audible is not heard.”
When, Agni, on thine embassage thou goest not a sound is heard of steed or straining of thy car.
No noise 1 of the horses of the moving chariot 2 is heard any way, when thou goest on thy messengership, O Agni.
No trampling of horses is heard at all from your chariot as it drives, when, o Agni, you travel on your mission.
Kein Rossestampfen wird gehört, noch Wagenrasseln auf der Fahrt, Wenn, Agni, du auf Botschaft gehst.[75]
So hört man von des Fahrenden Wagen niemals Pferdegetrappel, wenn du, Agni, den Botengang gehst.
Не слышно никогда конского топота
От (твоей) колесницы,
Когда, о Агни, ты движешься по долгу вестника.
त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः । प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥
त्वाऽऊ॑तः । वा॒जी । अह्र॑यः । अ॒भि । पूर्व॑स्मात् । अप॑रः । प्र । दा॒श्वान् । अ॒ग्ने॒ । अ॒स्था॒त् ॥
यः पुरुषः पूर्वस्मात् स्वस्मादधिकारात् अपरः निकृष्टो भवति हे अग्ने स इदानीं दाश्वान् तुभ्यं हवींषि दाता सन् त्वोतः त्वया ऊतः रक्षितः वाजी अन्नवान् अह्रयः लज्जारहितः एवंभूतः सन् अभि प्र अस्थात् ऐश्वर्यमभिप्राप्य प्रतितिष्ठति सर्वोत्कृष्टो भवतीत्यर्थः ॥ अह्रयः । ‘ ह्री लज्जायाम्' । जिह्रेतीति ह्रयः । न ह्रयोऽह्रयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाश्वान् । ‘ दाशृ दाने '।' दाश्वान् साह्वान्' इति क्वसुप्रत्ययान्तो निपातितः ॥
“He who was formerly subject to a superior, having been protected, Agni, by you, now stands in your presence as an offerer (of oblations) without bashfulness, and supplied with food.”
Aided by thee uninjured, strong, one after other, goes he forth:
Agni, the offerer forward steps.
When guarded by thee the racer becomes fearless; the worshipper, O Agni, who is behind, gains the advantage 1 over him who is ahead.
Aided by you, the competitor, unabashed (even though he was) behind the one in front,
the pious man, has taken first place, o Agni.
Durch dich dringt kühn der Renner vor und überholt den vorderen, Wer Agni dient, gewinnt den Preis.
Von dir begünstigt ist wie der dreiste Renner, der hinter dem Vordermann war, der Opferspender an die Spitze gekommen, o Agni.
Поддержанный тобой, (словно) дерзкий скакун,
(Бывший) позади, первого,
Почитатель (твой), о Агни, оказался впереди (всех).
उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि । दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥
उ॒त । द्यु॒ऽमत् । सु॒ऽवीर्य॑म् । बृ॒हत् । अ॒ग्ने॒ । वि॒वा॒स॒सि॒ । दे॒वेभ्यः॑ । दे॒व॒ । दा॒शुषे॑ ॥
उत अपि च हे देव द्योतमान अग्ने देवेभ्यः दाशुषे चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय बृहत् प्रौढं धनं विवाससि गमयितुमिच्छसि प्रापयसीति यावत् । कीदृशम् । द्युमत् अतिशयेन दीप्तं सुवीर्यं शोभनवीर्योपेतम् ॥ सुवीर्यम् । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । विवाससि ।' वा गतिगन्धनयोः । सनि द्विर्भावे ‘ सन्यतः' इति इत्वम् । दाशुषे । चतुर्थ्येकवचने ' वसोः संप्रसारणम् ' इति संप्रसारणम् । ‘शासिवसिघसीनां च' इति षस्वम् ॥ ॥२२॥
“Verily, divine Agni, you are desirous of bestowing upon the offerer (of oblations) to the gods, ample (wealth), brilliant, and giving vigour.”
And splendid strength, heroic, high, Agni, thou grantest from the Gods,
Thou God, to him who offers gifts.
And thou winnest, O Agni, brilliant, high bliss in strong heroes from the gods, O god, for the worshipper.
And a brilliant, lofty abundance of heroes, Agni, do you strive to win from the gods, o god, for the pious man.
Und du gewährest Heldenkraft, o Agni, hohe, glänzende, Von Göttern, Gott, dem Frommen du.
Und du erbittest für den Opferspender glänzende hohe Meisterschaft von den Göttern, o Agni.
И вот сверкающее высокое богатство из сыновей
Ты хочешь добыть, о Агни,
У богов, о бог, для почитающего (тебя).