इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभि॑: । तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ । तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥
वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हन्ता। यद्वा आवरकाणां शत्रूणां हन्ता इन्द्रो मदाय हर्षार्थं शवसे। बलनामैतत् । बलार्थं च नृभिः यज्ञस्य नेतृभिर्ऋत्विग्भिः ववृधे स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते । तमित् तमेवेन्द्रं महत्सु प्रभूतेषु आजिषु संग्रामेषु हवामहे अस्माकं रक्षणायाह्वयामहे । उत अपि च ईम् एनम् अर्भे अल्पे संग्रामे हवामहे । अस्माभिराहूतः सः च इन्द्रः वाजेषु संग्रामेषु नः अस्मान प्र अविषत् प्रावतु प्रकर्षेण रक्षतु ॥ ववृधे । वृधेः कर्मणि लिट् । संहितायामभ्यासस्य ‘अन्येषामपि दृश्यते' इति दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकाले दीर्घः श्रूयेत'। नृभिः। 'सावेकाच:० इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्याम्' इति प्रतिषेधः । हवामहे । ह्वयतेर्लटि ‘ह्वः' इति अनुवृतौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । शपि गुणावादेशौ । अविषत् । अव रक्षणे ' । लेटि अडागमः । ‘इतश्च लोपः' इति इकारलोपः । ‘ सिब्बहुलं लेट ' इति सिप् । तस्य आर्धधातुकत्वात् वलादिलक्षण इट् ॥
“Indra, the slayer of Vṛtra, has been augmented in strength and satisfaction by (the adoration of) men; we invoke him in great conflicts as well as in little conflicts; may he defend us in battles.”
THE men have lifted Indra up, the Vrtra slayer, to joy and strength:
Him, verily, we invocate in battles whether great or small: be he our aid in deeds of might.
Indra has been strengthened for exhilaration, the Vr̥tra-smasher for strength, by superior men.
Just him do we invoke in great contests, and him in a petty one;
when prizes (are set) he will help us.
Zu Rausch und Macht ward Indra stark durch Männer er, der Feinde schlägt; Ihn rufen wir in grossem Kampf, in kleinem rufen wir ihn an; er schütze in den Schlachten uns.
Indra, den Vritratöter, ward von den Männern zum Rausch, zur Kraft gestärkt. Nur ihn rufen wir in den großen Kämpfen und ihn in den kleinen. Er möge uns im Kampf um die Siegerpreise weiterhelfen.
Индра, убийца Вритры, усилен
Мужами, для опьянения, для мощи.
Только его призываем мы
В больших сражениях и в малых.
Да поможет он нам в (получении) наград!
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः । असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः । असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥
हे वीर शत्रुक्षेपणकुशलेन्द्र त्वं सेन्यः असि सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । हि यस्मादेवं तस्मात् भूरि प्रभूतं शत्रूणां धनं पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदाता असि भवसि । दभ्रस्य चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुः वृधः वर्धयिता असि । तथा यजमानाय यागं कुर्वते सुन्वते सोमाभिषवं कुर्वते पुरुषाय शिक्षसि अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात् ते तव वसु धनं भूरि बहुलमक्षयं धनं विद्यते तस्मात् ददासीति भावः ॥ पराददिः । ‘डुदाञ् दाने'। ‘ आदृगमहनजनः । इति किप्रत्ययः । लिङ्वद्भावात् द्विर्वचने ह्रस्वत्वम्। ‘आतो लोप इटि च' इति आकारलोपः। वृधः । वृधेरन्तर्भावितण्यर्थात् इगुपधलक्षणः कः । सुन्वते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
“For you, here, Indra, are a host; you are the giver of much booty; you are the exalter of the humble; you bestow (riches) on the worshipper who offers you oblations, for abundant is your wealth.”
Thou, Hero, art a warrior, thou art giver of abundant spoil.
Strengthening e'en the feeble, thou aidest the sacrificer, thou givest the offerer ample wealth.
For you are the martial one, hero; you are the one who hands over much. You are the increaser even of the paltry. You exert yourself for the
sacrificer;
for the soma-presser your goods are many.
Du, Held, bist mit Geschoss versehn, und lieferst viel in unsre Hand, Du bist's, der auch den matten stärkt; dem Opferer, der Soma presst, verleihest viele Güter du.
Denn du Held bist der Soldatenfreund, du bist einer, der viel verschenkt. Du bist der Mehrer auch von Wenigem; du willst dem Opfernden nützlich sein. Für den Somapressenden hast du viel Gut.
Раз ты, о герой, воинственный (бог),
Ты тот, кто дает во власть большую (добычу).
Ты тот, кто увеличивает даже малое.
Ты хочешь помочь жертвователю,
Много добра у тебя для выжимающего сому.
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ । यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒: कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥
यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ । यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अस्मान् । इ॒न्द्र॒ । वसौ॑ । दधः ॥
अत्रेदमाख्यानम् । रहूगणपुत्रो गोतमः कुरुसृञ्जयानां राज्ञां पुरोहित आसीत् । तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेन्द्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति । तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् - ‘ गोतमो ह वै राहूगण उभयेषां कुरुसृञ्जयानां पुरोहित आसीत् ' इति । यत् यदा आजयः संग्रामाः उदीरते उद्गच्छन्ति उत्पद्यन्ते तदानीं धना धनं धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै धीयते निधीयते । जयतो धनं भवतीत्यर्थः । हे इन्द्र एवं तादृशेषु युद्धेषु प्रवृत्तेषु मदच्युता शत्रूणां मदस्य गर्वस्य च्यावयितारौ हरी त्वदीयावश्वौ युक्ष्व रथे योजय । योजयित्वा च कं कंचित् राजानं तव परिचरणमकुर्वन्तं हनः हन्याः । कंचन त्वां परिचरन्तं वसौ वसुनि धने दधः स्थापयसि । अतो जयपराजययोस्त्वमेव कारयितासि । तस्मात् हे इन्द्र अस्मान् अस्मदीयान् राज्ञः वसौ धने दधः स्थापय ॥ उदीरते । ‘ ईर गतौ ' । आदादिकः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यद्वृत्तयोगादनिघातः । धना । ‘सुपां सुलुक्' इति डादेशः । युक्ष्व । ‘युजिर् योगे'। अन्तर्भावितण्यर्थात् लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । हनः । हन्तेर्लेटि सिपि अडागमः । हनश्च दधश्चेति चार्थप्रतीतेः 'चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेः निघातप्रतिषेधः ॥ वसौ । लिङ्गव्यत्ययः । दधः । ‘ दध धारणे'। लेटि व्यत्ययेन परस्मैपदम् ॥
“When battles arise, wealth devolves on the victor; yoke your horses, humblers of the pride (of the foe), that you may destroy one and enrich another; plural ce us, Indra, in affluence.”
When war and battles are on foot, booty is laid before the bold.
Yoke thou thy wildly-rushing Bays. Whom wilt thou slay and whom enrich? Do thou, O Indra, make us rich.
When contests loom, rich stakes are set for the daring one.
Hitch up your two fallow bays, aroused to exuberance. Whom will you smash? Whom will you set in goods?
It’s us you will set in goods, Indra.
Wenn hier und dort sich Kampf erhebt, dann fällt dem Kühnen Beute zu, Schirr an das muntre Füchsepaar, wen schlägst du? und wem schenkst du Gut? Uns, uns, o Indra, schenke Gut.
Wenn die Kämpfe sich erheben, steht für den Mutigen Beutegewinn auf dem Spiel. Schirre deine übermütigen Falben an! Wen wirst du erschlagen, wem zu Gut verhelfen? Uns verhilf zu Gut, Indra!
Когда разгораются сражения,
Награды ожидают дерзкого,
Запрягай пару буланых коней, хмелем погоняемых.
Кого ты убьешь? Кого наделишь богатством?
Нас, о Индра, ты наделишь богатством!
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शव॑: । श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥
क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ । श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥
क्रत्वा कर्मणा प्रज्ञया वा महान् सर्वाधिकः भीमः शत्रूणां भयंकरः इन्द्रः अनुष्वधम् । स्वधा इति अन्ननाम । स्वधायाम् । विभक्त्यर्थे अव्ययीभावः । सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः । शवः आत्मीयं बलम् आ ववृधे आभिमुख्येन प्रवर्धयत् । तदनन्तरम् ऋष्वः दर्शनीयः शिप्री। शिप्रे हनू नासिके वा। तद्युक्तः हरिवान् हरिनामकाश्वोपेत इन्द्रः उपाकयोः अन्तिकनामैतत् । समीपवर्तिनोः हस्तयोः बाह्वोः आयसम् अयोमयं वज्रं श्रिये संपदर्थं नि दधे निदधाति स्थापयति। सोमपानेन हृष्टः प्रबल इन्द्रः शत्रूणां हननाय हस्ते वज्रं गृह्णातीति तात्पर्यार्थः ॥ क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् ' इति नाभावस्य विकल्पितत्वादभावः । आयसम् । ‘ तस्य विकारः' इति अण्प्रत्ययः ॥
“Mighty through sacrifice, formidable (to foes), partaking of the sacrificial food, Indra has augmented his strength; plural asing in appearance, having a handsome chin, and possessing (bright) coursers, he grasps the metal thunder-bolt in his contiguous hands for (our) prosperity.”
Mighty through wisdom, as he lists, terrible, he hath waxed in strength.
Lord of Bay Steeds, strong-jawed, sublime, he in joined hands for glory's sake hath grasped his iron thunderbolt.
Through his resolve the great, fearsome one has increased his strength in accord with his own nature.
For splendor the lofty belipped possessor of fallow bays has taken
the metal mace into his own clasped hands.
An Stärke gross nach eigner Wahl, erwuchs zur Macht der schreckliche; Der Füchselenker, schön behelmt, erhaben nahm zum Heil den Blitz in beide Arm', den ehernen.
An Einsicht groß, hat der Furchtbare nach eigenem Ermessen seine Stärke noch erhöht. Zur Herrlichkeit hat der Recke in die beiden aneinandergeschlossenen Hände die eherne Keule genommen, der Falbenlenker mit der geöffneten Lippe.
Великий силой духа, по своей воле
Страшный (еще) нарастил (свою) мощь.
Громадный, прекрасногубый, – (бог) с парой буланых коней
Для блеска вложил себе в сомкнутые
Руки железную ваджру.
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि । न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि । न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥
इन्द्रः स्वतेजसा पार्थिवं पृथिव्याः संबन्धि वस्तुजातं रजः अन्तरिक्षलोकं च आ पप्रौ आपूरयति । तथा दिवि द्युलोके रोचना रोचमानानि दीप्तानि नक्षत्राणि बद्बधे बबन्ध स्थापितवान् । अतो हे इन्द्र त्वावान् त्वत्सदृशः कश्चन न जातः नोऽत्पन्नोऽस्ति । न च जनिष्यते । उत्पत्स्यमानोऽपि नास्ति । तादृशस्त्वं विश्वं सर्वं रक्षितव्यं जगत् अति ववक्षिथ अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो निर्वाहको भवसीत्यर्थः । पप्रौ । ‘ प्रा पूरणे'। लिटि ‘ आत औ णलः ' (पा. सू. ७. १. ३४ ) इति औकारादेशः । पार्थिवम् । पृथिव्या ञाञौ' (पा. सू. ४. १. ८५, २) इति अञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । रजः। रजन्त्यस्मिन् गन्धर्वादय इति रजः अन्तरिक्षम् । ‘ रज रागे । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति नलोपः । बद्बधे । ‘ बध बन्धने' । लिटि व्यत्ययेन हलादिशेषाभावः । एकहल्मध्यगतस्वाभावात् एत्वाभ्यासलोपावपि न स्तः । पादादित्वात् निघाताभावः । त्वावान् ।' वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्' इति वतुप् । ' आ सर्वनाम्नः' इति आत्वम् । ववक्षिथ। वह प्रापणे ' । अस्मात् इच्छासनि सन्यतः ' इति इत्वस्य ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति अभावः । सनन्तात् लिटि • अमन्त्रे ' इति निषेधात् आम्प्रत्ययाभावः ॥ ॥ १ ॥
“He has filled the space of earth and the firmament (with his glory); he has fixed the constellations in the sky; no one has been ever born, now will be born, Indra, like you; you have sustained the universe.”
He filled the earthly atmosphere and pressed against the lights in heaven.
None like thee ever hath been born, none, Indra, will be born like thee. Thou hast waxed mighty over all.
He filled the earthly space; he kept thrusting the luminous realms toward heaven.
There is no one like you, Indra, who has been born or will be born.
You have grown beyond everything.
Den Raum der Erde füllte er, und stiess bis an des Himmels Licht, Kein andrer ist wie, Indra, du gewesen je, noch wird es sein; du, Indra, überragst das All.
Er hat den indrischen Raum ausgefüllt und die Lichter im Himmel erdrückt. Gleich dir, Indra, ward keiner geboren und wird keiner geboren werden. Du bist über die ganze Welt hinausgewachsen.
Он заполнил земное пространство,
Вдавил в небо светлые пространства.
Нет никого, Индра, подобного тебе:
(Такой) не родился (и) не родится –
Ты перерос все.
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ । इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥
यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ । इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥
अर्यः स्वामी पालयिता यः इन्द्रः मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय पराददाति प्रयच्छति सः इन्द्रः अस्मभ्यं शिक्षतु तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इन्द्र अस्मभ्यं दातुं धनं वि भज विभक्तं कुरु । यतः ते तव वसु धनं भूरि बहुलमसंख्यातं अतः तव राधसः धनस्यैकदेशं भक्षीय भजेय प्राप्नुयाम् ॥ पराददाति । अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ‘ तिङि चोदात्तवति' इति गतेः अनुदात्तत्वम् । दाशुषे ।' दाशृ दाने '। दाश्वान् साह्वान्' इति क्वसुप्रत्ययान्तो निपात्यते । चतुर्थ्येकवचने ' वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । भक्षीय । ‘ भज सेवायाम् । प्रार्थनायां लिङि तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् शबभावः सलोपाभावश्च । ' एकाचः ' इति इट्प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वात् निघाताभावः ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति वचनात् ॥
“May Indra, the protector, who returns to the giver (of oblations) the food that is fit for mortals, bestow (such food) on us; distribute your wealth, which is abundant, so that I may obtain (a portion) of your riches.”
May he who to the offerer gives the foeman's man-sustaining food,
May Indra lend his aid to us. Deal forth--abundant is thy wealth--that in thy bounty I may share.
He who hands over to the pious man the sustenance for mortals that belongs to the stranger—
let Indra do his best for us. Share out your many goods:
might I have a share of your generosity.
Er, der des Feindes Speis' und Trank dem frommen Manne übergibt, Uns theile Indra Gaben zu, vertheile du, reich ist dein Gut, und gib auch mir davon mein Theil.
Der die Menschenzehrung des hohen Herrn dem Opferspender verschenkt, der Indra soll uns zu nützen suchen. Teil aus; dein ist viel Gut! Ich möchte deiner Gabe teilhaftig werden.
Кто еду смертных, принадлежащую врагу,
Отдает почитающему (его) –
Индра пусть поможет нам!
Раздавай – много у тебя добра!
Да получу я долю от твоего дара!
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतु॑: । सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥
मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ । सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥
मदेमदे सोमपानेन हर्षेहर्षे सति ऋजुक्रतुः ऋजुकर्मा स इन्द्रः नः अस्मभ्यं गवां यूथा यूथानि ददिः हि गोयूथानां दाता खलु। हे इन्द्र स त्वं पुरु पुरूणि प्रभूतानि शता शतसंख्याकानि अपरिमितानीत्यर्थः । वसु वसूनि धनानि उभयाहस्त्या उभाभ्यां हस्ताभ्यां सं गृभाय अस्मभ्यं दातुं सम्यग्गृहाण । शिशीहि अस्मांस्तीक्ष्णीकुरु । निशितबुद्धियुक्तान् कुर्वित्यर्थः । रायः धनानि हस्तयोः स्थितानि आ भर आहर प्रयच्छ ॥ ददिः । ‘ डुदाञ् दाने ' । आदृगमहनजनः° इति किप्रत्ययः । यूथा। ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । गवाम् । सावेकाचः' इति प्राप्तस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । गृभाय । ‘ ग्रह उपादाने '। लोटि हौ । छन्दसि शायजपि ' ( पा. सू. ३. १.८४ ) इति श्नाप्रत्ययस्य शायजादेशः । ‘ हृग्रहोर्भ: ' इति भत्वम् । उभयाहस्त्या। उभयहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्' इति ङ्यादेशः। ‘अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । समासान्तोदात्तत्वे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वसु । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । शिशीहि ।' शो तनूकरणे'। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ आदेचः । इति आत्वम् । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । ‘ ई हल्यघोः ' इति धातोः ईत्वम् । पादादित्वात् निघाताभावः। रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥
“The upright performer of (pious) acts is the donor of herds of cattle to us, when receiving frequent enjoyment (from our libations); take up, Indra, with both hands, many hundred (sorts) of treasure; sharpen (our intellects), bring us wealth.”
He, righteous-hearted, at each time of rapture gives us herds of kine.
Gather in both thy hands for us treasures of many hundred sorts. Sharpen thou us, and bring us wealth.
For at every revel (you) of straight resolve give us herds of cattle. Gather together many hundreds of goods with both hands.
Look sharp!—bring riches here.
Bei jedem Mahle schenkst du ja uns Rinderheerden treugesinnt, Viel hundert Güter fasse denn und nimm in beide Hände sie; sei eifrig, bringe Schätze her.
Denn in jedem Rausche schenkt uns der Rechtgesinnte Herden von Rindern. Raffe viele hundert Schätze, beide Hände voll, zusammen! Sporn uns an, bring Schätze her!
Опьянение за опьянением он дарит нам
Стада коров, (бог) с прямой силой духа.
Схвати обеими руками
Много сот добра!
Вдохнови (нас)! Принеси богатства!
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से । वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्त्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥
मा॒दय॑स्व । सु॒ते । सचा॑ । शव॑से । शू॒र॒ । राध॑से । वि॒द्म । हि । त्वा॒ । पु॒रु॒ऽवसु॑म् । उप॑ । कामा॑न् । स॒सृ॒ज्महे॑ । अथ॑ । नः॒ । अ॒वि॒ता । भव॒ ॥
हे शूर शौर्यवन्निन्द्र सुते सोमेऽभिषुते सति आगत्य सचा अस्माकं सखा सन् मादयस्व तेन सोमेन तृप्तो भव । किमर्थम् । शवसे बलार्थं राधसे अस्माकं धनार्थं च । त्वा त्वां पुरूवसुं बहुधनं विद्म हि वयं जानीमः खलु । अतः अस्मदीयान् कामान् मात्रा गवा वत्सानिव त्वया उप ससृज्महे हि त्वया खल्वेकीकुर्मः। अथ अनन्तरं नः अस्माकम् अविता अभिलषितफलप्रदानेन रक्षिता भव ॥ मादयस्त्र । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । ससृज्महे ।' सृज विसर्गे'।' बहुलं छन्दसि ' इति विकरणस्य श्लुः । प्रत्ययाद्युदात्तत्वम् । अत्रापि हिशब्दानुषङ्गात् “ छन्दस्यनेकमपि साकाङ्क्षम् ' ( पा. सू. ८. १. ३५) इति निघातप्रतिषेधः ॥
“Enjoy along with us, O hero, the suffused libation for (the increase of our) strength and wealth; we know you (to be) the possessor of vast riches, and address to our desires; be, therefore, our protector.”
Refresh thee, Hero, with the juice outpoured for bounty and for strength.
We know thee Lord of ample store, to thee have sent our hearts' desires: be therefore our Protector thou.
Become exhilarated on the pressed soma, for strength, o champion, for generosity.
Because we know you as possessing many goods, we have dispatched our desires to you—
so become our helper.
Berausche dich am Somasaft, o Held, zur Kraft und zum Geschenk; Wir wissen ja, dass reich du bist, und senden unsre Wünsche dir; so sei denn unser Förderer.
Berausche dich bei dem ausgepreßten Soma, o Held, zur Kraft, zur Freigebigkeit, denn wir kennen dich als den Güterreichen! Wir haben dir unsere Wünsche ausgeschüttet; nun sei unser Helfer.
Опьяняйся у выжатого (сомы)
Для мощи, о герой, для дарения!
Ведь мы знаем, что у тебя много добра.
Мы излили (тебе наши) желания:
Так будь нашим покровителем!
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् । अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् । अ॒न्तः । हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ । वेदः॑ । आ । भ॒र॒ ॥
हे इन्द्र ते तव स्वभूताः एते जन्तवः यजमानलक्षणा जनाः विश्वं सर्वं वार्यं सर्वैः संभजनीयं हविः पुष्यन्ति वर्धयन्ति । अदाशुषां हविषामदातॄणां जनानाम् अन्तः मध्ये विद्यमानं वेदः धनम् अर्यः सर्वेषां स्वामी त्वं ख्यः हि पश्यसि हि जानासीत्यर्थः। तेषाम् अयजमानानां वेदः धनं नः अस्मभ्यम् आ भर आहर प्रयच्छेति यावत् । अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वात् व्यर्थमेव भवेत् । अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः ॥ ख्यः । ‘ख्या प्रकथने '। अयं दर्शनार्थोऽपि । वर्तमाने छान्दसो लुङ् । अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । ‘ आतोलोप इटि च ' इति आकारलोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । ‘ हि च ' इति निघातप्रतिषेधः ॥ ॥ २ ॥
“These, your creatures, Indra, cherish (the oblation) that may be partaken of by all; you, lord of all, know what are the riches of those men who make no offerings; bring their wealth to us.”
These people, Indra, keep for thee all that is worthy of thy choice.
Discover thou, as Lord, the wealth of men who offer up no gifts: bring thou to us this wealth of theirs.
These (people who are) kin to you [=us] foster everything of value. Because you detect the possessions of the stranger, of the impious
peoples,
bring their possessions here to us.
Es ernten deine Diener hier, o Indra, alles schöne Gut. Entzieh du treuer denn den Schatz den Menschen, welche gottlos sind, und ihren Schatz bring uns herbei.
Diese Leute hier bringen für dich, Indra, allen begehrenswerten Besitz zur Blüte. Du durchschaust ja die Habe der Kargen - hoch und niedrig. Deren Habe bring uns her!
Эти люди, о Индра, делают (так) для тебя,
Что расцветает все лучшее.
Ты ведь видишь насквозь сокровище
Народа, не почитающего (богов, и их) вождя:
Принеси нам их сокровище!