इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
इ॒त्था । हि । सोमे॑ । इत् । मदे॑ । ब्र॒ह्मा । च॒कार॑ । वर्ध॑नम् । शवि॑ष्ठ । व॒ज्रि॒न् ओज॑सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि॑म् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे शविष्ठ अतिशयेन बलवन् वज्रिन् वज्रवन्निन्द्र इत्था हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव मदे मदकरे हर्षकरे सोमे त्वया पीते सति ब्रह्मा ब्राह्मणः स्तोता वर्धनं तव वृद्धिकरं स्तोत्रं चकार अनेन सूक्तेन कृतवान् । इत् इत्येतत् पादपूरणम् । अतस्त्वम् ओजसा बलेन पृथिव्याः सकाशात् अहिम् आगत्य हन्तारं वृत्रं निः शशाः निःशेषेण अशाः । मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशात् निरगमयः इत्यर्थः । किं कुर्वन् । स्वराज्यं स्वस्य राज्यं राजत्वम् अनु अनुलक्ष्य अर्चन् पूजयन् स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः॥ शशाः । ‘ शासु अनुशिष्टौ । लङि लुकि प्राप्ते ' बहुलं छन्दसि ' इति शपः श्लुः । स्वराज्यम् । राज्ञो भावः कर्म वा राज्यम्। ‘ पत्यन्तपुरोहितादिभ्यो यक्' इति यक्। तत्र हि ' राजासे' (पा. सू. ५. १. १२८ ग. ) इति पठ्यते । स्वस्य राज्यं स्वराज्यम् ।' अकर्मधारये राज्यम् ' (पा. सू. ६. २. १३०) इत्युत्तरपदाद्युदात्तत्वम् ॥
“Mighty wielder of the thunderbolt, when the priest had thus exalted you (by praise), and exhilarating Soma (had been drunk), you did expel, by your vigour, Ahi from the earth, manifesting your own soverignty.”
THUS in the Soma, in wild joy the Brahman hath exalted thee:
Thou, mightiest thunder-armed, hast driven by force the Dragon from the earth, lauding thine own imperial sway.
Because right at the time of the soma exhilaration the formulator created a strengthening (formulation) in the current style,
o strongest mace-bearer, with your might you ordered the serpent forth from the earth.
– They cheer on your sovereign power.
Im Somarausch allein ja schafft der Priester stets dir Kräftigung, Drum treibe, stärkster, blitzender den Drachen aus der Welt mit Kraft, erstrahl in eigner Herrlichkeit.
Denn also hat bei Soma in der Begeisterung der Hohepriester ein Erbauungslied gedichtet. Du mächtigster Keulenträger hast mit Kraft den Drachen von der Erde verwiesen. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Вот так, в полном опьянении сомой,
Брахман создал (песнь-) подкрепление.
О самый могучий громовержец, силой
Стер ты с земли змея.
Да воспоют они (твое) собственное царство!
स त्वा॑मद॒द्वृषा॒ मद॒: सोम॑: श्ये॒नाभृ॑तः सु॒तः । येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
सः । त्वा॒ । अ॒म॒द॒त् । वृषा॑ । मदः॑ । सोमः॑ । श्ये॒नऽआ॑भृतः । सु॒तः । येन॑ । वृ॒त्रम् । निः । अ॒त्ऽभ्यः । ज॒घन्थ॑ । व॒ज्रि॒न् । ओज॑सा । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे इन्द्र त्वा त्वां सः सोमः अमदत् अमदयत् हर्षं प्रापयत्। कीदृशः सोमः । वृषा सेचनस्वभावः मदः मदकरो हर्षकारी श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः सुतः अभिषुतः । हे वज्रिन् वज्रवन्निन्द्र येन पीतेन सोमेन ओजसा बलकरेण अद्भ्यः अन्तरिक्षसकाशात् वृत्रं निः जघन्थ हतवानसि । अन्यत् पूर्ववत् ॥ अमदत्। मदी हर्षे'। अस्मात् णिचि • मदी हर्षग्लपनयोः' इति घटादिषु पाठात् मित्त्वे सति ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । लङि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः। अद्भ्यः । आप इत्यन्तरिक्षनाम । अप भि ' ( पा. सू. ७. ४. ४८ ) इति पकारस्य तत्वम् । जघन्थ । क्रादिनियमप्राप्तस्य इटः ‘ उपदेशेऽत्वतः' इति प्रतिषेधः । ‘ अभ्यासाच्च' इति हकारस्य घत्वम् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥
“That exceedingly exhilarating Soma, which was brought by the hawk (from heaven), when poured forth, has exhilarated you, so that in your vigour, thunderer, you have struck Vṛtra from the sky, manifesting your own sovereignty.”
The mighty flowing Soma-draught, brought by the Hawk, hath gladdened thee,
That in thy strength, O Thunderer, thou hast struck down Vrtra from the floods, lauding thine own imperial sway.
The bullish exhilaration exhilarated you—the soma, brought here by a falcon, then pressed,
with which you smashed Vr̥tra forth from the waters, o mace-bearer, with your might.
– They cheer on your sovereign power.
Dich hat berauscht der starke Trank, der Somasaft, vom Aar gebracht, Durch den du aus den Fluten triebst den Vritra, blitzender, mit Kraft, du strahlst in eigner Herrlichkeit.
Dich berauschte der bullenstarke Rauschtrank, der gepreßte Soma, den der Adler gebracht hat, durch den du Keulenträger mit Kraft den Vritra von den Gewässern fortgetrieben hast. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Он опьянил тебя, (этот) бык – пьянящий напиток,
Выжатый сома, принесенный орлом,
С чьей помощью ты силой вышиб
Из вод Вритру, о громовержец,
Да воспоют они (твое) собственное царство!
प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते । इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः॑ । नि । यं॒स॒ते॒ । इन्द्र॑ । नृ॒म्णम् । हि । ते॒ । शवः॑ । हनः॑ । वृ॒त्रम् । जयाः॑ । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे 'इन्द्र प्रेहि प्रकर्षेण गच्छ। अभीहि । हन्तव्यान् शत्रूनाभिमुख्येन प्राप्नुहि । प्राप्य च धृष्णुहि । तान् शत्रूनभिभव । ते तव वज्रः न नि यंसते शत्रुभिर्न नियम्यते अप्रतिहतगतिरित्यर्थः । तथा ते शवः त्वदीयं बलं नृम्णं नृणां पुरुषाणां नामकमभिभावकं हि यस्मादेवं तस्मात् वृत्रम् असुरं मेघं वा हनः जहि । ततोऽनन्तरं तेन निरुद्धाः अपः उदकानि जयाः जय । वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः । अन्यत् समानम् ॥ यंसते । यमेः कर्मणि लेटि ‘ सिब्बहुलम्” इति सिप् । ‘लेटोऽडाटौ' इति अडागमः। हनः । लोडर्थे छान्दसो लङ । बहुलं छन्दसि ' इति शपो लुगभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वात् निघाताभावः । जयाः । जयतेर्लेटि आडागमः । पूर्ववत्स्वरः ॥
“Hasten, assail, subdue; your thunderbolt cannot fail; your vigour, Indra, destroys men; slay Vṛtra, win the waters, manifesting your own sovereignty.”
Go forward, meet the foe, be bold; thy bolt of thunder is not checked.
Manliness, Indra, is thy might: stay Vrtra, make the waters thine, lauding thine own imperial sway.
“Go forth! Go to it! Dare! Your mace will not be restrained,
for, Indra, manly power and strength are yours. You will smash Vr̥tra; you will conquer the waters.”
– They cheer on your sovereign power.
Geh vorwärts, greife an, sei kühn, nichts möge hemmen deinen Blitz; Denn stark ist, Indra, deine Kraft; den Vritra triff, erring' die Flut, erstrahl in eigner Herrlichkeit.
Geh vor, greif an, sei mutig! Deine Keule wird nicht aufgehalten werden, denn dein, Indra, ist die Manneskraft, die Stärke; du sollst den Vritra erschlagen, die Gewässer erobern. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Выходи вперед! Нападай! Дерзай!
Твоя ваджра не будет знать удержу:
Ведь у тебя, о Индра, мужество и сила;
Ты убьешь Вритру, ты завоюешь воды.
Да воспоют они (твое) собственное царство!
निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः । सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः । सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे इन्द्र भूम्याः अधि भूलोकस्योपरि वृत्रं निः जघन्थ निःशेषेण हतवानसि । तथा दिवः द्युलोकात् निः जघन्थ । हत्वा च इमाः अपः वृष्ट्युदकानि अव सृज अधः पातय । कीदृशीरपः । मरुत्वतीः मरुद्भिः संयुक्ताः जीवधन्याः जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः । अन्यत् समानम् ॥
“Youu have struck Vṛtra from off the earth and from heaven; (now) let loose the wind-bound, life-sustaining rain, manifesting your own sovereignty.”
Thou smotest Vrtra from the earth, smotest him, Indra, from the sky.
Let these life-fostering waters flow attended by the Marut host, lauding thine own imperial sway.
Forth from the earth you smashed Vr̥tra, o Indra, forth from heaven. Release downward these waters, which are accompanied by the Maruts, affording riches to the living.
– They cheer on your sovereign power.
Du, Indra, schlugst den Vritra fort vom Himmel, von der Erd' hinweg; Giess diese Flut der Maruts nun herab, die reich an Leben ist, erstrahl in eigner Herrlichkeit.
Du, Indra, hast von der Erde, vom Himmel den Vritra vertrieben. "Laß los diese von den Marut begleiteten Gewässer, die alles Lebende reich machen!" - Sie sollen in deine Selbstherrlichkeit einstimmen.
О Индра, с земли ты вышиб
Вритру, с неба вы(шиб).
Выпусти течь эти связанные с Марутами
Воды, дающие богатство (всему) живому.
Да воспоют они (твое) собственное царство!
इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒: सानुं॒ वज्रे॑ण हीळि॒तः । अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
इन्द्रः॑ । वृ॒त्रस्य॑ । दोध॑तः । सानु॑म् । वज्रे॑ण । ही॒ळि॒तः । अ॒भि॒ऽक्रम्य॑ । अव॑ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा॑य । चो॒दय॑न् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हीळितः क्रुद्धः इन्द्रः अभिक्रम्य आभिमुख्येन गत्वा दोधतः भृशं कम्पमानस्य वृत्रस्य सानुं समुच्छ्रितं हनुप्रदेशं वज्रेण अव जिघ्नते प्रहरति । किं कुर्वन् । अपः वृष्ट्युदकानि सर्माय सरणाय निर्गमनाय चोदयन् प्रेरयन् ॥ दोधतः । ‘धूञ् कम्पने'। अस्मात् यङ्लुगन्तात् शतरि अन्त्यलोपश्छान्दसः ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । हीळितः । ‘हेडृ होडृ अनादरे '। ‘ हेळते' ( निं. २. १२. २ ) इत्येतत् क्रुध्यतिकर्मसु पठितम् । अस्मान्निष्ठायां वर्णव्यापत्त्या ईकारः । जिघ्नते । हन्तेर्लटि व्यत्ययेन आत्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘गमहन' इत्यादिना उपधालोपः । समाय । ‘ सृ गतौ । “ अर्तिस्तुसु ' इत्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २९ ॥
“Indignant Indra, encountering him, has struck with his bolt the jaw of the trembling Vṛtra, setting the waters free to flow, and manifesting his own soverignty.”
The wrathful Indra with his bolt of thunder rushing on the foe,
Smote fierce on trembling Vrtra's back, and loosed the waters free to run, lauding his own imperial sway.
Indra, angered, having attacked the back of raging Vr̥tra with his mace, keeps smashing him downward, spurring the waters to flow.
– They cheer on your sovereign power.
᳓
Des wilden Vritra Scheitel schlägt hinschreitend Indra mit dem Blitz In jähem Zorn herab und treibt die Wasserflut zum Strömen an, er strahlt in eigner Herrlichkeit.
Angreifend schlägt der gereizte Indra mit der Keule auf den Nacken des trotzigen Vritra los, während er die Gewässer zum Laufe antreibt. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Разгневанный Индра, напав,
Ваджрой разбивает спину
Бушующего Вритры,
Побуждая воды к течению.
Да воспоют они (твое) собственное царство!
अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा । म॒न्दा॒न इन्द्रो॒ अन्ध॑स॒: सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
अधि॑ । सानौ॑ । नि । जि॒घ्नी॒ते॒ । वज्रे॑ण । श॒तऽप॑र्वणा । म॒न्दा॒नः । इन्द्रः॑ । अन्ध॑सः । सखि॑ऽभ्यः । गा॒तुम् । इ॒च्छ॒ति॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
इन्द्रः शतपर्वणा शतसंख्याकधाराभिर्युक्तेन वज्रेण सानौ अधि नि जिघ्नते । अधिः सप्तम्यर्थानुवादी । समुच्छ्रिते वृत्रस्य कपोलादौ स्थाने नितरां हिनस्ति । स च इन्द्रः मन्दानः मन्दमानः स्तूयमानः सन् 'सखिभ्यः समानख्यानेभ्यः स्तोतृभ्यः अन्धसः अन्नस्य गातुं मार्गमुपायम् इच्छति । अन्यत् पूर्ववत् ॥ मन्दानः । मदि स्तुतौ ' । कर्मणि शानचि यक्। छन्दस्युभयथा' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । अनुदात्तेतः परत्वात् शानचो लसार्वधातुकानुदात्तत्वे सति यक एवोदात्तत्वम् । अनुदात्ते शानचि तस्य यको लोपे सति उदात्तनिवृत्तिस्वरेण शानच उदात्तत्वं प्राप्नोति । एवं तर्हि शानच आर्धधातुकत्वादेव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एवावशिष्यते ॥
“Indra has struck him on the temple with his hundred-edged thunderbolt, and, exulting, wishes to provide means of sustenance for his friends, manifesting his own sovereignty.”
With hundred-jointed thunderbolt Indra hath struck him on the back,
And, while rejoicing in the juice, seeketh prosperity for friends, lauding his own imperial sway.
He keeps smashing down on his back with the hundred-jointed mace. Indra, exhilarated from the stalk, seeks a way for his comrades.
– They cheer on his sovereign power.
Auf Vritra's Scheitel schleudert er mit seinem hundertzack'gen Blitz, Den Freunden schaffet Indra Heil, vom Trank des Somakrauts berauscht, und strahlt in eigner Herrlichkeit.
Er schlägt mit der hundertknorrigen Keule auf den Nacken ein; von Soma berauscht sucht Indra den Freunden freie Bahn. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Он поражает его в спину
Ваджрой с сотней сочленений.
Хмельней от сока сомы,
Индра ищет выхода для друзей.
Да воспоют они (твое) собственное царство!
इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् । यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
इन्द्र॑ । तुभ्य॑म् । इत् । अ॒द्रि॒ऽवः॒ । अनु॑त्तम् । व॒ज्रि॒न् । वी॒र्य॑म् । यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृ॒गम् । तम् । ऊँ॒ इति॑ । त्वम् । मा॒यया॑ । अ॒व॒धीः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
अद्रिरिति मेघनाम । हे अद्रिवः वाहनरूपमेघयुक्त वज्रिन् वज्रवन् इन्द्र तुभ्यमित् षष्ठ्यर्थे चतुर्थी । तवैव वीर्यं सामर्थ्यम् अनुत्तं शत्रुभिरतिरस्कृतम् । यद्ध यस्मात् खलु मायिनं मायाविनं त्यं तं प्रसिद्धं वञ्चयितारम् । लोकोपद्रवकारिणमित्यर्थः । 'मृगं मृगरूपमापन्नं तं वृत्रं त्वम् अपि मायया एव अवधीः हतवानसि ॥ अनुत्तम् । 'नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः । अवधीः । हन्तेः ‘लुङि च ' इति वधादेशः । स चोदन्तः । तस्य अतो लोपे सति स्थानिवद्भावात् सिचि वृद्ध्यभावः ॥
“Cloud-borne, Indra, wielder of the thunderbolt, verily your prowess is undisputed, since you, with (superior) craft, have slain that deceptive deer, manifesting your own sovereignty.”
Indra, unconquered might is thine, Thunderer, Caster of the Stone;
For thou with thy surpassing power smotest to death the guileful beast, lauding thine own imperial sway.
O Indra, possessor of the stone, of the mace, to you alone virile power was conceded.
When (you kept smashing) this wild beast of magic power, you slew him with your own magic power.
– They cheer on your sovereign power.
Du zeigtest ungehemmte Kraft, o Indra, Blitzer, Schleuderer, Als jenes zauberhafte Wild du niederschlugst mit Zauberkraft, du strahlst in eigner Herrlichkeit.
Dir, Indra, du Herr des Preßsteins, Keulenträger, ward die Heldenkraft zugestanden. Als du jenes listige Tier angriffst, da hast du es mit der List erschlagen. - Sie sollen in deine Selbstherrlichkeit einstimmen.
О Индра – повелитель давильных камней,
О громовержец, ведь тебе дана сила могущества
Когда (напал) ты на этого колдовского зверя,
Его-то и убил ты колдовством.
Да воспоют они (твое) собственное царство!
वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ । म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
वि । ते॒ । वज्रा॑सः । अ॒स्थि॒र॒न् । न॒व॒तिम् । ना॒व्याः॑ । अनु॑ । म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । बा॒ह्वोः । ते॒ । बल॑म् । हि॒तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे इन्द्र ते तव वज्रासः वज्राः त्वत्सकाशान्निर्गतान्यायुधानि नाव्याः नावा तार्याः नवतिं नवतिसंख्याका वृत्रेण निरुद्धा नदीः अनु उपलक्ष्य वि अस्थिरन विविधम् अस्थिषत। सर्वत्र व्याप्य वर्तमानं वृत्रं हन्तुं तव वज्र एकोऽप्यनेक इवासीदित्यर्थः । किं च इन्द्र ते तव वीर्यं महत् प्रभूतम् । अन्यैरजेयमित्यर्थः । तथा ते बाह्वोः त्वदीययोर्हस्तयोः बलं हितं निहितम् । त्वदीयौ बाहू अप्यतिशयेन बलिनावित्यर्थः । अन्यत् पूर्ववत् ॥ अस्थिरन् । तिष्ठतेर्लुङि • समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । मन्त्रे घस' ' इति च्लेर्लुक् । स्थाघ्वोरिच्च' (पा. सू. १. २. १७ ) इति इत्वम् । व्यत्ययेन झस्य रनादेशः। नाव्याः । ‘ नौवयोधर्म' (पा. सू. ४. ४. ९१ ) इत्यादिना यत् । ‘ यतोऽनावः' इति पर्युदासात् ‘तित्स्वरितम्' इति स्वरितत्वम् । बाह्वोः । उदात्तयणः' इति विभक्त्युदात्तत्वम् ॥
“Your thunderbolts were scattered widely over ninety-and-nine rivers; great is your prowess, strength is deposited in your arms, manifesting your own sovereignty.”
Far over ninety spacious floods thy thunderbolts were cast abroad:
Great, Indra, is thy hero might, and strength is seated in thine arms, lauding thine own imperial sway.
Your maces have been dispersed across the ninety navigable (rivers). Great is your virile power, Indra; force has been placed in your
two arms.
– They cheer on your sovereign power.
Es dehnten deine Blitze sich weit über neunzig Ströme aus; In deinen Armen, Indra, ruht Gewalt und grosse Heldenkraft, du strahlst in eigner Herrlichkeit.
Deine Keulen haben sich über die neunzig Ströme verteilt. Groß ist deine Heldenkraft, Indra; in deine Arme ist die Stärke gelegt. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Твои ваджры разошлись
По девяноста судоходным рекам.
Велика, о Индра, твоя сила мужества.
Мощь вложена в руки твои.
Да воспоют они (твое) собственное царство!
स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः । श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
स॒हस्र॑म् । सा॒कम् । अ॒र्च॒त॒ । परि॑ । स्तो॒भ॒त॒ । विं॒श॒तिः । श॒ता । ए॒न॒म् । अनु॑ । अ॒नो॒न॒वुः॒ । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
सहस्रं सहस्रसंख्याका मनुष्याः साकमर्चत एनमिन्द्रं युगपदेवापूजयन् । तथा विंशतिः । षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः। तेषां या विंशतिसंख्या सा परि ष्टोभत परितः सर्वतोऽस्तौत् । तथा च शता शतसंख्याका ऋषयः एनम् इन्द्रम् अन्वनोनवुः पुनः पुनरस्तुवन् । अस्मा एव इन्द्राय ब्रह्म हविर्लक्षणमन्नम् उद्यतं दातुमूर्ध्वं धृतम् । अत एवंविध इन्द्रो वृत्रमहन्नित्यर्थः । अन्यत् पूर्ववत् ॥ परि ष्टोभत । स्तोभतिः स्तुतिकर्मा । ' उपसर्गात्सुनोति° ' इति पत्वम् । अनोनवुः ।,' णु स्तुतौ । अस्मात् यङ्लुगन्तात् लुङि • सिजभ्यस्तविदिभ्यश्च ' इति झेः उसादेशः । उद्यतम् । ‘ यम उपरमे ' । उत्पूर्वादस्मात् कर्मणि निष्ठा । ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“A thousand mortals worshipped him together, twenty have hymned (his praise); a hundred (sages) repeatedly glorify him; so, Indra, is the oblation lifted up, manifesting your own sovereignty.”
Laud him a thousand all at once, shout twenty forth the hymn of praise.
Hundreds have sung aloud to him, to Indra hath the prayer been raised, lauding his own imperial sway.
Thousand(-strong), do you chant as one. Twenty(-strong), encircle him with rhythm.
In the hundreds they have bellowed after him. To Indra has the sacred formulation been raised.
– They cheer on his sovereign power.
Auf, preiset zwanzig Sänger ihn, und rühmt ihn tausend auf einmal; Ihm haben hundert zugejauchzt; dem Indra ist Gebet geweiht; er strahlt in eigner Herrlichkeit.
Singet zu tausend auf einmal, jubilieret in der Runde zu zwanzig! Hundert haben ihm zugeschrieen. Für Indra wird die feierliche Rede angehoben. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Воспевайте вместе числом в тысячу!
Восхваляйте кругом числом в двадцать!
Сотня возликовала ему вслед.
Для Индры вознесена молитва.
Да воспоют они (твое) собственное царство!
इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्त्सह॑सा॒ सह॑: । म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
इन्द्रः॑ । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒ह॒न् । सह॑सा । सहः॑ । म॒हत् । तत् । अ॒स्य॒ । पौंस्य॑म् । वृ॒त्रम् । ज॒घ॒न्वा॒न् । अ॒सृ॒ज॒त् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
इन्द्रो वृत्रस्य असुरस्य तविषीं बलं स्वकीयेन बलेन निरहन् हतवान् । सहसा सहनेन अभिभवसाधनेनायुधेन सहः अभिभवसाधनं वृत्रायुधं निरहन् । अस्य इन्द्रस्य तत् पौंस्यं बलं महत अतिप्रौढम्। यस्मादयं वृत्रं जघन्वान् हतवान् हत्वा च तन्निरुद्धा अप: असृजत् तस्मात् वृत्रान्निरगमयत् । अन्यत् पूर्ववत् ॥ पौंस्यम् । 'पुंस अभिवर्धने' । चुरादिः । ‘ अचो यत्' इति यत् । यतोऽनावः । इत्याद्युदात्तत्वम् । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ विभाषा गमहनविद° ' इति इटः विकल्पादभावः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य धत्वम् ॥ ॥ ३० ॥
“Indra overcame by his strength the strength of Vṛtra; great is his manhood, wherewith, having slain Vṛtra, he lest loose the waters, manifesting his own sovereignty.”
Indra hath smitten down the power of Vrtra,--might with stronger might.
This was his manly exploit, he slew Vrtra and let loose the floods, lauding his own imperial sway.
Indra has smashed forth the power of Vr̥tra, has smashed forth the might of Vr̥tra with his might.
Great was this manly deed of his: having smashed Vr̥tra, he released (the waters).
– They cheer on his sovereign power.
Zermalmt hat Indra Vritra's Macht, mit Kraft zerschmettert seine Kraft; Er that dies grosse Heldenwerk, schlug Vritra und ergoss die Flut; er strahlt in eigner Herrlichkeit.
Indra schlug die Stärke des Vritra ab, mit Macht seine Macht. Das ist seine große Mannestat: Nachdem er den Vritra erschlagen hatte, ließ er die Gewässer laufen. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Индра вышиб мощь
Вритры, силой – силу.
Велик этот подвиг мужества его.
Убив Вритру, он пустил течь (воды).
Да воспоют они (твое) собственное царство!
इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही । यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
इ॒मे । चि॒त् । तव॑ । म॒न्यवे॑ । वेपे॑ते॒ इति॑ । भि॒यसा॑ । म॒ही । यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज॑सा । वृ॒त्रम् । म॒रुत्वान् । अव॑धीः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
मही महत्यौ इमे द्यावापृथिव्यावपि हे इन्द्र तव मन्यवे त्वदीयकोपात् भियसा भीत्या वेपेते कम्पेते । हे वज्रिन् वज्रवन् इन्द्र मरुत्वान् मरुद्भिर्युक्तस्त्वम् ओजसा बलेन यत् यदा वृत्रं अवधीः तदानीं द्यावापृथिव्यावपि भयेनाकम्पिषातामित्यर्थः ॥ वेपेते । टुवेपृ कम्पने ' । भियसा । ञिभी भये । औणादिकः कसिप्रत्ययः ॥
“This heaven and earth trembled, thunderer, at your wrath, when, attended by the Maruts, you slew Vṛtra by your prowess, manifesting your own sovereignty.”
Yea, even this great Pair of Worlds trembled in terror at thy wrath,
When, Indra, Thunderer, Marut-girt, thou slewest Vrtra in thy strength, lauding thine own imperial sway.
Even these two great (world-halves) here tremble with fear before your battle-fury,
since, mace-bearing Indra, you have slain Vr̥tra with might, with the Maruts alongside.
– They cheer on your sovereign power.
Auch dieses grosse Weltenpaar erbebt aus Furcht vor deinem Zorn, Als Indra mit den Maruts du den Vritra blitzend schlugst mit Macht, du strahlst in eigner Herrlichkeit.
Aus Furcht zittern sogar diese beiden großen Himmel und Erde vor deinem Grimme, als du, Keulenträger Indra, im Bunde mit den Marut kraftvoll den Vritra erschlagen hast. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Даже эти двое великих
Дрожат от страха перед твоим гневом,
Когда ты, о Индра-громовержец, с Марутами
Силой убил Вритру.
Да воспоют они (твое) собственное царство!
न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् । अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् । अ॒भि । ए॒न॒म् । वज्रः॑ । आय॒सः । स॒हस्र॑ऽभृष्टिः । आ॒या॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
वृत्रः इन्द्रं वेपसा स्वकीयेन वेपनेन कम्पनेन न वि बीभयत् भीतं नाकरोत् । तथा तन्यता स्वकीयेन घोरेण गर्जनशब्देन न वि बीभयत् । अपि च इन्द्रेण विसृष्टः आयसः अयोमयः सहस्रभृष्टिः अनेकाभिर्धाराभिर्युक्तः वज्रः एनं वृत्रम् अभि आयत हन्तुमाभिमुख्येनागच्छत् । अन्यत् पूर्ववत् ॥ तन्यता । स्तन शब्दे '। ‘ ऋतन्यञ्जि°' इत्यादिना तनोतेर्विधीयमानो यतुच् बहुलवचनादस्मादपि भवति । अत एव सलोपश्च ।' सुपां सुलुक् ' इति तृतीयाया डादेशः । उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । बीभयत् ।' ञिभी भये । हेतुमति णिच् । अत्र वेपस्तन्यतुभ्यां भयं न हेतोर्वृत्रादिति हेतुभयाभावात् ' बिभेतेर्हेतुभये ' ( पा. सू. ६. १. ५६ ) इति आत्वाभावः। ण्यन्तात् लुङि च्लेश्चङादि । आयत । अय पय गतौ ' । भौवादिरात्मनेपदी ॥
“Vṛtra deterred not Indra by his trembling or his clamour; the many-edged iron thunderbolt fell upon him; (Indra) manifesting his own sovereignty.”
But Vrtra scared not Indra with his shaking or his thunder roar.
On him that iron thunderbolt fell fiercely with its thousand points, lauding his own imperial sway.
Not by his trembling excitation, not by his thundering did Vr̥tra make Indra fear.
His mace of metal with a thousand spikes confronted him.
– They cheer on his sovereign power.
Durch Raschheit nicht, durch Donnern nicht, erschreckt den Indra Vritra je; Auf diesen fuhr herab der Blitz der ehrne tausendzackige, er strahlt in eigner Herrlichkeit.
Nicht erschreckte Vritra den Indra durch seinen Wortschwall, nicht durch sein Donnergebrüll. Die tausendzackige Keule fuhr auf ihn los. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Ни сотрясением, ни громом
Вритра Индру не испугал.
Настигла его железная
Ваджра с тысячей зубцов.
Да воспоют они (твое) собственное царство!
यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः । अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः । अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे इन्द्र यत् यदा वृत्रं तव हननार्थं तेन सृष्टाम् अशनिं च त्वं वज्रण समयोधयः सम्यक् प्रहार्षीः तदानीम् अहिम् आगत्य हन्तारं वृत्रं जिघांसतः हन्तुमिच्छतः ते तव शवः बलं दिवि बद्वधे बद्धमनुस्यूतं व्याप्तमासीत् । शिष्टं पूर्ववत् । जिघांसतः । हन्तेरिच्छाथै सनि ‘अज्झनगमां सनि ' ( पा. सू. ६. ४. १६ ) इति उपधादीर्घत्वम् । बद्धधे । ‘ बध बन्धने'। कर्मणि लिटि व्यत्ययेन हलादिशेषाभावः ॥
“When you (Indra), did encounter with your bolt Vṛtra and the thunderbolt (which he hurled), then Indra, the strength of you determination to slay Ahi was displayed in the heavens, manifesting your own sovereignty.”
When with the thunder thou didst make thy dart and Vrtra meet in war,
Thy might, O Indra, fain to slay the Dragon, was set firm in heaven, lauding thine own imperial sway.
When with your mace you set Vr̥tra and your missile to fighting, o Indra, your strength, as you sought to smash the serpent, kept
pressing toward heaven.
– They cheer on your sovereign power.
Als blitzend du zum Kampfe triebst den Vritra mit dem Donnerkeil, Da stieg zum Himmel deine Kraft, da Indra du den Drachen schlugst; du strahlst in eigner Herrlichkeit.
Als du den Vritra und deinen Keil, als du den Vritra mit der Keule kämpfen ließest, da drückte deine Gewalt auf den Himmel, während du, Indra, den Vritra erschlagen wolltest. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Когда Вритру и твою пращу,
(Вритру) ты заставил сражаться с ваджрой,
У тебя, жаждавшего убить змея, о Индра,
Запечатлелась мощь на небе.
Да воспоют они (твое) собственное царство!
अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते । त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
अ॒भि॒ऽस्त॒ने । ते॒ । अ॒द्रि॒ऽवः॒ । यत् । स्थाः । जग॑त् । च॒ । रे॒ज॒ते॒ । त्वष्टा॑ । चि॒त् । तव॑ । म॒न्यवे॑ । इ॒न्द्र॒ । वे॒वि॒ज्यते॑ । भि॒या । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
हे अद्रिवः वज्रवन् इन्द्र ते तव अभिष्टने सिंहनादे सति स्थाः स्थावरं जगत् जङ्गम च यत् अस्ति तदुभयं रेजते कम्पते । त्वष्टा चित् वज्रनिर्माता त्वष्टा च तव मन्यवे त्वदीयाय कोपाय भिया भीत्या वेविज्यते भृशं कम्पते । अन्यत् समानम् ॥ स्थाः । तिष्ठतेः । क्विप च । इति क्विप् । वेविज्यते । ‘ ओविजी भयचलनयोः । अस्मात् क्रियासमभिहारे यङ् । सन्यङोः । इति द्विर्भावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यङ एव स्वरः शिष्यते । इन्द्रस्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत् ' इति अविद्यमानवत्वेदौ सति अस्य पादादित्वात् ‘ °अपादादौ ' इति पर्युदासात् निघाताभावः ॥
“At your shout, wielder of the thunderbolt, all things, moveable or immoveable, trembled; even Tvaṣṭā shook with fear, Indra, at your wrath, manifesting your own sovereignty.”
When at thy shout, O Thunder-armed, each thing both fixed and moving shook,
E'en Tvastar trembled at thy wrath and quaked with fear because of thee, lauding thine own imperial sway.
At your thundering, o possessor of the stone, both the still and the moving shake.
Even Tvaṣṭar quivers with fear before your battle-fury, Indra.
– They cheer on your sovereign power.
Bei deinem Donnern Schleuderer erzittert was da steht und geht; Auch Tvaschtar selbst erbebt vor Furcht, o Indra, wenn dein Zorn entbrennt; du strahlst in eigner Herrlichkeit.
Bei deinem Donnergebrüll, du Herr des Preßsteins, zittert was steht und geht. Selbst Tvastri erbebt vor deinem Grimm aus Furcht, o Indra. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Перед твоим раскатом грома, о повелитель давильных камней,
Трепещет все, что стоит и что движется.
Сам Тваштар перед гневом твоим,
О Индра, содрогается от страха.
Да воспоют они (твое) собственное царство!
न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः । तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः । तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
यात् यान्तं सर्वत्र व्याप्य वर्तमानमिन्द्रं नहि नु अधीमसि वयं न ह्यवगच्छामः। यतो वयमल्पाः । परः इत्येतत्सकारान्तमव्ययं वैदूर्यमाचष्टे । परो दिवा पर एना ' ( ऋ. सं. १०. ८२. ५ ) इति यथा । परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने वीर्या वीर्येण सामर्थ्येन वर्तमानम् इन्द्रं कः मनुष्यो जानीयात् । न कोऽपीत्यर्थः । कस्मादिति चेत् अत्राह तस्मिन् इति । यस्मात् तस्मिन् इन्द्रे देवाः नृम्णं धनं उत अपि च क्रतुं वीर्यकर्म ओजांसि बलानि च सं दधुः स्थापयांचक्रुः तस्मादित्यर्थः॥ यात् । । ' या प्रापणे ' । अस्मात् लटः शतृ । ‘सुपां सुलुक् ' इति द्वितीयाया लुक् । अधीमसि । ‘इण् गतौ ' । इदन्तो मसिः । वीर्या । ‘सुपां सुलुक्' इति तृतीयाया आकारः ॥
“We know not of a certainty the all-pervading Indra; who (does know him, abiding) afar off in his strength? for in him have the gods concentrated riches, and worship, and power, manifesting his own sovereignty.”
There is not, in our knowledge, one who passeth Indra in his strength:
In him the Deities have stored manliness, insight, power and might, lauding his own imperial sway.
For, from what we can learn, no one is beyond Indra in virile power. In him have the gods assembled manliness and resolve and mighty
powers.
– They cheer on his sovereign power.
Denn keiner kommt, so weit uns kund, dem Indra gleich an Heldenkraft. Die Götter legten Manneskraft und Stärk' und Macht in ihn hinein; er strahlt in eigner Herrlichkeit.
Denn niemals, soweit wir gedenken, war einer an Manneskraft dem Indra überlegen. In ihm haben die Götter Mannesmut und Einsicht und alle Kräfte vereinigt. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Никогда, насколько мы помним,
Никто не превосходил Индру героической силой.
Мужество и силу духа – все силы
Соединили в нем боги.
Да воспоют они (твое) собственное царство!
यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त । तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
याम् । अथ॑र्वा । मनुः॑ । पि॒ता । द॒ध्यङ् । धिय॑म् । अत्न॑त । तस्मि॑न् । ब्रह्मा॑णि । पू॒र्वऽथा॑ । इन्द्रे॑ । उ॒क्था । सम् । अ॒ग्म॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥
अथर्वा एतत्संज्ञक ऋषिः पिता सर्वासां प्रजानां पितृभूतः मनुः च दध्यङ् अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च यां धियम् अत्नत यत्कर्मातन्वत अकुर्वन् तस्मिन् कर्मणि यानि ब्रह्माणि हविर्लक्षणान्यन्नानि उक्था शस्त्ररूपाणि स्तोत्राणि च यानि सन्ति तानि सर्वाणि तस्मिन् इन्द्रे समग्मत समगच्छन्त । तत्र दृष्टान्तः । पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि चेन्द्रेण संगच्छन्ते तद्वत् । य इन्द्रः स्वराज्यं स्वस्य राजत्वम् अनु अर्चन् अनुपूजयन् । वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयन्नित्यर्थः । अत्नत । ‘ तनु विस्तारे' । 'बहुलं छन्दसि' इति विकरणस्य लुक् । 'तनिपत्योश्छन्दसि' इति उपधालोपः । पूर्वथा । ‘ प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' (पा. सू. ५. ३. १११) इति इवार्थे पूर्वशब्दात् थाल्प्रत्ययः । लित्स्वरेण प्रत्ययात्पूर्वस्योदातत्वम् । उक्था । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । समग्मत ।' समो गम्यृच्छिभ्याम्' इति आत्मनेपदम् । लुङि • मन्त्रे घस! इति च्लेर्लुक् । ‘गमहन' इत्यादिना उपधाया लोपः ॥ ॥३१॥
“In like manner as of old, so in whatever act of worship Atharvan or father Manu, or Dadhyañc engaged, their oblations and their hymns were all congregated in that Indra, manifesting his own sovereignty.”
Still as of old, whatever rite Atharvan, Manus sire of all,
Dadhyach performed, their prayer and praise united in that Indra meet, lauding his own imperial sway.
The poetic vision which Atharvan, Manu the father, and Dadhyañc extended—
our sacred formulations and hymns in this older style have come
together in him, in Indra.
– They cheer on his sovereign power.
Wie Vater Manu, Dadhiank, Atharvan Andacht einst geübt, So hat in diesem Indra jetzt sich Spruch vereinigt und Gebet; er strahlt in eigner Herrlichkeit.
Wie Atharvan, Vater Manu, Dadhyac ihr Dichten auf ihn gerichtet haben, so haben wir ehedem auf diesen Indra sich jetzt alle feierlichen Reden und Preislieder vereinigt. - Sie sollen in deine Selbstherrlichkeit einstimmen.
Поэтическое видение, которое обращали (на него)
Атхарван, отец Ману, Дадхьянч –
К этому Индре, как прежде, сошлись
Молитвы (и) хвалебные песни.
Да воспоют они (твое) собственное царство!