क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः । यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥
क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः । यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥
अस्मै अग्नये कथा दाशेम कथं हवींषि ददाम । अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । अथवा अस्मै भामिने तेजस्विनेऽग्नये देवजुष्टा सर्वैः देवैः सेवितव्या गीः वाक् स्तुतिरपि का कीदृशी उच्यते । तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः । अमृतः मरणरहितः ऋतावा ऋतवान् सत्यवान् यज्ञवान् वा होता देवानामाह्वाता होमनिष्पादको वा यजिष्ठः अतिशयेन यष्टा एवंभूतः यः अग्निः मर्त्येषु मरणधर्मसु अस्मासु वर्तमानः सन् देवान् इत् कृणोति हविर्भिर्युक्तान्करोत्येव । तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः ॥ कथा । ' था हेतौ च च्छन्दसि ' इति थाप्रत्ययः ॥ भामिने । 'भा दीप्तौ ।' अर्तिस्तुसु° ' इत्यादिना मन्प्रत्ययः । ततो मत्वर्थीय इनिः । ऋतावा ‘ छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। अन्येषामपि दृश्यते' इति दीर्घत्वम् ॥
“What (oblations) may we offer to Agni? What praise is addressed to the luminous (Agni) that is agreeable to the gods? that Agni who is immortal and observant of truth, who is the invoker of the gods, the performer of sacrifices, and who, (present) amongst men, conveys oblations to the deities.”
How shall we pay oblation unto Agni? What hymn, Godloved, is said to him refulgent?
Who, deathless, true to Law, mid men a herald, bringeth the Gods as best of sacrificers?
How shall we sacrifice to Agni? What words, agreeable to the god, shall be addressed to him, the luminous one, who, being immortal and righteous, the Hotri, the best sacrificer, conveys the gods to the mortals 1?
How should we do pious service to Agni? Which hymn enjoyable to the gods is spoken to him, the radiant—
the one who, the immortal among mortals, the truthful Hotar, as the best sacrificer just does so [=sacrifices] to the gods?
Wie sollen wir dem Agni dienen? welch Lied beliebt bei Göttern tönt dem glanzbegabten? Der heilig unter Sterblichen unsterblich als bester Opfrer uns die Götter herschafft.
Wie sollen wir dem Agni opfern, welche Lobrede wird dem Strahlenden als gottgefällig vorgetragen? Der der Unsterbliche unter den Sterblichen, als rechtmäßiger, bestopfernder Hotri die Götter gewinnt;
Как почтить нам Агни? Какая речь,
Приятная богу, (должна) произноситься для этого сверкающего
Кто бессмертен среди смертных, (кто) как праведный
Лучше всех жертвующий хотар делает богов (расположенными)?
यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् । अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊँ॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् । अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥
यः अग्निः अध्वरेषु यागेषु शंतमः अतिशयेन सुखकारी ऋतावा सत्यवान् यथार्थदर्शीत्यर्थः । होता देवानामाह्वाता भवति । हे ऋत्विग्यजमाना यूयं तमु तमेवाग्निं नमोभिः स्तोत्रैः आ कृणुध्वम् अभिमुखीकुरुत । यत् यदा अयम् अग्निः मर्ताय मनुष्याय यजमानार्थं देवान् वेः वेति गच्छति तदानीं सः अग्निर्यष्टव्यान् सर्वान् देवान् बोधाति च जानाति च । ज्ञात्वा च मनसा नमसा तान् यजाति हविर्भिः पूजयति । अतस्तमेवाग्निम् आ कृणुध्वमिति योज्यम् ॥ वेः । वी गत्यादिषु । 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् । तिङा तिङो भवन्ति' इति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः । बोधाति । ‘बुध अवगमने'। लेटि आडागमः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । ‘चवायोगे प्रथमा' इति निघातप्रतिषेधः । मनसा। मकारनकारयोः स्थानविपर्ययः ॥
“Bring hither, with praises, him who is most constant in sacrifice, observant of truth, and the invoker (of the gods), for Agni, when he repairs to the gods on the part of man, knows those (who are to be worshipped), and worships them with reverence.”
Bring him with reverence hither, most propitious in sacrifices, true to Law, the herald;
For Agni, when he seeks the Gods for mortals, knows them full well and worships them in spirit.
Bring hither by adoration the Hotri who is most beneficial in sacrifices and righteous. When Agni repairs to the gods on behalf of the mortal 1, may he be attentive in his mind, and may he perform the sacrifice 2.
The one who is the most beneficial at the ceremonies, the truthful Hotar—attract him here with reverence.
When Agni, for the sake of the mortal, has pursued the gods all
together, he will be attentive to them and will perform sacrifice with his mind.
Der heilig bei den Festen und voll Heil ist, ein Priester, den schafft euch herbei durch Andacht, Wenn zu den Menschen Agni führt die Götter, dann merk er auf und ehre sie im Geiste.
Ihn gewinnt durch Huldigung, der bei den Opfern der zusagendste rechtmäßige Hotri ist! Wenn Agni für den Sterblichen die Götter ladet, so möge er aufmerksam sein und mit Überlegung opfern.
Кто во время обрядов самый благочестивый, праведный
Хотар, – его и привлекайте к себе поклонениями!
Когда Агни приглашает богов для смертного,
Пусть он будет внимателен, пусть жертвует с душой!
स हि क्रतु॒: स मर्य॒: स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः । तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑: ॥
सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः । तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥
स हि अग्निः क्रतुः कर्मणां कर्ता । सः एव मर्यः मारयिता विश्वस्योपसंहर्ता साधुः साधयितोत्पादयितापि सः एव अद्भुतस्य अभूतस्यालब्धस्य धनस्य रथीः रंहयिता प्रापयिता भूत् भवति । तत्र दृष्टान्तः । मित्रो न । यथा सखा धनानि प्रापयति तद्वत् । एवंभूतो योऽग्निः तम् एव मेधेषु यज्ञेषु देवयन्तीः देवयन्त्यो देवानात्मन इच्छन्त्यः विशः प्रजाः प्रथमम् उप ब्रुवते । स्तुतिभिरुपेत्य प्रधानभूतः इति कथयन्ति। कीदृश्यो विशः। दस्मं दर्शनीयं तमग्निम् आरीः गच्छन्त्यः भजन्त्यः इत्यर्थः ॥ मर्यः । मृङ् प्राणत्यागे । अस्मात् अन्तर्भावितण्यर्थात् 'छन्दसि निष्टर्क्य° ' इत्यादौ निपातनात् यत् कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि द्रष्टव्यः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । देवयन्तीः ।' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । आरीः । ‘ऋ गतौ'। ‘ जनिघसिभ्यामिण्' (उ. सू. ४. ५६९ ) इति बहुलग्रहणादस्मादपि इण्प्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वम्॥
“For he is the performer of rites, he is the destroyer and reviver (of all things), and, like a friend he is the donor of unattained wealth; all men reverencing the gods, and approaching the well-looking Agni, repeat his name first in holy rites.”
For he is mental power, a man, and perfect; he is the bringer, friend-like, of the wondrous.
The pious Aryan tribes at sacrifices address them first to him who doeth marvels.
For he is wisdom 1, he is manly, he is straightforward; like Mitra he has become the charioteer of the mysterious 2. Therefore the Aryan clans 3, longing for the gods, address him, the wonderful one, as the first at the sacrifices.
For he is resolve; he is a young buck; he is on target. Like an envoy he has become charioteer of the unerring. Him, the wondrous one, do the god-seeking Ārya clans entreat first at the ritual offerings.
Denn er ist Held, ist Mann, ist sichrer Führer, und wie ein Freund verbognen Gutes Fährmann. Ihn reden an zuerst die frommen Stämme, der Arier beim Opfermahl den thät'gen.
Denn er ist die Einsicht, er der Jüngling, er ein Vortrefflicher. Wie Mitra ist er der Lenker wunderbarer Einsicht. Ihn, den Meister, rufen zuerst die gottergebenen arischen Stämme bei den Opfern an.
Ведь он – сила духа, он – юный муж, он – тот, кто приводит к цели.
Как Митра, он бывает возницей (всего) небывалого.
К нему, удивительному, к первому обращаются
Преданные богам арийские племена на жертвоприношениях.
स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् । तना॑ च॒ ये म॒घवा॑न॒: शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥
सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् । तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥
नृणां यज्ञस्य नेतॄणां मध्ये नृतमः अतिशयेन नेता रिशादाः रिशानां शत्रूणामत्ता भक्षयिता। यद्वा । रिशतां हिँसतामसिता निरसिता । एवंविधः सः अग्निः नः अस्माकं गिरः स्तुतीः अवसा हविर्लक्षणेनान्नेन युक्तां धीतिं कर्म च वेतु कामयताम् । अपि च ये यजमानाः तना । धननामैतत् । विस्तृतेन धनेन मघवानः धनवन्तः शविष्ठाः अतिशयेन बलिनश्च सन्तः वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा मन्म अग्नेर्मननरूपं स्तोत्रम् इषयन्त एषयन्ति ऋत्विग्भिः कारयितुमिच्छन्ति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । ‘ नृ च ' इति उभयथाभावात् दीर्घाभावः । ' नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तना। तनु विस्तारे'। पचाद्यच् । तृतीयैकवचनस्य ‘सुपां सुलुक्' इति आकारः । वृषादेराकृतिगणवादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधा ' इति मत्वर्थीयो विनिः । ततः आतिशायनिकः। इष्ठन् । ‘विन्मतोर्लुक्' इति विनो लुक् । 'टेः' इति टिलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयन्त । ‘ इषु इच्छायाम् । अस्मात् ण्यन्तात् छान्दसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वात् णौ लघूपधगुणाभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥
“May Agni, who is the chief director of sacrifices, and the destroyer of enemies, accept our praise and worship with oblations, and may those who are affluent with great wealth, who are endowed with strength, and by whom the sacrificial food has been prepared, be desirous to offer adoration.”
May Agni, foe-destroyer, manliest Hero, accept with love our hymns and our devotion.
So may the liberal lords whose strength is strongest, urged by their riches, stir our thoughts with vigour.
May that Agni, the manliest of men, triumphant with riches [?] 1, come with help to our words, to our devotion, and (to the devotion) of those most powerful liberal givers who bent on the prize 2 have constantly stirred up our prayers 3.
He, most manly of men, who has care for the stranger—let Agni with his help pursue our hymns, our visionary thought—for us
and for our benefactors, the strongest ones, motivated by prizes, who propel our prayers at length.
Der männlichste der Männer, Feindvertilger, nehm huldreich an Gebet und Lied uns, Agni; Und auch die Fürsten stets, die als die stärksten, erregt durch Opfer unsern Sinn erquicken.
Der mannhafteste der Männer, der überlegene Agni soll unsere Lobesworte, unsere Dichtung günstig aufnehmen und ebenso die mächtigen Gönner, die den Lohn anweisen, die mit ihrem Anhang den Genuß des Gedichts haben.
Этот самый мужественный из мужей, заботящийся о чужом (?),
Агни пусть примет с благосклонностью наши хвалебные песни (и) силу видения,
А также (тех наших) самых сильных, щедрых (покровителей),
Назначающих награду, что наслаждаются вместе с потомством (нашей) молитвой!
ए॒वाग्निर्गोत॑मेभिॠ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः । स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः । सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥
ऋतावा ऋतवान् यज्ञवान् जातवेदाः जातधनो जातप्रज्ञो वा अयम् अग्निः विप्रेभिः मेधाविभिः गौतमेभिः गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेण अस्तोष्ट स्तुतोऽभूत् । स्तुतश्च सः अग्निः एषु गोतमेषु द्युम्नं द्योतमानं सोमं पीपयत् अपिबत्। यद्वा । तानृषीन् अपाययत्। तथा सः अग्निः वाजं हविर्लक्षणमन्नं पीपयदित्येव । एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य सः अग्निः जोषम् अस्माभिः कृतं सेवनम् आ चिकित्वान् आ समन्तात् जानन् पुष्टिं याति पोषं प्राप्नोतु । यद्वा । अस्माकं धनानि पोषं प्रापयतु । गोतमेभिः।' ऋष्यन्धकवृष्णिकुरुभ्यश्च ' (पा. सू. ४. १. ११४ ) इति विहितस्य अणः ‘अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च' (पा. सू. २. ४. ६५) इति बहुषु लुक् । अस्तोष्ट । स्तोतेः कर्मणि लुङि चिणभावश्छान्दसः । पीपयत्। 'पा पाने' ण्यन्तात् लुङि च्लेश्चङादि । जोषम् । 'जुषी प्रीतिसेवनयोः '। भावे घञ् । ञित्वादाद्युदात्तत्वम् ॥ ॥ २५ ॥
“Thus has Agni, the celebrator of sacrifices, and by whom all things are known, been hymned by the pious descendant of Gotama; to them he has given the bright Soma to drink, along with the sacrificial food, and gratified by our devotion, he obtains nutriment (for himself).”
Thus Agni Jatavedas, true to Order, hath by the priestly Gotamas been lauded.
May he augment in them splendour and vigour: observant, as he lists, he gathers increase.
Thus Agni, the righteous Gâtavedas, has been praised by the priestly Gotamas 1. May he augment their splendour and their strength. He the knowing one gains increase according to his desire.
Thus has Agni, the truthful one, the Jātavedas, been praised by the Gotamas, inspired poets.
He will swell brilliance among them; he will swell the prize. He drives to prosperity at his pleasure—the observant one.
So ist der heil'ge Wesenkenner Agni gepriesen jetzt von Gotamern, den Sängern; Er tränke sie mit Reichthum und mit Stärke; nach Wunsch erlangt der Weise Kraft und Nahrung.
Also ward Agni, der rechtmäßige Jatavedas, von den redekundigen Gotama´s gepriesen. Er möge bei Ihnen Ruhm und Lohn anschwellen lassen. Er gelangt nach Belieben zu wachsendem Wohlstand, da er sich darauf versteht.
Так Агни – праведный Джатаведас
Восхвалялся вдохновенными из рода Готамы.
Пусть он сделает у них блеск набухшим, пусть – награду!
Он идет к процветанию по своему желанию, зная (в этом) толк,