हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् । शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥
हिरण्यकेशः हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा अहिः आगत्य हन्ता मेघानां धुनिः तेषां कम्पयिता वातइव वायुरिव ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्निः रजसः उदकस्य विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति । उषसः उषोदेवताः नवेदाः । न विदन्ति इति नवेदाः। मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानन्तीत्यर्थः । अज्ञाने दृष्टान्तः । यशस्वतीः अन्नयुक्ता अन्नवत्यः अपस्युवः अपः कर्म आत्मन इच्छन्त्यः सत्याः अवितथारम्भाः न एवंभूताः प्रजा इव । अत्र उषसामज्ञानेनाग्निः प्रशस्यते न तु ता निन्द्यन्ते, न हि निन्दा निन्द्यं निन्दितुं अपि तु स्तुत्यं स्तोतुम्' इति न्यायात् ॥ ध्रजीमान् । ध्रज गतौ '। इन्सर्वधातुभ्यः' इति भावे । इन्प्रत्ययः । ततो मतुप् । तस्य पित्त्वादनुदात्तत्वे इनो नित्त्वात् प्रातिपदिकस्याद्युदात्तत्वम् । नवेदाः । नञ्पूर्वात् वेत्तेः पचाद्यच् ।' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । अपस्युवः । अपस्शब्दात् ‘ सुप आत्मनः क्यच् '। ‘ क्याच्छन्दसि ' इति उप्रत्ययः । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् । ( पा. सू. ६, ४, ७७, १ ) इति उवङ् ॥ ।
“The golden-haired Agni is the agitator of the clouds when the rain is poured forth, and, moving with the swiftness of the wind, shines with a bright radiance. The mornings know not (of the showers, like honest (people), who, provided with food, are intent upon their own labours.”
HE in mid-air's expanse hath golden tresses; a raging serpent, like the rushing tempest:
Purely refulgent, knowing well the morning; like honourable dames, true, active workers.
The golden-haired in the expanse 1 of the atmosphere, the roaring 2 snake, is hasting (through the air) like the wind; the brightly resplendent watcher of the dawn 3, he who is like the glorious, ever active and truthful (goddesses) 4.
A golden-haired one in his spread through the dusky realm—a snake, tumultuous, swooping like the wind—
blazing bright (when he becomes) cognizant of Dawn, like the glorious busy (Dawns themselves) actually present.
Goldhaarig ist er in dem Raum der Lüfte, ein Drache schnaubend, wie der Windzug streichend, Von hellem Glanz des Morgenroths Vertrauter, wie treue Hausfraun glänzen schön die Morgen.
Goldhaarig, wenn der Raum sich weitet; eine berauschende Schlange, wie der Wind sausend; hellstrahlend, der Vertraute der Usas, ehrbar wie fleißige treue Frauen -
С золотыми волосами, в разливе пространства
Змей мотнувшийся, словно гудящий ветер,
Светлопламенный знакомец Ушас,
Истинный, как прекрасные деятельные (воды)...
आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवै॑: कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑: स्त॒नय॑न्त्य॒भ्रा ॥
आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् । शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥
हे अग्ने ते तव सुपर्णाः शोभनपतना रश्मयः एवैः गन्तृभिर्मरुद्भिः सह अमिनन्त आ समन्तात् मेघं हिंसन्ति । वर्षणार्थं ताडयन्ति । प्रहृतश्च कृष्णः कृष्णवर्णः वृषभः वर्षिता मेघः नोनाव भृशं शब्दमकरोत् । यदि यदा इदं ईदृशं कर्म तदानीं शिवाभिर्न सुखकारिणीभिः स्मयमानाभिः हसनवतीभिः कान्ताभिरिव शुभ्रवर्णाभिः फेनयुक्ताभिरद्भिर्विद्युद्भिर्वा सह आ अगात् वैद्युताग्निप्रेरितः पर्जन्य आगच्छति । तदनन्तरं मिहः आपः पतन्ति दिवः सकाशात् प्रवृष्टा भवन्ति । अभ्रा अभ्राण्यद्भिः पूर्णा मेघाः स्तनयन्ति इतस्ततः शब्दं कुर्वन्ति ॥ अमिनन्त । ‘ मीञ् हिंसायाम् । क्रैयादिकः । व्यत्ययेन अन्तादेशः । ईषाअक्षादित्वात् प्रकृतिभावः । ‘ अणोऽप्रगृह्यस्य ' (पा. सू. ८. ४. ५७ ) इति वैकल्पिकमवसाने विधीयमानमनुनासिकत्वं व्यत्ययेनात्र संहितायामपि द्रष्टव्यम् । नोनाव । नौतेर्यङ्लुगन्तात् लिटि • अमन्त्रे' ' (पा. सू. ३. १. ३५) इति निषेधात् आम्प्रत्ययाभावः । स्मयमानाभिः । ‘ स्मिङ् ईषद्धसने '। शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । स्तनयन्ति। ‘ स्तन शब्दे '। चुरादिरदन्तः । पतन्ति स्तनयन्तीत्यनयोः पादादित्वाद्वाक्यादित्वाच्च निघाताभावः ॥
“The falling (rays), accompanied by the moving (Maruts), strike against (the cloud); the black shedder of rain has roared; when this is done, (the shower) comes with delightful and smiling (drops), the rain descends, the clouds thunder.”
Thy well-winged flashes strengthen in their manner, when the black Bull hath bellowed round about us.
With drops that bless and seem to smile he cometh: the waters fall, the clouds utter their thunder.
By thy goings the beautifully-winged (birds) were disparaged 1; the black bull 2 has roared, when here 3 (all this happened). He has come as if with the bounteous smiling (women) 4. The mists fly, the clouds thunder.
Your fine-feathered (lightning flashes) zigzagged along their ways. The black bull keeps bellowing. If he is really here,
he has come here with his (lightning flashes) like kindly, smiling (girls). The mists fly; the clouds thunder.
In ihren Flügen lösten deine Vögel sich ab, wenn hier der schwarze Stier gebrüllt hat; Er nahte wie mit holden muntern Frauen; die Nebel fliegen, und die Wolken donnern.
Deine Adler verwandelten sich aus eignem Triebe, der schwarze Bulle hat gebrüllt, wenn dies so ist. Er ist gekommen mit den Blitzen, die wie holde Frauen lächeln; es fallen die Regengüsse, die Wolken donnern.
Орлы твои изменились по своему обычаю:
Черный бык взревел, если это (началось).
Он пришел (молниями), улыбающимися, словно милые (женщины).
Падают потоки дождя, гремят тучи.
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः । अ॒र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
यत् ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥
यदीं यदायमग्निः ऋतस्य उदकस्य पयसा पयोवत्सारभूतेन रसेन पियानः जगदाप्यायनं कुर्वन् आप्यायितं च जगत् ऋतस्य उदकस्य संबन्धिभिः रजिष्ठैः ऋजुतमैः पथिभिः मार्गैः स्नानपानादिभिः नयन् प्रापयन् वर्तते तदानीम् अर्यमा मित्रो वरुणः च परिज्मा परितो गन्ता मरुद्गणश्च उपरस्य मेघस्य योनौ वृष्ट्युदकोत्पत्तिस्थाने त्वचं पृञ्चन्ति वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयन्ति उद्घाटयन्तीति यावत् ॥ पियानः । ‘ स्फायी ओप्यायी वृद्धौ' ।' बहुलं छन्दसि' इति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दात् इष्टनि ‘ विभाषर्जोश्छन्दसि ' ( पा. सू. ६. ४. १६२ ) इति ऋकारस्य रत्वम् ।' टेः' इति टिलोपः । पृञ्चन्ति ।' पृची संपर्के । रौधादिकः ॥
“When this, (the lightning, Agni), nourishes the world with the milk of the rain, and conducts it by the most direct ways to (the enjoyment of) water, then Mitra, Aryaman, Varuṇa and the circumambient (troop of Maruts) pierce through the (investing) membrane into the womb of the cloud.”
When he comes streaming with the milk of worship, conducting by directest paths of Order
Aryaman, Mitra, Varuna, Parijman fill the hide full where lies the nether press-stone.
When they have led him, who swells 1 with the milk of Rita, on the straightest paths of Rita, then Aryaman, Mitra, and Varuna, he who walks round the earth 2, fill the leather-bag (the cloud) in the womb of the lower (atmosphere [?]) 3.
When he, swollen with the milk of truth, (has come) leading them [=the lightning flashes] along the straightest paths of truth—
Aryaman, Mitra, Varuṇa, and the Earth-circling (Wind) engorge the skin in the womb of the nearer (realm).
Sobald er strotzet von der Milch des Opfers, sie führend auf des Opfers gradsten Wegen, So füllen Mitra, Varuna, Paridschman und Arjaman den Schlauch beim untern Pressstein.
Wenn er von dem rechtmäßigen Nasse voll, ihn lenkend auf den rechtmäßigen richtigsten Wegen kommt, so tränken Aryaman, Mitra, Varuna, der umherfahrende, die Haut im Schoße des unteren Raums.
Когда же (Агни), набухший от влаги (вселенского) закона,
(Движется) самыми прямыми путями закона, направляя (эту влагу),
Арьяман, Митра, Варуна, находящийся (повсюду) вокруг,
Смачивают шкуру (земли) в лоне нижнего (пространства).
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रव॑: ॥
अग्ने॑ । वाज॑स्य । गोम॑तः । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ । अ॒स्मे इति॑ । धे॒हि॒ । जा॒त॒ऽवे॒दः॒ । महि॑ । श्रवः॑ ॥
हे सहसो यहो बलस्य पुत्र अग्ने गोमतः बहुभिर्गोंभिर्युक्तस्य वाजस्य अन्नस्य ईशानः ईश्वरस्त्वमसि । अतः अस्मे अस्मासु हे जातवेदः जातधन जातानां वेदितर्वाग्ने महि प्रभूतं श्रवः अन्नं धेहि स्थापय ॥ सहसो यहो । पराङ्गवद्भावात् ' आमन्त्रितस्य च ' इति षष्ठ्यामन्त्रितसमुदायो निहन्यते । अस्मे । 'सुपां सुलुक्° ' इति सप्तम्याः शेआदेशः ॥
“Agni, sone of strength, lord of food and of cattle, give us abundant sustenance, you who know all that exists.”
O Agni, thou who art the lord of wealth in kine, thou Son of Strength,
Vouchsafe to us, O Jatavedas, high renown.
Agni, who art lord of booty, rich in cows, young son of strength 1, bestow on us, O Gâtavedas, great glory.
O Agni, being the lord of the prize consisting of cows, o youthful (son) of strength,
on us confer great fame, o Jātavedas.
Der über Rinderreichthum du, verfügst, o Agni, Sohn der Kraft, Verleihe uns, o Wesenkenner, grossen Schatz,
Agni, der du über den Rindergewinn verfügst, du jüngster Sohn der Kraft, verleih uns Ruhm, o Jatavedas!
О Агни, ты, владеющий наградой,
Состоящей из коров, о юный (сын) силы,
Надели нас, Джатаведас, великой славой!
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
सः । इ॒धा॒नः । वसुः॑ । क॒विः । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा । रे॒वत् । अ॒स्मभ्य॑म् । पु॒रु॒ऽअ॒णी॒क॒ । दी॒दि॒हि॒ ॥
सः अग्निः इधानः दीपनशीलः वसुः निवासयिता सर्वेषां कविः क्रान्तदर्शनो मेधावी वा गिरा स्तोत्ररूपया वाचा इळेन्यः स्तोतव्यो भवति । हे पुर्वणीक । अनीकं मुखम् । पुरुभिर्बह्वीभिरनीकस्थानीयाभिर्ज्वालाभिर्युक्ताग्ने अस्मभ्यं रेवत् धनयुक्तमन्नं यथा भवति तथा दीदिहि दीप्यस्व । इधानः । ञिइन्धी दीप्तौ । ताच्छीलिकः चानश्। 'बहुलं छन्दसि' इति शपो लुक् । ईळेन्यः । ईड स्तुतौ' । औणादिक एन्यप्रत्ययः । रेवत् । ‘रयेर्मती बहुलम्' इति संप्रसारणम्। छन्दसीरः ' इति मतुपो वत्वम् । ‘रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' ( का. ६. १. १७६. १ ) इति मतुप उदात्तत्वम् । दीदिहि। दीदेतिश्छान्दसो दीप्तिकर्मा ॥
“He, the blazing Agni, who is wise, and the granter of dwellings, is to be praised by our hymns; oḥ! you whose mouth (glows) with many (flames), shine (propitiously, so) that food-providing wealth may be ours.”
He, Agni, kindled, good and wise, must be exalted in our song:
Shine, thou of many forms, shine radiantly on us.
Being lighted, a Vasu, a sage, Agni who is to be magnified by (pious) words, O (god) with many faces, shine to us so that riches may be ours.
On being kindled, Agni the good poet is to be reverently invoked with a hymn.
Shine richly for us, you of many faces.
Der gute Seher ist entflammt, durch Lieder Agni preisenswerth, O vielgestalt'ger, strahle reiches Gut uns zu.
Du der Gott, der Seher Agni, der mit Lobesworten anzurufen ist, während er entzündet wird, leuchte uns reiches Gut zu, du Vielgesichtiger!
. Этот Агни зажженный, Васу, поэт,
Которого надо призывать хвалебной песнью, –
Воссвети нам богатство, о многоликий!
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषस॑: । स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥
क्ष॒पः । रा॒ज॒न् । उ॒त । त्मना॑ । अग्ने॑ । वस्तोः॑ । उ॒त । उ॒षसः॑ । सः । ति॒ग्म॒ऽज॒म्भ॒ । र॒क्षसः॑ । द॒ह॒ । प्रति॑ ॥
हे राजन् राजनशील अग्ने क्षपः क्षपय । राक्षसादीन् स्वकीयैः पुरुषैर्बाधस्व । उत अपि च त्मना न केवलमन्यैरेव आत्मना च तान् बाधस्व । कदेति चेत् उच्यते। वस्तोः सर्वाण्यहानि उत अपि च उषसः उषःकालोपलक्षिता रात्रीः । अत्यन्तसंयोगे द्वितीया । सर्वेष्वहःसु सर्वासु रात्रिषु चेत्यर्थः । हे तिग्मजम्भ तीक्ष्णमुखाग्ने रक्षसः राक्षसानुक्तप्रकारेण क्षपयित्वा सः एव त्वं प्रति दह प्रत्येकं दह । न किंचिद्दग्धव्यमित्युदास्वेत्यर्थः । क्षपः । ‘ क्षप क्षान्त्याम्'। लोडर्थे छान्दसो लङ् । 'छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः । उदात्तनिवृत्तिस्वरेण शप उदात्तत्वम् । त्मना । ' मन्त्रेष्वाङ्यादेरात्मनः' इति आकारलोपः । रक्षसः । ‘ रक्ष पालने । रक्षितव्यमस्मादिति रक्षः । भीमादित्वात् ( पा. सू. ३. ४. ७४ ) अपादाने असिप्रत्ययः । क्षरतेर्वा ण्यन्तात् असिप्रत्यये णिलोपो वर्णविपर्ययश्च । अस्य च रक्षःशब्दस्य असिप्रत्ययान्तत्वात् प्रत्ययस्वर एव शिष्यते ॥ ॥ २७ ॥
“Shining Agni, drive off (all disturbers of the rite), either by yourself or (your servants) whether by day or by night; sharp-visaged Agni, destroy the rākṣasas entirely.”
O Agni, shining of thyself by night and when the morning breaks,
Burn, thou whose teeth are sharp, against the Raksasas.
Reigning 1 by night by thy own power, O Agni, and at the break of dawn, O god with sharp teeth, burn against the sorcerers.
Through the nights in your own person, King Agni, and at the dawning of dawn,
o sharp-fanged one, burn against the demons.
O der du strahlst bei Nacht zumal, o Agni, und beim Morgenlicht, O scharfgezahnter, die Gespenster setz in Brand.
Du König selbst bei Nacht und auch bei Aufgang der Morgenröte, o Agni, versenge, du Scharfzahniger, die Dunkelmänner!
(Ты,) царствующий в ночи, а также,
Когда зажигается утренняя заря, о Агни,
(Бог) с острыми зубьями, сожги ракшасов!
अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि । विश्वा॑सु धी॒षु व॑न्द्य ॥
अव॑ । नः॒ । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । गा॒य॒त्रस्य॑ । प्रऽभ॑र्मणि । विश्वा॑सु । धी॒षु । व॒न्द्य॒ ॥
विश्वासु धीषु सर्वेषु कर्मसु वन्द्य स्तुत्य हे अग्ने गायत्रस्य गायत्रसाम्नो गायत्रीच्छन्दस्कस्य सूक्तस्य वा प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति नः अस्मान् ऊतिभिः त्वदीयैः पालनैः अव रक्ष ॥ अव ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् ॥
“Agni, who in all rites are to be praised, guard us with your protection, (propitiated) by the recitation of the metrical hymn.”
Adorable in all our rites, favour us, Agni, with thine aid,
When the great hymn is chanted forth.
Bless us, O Agni, with thy blessings, when our Gâyatra song is brought forward (to thee), thou to whom reverence is due in all our prayers.
Help us, Agni, with your help at the presentation of the gāyatrī song, o you to be extolled in all hymnic visions.
Der du bei jedem Andachtswerk zu rühmen bist, o Agni, hilf Uns huldvoll bei des Liedes Sang.
Hilf uns mit deinen Hilfen, o Agni, bei dem Vortrag des Gesangesliedes, bei allen frommen Gedanken, du Lobenswerter!
Помоги нам, о Агни, (своими) поддержками,
Когда возносится песнопение,
При всех молитвах, о достойный прославления!
आ नो॑ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे॑ण्यम् । विश्वा॑सु पृ॒त्सु दु॒ष्टर॑म् ॥
आ । नः॒ । अ॒ग्ने॒ । र॒यिम् । भ॒र॒ । स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । विश्वा॑सु । पृ॒त्ऽसु । दु॒स्तर॑म् ॥
हे अग्ने रयिं धनं नः अस्मभ्यम् आ भर प्रयच्छ। कीदृशम् । सत्रासाहं सत्रा सह युगपदेव दारिद्र्यस्य नाशकं वरेण्यं सर्वैर्वरणीयं विश्वासु पृत्सु सर्वेषु संग्रामेषु दुष्टरं शत्रुभिस्तरीतुमशक्यम् ॥ सत्रासाहम् । छन्दसि सहः' इति ण्विः । वरेण्यम् । वृञ एण्यः' । पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' इति पृतनाशब्दस्य पृद्भावः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥
“Grant us, Agni, riches that dispel poverty that are desirable (to all), and cannot be taken (from us) in all encounters (with our foes).”
Bring to us ever-conquering wealth, wealth, Agni, worthy of our choice,
In all our frays invincible.
Bring us wealth, O Agni, which may be always conquering, excellent and invincible 1 in all battles.
Bring here to us wealth, o Agni, which is victorious in every way, worthy to be chosen,
and difficult to surpass in all battles.
O Agni bring uns Reichthum her, der köstlich, allbesiegend ist, Und unbesiegt in jedem Kampf.
Bring uns, Agni, Reichtum mit, allesamt besiegenden, begehrenswerten, in allen Kämpfen unüberwindbaren.
Принеси нам, о Агни, богатство,
Целиком побеждающее, избранное,
Непреодолимое во всех сражениях!
आ नो॑ अग्ने सुचे॒तुना॑ र॒यिं वि॒श्वायु॑पोषसम् । मा॒र्डी॒कं धे॑हि जी॒वसे॑ ॥
आ । नः॒ । अ॒ग्ने॒ । सु॒ऽचे॒तुना॑ । र॒यिम् । वि॒श्वायु॑ऽपोषसम् । मा॒र्डी॒कम् । धे॒हि॒ । जी॒वसे॑ ॥
हे अग्ने नः अस्माकं जीवसे जीवनाय सुचेतुना शोभनेन ज्ञानेन युक्तं रयिं धनम् आ धेहि आस्थापय । कीदृशम् । मार्डीकम् । मृडीकं सुखम् । तद्धेतुभूतम् । विश्वायुपोषसं सर्वस्मिन्नायुषि देहादेः पोषकम् । यावज्जीवमस्मदुपभोगपर्याप्तमित्यर्थः ॥ सुचेतुना । ‘ चिती संज्ञाने'। औणादिकः । उप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । विश्वायुपोषसम् । विश्वमायुर्यस्मिन् शरीरादौ तद्विश्वायु। ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तत्पुष्णातीति विश्वायुपोषाः । ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारलोपश्छान्दसः ‘ दीर्घायुत्वाय वर्चसे ' इति यथा ॥
“Grant us, Agni, for our livelihood, wealth, with sound understanding, conferring happiness, and sustaining (us) through life.”
Give us, O Agni, through thy grace wealth that supporteth all our life,
Thy favour so that we may live.
Bestow on us, Agni, through thy kindness 1 wealth which may last all our life 2, and have mercy 3 on us that we may live.
(Bring) here to us wealth affording lifelong prosperity with your kind attention, o Agni.
Confer grace, (for us) to live.
Nach deiner Huld, o Agni, gib uns Gut, das alles Leben schafft, Und Gnade schenk zum Leben uns.
Bring uns, Agni, durch dein Wohlwollen Reichtum, der lebenslang nährt. Schenk uns Gnade, auf daß wir leben!
При(неси) нам, Агни, (по) доброй воле
Богатство, дающее процветание весь век!
Даруй милость, чтобы мы жили!
प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑ । भर॑स्व सुम्न॒युर्गिर॑: ॥
प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गोतम । अ॒ग्नये॑ । भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥
हे गोतम सूक्तद्रष्टः सुम्नयुः सुम्नं धनमात्मन इच्छस्त्वं तिग्मशोचिषे तीक्ष्णज्वालाय अग्नये पूताः शुद्धाः वाचः अग्नेर्गुणान् सम्यगभिदधतीः गिरः स्तुतीः प्र भरस्व प्रकर्षेण संपादय ॥ तिग्मशोचिषे । तिज निशाने '। ‘युजिरुचितिजां कुत्वं च ' ( उ. सू. १. १४३ ) इति मक् । तिग्मानि शोचींषि यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुम्नयुः । सुम्नशब्दात् क्यचि न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
“Gotama, desirous of wealth, offers to the sharp-flaming Agni pure prayers and praises.”
O Gotama, desiring bliss present thy songs composed with care
To Agni of the pointed flames.
O Gotama 1, bring forward purified words, bring songs to the sharp-flaming Agni, desirous of his favour.
Present your own purified speeches to sharp-flamed Agni, o Gotama; present your own hymns, as you seek his favor.
Auf, bringe schöne Sprüche nun und Lieder dem hellglänzenden, Dem Agni dar, o Gotama.
Abgeklärte Reden trag, o Gotama, dem scharfflammigen Agni vor, Lobesworte, um Wohlwollen bittend!
Вознеси, о Готама, для Агни
С острым пламенем чистые слова,
Хвалебные песни, (ты,) ищущий благосклонности?
यो नो॑ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः । अ॒स्माक॒मिद्वृ॒धे भ॑व ॥
यः । नः॒ । अ॒ग्ने॒ । अ॒भि॒ऽदास॑ति । अन्ति॑ । दू॒रे । प॒दी॒ष्ट । सः । अ॒स्माक॑म् । इत् । वृ॒धे । भ॒व॒ ॥
हे अग्ने नः अस्मान् अन्ति अन्तिके समीपे दूरे विप्रकृष्टदेशे अवस्थितः सन् यः शत्रुः अभिदासति उपक्षपयति सः शत्रुः पदीष्ट पततु नश्यतु । त्वं च अस्माकमित् अस्माकमेव वृधे वर्धनाय भव ॥ अभिदासति । दसु उपक्षये '। अस्मात् ण्यन्तात् लटि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । अन्ति। ‘ कादिलोपो बहुलमिति वक्तव्यम्' इति अन्तिकशब्दस्य ककारलोपः । वृधे । वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप्। ‘सावेकाचः इति विभक्तेरुदात्तत्वम् ॥
“May he, Agni, who annoys us, whether nigh or afar perish; and do you be to us (propitious) for our advancement.”
May the man fall, O Agni, who near or afar assaileth us:
Do thou increase and prosper us.
May he who tries to harm us, whether nigh or afar, fall down. Do thou lead us alone to increase.
Whoever will assail us, close by or in the distance, let him fall, o Agni. Be (ready) to strengthen only us.
Wer, Agni, uns zu schaden sucht nah oder fern, der sinke hin, Uns aber sei zum Heile du.
Wer uns, Agni, nah und fern bedroht, der soll zu Fall kommen. Sei uns zum Gedeihen!
Кто нам, о Агни, угрожает,
Близко (ли,) далеко (ли), – да падет он!
Сделай, о Агни, чтоб только мы множились!
स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां॑सि सेधति । होता॑ गृणीत उ॒क्थ्य॑: ॥
स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥
सहस्राक्षः असंख्यातज्वालः विचर्षणिः विशेषेण सर्वस्य द्रष्टा अयम् अग्निः रक्षांसि सेधति प्रतिषेधति । यज्ञान्निर्गमयति । स चाग्निः उक्थ्यः उक्थैः शस्त्रैरस्माभिः स्तूयमानः सन् होता देवानामाह्वाता भूत्वा गृणीते तान् स्तौति ॥ सहस्राक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् समासान्तः । सतिशिष्टत्वात्तस्यैव स्वरः शिष्यते । सेधति । षिधु गत्याम् । अत्र केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । गृणीते । गॄ शब्दे'। ' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् ॥ ॥ २८॥
“The thousand-eyed, all-beholding, Agni, drives away the rākṣasas, and (praised by us) with holy hymns, he, the (invoker of the gods) celebrates their praise.”
Keen and swift Agni, thousand-eyed, chaseth the Raksasas afar:
He singeth, herald meet for lauds.
The thousand-eyed Agni, who dwells among all tribes, scares away the Rakshas. The praiseworthy Hotri (Agni) is praised 1.
Thousand-eyed, boundless Agni repels the demonic forces.
As Hotar, worthy of praise, he is hymned.
Allwirkend, tausendäugig wehrt die Zaubergeister Agni ab, Der hehre Priester wird gerühmt.
Tausendäugig, vor allem Volke hervorragend, wehrt Agni die bösen Geister ab. Als preislicher Hotri wird er gefeiert.
Тысячеглазый, движущийся в разные стороны
Агни отбрасывает ракшасов.
Он воспевается как хотар, достойный гимнов.