अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभि॑: । तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥
॥
हे इन्द्र यः मर्त्यः मनुष्यः तवोतिभिः त्वदीयैः रक्षणैः सुप्रावीः सुष्ठु प्ररक्षितो भवति स मर्त्यः अश्वावति बहुभिरश्वैर्युक्ते गृहे वर्तमानः गोषु प्राप्तव्येषु प्रथमः गच्छति । सर्वेभ्यो यजमानेभ्यः पूर्वमेव गोमान् भवतीत्यर्थः । त्वं तमित् तमेव पुरुषं भवीयसा बहुतरेण भवितृतमेन वा शतसहस्रादिसंख्यायुक्तेन वसुना धनेन पृणक्षि संपृक्तं संपूर्णं करोषि । तत्र दृष्टान्तः । विचेतसः विशिष्टज्ञानहेतुभूताः आपः यथा अभितः सर्वासु दिक्षु सिन्धुं समुदं पूरयन्ति तद्वत् ॥ अश्वावति । ' मन्त्रे सोमाश्च° ' इति मतौ दीर्घत्वम् । सुप्रावीः ।“ अवितॄस्तृतन्त्रिभ्य ईः ' (उ.सू.३.४३८) इति अवतेः ईकारप्रत्ययः । ऊतिभिः । ‘ ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । पृणक्षि । ‘पृची संपर्क' । रौधादिकः । भवीयसा । बहुशब्दात् ईयसुनि • बहोर्लोपो भू च बहोः । इति बहुशब्दस्य भूभावः ईयसुनः ईकारलोपश्च । अत्र तु छान्दसत्वात् ईकारलोपो न क्रियते भूभावश्च क्रियते । अथवा भवितृशब्दात् ‘तुश्छन्दसि' इति ईयसुन्। “ तुरिष्ठेमेयःसु' इति तृलोपः ॥
“The man who is well protected, Indra, by your cares, (and dwells) in a mansion where there are horses, is the first who goes to (that where there are) cows; enrich him with abundant riches, as the unconscious rivers flow in all directions to the ocean.”
INDRA, the mortal man well guarded by thine aid goes foremost in the wealth of horses and of kine.
With amplest wealth thou fillest him, as round about the waters clearly seen afar fill Sindhu full.
The first to come to (wealth) consisting of horses, to cows with
your help, o Indra, is the mortal who pursues (his ritual duties)
well.
Just him do you engorge with more abundant goods, as waters,
conspicuous from everywhere, engorge a river.
An Rossen reich und Rindern geht voran der Mann, den, Indra, du mit deinem Schutze schön beschirmst, Den füllest du mit immer reicherm Gute an, wie schimmernde Gewässer füllen rings das Meer.
Als Erster gelangt mit deinen Hilfen der Sterbliche zu Rossebesitz, zu Kühen, der dir gut zuredet, o Indra. Ihn füllst du mit noch mehr Gut so wie die verständigen Gewässer zu beiden Seiten die Sindhu anfüllen.
Первым идет к обладанию конями, коровами,
О Индра, смертный, хорошо совершающий обряд с твоей помощью.
Это его ты наполняешь наибольшим добром,
Как сверкающие воды со всех сторон – океан.
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑: । प्रा॒चैर्दे॒वास॒: प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥
आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ । प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥
होत्रियं होतुः स्वभूतं चमसं देवीः देव्यो द्योतमानाः आपो न यथा आपः उप यन्ति उपगच्छन्ति तद्वदुपरि वर्तमाना देवा एतमेव चमसम् अवः अवस्तात् पश्यन्ति । होतृचमसे अस्माकं सोमाभिषवाय आपः पूरिता इति तेषां दृष्टिरप्यस्मिन् संलग्नाभूत् । तत्र दृष्टान्तः। विततं विस्तीर्णं रजः ज्योतिः सूर्यसंबन्धि यथा निरन्तरमवस्तात् पतति तद्वत् । देवयुं देवान् कामयमानमेतं चमसं प्राचैः प्राचीनं यद्वा प्राञ्चनैः प्रगमनैः उत्तरवेद्यभिमुखं होमकाले प्र णयन्ति । होमार्थे प्रणीतं ब्रह्मप्रियं ब्रह्मणा सोमलक्षणेनान्नेन प्रीतं संतृप्तं पूरितमित्यर्थः। जोषयन्ते सर्वे देवास्तं चमसं सेवन्ते । वराइव कन्यकाम् । यथा वरा ममेयं भविष्यति ममेयं भविष्यतीति कन्यकां सेवन्ते एवं देवा अपि ममायं सोमो ममायं सोम इत्यस्य पार्श्वे वर्तन्ते इत्यर्थः । एवम् अपोनप्त्रीयविनियोगानुसारेण योजितं मन्त्रस्यानुष्ठेयार्थप्रकाशकत्वात् । यदा तु रात्रिपर्यायेऽस्या विनियोगः तदा त्वेवं व्याख्येयम् । हे इन्द्र देव्य आपो यथा निम्नदेशमुपगच्छन्ति एवं देवास्त्वदीयं स्तोत्रं शुश्रूषमाणाः होत्रियं होतृसंबन्धि धिष्ण्यस्थानमुपगच्छन्ति । उपगत्य च अवस्तात् पश्यन्ति विततं ज्योतिरिव । देवयुं देवानात्मन इच्छन्तमेतं शंसितारमागताः सर्वे देवाः प्राचीनं प्र णयन्ति अग्रतो धारयन्ति । ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसन्तं वराः कन्यका इव सेवन्ते ॥ होत्रियम् । होतृशब्दात् तस्येदमर्थे घप्रत्ययः । अवः । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' इति असिप्रत्ययान्तोऽन्तोदात्तः । प्राचैः । उच्चैर्नीचैरितिवदव्ययम् । यद्वा प्रपूर्वात् अञ्चतेः 'घञर्थे कविधानं । स्थास्नापाव्यधिहनियुध्यर्थम् ' इति परिगणनस्योपलक्षणार्थत्वात् भावे कप्रत्ययः ।“ अनिदिताम् ' इति नलोपः । जोषयन्ते । जुषी प्रीतिसेवनयोः । स्वात्मनः प्रयोज्यत्वात् हेतुमति णिच् ॥
“In like manner, as the bright waters flow to the sacrificial ladle, so they (the gods) look down (upon it); as the diffusive light (descends to earth), the gods convey it, desirous of being presented to them by progressive (movements to the altar), and are impatient to enjoy it, filled with the oblation, as bridegrooms (long for their brides).”
The heavenly Waters come not nigh the priestly bowl: they but look down and see how far mid-air is spread:
The Deities conduct the pious man to them: like suitors they delight in him who loveth prayer.
Like the goddesses, the Waters, they [=gods] approach (the
place) associated with oblation; they look downward onto
the extended (soma-filter? sacrifice?) as if onto an extensive
airy realm.
The gods lead forward the one who seeks the gods. Like suitors,
they delight in the man who pleases (them) with the sacred
formulation.
Wie Wasser gehn die Göttinnen zum Opferwerk und schaun herab wie auf die ausgedehnte Luft; Die Götter leiten vorwärts den, der Götter liebt, dem, der Gebet liebt, sind sie wie die Freier hold.
Wie die göttlichen Wasser nahen sie dem Hotri-Sitz; sie blicken herab auf das Opfer, das sich entfaltet hat wie der Luftraum. Die Götter bringen den Gottergebenen vorwärts. Dem, der das Gotteswort liebt, sind sie zu Gefallen wie die Freier einem Mädchen.
Словно божественные воды, они приближаются к сосуду хотара.
Они смотрят вниз (на жертву), растянутую, как пространство.
Боги ведут прямо вперед того, кто предан богам.
Они радуются услаждающему их молитвой, как женихи (- невесте).
अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यत॑: । असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥
अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्य॑म् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना । या । स॒प॒र्यतः॑ । अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्तिः । यज॑मानाय । सु॒न्व॒ते ॥
हे इन्द्र द्वयोः हविर्धानयोः उक्थ्यम् । उक्थं शस्त्रम् । तद्योग्यं वचः ‘युजे वाम्' इत्यादिमन्त्ररूपं वचनम् अधि अदधाः निहितवानसि । ननु हविर्धानयोर्द्वयोः कथमेकमेव वचोऽधिनिधीयते इत्याशङ्क्य ब्राह्मणेनैवं व्याख्यातम् - ‘अधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति' (ऐ. ब्रा. १. २९) इति । तत्र यथा हविर्धानद्वये एकमेव तृतीयं छदिरधिनिधीयते एवं स्तोत्रमप्युभयोरेकं युक्तम् । उक्थं नाम यज्ञसंबन्धि शस्त्रं तद्योग्यं वचनमपि यज्ञियं कर्म । तस्य यज्ञरूपयोर्हविर्धानयोर्यज्ञत्वसंपादनाय अधिनिधानात् यज्ञोऽपि समृद्धो भवति । कीदृशयोर्हविर्धानयोः । यतस्रुचा । यताः संबद्धाः स्रुचो ग्रहचमसादिलक्षणानि पात्राणि ययोस्ते । मिथुना युगलरूपेण वर्तमाने या ये हविर्धाने त्वां सपर्यतः पूजयतस्तयोरित्यर्थः । किंच ईदृग्रूपहविर्धानयुक्तो यजमानः असंयत्तः शत्रुभिः सह युद्धार्थमनभिगतः सन् ते व्रते त्वदीये कर्मणि क्षेति निवसति पुष्यति च । प्रजया पशुभिश्च पुष्टो भवति च । सुन्वते त्वद्देवत्ये यागे सोमाभिषवं कुर्वतो यजमानस्य भद्रा कल्याणी शक्तिः उत्कृष्टं बलं भवति। एतत्सर्वं हविर्धानयोक्थ्यस्य वचसोऽधिनिधानेन त्वया कृतमित्यर्थः ॥ यतस्रुचा । ‘ यम उपरमे'। निष्ठायाम् ' अनुदात्तोपदेश ' इत्यादिना अनुनासिकलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदमादिषु त्रिषु पदेषु ‘सुपां सुलुक् ' इति विभक्तेः आकारः । सपर्यतः । ‘सपर पूजायाम्'। 'कण्ड्वादिभ्यो यक्' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे तस्यैव स्वरः शिष्यते । क्षेति । ‘क्षि निवासगत्योः'। बहुलं छन्दसि ' इति विकरणस्य लुक् । सुन्वते । षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥
“You have associated, Indra, words of sacred praise with both (the grain and butter of oblation), plural ced together in ladles and jointly presented to you, so that (the sacrificer), undisturbed, remains (engaged) in your worship, and is prosperous; for to the sacrificer pouring out oblations (to you), auspicious power is granted.”
Praiseworthy blessing hast thou laid upon the pair who with uplifted ladle serve thee, man and wife.
Unchecked he dwells and prospers in thy law: thy power brings blessing to the sacrificer pouring gifts.
You have placed a speech worthy to be spoken in the two (priests), the pair who ritually serve with their offering spoons extended.
Not mustered (to battle), he dwells in peace under your commandment, he thrives. Propitious is your potency for the sacrificer who
presses soma.
Dem Ehepaar verliehst du preisenswerthes Lied, das mit gereichter Schale dich vereinigt ehrt; Der Opferer, der Soma presst, ruht unbedroht in deinem Dienst, gedeiht und erntet schönen Lohn.
Auf zwei legtest du die preisvolle Rede, die als ein Paar mit hingehaltenem Löffel aufwarten. Ohne Streit wohnt und gedeiht er in deinem Dienst. Segensreich ist dein Wirken für den Opfernden, der Soma presst.
Двоих ты наделил (священной) речью гимнов,
Кто с протянутой жертвенной ложкой вдвоем служит богам.
Не приспособленный (к битвам), живет (жрец) в твоем обете (и) процветает.
Благая сила (дана) жертвователю, выжимающему (сому).
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒: शम्या॒ ये सु॑कृ॒त्यया॑ । सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नर॑: ॥
आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ । सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥
यदा पणिभिर्गावोऽपहृतास्तदानीम् अङ्गिराः अङ्गिरसः प्रथमं पूर्वमग्रतः वयः हविर्लक्षणमन्नं दधिरे इन्द्रार्थं संपादितवन्तः । आत् अनन्तरं तादृशाः ये अङ्गिरसः इद्धाग्नयः प्रज्वलिताग्नियुक्ताः सन्तः सुकृत्यया शोभनकरणोपेतया शम्या कर्मणा शोभनेन यागेनेन्द्रमयजन्निति शेषः । ते नरः यज्ञस्य नेतारोऽङ्गिरसः पणेः एतन्नाम्नोऽसुरस्य संबन्धि सर्वं भोजनं धनं समविन्दन्त समलभन्त । कीदृशम् । अश्वावन्तं अश्वैर्युक्तं गोमन्तं गोभिर्युक्तम् । आकारः समुच्चये । गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविन्दन्त । अङ्गिराः । ‘ सुपां सुलुक्° ' इति जसः सुः । शम्या । शमी इति कर्मनाम । शाम्यत्यनया क्रियया दोषजातमिति शमी । करणे घञ् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः ' ( पा. सू. ७. ३. ३४ ) इति वृद्धिप्रतिषेधः । गौरादित्वात् ङीष् । व्यत्ययेनाद्युदात्तत्वम् । सुकृत्यया । शोभनं कृत्यं करणं यस्यां सा तथोक्ता । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
“The Aṅgirasas first prepared (for Indra) the sacrificial food, and then, with kindled fire, (worshipped him) with a most holy rite; they, the instrumental tutors (of the ceremony); acquired all the wealth of Paṇi, comprising horses, and cows, and (other) animals.”
First the Angirases won themselves vital power, whose fires were kindled through good deeds and sacrifice.
The men together found the Pani's hoarded wealth, the cattle, and the wealth in horses and in kine.
The Aṅgirases, who had (previously) kindled the fires with ritual labor and good ritual performance, after that first acquired their
life-force.
They collected together all the sustenance of the niggard, livestock
consisting of horses and cows—the superior men.
Die Angiras empfingen da die erste Kraft, als Feuer sie mit Fleiss entflammt und frommem Werk; Des Pani ganze Habe eigneten sich an die Männer und die Heerden reich an Rind und Ross.
Da erlangten die Angiras´ die erste Jugendkraft, die das Feuer unter Opferdienst und frommen Werk entzündet hatten. Sie fanden die ganze Nahrung des Pani beisammen; die Männer trieben die Roß- und Rinderherde heim.
Вот Ангирасы достигли первого расцвета юности,
Они, (кто) зажег жертвенные костры трудом (и) благим деянием.
Они нашли вместе всю еду Пани,
Мужи при(гнали) скот: коней (и) коров.
य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒: सूर्यो॑ व्रत॒पा वे॒न आज॑नि । आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः । वे॒नः । आ । अ॒ज॒नि॒ । आ । गाः । आ॒ज॒त् । उ॒शना॑ । क॒व्यः । सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥
पणिभिरपहृतासु गोषु अथर्वा एतत्संज्ञः ऋषिः यज्ञेः इन्द्रदेवत्यैरनुष्ठितैर्यागैः पथः गोसंबन्धिनो मार्गान् प्रथमः तते तनुते । सर्वेभ्य ऋषिभ्यः पूर्वमेव कृतवानित्यर्थः । ततः तदनन्तरं व्रतपाः व्रतानां कर्मणां पालयिता वेनः कान्तः सूर्यः सूर्यरूप इन्द्रः आ अजनि गवां प्रदर्शनाय आविरभूत् । ततोऽथर्वा ताः गाः आ आजत् आभिमुख्येन प्राप्नोत् । तादृशस्येन्द्रस्य काव्यः कवेः पुत्रः उशना भृगुः सचा असुरनिरसनाय सहायोऽभूत् । यमस्य असुराणां नियमनार्थं जातं प्रादुर्भूतम् अमृतं मरणरहितं तमिन्द्रं यजामहे हविर्भिः पूजयामः ॥ पथः । शसि ‘भस्य टेर्लोपः इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तते । तनु विस्तारे'। बहुलं छन्दसि इति विकरणस्य लुक् । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । अजनि। ‘ जनी प्रादुर्भावे ' । ‘ दीपजनबुध' (पा. सू. ३. १. ६१ ) इत्यादिना कर्तरि लुङि च्लेः चिण् । आजत् । ‘अज गतिक्षेपणयोः ॥
“Atharvan first by sacrifices discovered the path (of the stolen cattle); then the bright sun, the cherisher of pious acts, was born. Atharvan regained the cattle; Kāvya (Uṣanās) was associated with him. Let us worship the immortal (Indra), who was born to restrain (the asuras).”
Atharvan first by sacrifices laid the paths then, guardian of the Law, sprang up the loving Sun.
Usana Kavya straightway hither drove the kine. Let us with offerings honour Yama's deathless birth.
With sacrifices the Atharvan first stretched the paths. Thereupon was the Sun, the protector of commandments, the tracker, born.
Uśanā Kāvya drove the cows together. We sacrifice to the immortal birth of Yama.
Atharvan bahnte opfernd sich zuerst den Weg; dann ward als Schirm des Rechts die holde Sonn' erzeugt; Uçana Kavja trieb zugleich die Kühe her; des Jama Sohn, der nimmer stirbt, verehren wir.
Durch Opfer hat Atharvan zuerst die Wege gebahnt; Daraus ward Surya, der Hüter des Gesetzes, der Späher geboren. Usanas Kavya trieb gleichzeitig die Rinder ein. Wir verehren das unsterbliche Geschlecht des Yama.
С помощью жертв Атхарван первым протянул пути.
От этого родился Сурья, защитник обета, следящий.
Кавья Ушанас пригнал коров, всех вместе.
Мы чтим бессмертное рождение Ямы.
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि । ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि । ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः॑ । तस्य॑ । इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥
स्वपत्याय शोभनापतनहेतुभूताय कर्मणे बर्हिर्वा यत् यदा वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते अर्को वा स्तोत्रनिष्पादको होता वा श्लोकं स्तुतिरूपां वाचं दिवि द्योतमाने यज्ञे यदा आघोषते उच्चारयति । यत्र यस्मिन् काले ग्रावा अभिषवार्थं प्रवृत्तः उपलः वदति शब्दं करोति । तत्र दृष्टान्तः । कारुरुक्थ्यः। लुप्तोपममेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत् । तस्य पूर्वोक्तस्य सर्वस्य अभिपित्वेषु अभिप्राप्तिषु इन्द्रः रण्यति रमते । यद्वा । पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विन्द्रो रण्यति अस्मदीयो यागो भविष्यतीति हर्षशब्दं करोति ॥ वृज्यते । ‘ वृजी वर्जने' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । निपातैर्यद्यदिहन्त ' इति निघातप्रतिषेधः । आघोषते । घुषिर् विशब्दने '। भौवादिकः । अत्रापि यत्' इत्यस्य निपातस्यानुषङ्गात् निघाताभावः । रण्यति । रमु क्रीडायाम्। व्यत्ययेन श्यन् परस्मैपदं च । अन्त्यविकारश्छान्दसः । यद्वा रण शब्दार्थः । व्यत्ययेन श्यन् ॥ ॥ ४ ॥
“Whether the holy grass be cut (for the rite) that brings down blessings, whether the priest repeats (the sacred) verse in the brilliant (sacrifice), whether the stone (that expresses the Soma) sound like the priest who repeats the hymn, on all these occasions Indra rejoices.”
When sacred grass is trimmed to aid the auspicious work, or the hymn makes its voice of praise sound to the sky.
Where the stone rings as 'twere a singer skilled in laud,--Indra in truth delights when these come near to him.
When the ritual grass is twisted for the sake of good descendants, or the chant sounds its signal-call toward heaven,
when the pressing stone, the praiseworthy bard speaks, just at his
(sacrifice) does Indra take pleasure at suppertime.
Wo man die Streu, um Kinder zu erlangen, schmückt, der Dichter Lieder auf zum Himmel schallen lässt, Bei wem der Stein als liederreicher Sänger tönt, da einzukehren ist des Indra grösste Lust.
Wenn das Barhis um die Feuerstätte gelegt wird, um gute Nachkommenschaft zu erlangen, oder wenn der Lobgesang seine Melodie zum Himmel erklingen lässt, bei wem der Preßstein ertönt und der preiskundige Dichter, bei dem hat Indra Lust zur Einkehr.
Когда раскладывается жертвенная солома, чтобы иметь хорошее потомство,
Или когда песня возносит к небу (свой) зов,
(Там,) где говорит давильный камень, певец прославляющий, -
У того (жертвователя) и тешится Индра, при возвращениях (к нему).