एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् । वर्षि॑ष्ठमू॒तये॑ भर ॥
आ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒ऽजित्वा॑नम् । स॒दा॒ऽसह॑म् । वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥
हे इन्द्र ऊतये अस्मद्रक्षार्थं रयिं धनम् आ भर आहर । कीदृशं रयिम् । सानसिं संभजनीयम् । सजित्वानं समानशत्रुजयशीलम् । धनेन हि शूरान् भृत्यान् संपाद्य शत्रवो जीयन्ते । सदासहं सर्वदा शत्रूणामभिभवहेतुम् । वर्षिष्ठम् अतिशयेन वृद्धं प्रभूतमित्यर्थः ॥ सानसिम् । ‘वन षण संभक्तौ ' इत्यस्मात् असिप्रत्ययो वृद्धिः अन्तोदात्तत्वं च ' सानसिधर्णसि° ' ( उ. सू. ४. ५४७ ) इत्यादिना निपात्यते । रयिम् । प्रातिपदिकस्वरेणान्तोदात्तः । सजित्वानम् । समानान् अरीन् जेतुं शीलमस्य । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५ ) इति क्वनिप् । उपपदसमासः । समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु ' ( पा. सू. ६. ३.८४ ) इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरेण धातुस्वर एव शिष्यते । वर्षिष्ठम् । वृद्धशब्दात् “ अतिशायने तमबिष्ठनौ '( पा. सू. ५. ३. ५५ ) इति इष्ठन् । ‘ प्रियस्थिर ' (पा. सू. ६. ४. १५७ ) इत्यादिना वृद्धशब्दस्य वर्षादेशः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ऊतये । उदात्तः' इत्यनुवृत्तौ ‘ ऊतियूतिजूतिसाति° ' इत्यादिना क्तिन् उदात्तो निपातितः । भर। ‘ हृग्रहोर्भश्छन्दसि ' ( पा. सू. ८. २. ३२. १ ) इति हकारस्य भकारः । ते प्राग्धातोः ' ( पा. सू. १. ४. ८०) इति धातोः प्राक् प्रयोक्तव्यस्य आङः ‘व्यवहिताश्च' (पा. सू. १. ४.८२ ) इति छन्दसि व्यवहितप्रयोगः ॥
“Indra, bring for our protection riches, most abundant, enjoyable, the source of victory, the humbler of our foes. [”
INDRA, bring wealth that gives delight, the victor's ever-conquering wealth,
Most excellent, to be our aid;
O Indra, bring wealth here—winning, conquering, ever overpowering, highest—for our help—
Bring, Indra, segensreichen Schatz, der stets gewinnt und siegreich ist, Den reichsten zum Genuss herbei,
Indra! Bring uns den einträglichen, allbesiegenden, allezeit überlegenen, höchsten Schatz zu unserem Schutze,
О Индра, даруй (нам) в поддержку
Богатство, приносящее добычу, победоносное,
Всегда одерживающее верх, высшее,
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै । त्वोता॑सो॒ न्यर्व॑ता ॥
नि । येन॑ । मु॒ष्टि॒ऽह॒त्यया॑ । नि । वृ॒त्रा । रु॒णधा॑महै । त्वाऽऊ॑तासः । नि । अर्व॑ता ॥
येन धनेन संपादितानां भटानां नि मुष्टिहत्यया नितरां मुष्टिप्रहारेण वृत्रा शत्रून् नि रुणधामहै निरुद्धान् करवाम तादृशं धनमाहरेत्यर्थः । त्वोतासः त्वया रक्षिता वयम् अर्वता अस्मदीयेनाश्वेन नि रुणधामहै इत्यनुषङ्गः । पदातियुद्धेनाश्वयुद्धेन च शत्रून् विनाशयाम इत्यर्थः ॥ मुष्टिहत्यया । ‘ ‘ हनस्त च' ( पा. सू. ३. १. १०८) इति सुबन्ते उपपदे क्यप् , तत्संनियोगेन नकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते “ परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९) इति बहुलग्रहणेन त्रिचक्रादीनां छन्दस्यन्तोदात्तत्वाभिधानात् (पा. सू. ६. २. १९९.१) अन्तोदात्तत्वम् । नि । आख्यातसंबन्धस्यापि नेरुपसर्गस्य ‘ व्यवहिताश्च ' ( पा. सू. १. ४. ८२ ) इति व्यवहितप्रयोगः । वृत्रा । ‘ शेश्छन्दसि बहुलम् ' ( पा. सू. ६. १. ७० ) इति शेर्लोपः । नलोपः । रुणधामहै । आट्संयोगेन पित्त्वात् ( पा. सू. ३. ४.९२ ) ‘ असोरल्लोपः ' ( पा. सू. ६. ४. १११ ) इति अकारलोपो न भवति । पित्त्वादेव च आख्यातस्यानुदात्तत्वेन विकरणस्य श्नम एव उदात्तत्वं शिष्यते । ननु ‘ तिङ्ङतिङः' इति निघातेन भवितव्यम् । न । द्वे ह्यत्र तिङ्विभक्ती । निबिडया मुष्ट्या निरुणधामहै इत्यत्र श्रुतैका । अर्वता निरुणधामहै इत्यत्रानुषक्ता द्वितीया । तयोः समुच्चयार्थश्चकारो लुप्यते । तेन ‘चादिलोपे विभाषा ' ( पा. सू. ८. १. ६३ ) इति प्रथमेयं तिङ्विभक्तिर्न निहन्यते । यथा ‘नात्मना तृप्यति नान्यस्मै ददाति ' ( तै. सं. २. ५. ४. ३ ) इत्यत्र हि समुच्चयार्थस्य चशब्दस्य लोपात् तृप्यतीति प्रथमा तिङ्विभक्तिर्न निहन्यते, ददातीति द्वितीया तु निहन्यते एव । ननु तत्र द्वे तिङ्विभक्ती श्रूयेते । इह पुनरेकैव श्रुता । सैवोत्तरत्रानुषज्यते नान्या श्रूयते इति द्वितीयाभावात्, कथमियं प्रथमा । न । अनुषङ्गलब्धद्वितीयापेक्षमपि प्राथम्यमुपजीव्य निघातनिषेधदर्शनात् । ‘ पुरोडाशं चाधिश्रयत्याज्यं च ' ( तै. सं. १. ६. ९. ३-४ ), ‘प्रोक्षणीश्चासादयत्याज्यं च ' ( तै. सं. १. ६. ९. ४ ) इत्यत्र हि अधिश्रयति आसादयति इति आख्यातयोः प्रथमवाक्यद्वयश्रुतयोः उत्तरवाक्यद्वयेऽनुषङ्गमपेक्ष्यैव प्राथम्यस्वीकारेण ‘चवायोगे प्रथमा ' (पा. सू. ८. १. ५९ ) इति निघातनिषेधो दृष्ट इति । त्वया ऊता रक्षिताः त्वोतासः ।' प्रत्ययोत्तरपदयोश्च ' ( पा. सू. ७. २. ९८ ) इति मपर्यन्तस्य त्वादेशे दकारलोपश्छान्दसः, अवतेः निष्ठायामिडभावश्च । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (पा. सू. ६. ४. २० ) इति ऊठ् । एत्येधत्यूठ्सु' (पा. सू. ६. १. ८९) इति वृद्ध्यभावश्छान्दसः। तृतीया कर्मणि ' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरेणाकार उदात्तः । ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्त ओकारः । अर्वता । अर्वति गच्छति इति अर्वा । ‘ अर्व गतौ । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप्प्रत्ययः । ‘नेड्वशि कृति ' ( पा. सू. ७. २. ८) इति इट्प्रतिषेधः। ‘ लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६ ) इति वकारलोपः । अर्वणस्त्रसावनञः ' ( पा. सू. ६. ४. १२७ ) इति तकारः । वनिपः पित्त्वात् धातुस्वर एव ॥
“By which we may repel our enemies, whether (encountering them) hand to hand, or on horse-back; ever protected by you. (muṣṭihatyayā = muṣṭiprahāreṇa) = lit. by striking with the fist; on horseback = with a horse (a reference to infantry and cavalry)].”
By means of which we may repel our foes in battle hand to hand,
By thee assisted with the car.
(Wealth) by which we will keep obstacles hemmed in, hemmed in by bare-knuckled fighting,
hemmed in (by fighting) on horseback, when we are helped by you.
Durch den im Handgemenge wir und in der Reiterschlacht den Feind Bezwingen, unterstützt von dir.
Mit dem wir unter deinem Schutze uns im Faustkampf und gegen Feinde und zu Roß wehren können.
С помощью которого при твоей поддержке
Мы смогли бы отразить врагов
В кулачном бою (и) на коне.
इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि । जये॑म॒ सं यु॒धि स्पृध॑: ॥
इन्द्र॑ । त्वाऽऊ॑तासः । आ । व॒यम् । वज्र॑म् । घ॒ना । द॒दी॒म॒हि॒ । जये॑म । सम् । यु॒धि । स्पृधः॑ ॥
हे इन्द्र त्वोतासः त्वया पालिताः वयं घना घनं शत्रुप्रहरणायात्यन्तदृढं वज्रम् आयुधम् आ ददीमहि स्वीकुर्मः । तेन च वज्रेण युधि युद्धे स्पृधः स्पर्धमानान् शत्रून् सं जयेम सम्यक् जयेम ॥ त्वोतासः । उक्तम् ।, वज्रम् । वज व्रज गतौ । ‘ ऋज्रेन्द्राग्र° ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तो निपातः । घना । घनः काठिन्यम् । तदस्यातीति अर्शआदित्वात् अच् (पा. सू. ५. २. १२७ )। चित्त्वादन्तोदात्तः । ‘ सुपां सुलुक्° ' इति डादेशः । ददीमहि । ‘ डुदाञ् दाने '। प्रार्थनायां लिङ्। क्रियाफलस्य कर्तृगामित्वात् ' स्वरितजितः०' ( पा. सू. १. ३. ७२ ) इत्यात्मनेपदोत्तमपुरुषबहुवचनं महिङ्। जुहोत्यादित्वात् शपः श्लुः ( पा. सू. २. ४. ७५ )। श्लौ ' (पा. सू. ६. १. १०) इति द्विर्भावः । लिङः सलोपोऽनन्त्यस्य ' ( पा. सू. ७. २. ७९ ) इति सलोपः । ‘ श्नाभ्यस्तयोरातः ' (पा. सू. ६. ४. ११२ ) इति आकारलोपः । जयेम । शपः पित्वा‘ दनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरात् धातुस्वर एव शिष्यते । छन्दसि परेऽपि ' ( पा. सू १. ४. ८१ ) इति समः परः प्रयोगः । युधि । ‘युध संप्रहारे ' । संपदादित्वात् भावे क्विप् ( पा. सू. ३. ३. १०८.९ )। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । स्पर्धन्ते इति स्पृधः । ‘ स्पर्ध संघर्षे '। क्विप्च' (पा. सू. ३. २. ७६ ) इति क्विप् । ‘बहुलं छन्दसि' इति रेफस्य संप्रसारणम् ऋकारः । अकारलोपश्च ॥
“Defended by you, Indra, we possess a ponderous weapon, wherewith we may entirely conquer our opponents.”
Aided by thee, the thunder-armed, Indra, may we lift up the bolt,
And conquer all our foes in fight.
O Indra, helped by you, might we, as your hammers, take up your mace;
might we conquer our opponents completely in the fight.
Durch deine Gunst lass Indra uns den Blitz erlangen, der zermalmt, Im Kampf besiegen uns den Feind.
Indra! Unter deinem Schutze wollen wir mit dem Schlägel die Donnerkeule ergreifen und im Kampfe die Nebenbuhler allesamt besiegen.
О Индра, при твоей поддержке
Пусть возьмем мы дубины, как (ты – ) ваджру,
(И) победим в борьбе всех соперников!
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् । सा॒स॒ह्याम॑ पृतन्य॒तः ॥
व॒यम् । शूरे॑भिः । अस्तृ॑ऽभिः । इन्द्र॑ । त्वया॑ । यु॒जा । व॒यम् । सा॒स॒ह्याम॑ पृ॒त॒न्य॒तः ॥
वयं कर्मानुष्ठातारः शूरेभिः शौर्ययुक्तैः अस्तृभिः आयुधानां प्रक्षेप्तृभिर्भटैः संयुज्येमहीति शेषः । हे इन्द्र तादृशा भटसहिता वयं युजा सहायभूतेन त्वया पृतन्यतः सेनामिच्छतः शत्रून् सासह्याम अतिशयेनाभिभवेम ॥ शूरेभिः । शु श्रु गतौ ।' 'क्रन्' ( उ. सू. २. १८२) इत्यनुवृत्तौ शुसिचिमीनां दीर्घश्च' ( उ. सू. २. १८३ ) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । ‘बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति ऐसो निषिद्धत्वात् ‘बहुवचने झल्येत्' ( पा. सू. ७. ३. १०३ ) इति एत्वम् । सहयोगे तृतीयाबलात् ( पा. सू. २. ३. १९ ) वयमित्यस्मत्पदसमभिव्याहाराच्च वयं संयुज्येमहीति गम्यम् । विनापि सहशब्देन ‘वृद्धो यूना' (पा. सू. १. २.६५) इति निपातनादिति ह्युक्तम् । अस्तृभिः शस्त्रास्त्रप्रक्षेपणशीलैः तद्धर्मभिः तत्साधुकारिभिर्वा । ‘ असु क्षेपणे '। ‘ तृन्' ( पा. सू. ३. २. १३५ ) इति ताच्छील्यादिषु तृन् । नित्त्वादाद्युदात्तः ॥ ‘ रधादिभ्यश्च ( पा. सू. ७. २. ४५ ) इति विकल्पविधानात् अयं पक्षे इडभावः । त्वया । युष्यसिभ्यां मदिक् ' ( उ. सू. १. १३६ )। कित्त्वाद्गुणाभावः । युष्मदः प्रत्ययस्वरेण अकार उदात्तः । तृतीयैकवचनं टा ( पा. सू. ४. १. २ )। त्वमावेकवचने ' (पा. सू. ७. २. ९७) इति मपर्यन्तस्य त्वादेशः । अतो गुणे ' (पा. सू. ६. १.९७) इति पररूपत्वम् । एकादेश उदात्तेनोदात्तः' इत्युदात्तः। युजा। अञ्चुयुजिक्रुञ्चां च ' ( पा. सू. ३.२.५९) इति क्विन् ।' सावेकाचः' इति विभक्तेरुदात्तत्वम्। सासह्याम भृशं पुनः पुनः सहेमहि ।' षह मर्षणे ' । ‘ धात्वादेः षः सः । ‘ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' ( पा. सू. ३. १. २२)। यङोऽचि च ' (पा. सू. २. ४. ७४) इति लुक् । ‘ सन्यङोः ' ( पा. सू. ६. १.९) इति द्विर्भावः । हलादिशेषः ( पा. सू. ७. ४. ६० )। दीर्घोऽकितः ' (पा. सू. ७. ४. ८३) इति दीर्घः । प्रार्थनायां लिङ् । चर्करीतं परस्मैपदम् अदादिवच्च द्रष्टव्यमिति परस्मैपदोत्तमपुरुषबहुवचनं मस् । कर्तरि शप् । अदादिवद्भावात् लुक् । ‘नित्यं ङितः ' ( पा. सू. ३. ४. ९९) इति अन्त्यसकारलोपः। ‘ यासुट् परस्मैपदेषूदात्तो ङिच्च ' (पा. सू. ३. ४. १०३) इति यासुट् । ‘लिङः सलोपोऽनन्त्यस्य' (पा. सू. ७. २. ७९) इति सकारलोपः । सति शिष्टत्वात् यासुट एव उदात्तत्वं शिष्यते । पादादित्वात् न निघातः । पृतन्यतः । योद्धुं पृतनामात्मन इच्छतः । ‘ सुप आत्मनः क्यच्' इति क्यच् । ‘समाद्यन्ता धातवः' (पा. सू. ३.१.३२) इति धातुसंज्ञायां ‘सुपो धातुप्रातिपदिकयोः' (पा. सू. २. ४.७१) इति सुपो लुक् । ‘क्यचि च' (पा. सू. ७. ४. ३३) इत्यनुवृत्तौ ‘कव्यध्वरपृतनस्यर्चि लोपः' (पा. सू. ७. ४. ३९ ) इति आकारलोपः । पृतन्यधातुः चित्त्वादन्तोदात्तः । उपरि लटः शत्रादेशः । कर्तरि शप् । पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण उदात्तेन सह ‘ एकादेश उदात्तेनोदात्तः' इति पृतन्यच्छब्दोऽन्तोदात्तः । शसः सुप्स्वरेणानुदात्तस्य अन्तोदात्तात्' (पा. सू. ६.१. १६९) इत्यनुवृत्तौ ‘शतुरनुमो नद्यजादी' (पा. सू. ६. १. १७३) इत्युदात्तत्वम् ॥
“With you for our ally, Indra, and (aided by) missile-hurling heroes, we are able to overcome (our foes) arrayed in hosts.”
With thee, O India, for ally with missile-darting heroes, may
We conquer our embattled foes.
With champion archers, with you as our yokemate, Indra,
might we overcome those doing battle.
Mit starken Schützen und mit dir verbündet, Indra, mögen wir Besiegen, die im Kampf uns nahn.
Wir wollen mit tapferen Schützen, mit dir, Indra, im Bunde die Angreifer bezwingen.
Мы с храбрыми стрелками,
О Индра, с тобою – союзником мы
Одолеть хотим враждующих (с нами)!
म॒हाँ इन्द्र॑: प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ । द्यौर्न प्र॑थि॒ना शव॑: ॥
म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ । द्यौः । न । प्र॒थि॒ना । शवः॑ ॥
अयम् इन्द्रः महान् शरीरेण प्रौढः परश्च गुणैरुत्कृष्टोऽपि । नु किंच वज्रिणे वज्रयुक्तायेन्द्राय महित्वं पूर्वोक्तं द्विविधमाधिक्यं सर्वदा अस्तु । स्वभावसिद्धस्यापि भक्त्या प्रार्थनमेतत् । किंच। द्यौर्न द्युलोक इव शवः बलमिन्द्रस्य सेनारूपं प्रथिना प्रथिम्ना पृथुत्वेन युज्यतामिति शेषः । यथा द्युलोकः प्रभूत एवमस्य सेना प्रभूता । नुशब्दो यद्यपि क्षिप्रनामसु नु मक्षु' (नि. २, १५. १ ) इति पठितस्तथाप्यत्र तस्यान्वयाभावात् निपातत्वेन अनेकार्थत्वसंभवाच्च समुच्चयार्थोऽत्र गृहीतः। नशब्दो लोके प्रतिषेधार्थ एव । स्वाध्याये तु प्रतिषेधार्थ उपमार्थश्चेति द्विविधः । येन पदेनान्वीयते तस्मात् पूर्वं प्रयुज्यमानः प्रतिषेधार्थ उपरिष्टात् प्रयुज्यमान उपमार्थः । तथा च यास्क उदाहरति ‘ उभयमन्वध्यायं नेन्द्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति । दुर्मदासो न सुरायामित्युपमार्थीय उपरिष्टादुपाचारस्तस्य येनोपमिमीते ' ( निरु. १. ४ ) इति । अत्रोपमेयवाचिनो द्युशब्दस्यापि प्रयुक्तत्वात् उपमार्थः स्वीकृतः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ ओजः पाजः शवः' ( नि. २. ९. ३ ) इति पठितम् ॥ महान् इति नकारस्य संहितायां ‘ दीर्घादटि समानपादे' ( पा. सू. ८. ३. ९ ) इति रुत्वम् । आतोऽटि नित्यम्' ( पा. सू. ८. ३. ३ ) इति पूर्वस्य आकारस्य अनुनासिकः । ‘ भोभगोअघोअपूर्वस्य योऽशि' (पा. सू. ८. ३. १७) इति यकारः । तस्य लोपः ( पा. सू. ८. ३. १९ )। तस्यासिद्धत्वात् ( पा. सू. ८. २. १ ) स्वरसंधिर्न भवति । महेः 'इन्' ( उ. सू. ४. ५५७ ) इति औणादिक इन् । महेर्भावो महित्वम् । त्व इति प्रत्ययस्वरेणोदात्तः । स एव शिष्यते । वज्रिणे । इकारः प्रत्ययस्वरेणोदात्तः । द्यौः । द्योशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। ‘गोतो णित् ' ( पा. सू. ७. १. ९० ) इति विभक्तेर्णित्वात् ' अचो ञ्णिति' (पा. सू. ७. २. ११५ ) इति वृद्धिः आन्तरतम्यात् उदात्तैव भवति । प्रथिना प्रथिम्ना । पृथोर्भाव इत्यर्थे ' पृथ्वादिभ्य इमनिज्वा' (पा. सू. ५. १. १२२ ) इति इमनिच् । ‘र ऋतो हलादेर्लघोः ' (पा. सू. ६. ४ १६१) इति ऋकारस्य रभावः । तुरिष्ठेमेयःसु ' (पा. सू. ६. ४. १५४ ) इत्यनुवृत्तौ ‘टेः ' ( पा. सू. ६. ४. १५५ ) इति टिलोपः। प्रथिमन्शब्दः चित्त्वादन्तोदात्तः । तृतीयैकवचने भत्वात् ‘अल्लोपोऽनः ' (पा. सू. ६. ४. १३४ ) इति अकारलोपः । छान्दसो मकारलोपः । अनुदात्तस्य च यत्रोदात्तलोपः ' (पा. सू. ६. १. १६१) इति विभक्तेरुदात्तत्वम् । शवः । ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू.२६ ) इत्याद्युदात्तत्वम् ॥ ॥ १५ ॥
“Mighty is Indra, and supreme; may magnitude ever (belong) to the bearer of the thunderbolt; may his strong (armies) be ever vast as the heavens.”
Mighty is Indra, yea supreme; greatness be his, the Thunderer:
Wide as the heaven extends his power
Great is Indra, and now let the greatness for the mace-wielder be (even) beyond (that).
Like heaven in its extent is his capacious power
Indra ist gross, es steigre noch die Grösse sich dem Blitzenden, Wie Himmel weit sei seine Macht.
Groß ist Indra, und noch darüber hinaus soll dem Keulenträger Größe zuteil werden. Wie der Himmel an Ausdehnung ist seine Kraft.
Велик Индра. И еще большее
Величие да будет (уделом) громовержца!
Словно небо шириной, сила (его)!
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ । विप्रा॑सो वा धिया॒यव॑: ॥
स॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नरः॑ । तो॒कस्य॑ । सनि॑तौ । विप्रा॑सः । वा॒ । धि॒या॒ऽयवः॑ ॥
ये नरः पुरुषाः समोहे संग्रामे तोकस्य अपत्यस्य सनितौ वा लाभे वा आशत व्याप्तवन्तः । इन्द्रं स्तुत्येति शेषः । वा अथवा विप्रासः मेधाविनः धियायवः प्रज्ञाकामाः सन्तः आशत ते सर्वे लभन्ते इत्यध्याहारः । ‘ रणः' इत्यादिषु षट्चत्वारिंशत्संग्रामनामसु ‘समोहे समिथे' ( नि. २. १७. २५ ) इति पठितम् । पञ्चदशस्वपत्यनामसु ' तुक् तोकम्' ( नि. २. २. २) इति पठितम् ॥ समोहे। प्रातिपदिकान्तोदात्तत्वम् । वा । ‘चादयोऽनुदात्ताः' ( फि. सू. ८४ ) इत्यनुदात्तः । आशत ।' अशू व्याप्तौ' । छान्दसः च्लेर्लोपः । आडागम उदात्तः ( पा. सू. ६. ४. ७२)। सति शिष्टत्वेन स एव शिप्यते । नरः । प्रातिपदिकस्वरः । सनितौ । स्त्रियां क्तिन् । ‘तितुत्रेष्वग्रहादीनाम्' (पा. सू. ७.२. ९.१)। इति वचनात् । निगृहीतिः निपठितिः' इतिवत् इडागमः । विप्रासः । 'ऋज्रेन्द्र ' ( उ. सू. २:१८६ ) इत्यादिना विप्रशब्दो रन्प्रत्ययान्तो निपातितः । धियायवः । ‘ धि धारणे'। धीयते धार्यते ऽवबुध्यते श्रुतमर्थजातम् अनया इति धिया प्रज्ञा । तामात्मन इच्छन्तीति क्यच् । ‘क्याच्छन्दसि' (पा. सू. ३:२:१७०) इति उप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणान्तोदात्तः ॥
“Whatever men have recourse to Indra in battle, or for the acquisition of offspring, and the wise who are desirous of understanding (obtain their desires).”
Which aideth those to win them sons, who come as heroes to the fight,
Or singers loving holy thoughts.
(For those) who have attained (him)—either superior men in the clash or at the winning of offspring
or inspired poets seeking (him) through insight.
Welche Männer in der Schlacht oder in der Erlangung von Kindern ihr Ziel erreicht haben, oder welche dem Gebet ergebene Sänger [Nachsatz etwa: die haben es durch den Gott erreicht]
Was auch die Männer im Schlachtgewühl erreicht haben oder bei der Gewinnung von Nachkommenschaft oder die sinnigen Redner-
(Те) мужи, что в схватке добывали (награду)
Или при достижении потомства,
Или же наделенные силой видения, вдохновенные...
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते । उ॒र्वीरापो॒ न का॒कुद॑: ॥
यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते । उ॒र्वीः । आपः॑ । न । का॒कुदः॑ ॥
यः कुक्षिः अस्येन्द्रस्योदरप्रदेशः सोमपातमः अतिशयेन सोमस्य पाता स कुक्षिः समुद्रइव पिन्वते वर्धते । सेचनार्थो धातुः औचित्येन वृद्धिं लक्षयति । काकुदः मुखसंबन्धिन्यः उर्वीः बह्व्यः आपो न जलानीव । जिह्वासंबन्धमास्योदकं यथा कदाचिदपि न शुष्यति तथेन्द्रस्य कुक्षिः सोमपूरितो न शुष्यतीत्यर्थः । यद्यपि ‘श्लोकः' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘काकुत् जिह्वा' (नि. १. ११. २८) इति पठितं तथाप्युदकसंबन्धसिद्ध्यर्थमत्र काकुच्छब्देन मुखमुपलक्ष्यते । संबन्धवाचिनस्तद्धितस्यात्र छान्दसो लोपो द्रष्टव्यः । सोमपातमः। सोमं पिबतीति सोमपाः । आकारो धातुस्वरेणोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । तमपः पित्त्वादनुदात्तत्वम् । समुद्रशब्दः प्रातिपदिकत्वादन्तोदात्तः । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । इति प्रकृतिस्वरः। पिन्वते । ‘पिवि सेचने'। 'इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुमागमः। शपः पित्त्वेनानुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । उर्वीः । उरुशब्दोऽन्तोदात्तः । ‘ वोतो गुणवचनात् ' ( पा. सू. ४. १. ४४ ) इति ङीष् । यणादेशः । ‘ उदात्तयणो हल्पूर्वात् ' ( पा. सू. ६. १. १७४ ) इति ईकार उदात्तः । जसा सह एकादेश उदात्तेनोदात्तः' इति एकादेश उदात्तः । आपः । प्रातिपदिकस्वरः । काकुदः । प्रातिपदिकस्वरेणान्तोदात्तः ॥
“The belly of Indra, which quaffs the Soma juice abundantly, swells like the ocean, (and is ever) moist, like the ample fluids of the palate.”
His belly, drinking deepest draughts of Soma, like an ocean swells,
Like wide streams from the cope of heaven.
His cheek, the best soma-drinker, which swells like the sea—
his gullet (which is) like the wide waters...
Welcher somatrinkendste Bauch wie ein Meer anschwillt, wie reichliche Gewässer der Bergeshöhe (?) [Nachsatz fehlt]
Dessen Bauch, der am meisten Soma trinkt, wie das Meer anschwillt und sein Schlund wie ein breites Gewässer.
(То) брюхо, что больше всего пьет сому,
Набухает, как океан,
(Та) глотка – словно широкие воды...
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही । प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
ए॒व । हि । अ॒स्य॒ । सू॒नृता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही । प॒क्वा । शाखा॑ । न । दा॒शुषे॑ ॥
अस्य इन्द्रस्य सूनृता प्रियसत्यरूपा वाक् दाशुषे हविर्दत्तवते यजमानाय तदर्थम् एवा हि । एवं खलु अनन्तरपदवक्ष्यमाणगुणोपेता भवतीत्यर्थः । कीदृशी। विरप्शी विविधरपणोपेतवाक्ययुक्ता बहुविधोपचारवादिनीत्यर्थः । गोमती बह्वीभिर्गोभिरुपेता गोप्रदेत्यर्थः । अत एव मही महती पूज्या । यथोक्तवाचो दृष्टान्तः । पक्वा शाखा न । यथा बहुभिः पक्वैः फलैरुपेता पनसवृक्षादिशाखा प्रीतिहेतुस्तद्वत्। यद्यपि महन्नामसु ‘व्राधन् विरप्शी' ( नि. ३. ३. २२ ) इति पठितं, तथाप्यत्र मही इत्यनेन पुनरुक्तिप्रसङ्गात् अवयवार्थो गृहीतः ॥ एव । एवमादीनामन्तः ' ( फि. सू. ८२ ) इत्यन्तोदात्तः । संहितायां • निपातस्य च ' (पा. सू. ६. ३. १३६) इति दीर्घः । हि । निपात आद्युदात्तः । अस्य । प्रकृतस्येन्द्रस्य परामर्शात् इदमोऽन्वादेशे ' ( पा. सू. २. ४. ३२ ) इत्यादिना अशादेशोऽनुदात्त इति सर्वांनुदात्तः । सूनृता। ‘ऊन परिहाणे'। सुतराम् ऊनयति अप्रियमिति सून् । सा चासौ ऋता सत्या चेति सूनृता प्रियसत्या वाक् । ‘परादिश्छन्दसि बहुलम्' ( पा. सू. ६.२.१९९) इति ऋकार उदात्तः । विरप्शी । विचित्रं रपणं विरप् । ' रप लप व्यक्तायां वाचि'। संपदादित्वात् भावे क्विप् । तदेषामस्तीति विरप्शानि वाक्यानि। तानि यस्यां वाचि सन्ति सा वाक् विरप्शिनी। अत इनिठनौ ' (पा.सू. ५. २. ११५) इति इनिः । ‘ यस्येति च ' ( पा. सू. ६. ४. १४८ ) इति अकारलोपः । ऋन्नेभ्यो डीप् ' ( पा. सू. ४. १. ५) इति डीप् । इकारः प्रत्ययस्वरेणोदात्तः । नकारलोपश्छान्दसः। सवर्णदीर्घः ‘एकादेश उदात्तेनोदात्तः ' इत्युदात्तः । गावोऽस्यां सन्तीति गोमती । मतुब्ङीपौ पित्त्वादनुदात्तौ । प्रातिपदिकस्वर एव शिष्यते । मही महती ।' उगितश्च ' ( पा. सू. ४. १. ६ ) इति ङीप् । तस्य पित्त्वादनुदात्तत्वे प्राप्ते 'शतुरनुमो नद्यजादी ' इत्यत्र ‘बृहन्महतोरुपसंख्यानम् ' ( पा. सू. ६. १. १७३. १) इत्युदात्तत्वम् । अच्छब्दलोपश्छान्दसः । पक्वा । ‘ डुपचष् पाके'। ‘ निष्ठा ' ( पा. सू. ३. २. १०२ ) इति क्तप्रत्ययः । ‘ पचो वः ' ( पा. सू. ८. २. ५२ ) इति वत्वम् । ‘ चोः कुः । ( पा. सू. ८. २. ३० ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । टापा सह सवर्णदीर्घः ‘एकादेश उदात्तेनोदात्तः' इत्युदात्तः । शाखा । ‘शाखृ श्लाखृ व्याप्तौ'। पचाद्यच् । चित्त्वादन्तोदात्ते प्राप्ते वृषादेः आकृतिगणत्वात् वृषादित्वादाद्युदात्तत्वम् । दाशुषे ।' दाशृ दाने '। ' दाश्वान्साह्वान्मीढ्वांश्च ' ( पा. सू. ६. १. १२ ) इति निपातनात् क्वसौ इडभावो द्विर्वचनाभावश्च । चतुर्थ्येकवचने ‘ यचि भम् ' ( पा. सू. १. ४. १८ ) इति भसंज्ञायां ‘वसोः संप्रसारणम्' (पा. सू. ६. ४. १३१ ) इति संप्रसारणं वकारस्य उकारः । परपूर्वत्वम् । ‘शासिवसिघसीनां च ' ( पा. सू. ८. ३. ६०) इति षत्वम् । प्रत्ययस्वरेण उकार उदात्तः ॥
“Verily the words of Indra to his worshipper are true, manifold, cow- conferring, and to be held in honour; (they are) like a branch (loaded with) ripe (fruit).”
So also is his excellence, great, vigorous, rich in cattle, like
A ripe branch to the worshipper.
Just the same is his liberality—copious, great, conferring cattle, like a ripe branch for the pious man.
Denn so ist seine grosse Macht dem Frommen kräftig, rinderreich, Gleich wie ein Zweig mit reifer Frucht.
Denn wahrlich seine Huld ist überreich, Rinder einbringend, groß, wie eine reifer Zweig für den Spender.
Поистине, милость его
Велика (и) обильна (и) приносит коров,
(Она) словно спелая ветвь для почитающего (его).
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते । स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते । स॒द्यः । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥
हे इन्द्र ते तव विभूतयः ऐश्वर्यविशेषाः एवा हि एवंविधाः खलु । किंविधा इति तदुच्यते । मावते मत्सदृशाय दाशुषे हविर्दत्तवते यजमानाय ऊतयः त्वदीयरक्षारूपाः सद्यश्चित् सन्ति । यदा कर्म अनुष्ठितं तदैव भवन्ति ॥ मावते मत्सदृशाय। ‘ वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्' (पा. सू. ५. २. ३९. १) इति अस्मच्छब्दात् वतुप् । मपर्यन्तस्य ‘प्रत्ययोत्तरपदयोश्च' (पा. सू. ७. २. ९८ ) इति मादेशः । अद्शब्देन सह ‘ अतो गुणे' (पा. सू. ६. १, ९७ ) इति । पररूपत्वम् । ‘दृग्दृशवतुषु' (पा. सू. ६. ३. ८९) इत्यनुवृत्तौ ‘आ सर्वनाम्नः' (पा. सू. ६.३.९१) इति दकारस्य आकारः। सवर्णदीर्घत्वम् । वतुपः पित्त्वात् प्रातिपदिकस्वर एव शिष्यते । सद्यः । समाने द्यवि इत्यर्थे ' सद्यः परुत्परार्यैषमः' (पा. सू. ५. ३. २२) इत्यादिना निपातितम् । प्रत्ययस्वरेणान्तोदात्तत्वम् । चित् । चादयोऽनुदात्ताः' (फि. सू. ८४ ) इत्यनुदात्तः । सन्ति । अस भुवि'। लटः स्थाने झि। ‘ झोऽन्तः' (पा. सू. ७. १.३)। ‘अदिप्रभृतिभ्यः शपः' (पा. सू. २. ४. ७२) इति शपो लुक् । तिङः प्रत्ययाद्युदात्तत्वम् । ' प्रत्ययलोपे प्रत्ययलक्षणम्' (पा. सू. १. १. ६२) इति शबकारमाश्रित्य लसार्वधातुक़ानुदात्तत्वं न भवति । वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति ' (परिभा. ३१) इति निषेधात् । दाशुषे । गतमन्त्रे गतम् ॥
“Verily, Indra, your glories are at all times the protectors of every such worshipper as I am.”
For verily thy mighty powers, Indra, are saving helps at once
Unto a worshipper like me.
Just the same is your help, o Indra—extensive for one like me,
present in an instant for the pious man.
Denn so sind, o Indra, deine Hülfen sogleich zu Hand einem Verehrer wie ich bin.
Denn wahrlich deine Gnaden sind für meinesgleichen ausreichend, sind für den Spender alsbald zur Hand
Поистине, сильны твои
Поддержки, о Индра, для такого, как я;
Они сразу бывают (доступны) для почитающего (тебя
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ । इन्द्रा॑य॒ सोम॑पीतये ॥
ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ । इन्द्रा॑य । सोम॑ऽपीतये ॥
अस्य इन्द्रस्य स्तोमः सामसाध्यं स्तोत्रम् उक्थं च ऋक्साध्यं शस्त्रमपि एवा हि एते उभे एवंविधे खलु । किंविधे इति तदुच्यते । काम्या कामयितव्ये शंस्या ऋत्विग्भिः शंसनीये । किमर्थं शंसनमिति तदुच्यते । इन्द्राय सोमपीतये इन्द्रस्य सोमपानार्थम् ॥ एवा ह्यस्य । व्यवहितमन्त्रे गतम्। काम्या । कमेर्णिङ्न्तात् ' अचो यत्' ( पा. सू. ३. १. ९७ )। णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । ‘ तित्स्वरितम् ' ( पा. सू ६. १. १८५ ) इति स्वरिते प्राप्ते यतोऽनावः' ( पा. . ६. १. २१३ ) इत्याद्युदात्तत्वम् । सुपो डादेशः । स्तोमः । ‘ अर्तिस्तुसु°' ( उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययः । उक्थम् । वच परिभाषणे'।' पातॄतुदिवचिरिचिसिचिभ्यस्थक् ' ( उ. सू. २. १६४ ) इति थक् । कित्त्वात् संप्रसारणम् । परपूर्वत्वगुणाभावौ। शंस्या। ‘शंसु स्तुतौ । ण्यन्तात् ‘ अचो यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । सुपो डादेशः । सोमस्य पीतिः सोमपीतिः । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अथवा सोमस्य पीतिर्यस्येन्द्रस्य इति सोमपीतिरिन्द्रः । ‘ बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा. सू. ६. २. १) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १६ ॥
“Verily his chanted and recited praises are to be desired and repeated to Indra, that he may drink the Soma juice.”
So are his lovely gifts; let lauds and praises be to Indra sung,
That he may drink the Soma juice.
In the same way those things beloved of him, praise song and
recitation, are to be proclaimed,
for Indra to drink the soma.
Denn so sind bei ihm beliebt Loblied und Spruch, die dem Indra zum Somatrunke zu singen sind.
Denn wahrlich, ihm sind Preislied und Lobgedicht lieb, die für Indra zum Somatrunk aufzusagen sind.
Поистине, ему желанны
Прославление и хвалебная песнь,
Которые надо исполнять, чтобы Индра пил сому.