उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव । य॒दा न॑: सू॒नृता॑वत॒: कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
उपो॒ इति॑ । सु । शृ॒णु॒हि । गिरः॑ । मघ॑ऽवन् । मा । अत॑थाःऽइव । य॒दा । नः॒ । सू॒नृता॑ऽवतः । करः॑ । आत् । अ॒र्थया॑से । इत् । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
उपो ष्विति षड्बचं नवमं सूक्तं गोतमस्यार्षमैन्द्रम् । अन्त्या जगती । आद्याः पङ्क्तयः । अनुक्रान्तं च । उपोषु षट् जगत्यन्तमिति ॥ सूक्तविनियोगो लैङ्गिकः ॥ षोडशिशस्त्र आद्या सुसन्दृशमित्यादिके द्वे ऋचौ च विनियुज्यते । अथ षोडशीति खण्डे सूत्रितम् । उपो षु शृणुही गिरः सुसन्दृशं त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती । (आ । ६-२) इतिहे मघवन् धनवन्निन्द्र गिरोऽस्मदीयाः स्तुतीरुपो उपैव सु शृणुहि । उपगत्य सम्यक् शृणु । अतथा इव पूर्वं यथाविधस्त्वं तद्विपरीतो मा भूः । अस्मासु पूर्वं यथानुग्रहबुद्धियुक्तस्तथाविध एव भवेत्यर्थः । अपि च नोऽस्मान् सूनृतावतः । प्रियसत्यात्मिका वाक् सूनृता । तया स्तुतिरूपया वाचा युक्तान्यदा करः करोषि आदनन्तरं त्वमप्यर्थयास इत् । अर्थयस एव । याचयस एव । न तूदास्से । अस्माभिः प्रयुक्ताः स्तुतीस्त्वमपि स्वीकरोषीत्यर्थः । अतो हे इन्द्र ते हरी त्वदीयावश्वौनु क्षिप्रं योज । रथे योजय ॥ शृणुहि । उतश्च प्रत्ययाच्छन्दसि वा वचनमिति वचनादुतश्च प्रत्ययादिति हेर्लुगभावः । अतथा इव । तथेवाचरति तथाति । सर्वप्रातिपदिकेभ्य इत्येके । का ३-१-११-२ । इति क्विप् । तथातेरप्रत्ययः । न तथा इव अतथा इव । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । करः । डुकृञ् करणे । लुङि कृमृदृरुहिभ्यश्छन्दसीति च्लेरङादेशः । नन्वङः सति शिष्टत्वात् चित्स्वरेणान्तोदात्तेन भवितव्यम् । तर्हि लङिव्यत्ययेन शप् । ननु डुकृञ् करण इति भूवादौ पठ्यते । अतो व्यत्ययः कस्मात् क्रियत इति चेत् नैवम् । यस्मादस्य धातोस्तत्र पाठोऽनार्षः । तथा हि । कः करत्करतीत्यत्र यदाहतुर्न्यासकारहरदत्तौ व्यत्ययेन शबिति तस्मादस्य धातोर्भूवादौ पाठो नास्तीति गम्यते । किञ्च यद्ययं पठ्येत करदित्येवमादिरूपसिद्ध्यर्थं कृमृदृरुहिभ्यश्छन्दसीति करोतेरङ् विधानमनर्थकं स्यात् । अस्माल्लङि शप्यस्य रूपस्य सिद्धिः । लङ् लुङोरर्थभेदाल्लुङ्येतद्रूपसिद्धये कर्तव्यमङ्विधानमिति चेन्न । छन्दसि लुङ् लङ् लिट इति लुङादीनामेकत्र विधानेनार्थभेदाभावादित्यनेन प्रकारेणास्माभिर्धातुवृत्तावयं धातुर्निराकृतः । अतो व्यत्ययेनेति सिद्धम् । अर्थयासे । अर्थ याज्ञायाम् । चुरादिरात्मनेपदी । लेट्याडागमः । योज । युजिर् योगे । ण्यन्ताल्लोट छन्दस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ १ ॥
“Approach, Maghavan, and listen to our praises; be not different (from what you have hitherto been) since you have inspired us with true speech, you are solicited with it; therefore, quickly yoke your horses.”
GRACIOUSLY listen to our songs, Maghavan, be not negligent.
As thou hast made us full of joy and lettest us solicit thee, now, Indra, yoke thy two Bay Steeds.
Listen well to our hymns, bounteous one, not like a nay-sayer.
When you will make us the beneficiaries of your liberality, it’s just then that you will achieve your goal.
– Now, Indra, I will hitch up your two fallow bays.
Erhöre unsre Bitten recht, versag' sie nicht, o mächtiger; Wenn du uns reich an Sang gemacht, dann lasse dich erbitten auch; Schirr, Indra, nun dein Füchsepaar.
Höre fein auf unsere Lobesworte, du Freigebiger; sei nicht wie einer, der anders will! Wenn du uns glücklich machen willst, dann sollst du dich auch entschließen. - Ich will dir jetzt das Falbenpaar schirren, o Indra.
Прислушайся внимательно к (нашим) хвалебным песням,
О щедрый, не (будь) как тот, кто несогласен!
Когда ты хочешь сделать нас
Счастливыми, стремись к этой (самой) цели!
Запрягай же, Индра, пару твоих буланых коней!
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒याः । अ॒धू॒ष॒त॒ । अस्तो॑षत । स्वऽभा॑नवः । विप्राः॑ । नवि॑ष्ठया । म॒ती । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
हे इन्द्र त्वया दत्तान्यन्नान्यक्षन् । यजमाना भुक्तवन्तः । भुक्त्वा चामीमदन्त हि । तृप्ताश्चासन् । प्रियाः स्वकीयास्तनूरवाधूषत । अकम्पयन् । अतिशयितरसास्वादनेन वक्तुमशक्नुवन्तः शरीराण्यकम्पयन् । तदनन्तरं स्वभानवः स्वायत्तदीप्तयो विप्रा मेधाविनस्ते नविष्ठया नवितृतमया मती मत्या स्तुत्याऽस्तोषत । अस्तुवन् । अन्यत्पूर्ववद्योज्यं ॥ अक्षन् । अदेर्लुङि लुङ् सनोर्घस्लृ (पा २-४-३७) इति घस्लादेशः । मन्त्रे घसेत्यादिना च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । खरि चेति चर्त्वम् । शासिवसिघसीनां चेति षत्वम् । अडागम उदात्तः । अमीमदन्त । मद तृप्तियोगे । चुरादिरात्मनेपदी । लुङि च्लेश्चङि णिलोपोपधाह्रस्वत्वद्विर्भावसन्वद्भावेत्वदीर्घाः । अधूषत । धूञ् कम्पने । लुङि सिचि व्यत्ययेन गुणाभावः । यद्वा । छन्दस्युभयथेति सिचः सार्वधातुकत्वेन ङित्त्वात् क्ङिति चेति प्रतिषेधः । अथवा धू विधूनने । तौदादिकः । कुटादिः । अस्मात्कर्मणि लुङि गाङ् कुटादिभ्य इति सिचो ङित्त्वाद्गुणाभावः नविष्ठया । णुस्तुतौ । करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् । तदन्तात् तुश्छन्दसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्स्विति तृलोपः । मती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । मन्त्रे वृषेषपचमनेति क्तिन उदात्तत्वं ॥ २ ॥
“(Your worshippers) have eaten the food which you had given, and have rejoiced, and have trembled through their precious (bodies); self-illuminated sages have glorified you with commendable thoughts; therefore, Indra, quickly yoke your horses.”
Well have they eaten and rejoiced; the friends have risen and passed away.
The sages luminous in themselves have. praised thee with their latest hymn. Now, Indra, yoke thy two Bay Steeds.
They have eaten, they have rejoiced,
The dear ones have dispelled (evil),
The radiant sages have been praised with newest hymn;
Yoke, O Indra, thy two bay steeds.
They have eaten; for they have brought themselves to exhilaration; they have shaken down dear things.
They have been praised—the self-radiant (Maruts)—with the newest inspired thought.
– Now, Indra, I will hitch up your two fallow bays.
Die weisen, herrlich glänzenden, sie speisten jetzt, berauschten sich Und schütteten uns liebes zu; gerühmt sind sie mit neustem Lied. Schirr, Indra, nun dein Füchsepaar.
Sie haben ja geschmaust, gezecht; die lieben Freunde haben herabgeschüttelt. Die selbstglänzenden Barden sind mit dem neuesten Gedicht gepriesen worden. - Ich will dir jetzt das Falbenpaar schirren, o Indra.
Они уже насытились (и) опьянились.
Милые (друзья) стряхнули нам вниз (блага).
Обладающие собственным блеском, вдохновенные
Прославлены самой новой молитвой.
Запрягай же, Индра, пару твоих буланых коней!
सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ । प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
महापितृ यज्ञे सुसन्दृ शमित्येषाहवनीयोपस्थापने विनियुक्ता । सूत्रितं च । आहवनीयं सुसन्दृशं त्वेति पङ्क्त्या (आ २-१९) इति ॥हे मघवन्निन्द्र सुसन्दृशं सुष्ट्वनुग्रहदृष्व्या सर्वस्य द्रष्टारं त्वा त्वां वयं वन्दिषीमहि । स्तवामहि । स्तुतिकर्तारो भूयास्मेत्याशास्यते । अस्माभिर्वन्दिभिः स्तुतस्त्वं पूर्णवन्धुरः स्तोतृभ्यो देयैर्धनैः पूरितेन रथेन युक्तः सन् वशान् कामयमानानन्यान्यजमानान्प्रति नूनं प्र याहि । अवश्यं प्रतिष्ठस्व । योजेत्यादि पूर्ववत् ॥ वन्दिषीमहि । वदि अभिवादनस्तुत्योः । आशीर्लिङ् । लिङ्चाशिषि (पा ३-४-११६) इति तस्यार्धधातुकत्वेन लसार्वधातुकस्वराभावे प्रत्ययाद्युदात्तत्वम् । मघवन्नित्यस्यामन्त्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे सति पादादित्वान्निघाताभावः ॥ ३ ॥
“We praise you, Maghavan, who look benignly (upon all); thus praised by us, repair (in your car), filled with treasure, to those who desire your presence; Indra, quickly yoke your horses.”
Maghavan, we will reverence thee who art so fair to look upon.
Thus praised, according to our wish come now with richly laden car. Now, Indra, yoke thy two Bay Steeds.
We would extol you of wholly lovely appearance, o bounteous one. Praised, drive forth now following your will, once your chariot box
is full.
– Now, Indra, I will hitch up your two fallow bays.
Wir wollen, reicher, preisen dich, der schönen Anblick du gewährst. Mit reichgefülltem Wagen komm, gerühmter, nun nach Wunsch herbei. Schirr, Indra, nun dein Füchsepaar.
Dich, der schön zu schauen, wollen wir loben, o Freigebiger. Fahre jetzt gepriesen mit vollem Wagensitz nach Wunsch weiter! - Ich will dir jetzt das Falbenpaar schirren, o Indra.
Тебя, прекрасного на вид, мы
Хотим прославить, о щедрый.
Возвеличенный, выезжай сейчас вперед по своему желанию
С сиденьем колесницы, полным (добра)!
Запрягай же, Индра, пару твоих буланых коней!
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् । यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
सः । घ॒ । तम् । वृष॑णम् । रथ॑म् । अधि॑ । ति॒ष्ठा॒ति॒ । गो॒विद॑म् । यः । पात्र॑म् । हा॒रि॒ऽयो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके॑तति । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
स घ स खल्विन्द्रो वृषणं कामाभिवर्षकं गोविदं गवां लम्भयितारं तं रथमधि तिष्ठाति । ईदृशे रथेऽधितिष्ठतु । आरूढो भवतु । हे इन्द्र यो रथो हारियोजनमेतत्सञ्ज्ञकं धानामिश्रितं पूर्णं सोमेन पूर्णं पात्रं चिकेतति ज्ञापयति । तं रथमधितिष्ठेति पूर्वेणान्वयः । अधिष्ठाय च त्वदीयावश्वौ क्षिप्रं योजय ॥ घ ऋचि तनुघेति दीर्घः । रथम् । अधिशीङ् स्थासां कर्म (पा १-४-४६) इत्यधिकरणस्य कर्मसञ्ज्ञा । तिष्ठाति । तिष्ठतेर्लेट्याडागमः । चिकेतति । कित ज्ञाने । लेट्यडागमः । जुहोत्यादित्वाच्छपः श्लुः । बहुलं छन्दसीति वक्तव्यम् । का ७-३-८७ १ । इति वचनान्नाभ्यस्तस्याचि पितीति लघूपधगुणप्रतिषेधो न भवति ॥ ४ ॥
“May he ascend that chariot which rains (blessings), and grants cattle, and which provides the vessel filled with the mixture of Soma and grain; quickly, Indra, yoke your horses.”
He will in very truth ascend the powerful car that finds the kine,
Who thinks upon the well-filled bowl, the Tawny Coursers' harnesser. Now, Indra, yoke thy two Bay Steeds.
The only one who will mount on the bullish, cow-finding chariot
is the one who will take care that the cup is full for your
“Fallow-bay-yoking” oblation, Indra.
– Now, Indra, I will hitch up your two fallow bays.
Auf seinen starken Wagen steigt, den Rinder spendenden, der Gott, Wenn er den vollen Becher sieht, der, Indra, deine Füchse schirrt. Schirr, Indra, nun dein Füchsepaar.
Nur der soll den riesigen Wagen besteigen, den rindergewinnenden, wer, Indra, an den vollen Falbenschirrungsschoppen denkt. - Ich will dir jetzt das Falbenpaar schirren, o Indra.
Только тот может взойти на эту колесницу –
Быка, находящего коров,
Кто думает, о Индра, о полном
Сосуде, сопровождающем запрягание буланых коней.
Запрягай же, Индра, пару твоих буланых коней!
यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो । तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि॑णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तेन॑ । जा॒याम् । उप॑ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध॑सः । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
हे शतक्रतो बहुकर्मवन्निन्द्र ते त्वदीये रथे दक्षिणो दक्षिणपार्श्वस्थोऽश्वो युक्तोऽस्तु । उतापि च सव्यो वामपार्श्वस्थोऽपि युक्तोऽस्तु । तेन रथेनान्धसः सोमलक्षणस्यान्नस्य पानेन मन्दानो मत्तस्त्वं प्रियां प्रीणयित्रीं जायामुप याहि । सा यत्र वर्तते तत्र गच्छेत्यर्थः । तदर्थं हे इन्द्र त्वदीयावश्वौ रथे क्षिप्रं योजय । अनयोत्तरया च पीतसोमस्येन्द्रस्य स्वगृहं प्रति प्रस्थानं प्रतिपाद्यते ॥ मन्दानः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । लिटः कानच् । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यमिति द्विर्वचनाभावः । अन्धसः । अद भक्षणे । अदेर्नुम् धश्च उ ४-२०५ । इत्यसुन् । धातोर्नुमागमो धकारान्तादेशश्च ॥ ५ ॥
“Performer of many (holy) acts, let your steeds be harnessed on the right and on the left, and when exhilarated by the (sacrificial) food, repair in your chariot to your beloved wife; quickly, Indra, yoke your horses.”
Let, Lord of Hundred Powers, thy Steeds be harnessed on the right and left.
Therewith in rapture of the juice, draw near to thy beloved Spouse. Now, Indra, yoke thy two Bay Steeds.
Let your right (horse) be yoked, and your left one, you of a hundred resolves.
With this (chariot) drive up to your dear wife, while (you are still)
exhilarated from the stalk.
– Now, Indra, I will hitch up your two fallow bays.
Dein rechtes Ross sei angeschirrt, dein linkes, hundertkräftiger; Zur lieben Gattin komm damit herbei, berauscht vom Somasaft Schirr, Indra, nun dein Füchsepaar.
Dein rechtes und dein linkes Wagenpferd soll angeschirrt sein, du Ratreicher. Mit dem fahre von Soma berauscht zu deiner lieben Frau! - Ich will dir jetzt das Falbenpaar schirren, o Indra.
Да будет запряжен твой правый (конь),
А также левый, о стоумный!
На этой (колеснице) поезжай
К милой жене, опьяненный напитком сомы!
Запрягай же, Индра, пару твоих буланых коней!
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः । उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥
यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः । उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊँ॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥
अन्त्येष्वहःसु हारियोजनस्य युनज्मीत्येषा याज्या । सूत्रितम् । युनज्मिते ब्रह्मणा केशिना हरी इति याज्यानुवाक्ये अन्त्येष्वहःसु (आ ६-११) इति ॥हे इन्द्र केशिना केशयुक्तौ शिखावन्तौ ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्ररूपेण मन्त्रेण युनज्मि । रथे संयोजयामि । तेन रथेनोप प्र याहि । त्वद्गृहमुपगच्छ । गभस्त्योः । बाहुनामैतत् । बाह्वोरश्वबन्धकान् रश्मीन् दधिषे । धारयस्व । त्वा त्वां सुतासो यज्ञेऽभिषुताः सोमा रभसा वेगवन्तः । तीव्राः क्षिप्रं मदकारिण इत्यर्थः । उदमन्दिषुः । उत्कृष्टमदयुक्तमकार्षुः । हे वज्रिन् अतस्त्वं स्वगृहं गत्वा पूषण्वान् । अत्र पूषन् शब्दः पुष्टौ वर्तते । पुष्टिर्वै पूषा पुष्टिमेवावरुन्द्ध इति श्रुतेः । सोमपानजनितया पुष्ट्या युक्तः सन् पत्ना स्वभार्यया सह समु अमदः । सम्यगेव तृप्तो भव ॥ केशिना केशशब्दान्मत्वर्थीय इनिः । सुपां सुलुगिति विभक्तेराकारः । रभसाः । अर्श आदित्वा दच् । अमन्दिषुः । व्यत्ययेन परस्मैपदम् । पूषण्वान् । पुष पुष्टौ । श्वन्नुक्षन्नित्यादौ पूषन्निति निपात्यते । तच्चात्र भावसाधनं द्रष्टव्यम् । पूषाऽस्यास्तीति पूषण्वान् । मादुपधाया इति मतुपो वत्वम् । नलोपेऽनो नुट् (पा ८-२-१६) इति नुट् । ह्रस्वनुड्छ्यां मतुबिति मतुप उदात्तत्वम् । अमदः । मदी हर्षे । छन्दसि लुङ् लङ् लिट इति प्रार्थनायां लङ् । श्यनि प्राप्ते व्यत्ययेन शप् ॥ ६ ॥
“I harness your long-maned steeds wiht (sacred prayers); depart; take the reins in your hands; the effused and exciting juices have exhilarated you wilder of the thunderbolt; thus filled with nutriment, rejoice with your spouse.”
With holy prayer I yoke thy long-maned pair of Bays: come hitherward; thou holdest them in both thy hands.
The stirring draughts of juice outpoured have made thee glad: thou, Thunderer, hast rejoiced with Pusan and thy Spouse.
With (this) sacred formulation I (hereby) hitch up your two shaggy fallow bays. Drive forth; you have taken (the reins? the mace?) in
your fists.
The wild pressed soma-drinks have stirred you up. Accompanied
by Pūṣan, o mace-bearer, you will become exhilarated along with
your wife.
Ich schirre dir die mähn'gen Rosse durch Gebet, nun fahre her, du fügtest an die Deichsel sie; Die starken Säfte haben, Blitzer, dich erfreut; mit Puschan und der Gattin hast du dich berauscht.
Ich schirre mit feierlicher Rede deinen mähnigen Falben. Fahr los; du hast die Zügel in die Hand genommen. Die starken Getränke haben dich aufgeheitert. Von Pusan begleitet hast du mit deiner Frau gezecht, du Keulenträger.
Молитвой я запрягаю пару твоих гривастых буланых коней.
Выезжай: ты взял (вожжи) в руки!
Опьянили тебя крепкие выжатые соки сомы.
Захмелел ты, о громовержец, вместе о Пушаном и с супругой.