असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यं रज॒: सूर्यो॒ न र॒श्मिभि॑: ॥
असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ इति॑ । आ । ग॒हि॒ । आ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सू॒र्यः॑ । न । र॒श्मिऽभिः॑ ॥
हे इन्द्र ते त्वदर्थं सोमः असावि अभिषुतोऽभूत् । हे शविष्ठ अतिशयेन बलवन् अत एव धृष्णो शत्रूणां धर्षयितरिन्द्र आ गहि देवयजनदेशमागच्छ । आगतं च त्वाम् इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् आ पृणक्तु आपूरयतु । रजः अन्तरिक्षं रश्मिभिः किरणैः सूर्यो न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दात् इष्टनि ‘ विन्मतोर्लुक्'।' टेः' इति टिलोपः । पादादित्वात् निघाताभावः । गहि । गमेर्लोटि: बहलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तस्य ‘असिद्धवदत्रा भात्' इति असिद्धवत्त्वात् हेः लुगभावः ॥
“The Soma has been expressed, Indra, for you; potent humber (of your foes), approach; may vigour fill you (by Soma), as the sun fills the firmament with his rays.”
The Soma hath been pressed for thee, O Indra; mightiest, bold One, come.
May Indra-vigour fill thee full, as the Sun fills mid-air with rays.
The Soma hath been pressed for thee O Indra;
O most strong, O impetuous one, come hither;
Let power encompass thee,
Even as the sun encompasses the atmosphere with its rays.
The soma has been pressed for you, Indra. O strongest bold one, come here.
Let Indrian strength permeate you, as the sun permeates the airy realm with its rays.
Gepresst ist Soma, Indra, dir, o stärkster, kühner, komme her; Die Indrakraft durchdringe dich, wie Sonnenstrahlen rings die Luft.
Soma ist für dich, Indra, ausgepresst, du Stärkster, Mutiger, komm herbei! Dich soll die Indrakraft durchdringen wie die Sonne mit ihren Strahlen den Raum.
Выжат сома для тебя, о Индра, –
Приди, о самый сильный, дерзкий (бог)!
Да наполнит тебя сила Индры,
Как солнце – пространство (своими) лучами!
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥
इन्द्र॑म् । इत् । हरी॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् । ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥
अप्रतिधृष्टशवसं केनाप्य् अप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। इन्द्रमित् इन्द्रमेव ऋषीणां वसिष्ठादीनां मानुषाणाम् अन्येषां मनुष्याणां च स्तुतीः यज्ञं च हरी अश्वौ उप वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ' इति मनुशब्दात् अञ् पुगागमश्च ॥
“May his horses bear Indra, who is of irresistible prowess, to the praises and sacrifices of sages and of men.”
His pair of Tawny Coursers bring Indra of unresisted might
Hither to Rsis' songs of praise and sacrifice performed by men.
Indra his two steeds bear,
Him of unequalled strength,
To the praises of the Rsis and the sacrifice of men.
The two fallow bays convey Indra of irresistible strength
up to the praises of the seers and to the sacrifice of the sons of Manu.
Den Indra fährt das Füchsepaar, ihn, dessen Kraft unhemmbar ist, Hin zu der Sänger Lobgesang und zu der Menschen Opferwerk.
Den Indra, gegen dessen Stärke nicht anzukommen ist, fahren die beiden Falben her zu den Lobliedern der Rishi´s und zum Opfer der Menschenkinder.
Это Индру везут два буланых коня,
(Его,) против чьей силы не устоять,
К восхвалениям риши
И к жертвоприношению людей.
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
आ । ति॒ष्ठ॒ । वृ॒त्र॒ऽह॒न् । रथ॑म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ । अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । ग्रावा॑ । कृ॒णो॒तु॒ । व॒ग्नुना॑ ॥
हे वृत्रहन् शत्रूणां हन्तरिन्द्र रथम् आ तिष्ठ आरोह । यस्मात् ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। ते मनः त्वदीयं मनश्च ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः वग्नुना वचनीयेनाभिषवशब्देन अर्वाचीनम् अस्मदभिमुखं सु कृणोतु सुष्ठु करोतु ॥ युक्ता । ‘सुपां सुलुक्' इति आकारः । वग्नुना । ' वचेर्गश्च ' ( उ. सू. ३. ३१३ ) इति नुप्रत्ययो गकारश्चान्तादेशः ॥
“Slayer of Vṛtra, ascend your chariot, for your horses have been yoked by prayer; may the stone (that bruises the Soma) attract, by its sound, your mind towards us.”
Slayer of Vrtra, mount thy car; thy Bay Steeds have been yoked by prayer.
May, with its voice, the pressing-stone draw thine attention hitherward.
Mount thy car, O slayer of Vrtra;
Thy steeds are yoked by our prayer;
May the pressing-stone with its voice
Incline thy mind towards us.
Mount the chariot, Vr̥tra-smasher: your two fallow bays have been yoked with a sacred formulation.
Let the pressing stone with its call make your mind inclined hither.
Besteig' den Wagen, Vritrafeind; die Rosse hat Gebet geschirrt; Der Pressstein lenke deinen Sinn recht nahe her durch sein Getön.
Besteig den Wagen, o Vritratöter; deine Falben sind durch die erbauliche Rede angeschirrt! Der Preßstein soll durch sein Getöse doch ja deinen Sinn geneigt machen.
Взойди на колесницу, о убийца Вритры!
Запряжены молитвой два твоих буланых коня.
Да обратит сюда твою мысль
Давильный камень (своим) шумом!
इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् । शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ॑म् । अम॑र्त्यम् । मद॑म् । शु॒क्रस्य॑ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः॑ । ऋ॒तस्य॑ । साद॑ने ॥
हे इन्द्र सुतम् अभिषुतम् इमं सोमं पिब । कीदृशम् । ज्येष्ठम् अतिशयेन प्रशस्यं मदं मदकरं अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा ऋतस्य यज्ञस्य संबन्धिनि सदने गृहे वर्तमानाः शुक्रस्य दीप्तस्यास्य सोमस्य धाराः त्वाम् अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ' ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने' । छान्दसो लङ् ॥
“Drink, Indra, this excellent, immortal exhilarating libation, the dropf of which pellucid (beverage) flow towards you in the chamber of sacrifice.”
This poured libation, Indra, drink, immortal, gladdening, excellent.
Streams of the bright have flowed to thee here at the seat of holy Law.
Drink this soma here, Indra, the preeminent immortal exhilaration. The streams of the clear (soma) have flowed to you in the seat of truth.
O Indra, trinke diesen Saft, den besten Trank, der nie versiegt; Des klaren Soma Strom ergoss sich dir im Sitz des Heiligthums.
Trink, Indra, diesen ausgepreßten, den vorzüglichsten unsterblichen Rauschtrank! Die Ströme des klaren Soma flossen dir zu am Sitz der Opferordnung.
Пей, Индра, этот выжатый (сок),
Лучший бессмертный опьяняющий напиток!
К тебе потекли потоки прозрачного (сомы)
На сидение (вселенского) закона.
इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन । सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सह॑: ॥
इन्द्रा॑य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि॑ । च॒ । ब्र॒वी॒त॒न॒ । सु॒ताः । अ॒म॒त्सुः॒ । इन्द॑वः । ज्येष्ठ॑म् । न॒म॒स्य॒त॒ । सहः॑ ॥
हे ऋत्विजः इन्द्राय नूनं क्षिप्रम् अर्चत पूजनं कुरुत । एतदेव स्पष्टीक्रियते । उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि च ब्रवीतन ब्रूत। सुताः अभिषुताः इन्दवः सोमाः च अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु । अनन्तरं ज्येष्ठं प्रशस्यतमं सहः सहस्विनं बलवन्तं तमिन्द्रं नमस्यत नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोटि ‘ तप्तनप्तनथनाश्च ' इति तनबादेशः । अमत्सुः । ‘ मदी हर्षे '। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः । नमस्यत। नमोवरिवश्चित्रङ:०' इति क्यच् । सहः। ‘ लुगकारेकाररेफाश्च वक्तव्याः ' (पा. सू. ४. ४. १२८. २) इति मत्वर्थीयस्य लुक् ॥ ॥ ५ ॥
“Offer worship quickly to Indra; recite hymns (in his praise); let the effused drops exhilarate him; pay adoration to his superior strength.”
Sing glory now to Indra, say to him your solemn eulogies.
The drops poured forth have made him glad: pay reverence to his might supreme.
Chant now to Indra and speak solemn words.
The pressed drops have exhilarated him. Do homage to (his)
preeminent might.
Dem Indra singet Lieder nun, und sagt ihm eure Sprüche auf; Ihn hat berauscht der Indusaft, verehret seine höchste Kraft!
Dem Indra lobsinget jetzt und traget Lobgedichte vor! Die ausgepreßten Säfte haben ihn berauscht. Ehret seine höchste Macht!
Пойте сейчас для Индры
И произносите гимны!
Выжатые соки опьянили его.
Поклоняйтесь (его) высшей силе!
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से । नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकि॒: स्वश्व॑ आनशे ॥
नकिः॑ । त्वत् । र॒थीत॑रः । हरी॑ । यत् । इ॒न्द्र॒ । यच्छ॑से । नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥
हे इन्द्र यत् यस्मात् त्वं हरी एतत्संज्ञावश्वौ यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् रथीतरः अतिशयेन रथवान् नकिः नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । त्वा त्वामनुलक्ष्य मज्मना । बलनामैतत् । बलेन सदृशोऽपि नकिः न ह्यस्ति । स्वश्वः शोभनाश्वोऽन्यश्च त्वां नकिः आनशे न प्राप । इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्व्ोत् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ' इति षत्वम्। रथीतरः । अतिशयेन रथी । तरपि ‘ ईद्रथिनः ' ( पा. सू. ८. २. १७. १ ) इति ईकारान्तादेशः । अवग्रहसमये छान्दसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेन आत्मनेपदम् । स्वश्वः । बहुव्रीहौ ' आद्युदात्तं द्व्यच्छन्दसि । इत्युत्तरपदाद्युदात्तत्वम् । आनशे । ‘ अश्नोतेश्च' इति अभ्यासादुत्तरस्य नुट् ॥
“When, Indra, you harness your horses, there is no one a better charioteer than you; no one is equal to you in strength; no one, although well-horsed, has overtaken you.”
When, Indra, thou dost yoke thy Steeds, there is no better charioteer:
None hath surpassed thee in thy might, none with good steeds o'ertaken thee.
No one is a better charioteer than you, Indra, when you control your two fallow bays.
No one has reached you in greatness, not (even) one with good horses.
Kein bessrer Lenker ist als du, wenn Indra du die Füchse lenkst, An Grösse kommt dir keiner gleich, kein schneller Reiter holt dich ein.
Keiner ist ein besserer Wagenlenker, wenn du, Indra, die Falben zügelst. Keiner hat es dir an Macht gleichgetan, kein Rossetüchtiger.
Нет колесничего лучше тебя,
Когда, о Индра, ты правишь парой буланых коней.
Никто не достиг тебя величием,
Никто из имеющих прекрасных коней.
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥
यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ । ईशा॑नः । अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥
यः इन्द्रः एकः इत् एक एव दाशुषे हविर्दत्तवते मर्ताय मनुष्याय यजमानाय वसु धनं विदयते विशेषेण ददाति । अङ्ग इति क्षिप्रनाम । अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः सः इन्द्रः क्षिप्रम् ईशानः सर्वस्य जगतः स्वामी भवति । विदयते । ‘दय दानगतिरक्षणहिंसादानेषु' । शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते । यद्वृत्तयोगादनिघातः । अप्रतिष्कुतः । ‘कु शब्दे'। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः । पारस्करादेराकृतिगणत्वात् सुट् । सुषामादित्वात् षत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“He who alone bestows wealth upon the man who offers him oblations, is the undisputed sovereign, Indra--ho!”
He who alone bestoweth on mortal man who offereth gifts,
The ruler of resistless power, is Indra, sure.
He who alone apportions the goods to the pious mortal,
the unrepulsable master – (that’s) Indra indeed!
Der einzig reiches Gut ertheilt dem Sterblichen, der ihn verehrt, Der Herr, dem niemand widersteht, nur Indra ist's.
Der ganz allein dem opferspendenden Sterblichen Gut austeilt, der unbehinderte Gebieter ist einzig Indra:
Только тот единственный, кто раздает
Добро смертному, почитающему (его),
Властвуя беспрепятственно, (тот), в самом деле, Индра.
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् । क॒दा न॑: शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् । क॒दा । नः॒ । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥
अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवंविधं मर्तं मनुष्यम् इन्द्रः पदा पादेन क्षुम्पमिव अहिच्छत्रकमिव कदा स्फुरत् स्फुरिष्यति वधिष्यति । यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । “ स्फुरति स्फुलति' (नि. २. १९. १५) इति वधकर्मसु पठितत्वात्। नः अस्माकं यष्टॄणां गिरः स्तुतिलक्षणा वाचः इन्द्रः कदा कस्मिन्काले अङ्ग क्षिप्रं शुश्रवत् श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् - ‘क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग । अङ्गेति क्षिप्रनाम ' (निरु. ५, १७) इति ॥ पदा। पादशब्दस्य ‘पद्दन्' इत्यादिना पदादेशः । ‘ ऊडिदम्' इति विभक्तेः उदात्तत्वम् । क्षुम्पमिव । क्षुभ संचलने ' । अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः । वर्णव्यापत्त्या भकारस्य पकारः । स्फुरत् । स्फुर संचलने'। 'छन्दसि लुङ्ललिटः ' इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत् । श्रु श्रवणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः ॥
“When all he trample with his foot upon the man who offers no oblations, as if upon a coiled-up snake; when will Indra listen to our praises? ho!”
When will he trample, like a weed, the man who hath no gift for him?
When, verily, will Indra hear our songs of praise?
When will he kick the ungenerous mortal with his foot like a mushroom? When will he listen to our hymns? – Indra indeed!
Wer stösst den gabenlosen Mann mit Füssen wie Gestrüpp hinweg? Wer höret unsre Lieder an? nur Indra ist's.
Wann wird er den knauserigen Sterblichen wie einen Pilz mit dem Fuß wegstoßen? Wann wird er unsere Lobesworte hören, einzig Indra.
Когда скупого смертного
Он пнет ногою, словно гриб?
Когда наши песни услышит Индра, в самом деле?
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति । उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥
यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् । आ॒ऽविवा॑सति । उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥
बहुभ्यः मनुष्येभ्यः सकाशात् यश्चिद्धि य एव खलु यजमानः सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र त्वा त्वाम् आविवासति परिचरति । विवासतिः परिचरणकर्मा । तत् तस्मै यजमानाय यत् उग्रम् उद्गूर्णं शवः बलम् इन्द्रः अङ्ग क्षिप्रं पत्यते पातयति प्रापयति ॥ तत् । ‘ सुपां सुलुक्° ' इति चतुर्थ्याः लुक् । पत्यते । पत्लृ गतौ ' । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन् ॥
“Indra, grant formidable strength to him who worships him, having libations prepared--ho!”
He who with Soma juice prepared amid the many honours thee,--
Verily Indra gains thereby tremendous might.
For someone who has pressed soma seeks to entice you here, away from the many.
He has control of powerful strength – Indra indeed!
Denn wer von vielen Stätten auch als Somabringer her dich lockt, Von wem empfängt er starke Kraft? nur Indra ist's.
Denn wer auch bei gepreßtem Soma dich den vielen Wettbewerbern abzugewinnen sucht - diese gewaltige Macht besitzt einzig Indra.
Кто бы ни захотел, выжав (сому),
Отвоевать тебя у многих, –
Грозной силой этой владеет Индра, в самом деле.
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्व॑: पिबन्ति गौ॒र्य॑: । या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ । याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
स्वादोः स्वादुभूतस्य रसयुक्तस्य इत्था विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य मध्वः मधुररसस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं गौर्यः गौरवर्णा गावः पिबन्ति । याः गावः शोभसे शोभार्थं वृष्णा कामाभिवर्षकेण इन्द्रेण सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः मदन्ति हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः । वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः ॥ विषूवतः । ‘ विष्लृ व्याप्तौ ' । अस्मात् औणादिकः कुप्रत्ययः । ततो मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुपः उदात्तत्वम् । अन्येषामपि दृश्यते' इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ' घेर्ङिति' इति गुणाभावे यणादेशः । गौर्यः । ‘ षिद्भौरादिभ्यश्च ' इति ङीष् । जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः० ' इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः । ‘ या प्रापणे ' । आतो मनिन् ' इति वनिप् । वनो र च ' इति ङीब्रेफौ । मदन्ति । मदी हर्षे ' । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः । ‘ वस निवासे '। 'शॄस्वृस्निहि°' इत्यादिना वसेः उप्रत्ययः। ‘ धान्ये नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। ‘वोतो गुणवचनात् ' इत्यत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्' (का. ४. १. ४४. १) इति वचनात् वसुशब्दात् ङीपि यणादेशः । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । ‘अकर्मधारये राज्यम्' (पा. सू. ६. २. १३० ) इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ६ ॥
“The white cows drink of the sweet Soma thus poured forth, and associated with the bountiful Indra, for the sake of beauty, rejoice; abiding (in their stalls), they are expectant of his sovereignty.”
The juice of Soma thus diffused, sweet to the taste, the bright cows drink,
Who for the sake of splendour close to mighty Indra's side rejoice, good in their own supremacy.
The buffalo-cows drink just so of the sweet honey belonging to the (ritual) midpoint,
they who, fellow travelers with bullish Indra, become exhilarated for beauty—
– The good ones (cheer) on his sovereignty.214 I.85
Die Kühe trinken von dem Meth, dem süssen, welcher ringsum strömt, Sie, die dem Indra zugesellt, zur Lust sich letzen an dem Stier, lichthell in eigner Herrlichkeit.
Die Gaurikühe trinken von dem süßen Met, der daselbst der Mittelpunkt ist, die sich mit dem Bullen Indra als seine Begleiter ergötzen, um stattlich anzusehen. Die Guten jubeln seiner Selbstherrlichkeit zu.
Сладкий мед, находящийся в самой середине,
Пьют коровы-гаури,
Которые, идя вместе с Индрой –
Быком, опьяняются для красоты.
(Они,) благие, (ликуют) вслед его собственному царству.
ता अ॑स्य पृशना॒युव॒: सोमं॑ श्रीणन्ति॒ पृश्न॑यः । प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
ताः । अ॒स्य॒ । पृ॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः । प्रि॒याः । इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
ताः पूर्वोक्ताः अस्य इन्द्रस्य पृशनायुवः स्पर्शनकामाः पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं सोमं पयसा श्रीणन्ति मिश्रीकुर्वन्ति । इन्द्रस्य प्रियाः प्रीतिहेतुभूतास्ताः धेनवः सायकं शत्रूणामन्तकारकं वज्रम् आयुधं हिन्वन्ति शत्रुषु प्रेरयन्ति । इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः । अन्यत् पूर्ववत् ॥ हिन्वन्ति । हिविः प्रीणनार्थः। इदित्त्वात् नुम् । सायकम् । षो अन्तकर्मणि' । ण्वुलि आत्वे युगागमः ॥
“Desirous of his contact, those bridled cows dilute the Soma with their milk; the kine that are loved of Indra direct his destructive thunderbolt against his foes, abiding (in their stalls) expectant of his sovereignty.”
Craving his touch the dappled kine mingle the Soma with their milk.
The milch-kine dear to Indra send forth his death-dealing thunderbolt, good in their own supremacy.
These dappled ones, eager for caresses, prepare the soma for him. The milk-cows dear to Indra propel his mace, his missile.
– The good ones (cheer) on his sovereignty.
Die Schecken schmiegen lüstern sich an ihn, dem Soma beigemischt, Die Kühe, die dem Indra lieb, befördern ihm sein Blitzgeschoss, lichthell in eigner Herrlichkeit.
Nach ihm liebesbrünstig mischen die scheckigen Kühe den Soma; die lieben Milchkühe des Indra spornen die Keule, sein Wurfgeschoß an. Die Guten jubeln seiner Selbstherrlichkeit zu.
Ласкаясь к нему, эти
Пестрые (коровы) смешивают сому (со своим молоком).
Милые дойные коровы Индры
Погоняют (его) дубину-пращу.
(Они,) благие, (ликуют) вслед его собственному царству.
ता अ॑स्य॒ नम॑सा॒ सह॑: सप॒र्यन्ति॒ प्रचे॑तसः । व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः । व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
प्रचेतसः प्रकृष्टज्ञानाः ताः गावः अस्य इन्द्रस्य सहः बलं नमसा स्वकीयेन पयोरूपेणान्नैन सपर्यन्ति परिचरन्ति । पुरूणि बहूनि अस्य इन्द्रस्य व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि सश्चिरे सिषेविरे ज्ञायन्ते' इत्यर्थः । किमर्थम् । पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते' इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ॥ सश्चिरे। सश्च गतौ'। व्यत्ययेनात्मनेपदम् । पूर्वचित्तये । ‘ चिती संज्ञाने' । भावे क्तिन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
“These intelligent kine reverence his prowess with the adoration (of their milk); they celebrate his manly exploits as an example to later (adversaries); abiding (in their stalls), expectant of his sovereignty.”
With veneration, passing wise, honouring his victorious might,
They follow close his many laws to win them due preeminence, good in their
own supremacy.
They, forethoughtful, serve his might with reverence.
They follow his many commandments, to be first in his thought.
– The good ones (cheer) on his sovereignty.
Sie ehren seine Siegerkraft anbetend voller Achtsamkeit, Sie folgen seinen Satzungen, den mannichfachen auf den Wink, lichthell in eigner Herrlichkeit.
Sie huldigen ehrfürchtig seiner Macht, die Klugen; sie befolgen seine vielen Gebote, um seine erste Sorge zu sein. Die Guten jubeln seiner Selbstherrlichkeit zu.
Они, прозорливые, чтут
Поклонением его силу.
Они следуют его многочисленным
Заветам, чтобы быть его первой мыслью.
(Они,) благие, (ликуют) вслед его собственному царству.
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ ॥
इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः । ज॒घान॑ । न॒व॒तीः । नव॑ ॥
अत्र शाट्यायनिन इतिहासमाचक्षते - आथर्वणस्य दधीचो जीवतो दर्शनेनासुराः पराबभूवुः । अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रः तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्छन् स्वर्गं गत इति शुश्राव । अथ पप्रच्छ तत्रत्यान् नेह किमस्य किंचित्परिशिष्टमङ्गमस्तीति । तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । पुनरिन्द्रोऽब्रवीत् । तदन्विच्छतेति । तद्धान्वैषिषुः । तच्छर्यणावत्यनुविद्याजहुः । शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धै सरः स्यन्दते । तस्य शिरसोऽस्थिभिरिन्द्रोऽसुराञ्जघान' इति । अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इन्द्रः आथर्वणस्य दधीचः एतत्संज्ञकस्य ऋषेः अस्थभिः अश्वशिरःसंबन्धिभिरस्थिभिः नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि। लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा संपद्यते । त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव संपद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते। पुनः सात्विकादिगुणत्रयभेदेन त्रैगुण्ये सत्येकोत्तराशीतिः संपद्यते । एवं चतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यन्ते । एवंविधमायारूपाणि वृत्राणि आवरकाण्यसुरजातानि जघान हतवान् ॥ दधीचः । दधि अञ्चतीति दध्यङ्। अञ्चतेः ‘ ऋत्विक् ' इत्यादिना क्विन् । अनिदिताम्' इति नलोपः । षष्ठ्येकवचने ‘अचः ' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया • चौ ' इति पूर्वपदस्य अन्तोदात्तत्वं प्राप्तम् 'अञ्चेश्छन्दस्यसर्वनामस्थानम् ' ( पा. सू. ६. १. १७० ) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते । अस्थभिः । छन्दस्यपि दृश्यते' ( पा. सू. ७. १. ७६ ) इति अनजादावपि अस्थिशब्दस्य अनङादेशः स चोदात्तः ॥
“Indra, with the bones of Dadhīci, slew ninety times nine Vṛtras.”
With bones of Dadhyac for his arms, Indra, resistless in attack,
Struck nine-and-ninety Vrtras dead.
With the bones of Dadhyañc unrepulsable Indra
smashed the nine and ninety obstacles.
Mit Dadhiank's Gebeinen schlug, Indra, dem niemand widersteht, Die neunundneunzig Feinde todt.
Indra hat mit den Knochen des Dadhyanc unbehindert die neunmal neunzig Feinde erschlagen.
Индра костями Дадхьянча
Беспрепятственно убил
Девяносто девять врагов.
इ॒च्छन्नश्व॑स्य॒ यच्छिर॒: पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छर्य॒णाव॑ति ॥
इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् । तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥
पर्वतेषु पर्ववत्सु गिरिषु अपश्रितम् अपगत्य स्थितम् अश्वस्य अश्वसंबन्धि दधीचः यच्छिरः इच्छन् इन्द्रो वर्तते शर्यणावति एतत्संज्ञे सरसि तत् शिरः विदत् अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृचि संबन्धः ॥ इच्छन् । इषु इच्छायाम् ' । तुदादित्वात् शप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेः अङादेशः । शर्यणावति । शर्यणा नाम देशाः। तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठात् मध्वादिभ्यश्च ' (पा. सू. ४. २.८६) इति चातुरर्थिको मतुप् ।' संज्ञायाम्' इति मतुपो वत्वम् । 'मतौ बह्वचोऽनजिरादीनाम् ' (पा. सू. ६. ३. ११९ ) इति दीर्घः ॥
“Wishing for the horse's head hidden in the mountains, he found is Śaryaṇāvat.”
He, searching for the horse's head, removed among the mountains, found
At Saryanavan what he sought.
The head of the horse that he was seeking set away in the mountains, that he found in the reed-filled (lake?).
Verlangend nach des Rosses Haupt, das in den Bergen sich versteckt, Fand er's am somareichen Ort.
Als er den Kopf des Pferdes, der im Gebirg versteckt war, suchte, fand er ihn in Saryanavat.
Ища голову коня,
Которая была спрятана в горах,
Он нашел ее у Шарьянавата.
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् । इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥
अत्राह अस्मिन्नेव गोः गन्तुः चन्द्रमसो गृहे मण्डले त्वष्टुः दीप्तस्यादित्यस्य संबन्धि अपीच्यं रात्राव् अन्तर्हितं स्वकीयं यत् नाम तेजः तदादित्यस्य रश्मयः इत्था इत्थमनेन प्रकारेण अमन्वत अजानन् ।
उदकमये स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति ।
तत्र प्रतिफलिताः किरणाः
सूर्ये यादृशीं संज्ञां लभन्ते,
तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः ।
एतद् उक्तं भवति ।
यद् रात्रावन्तर्हित सौरं तेजस् तच्चन्द्र मण्डलं प्रविश्य
अहनीव नैशं तमो निवार्य सर्वं प्रकाशयति ।
ईदृग्-भूत-तेजसा युक्तः सूर्यश् च इन्द्र एव
द्वादशस्व् आदित्येष्व् इन्द्रस्यापि परिगणितत्वात् ।
अतोऽहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्र-स्तुतेः प्रतीयमानत्वाद्
इन्द्रो देवतेत्य् एतद् उपपन्नं भवति ।
ईदृग्-भूतस्य तेजस आश्रयत्वेन
चन्द्रमसः प्राधान्य-विवक्षया चान्द्रमस्याम् इष्टौ विनियोगो ऽप्य् उपपद्यते ।
अत्र निरुक्तम् -
> अथाप्य् अस्यैको रश्मिश् चन्द्रमसं प्रति दीप्यते।
तद् एतेनोपेक्षितव्यम्।
आदित्यतोऽस्य दीप्तिर् भवतीति ।
"सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व" इत्यपि निगमो भवति ।
सोऽपि गौर् उच्यते ।
> 'अत्राह गौरमन्वतेति' (निरु. २. ६.),
> ‘ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यम् अपचितम् अपगतम् अपिहितम् अन्तर्हितं वा ' ( निरु. ४. २५ )
इति ॥
अमन्वत । “ मनु अवबोधने' ।
अपीच्यम् । अपपूर्वात् चिनोतेः “ अघ्न्यादयश्च' ( उ. सू. ४. ५५१) इति निपातनात् यत् । अत एवाभिमतरूपसिद्धिः। यद्वा । अपिपूर्वात् अञ्चतेः “ ऋत्विक्° ' इत्यादिना क्विन् ।' अनिदिताम्' इति नलोपः । अपिगते निगते भवमपीच्यम् । ‘भवे छन्दसि ' इति यत् । ‘ अचः' इति अकारलोपे ‘ चौ ' इति दीर्घत्वम् । तित्स्वरितः । ‘ अपीच्योऽप्रकाशः' इति भट्टभास्करमिश्रः । इत्था । इदंशब्दात् ' था हेतौ च च्छन्दसि । इति प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दो नानुवर्तते" तदानीम् इदमस्थमुः ' ( पा. सू. ५. ३. २४ ) इति थमुप्रत्ययः । अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इति सुब्लुकं बाधित्वा ‘सुपां सुलुक्' ' इति डादेशः । चन्द्रमसः । चन्द्रमाह्लादनं मिमीते निर्मिमीते इति चन्द्रमाः। ‘चन्द्रे माङो डित् ' ( उ. सु. ४.६६७ ) इति असिप्रत्ययः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च ‘स्फायितञ्चि' ' इत्यादिना रक्प्रत्ययान्तमन्तोदात्तम् ॥ ॥७॥
“The (solar rays) found on this occasion the light of Tvaṣṭā verily concealed in the mansion of the moving moon.”
Then verily they recognized the essential form of Tvastar's Bull,
Here in the mansion of the Moon.
Right there they thought of the secret name of the cow of Tvaṣṭar— likewise in the house of the moon.
Dort fanden sie das Wesen auf des Stiers, den Tvaschtar hielt versteckt. Dort endlich in des Mondes Haus.
Da erinnerten sie sich an den geheimen Namen der Kuh des Tvastri daselbst im Hause des Mondes
Тут и вспомнили они
Тайное имя коровы Тваштара,
(Которая находилась) как раз в доме луны.
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् । आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुःऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् । ह॒त्सु॒ऽअसः॑ । म॒य॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥
अद्य अस्मिन् कर्मणि ऋतस्य गच्छतः इन्द्रसंबन्धिनो रथस्य धुरि अश्ववहनप्रदेशे गाः गतिमतोऽश्वान् कः युङ्क्ते को नाम नियोक्तुं शक्नोति । न कोऽपीत्यर्थः । कीदृशानश्वान् । शिमीवतः वीर्यकर्मोपेतान् भामिनः तेजसा युक्तान् दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान् । हृणीयतिः क्रुध्यतिकर्मा । असन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान हृत्स्वसः । हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं पादं क्षिपन्तीति हृत्स्वसः। मयोभून् मयसः सुखस्य भावयितॄन्। स्वकीयानां सुखप्रदानित्यर्थः । यः यजमानः एषाम् ईदृशानामश्वानां भृत्यां भरणक्रियां रथवाहनक्रियाम् ऋणधत् समर्धयति स्तौतीति यावत् । सः यजमानः जीवात जीवनवान्भवेत् ॥ यद्वा । क इति प्रजापतिरुच्यते । ‘ को वै नाम प्रजापतिः' इति श्रुतेः । ऋतस्य यज्ञस्य धुरि निर्वाहे गा वेदरूपान् वाग्विशेषान् अद्येदानीं युङ्क्ते संयोजयति । कीदृशान् । शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिनः उज्ज्वलान् दुहृणायून् । हृणीयतिर्हानिकर्मा । हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात्। आसन्निषून् आसनि आस्ये इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान् । प्रकाशमानानित्यर्थः । मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितॄन् । यो यजमान एषां वचसां भृत्यां भरणक्रियाम् ऋणधत् ऋद्धिमतीं करोति स जीवात् स एव जीवति । अन्ये जीवन्मृता इत्यर्थः ॥ दुर्हृणायून् । “ हृणीङ् लज्जायाम् ' । कण्ड्वादित्वात् यक् । बहुलवचनात् अस्मात् उण्प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः । आसन्निषून! ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘ इष गतौ ' इत्यस्मात् “ इषेः किच्च' (उ. सू. १. १३ ) इति उप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हृत्स्वसः। असु क्षेपणे '। अस गतिदीप्त्यादानेषु । ‘ क्विप् च ' इति क्विप् ।' तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । मयोभून् । व्यत्ययेन ह्रस्वत्वम् । यद्वा । ‘ मितद्र्वादिभ्य उपसंख्यानम् ' ( पा. सू. ३. २. १८०, १ ) इति डुप्रत्ययः । भृत्याम् । भृञ् भरणे '। ‘ संज्ञायां समजनिषद° ' ( पा. सू. ३. ३. ९९ ) इति क्यप् । ‘ उदात्तः' इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम् । ऋणधत् । ‘ ऋधु वृद्धौ '। लेटि व्यत्ययेन श्नम् । ‘ लेटोऽडाटौ ' इति अड़ागमः । ‘ इतश्च लोपः' इति इकारलोपः । जीवात् । ‘ जीव प्राणधारणे'। पूर्ववत् लेटि आडागमः ॥
“Who yokes todya to the pole of the car (of Indra) his vigorous and radiant steeds, whose fury is unbearable, in whose mouths are arrows, who trample on the hearts (of enemies), who give happiness (to friends). (The sacrificer) who praises their (performance of their) duties obtains (long) life.”
Who yokes to-day unto the pole of Order the strong and passionate steers of checkless spirit,
With shaft-armed mouths, heart-piercing, health-bestowing?
Long shall he live who richly pays their service.
Who today yokes the cattle to the chariot-pole of truth—the vehement, wrathful, very angry ones,
with arrows in their mouths, shooting at the heart, but embodying joy? Whoever will succeed in bringing them, he will live.
Wer schirrt ans Joch des Opfers heut die Stiere, die kräftig sind, voll regen Eifers, strahlend, Im Munde Pfeile, herzverwundend, labend? Wer recht sie pflegt, der muss am Leben bleiben.
Wer schirrt heute die Rinder an das Joch der Opferordnung, die heftigen grimmigen, ungnädigen, die Pfeile im Munde führen, die ins Herz treffen und doch heilsam sind? Wem ihre Pflege glückt, der soll leben.
Кто сегодня впрягает в дышло быков закона,
Буйных, гневных, злонравных,
Со стрелами в пасти, пронзающих сердца, (и тем не менее) благодатных?
Кто удачно будет им служить, тот будет жить.
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ । कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ । कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥
अनुग्रहीतरि इन्द्रे आगते सति क ईषते शत्रोर्भीतः सन् को निर्गच्छति न कोऽपीत्यर्थः । कः तुज्यते को हिंस्यते शत्रुभिर्हिंस्योऽपि कश्चिन्नास्तीत्यर्थः । कः यजमानः बिभाय बिभेति । इन्द्रे रक्षके सति भयमपि नोत्पद्यते दुरे तस्य शत्रुकृता हिंसा । अन्ति अन्तिके समीपे सन्तम् अस्माकं रक्षकत्वेन वर्तमानम् इन्द्रं कः पुरुषः मंसते जानाति । वयमेव जानीमो नान्यः इत्यर्थः । एकः कः पूरकः । युद्धे सहायार्थमिन्द्रे अगते सति कः यजमानः तोकाय पुत्राय अधि ब्रवत् । हे इन्द्र अस्मदीयं पुत्रं रक्षेत्येवंरूपमधिवचनं पक्षपातेन वचनम् । ब्राह्मणायाधिब्रूयात्' इति यथा । एवंरूपमधिवचनं को यजमानः कुर्यात् । स्वयमेवेन्द्रो रक्षतीति भावः । इभाय गजाय कः अधि ब्रवत् । उत अपि च राये शत्रुभिरपह्रियमाणाय धनाय कः अधि ब्रवत् । अपह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचनमपि को यजमानः कुर्यात् । न कोऽपीत्यर्थः । अपि च तन्वे स्वकीयाय शरीराय जनाय परिजनाय च कः अधि ब्रवत् । स्वशरीररक्षार्थं परिजनरक्षार्थं चेन्द्रस्याधिवचनं नापेक्षितम् । स्तुत्या प्रीत इन्द्रः स्वयमेव रक्षतीत्यर्थः । यदा तु कशब्दाभिधेयस्य प्रजापतेः संबन्धिनि कर्मणि विनियोगः तदानीं परमैश्वर्ययोगादिन्द्रशब्देन प्रजापतिरेवाभिधीयते । यथा “ ऐन्द्र्या गार्हपत्यमुपतिष्ठते ' इति विनियोगानुसारेण कदा चन ' इत्यस्यामृचि विद्यमान इन्द्रो गार्हपत्यपरतया नीयते तद्वत् ॥ ईषते । ईष गतिहिंसादर्शनेषु' । भौवादिक आत्मनेपदी । तुज्यते । “ तुज हिंसायाम् । कर्मणि यक् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । अतिङः' इति पर्युदासात् निघाताभावः। मंसते। लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । अन्ति । अन्तिकस्य कादिलोपो बहुलम्' इति कलोपः । ब्रवत् । ब्रवीतेर्लेटि अडागमः । तन्वे । तनुशब्दाच्चतुर्थ्येकवचने ‘ जसादिषु च्छन्दसि वावचनम् ' इति • घेर्ङिति' इति गुणाभावे यणादेशः । ‘ उदात्तस्वरितयोर्यणः० ' इति विभक्तेः स्वरितत्वम् ॥
“Who goes forth, (through dread of foes, when Indra is at hand); who is harmed (by his enemies); who is terrified; who is aware that Indra is present, who that he is night? What need is there that any one should importune Indra for his son, his elephant, his property, his person n, or his people?”
Who fleeth forth? who suffereth? who feareth? Who knoweth Indra present, Indra near us?
Who sendeth benediction on his offspring, his household, wealth and person, and the People?
Who retreats and who is thrust back? Who is fearful? Who might think Indra exists? Who (might think he is) nearby?
Who will speak for offspring, who for a retinue and for wealth? Who will speak on behalf of himself, on behalf of his people?
Wer flieht und eilt? wer fürchtet? wer erkennet des Indra Dasein? wer hat ihn vor Augen? Wer legt ans Herz ihm Kind, Gesinde, Habe? wer ihm das eigne Leben? wer die Leute?
Wer weicht, wer flieht, wer hat Furcht? Wer meint wohl, daß Indra ist, daß er gegenwärtig? Wer wird für Kinder, für Elefanten und Reichtum, wer für die eigene Person und für die Leute Fürsprecher sein?
Кто бросается прочь, мучается? Кто боится?
Кто будет думать, есть ли Индра? Кто – близко (ли он)?
Кто замолвит слово за потомство? Кто за челядь и за богатство?
Кто за самого себя (и) за людей?
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभि॑: । कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
कः । अ॒ग्निम् । ई॒ट्टे॒ । ह॒विषा॑ । घृ॒तेन॑ । स्रु॒चा । य॒जा॒तै॒ । ऋ॒तुऽभिः॑ । ध्रु॒वेभिः॑ । कस्मै॑ । दे॒वाः । आ । व॒हा॒न् । आ॒शु । होम॑ । कः । मं॒स॒ते॒ । वी॒तिऽहो॑त्रः । सु॒ऽदे॒वः ॥
कः यजमानः अग्निम् ईट्टे इन्द्रार्थं हविर्निरुप्याग्निं स्तौति । इन्द्राय हविर्निर्वापोऽपि सम्यक्कर्तुं न शक्यते । इन्द्रस्य दुर्विज्ञानत्वात् । को वा इन्द्रयागर्थमग्निं स्रुचा जुह्वा ध्रुवेभिः ध्रुवैर्नित्यैः ऋतुभिः वसन्तदकालैरुपलक्षितेन घृतेन हविषा यजातै यजेत् । यद्वा । ऋतवः प्रयाजदेवताः । ‘ऋतवो वै प्रयाजाः' ( तै.सं.१.६.११.५ ) इति श्रुतेः । ताभिः ध्रुवैः प्रकृतौ विकृतौ च अनुष्ठेयतया निश्चलैर्ऋतुभिः सह अग्निमाज्यभागदेवतां घृतेन हविषा को यजेत् । न कोऽपीत्यर्थः । कस्मै यजमानाय होम ह्वातव्यं प्रशस्यं धनम् आशु शीघ्रं देवाः आ वहान् आवहन्ति प्रयच्छन्ति । न कस्मा अपीत्यर्थः । इन्द्र एव धनस्य दाता नान्ये देवा इति इन्द्रः स्तूयते। वीतिहोत्रः प्राप्तयज्ञः सुदेवः शोभनदेवताकः कः यजमानः मंसते इन्द्रं सम्यग्जानाति । न कोऽपीत्यर्थः । बहुविधेन स्तोत्रेण चिरकालोपासनेन चेन्द्रः प्रत्यक्षो भवति नान्येन प्रकारेणेति तात्पर्यार्थः ॥ ईट्टे ।' ईड स्तुतौ । अदादित्वात् शपो लुक् । स्रुचा ।' सावेकाचः ' इति विभक्तेरुदात्तत्वम् । यजातै । यजतेर्लेटि आडागमः । वैतोऽन्यत्र ' इति ऐकारः । वहान् । वहतेर्लेटि आडागमः । ‘ इतश्च लोपः० ' इति इकारलोपः । ‘ संयोगान्तस्य° ' इति तकारलोपः । होम । ह्वयतेः कृतात्वस्य ‘ अतो मनिन् ' इति मनिन् । ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । यद्वा । ‘ नामन्सीमन्°' ( उ. सू. ४. ५९० ) इत्यादौ होमञ्शब्दो मनिन्प्रत्ययान्तो निपात्यते । मंसते । “ मन ज्ञाने'। लेटि अडागमः। ‘ सिब्बहुलं लेटि' इति सिप् । वीतिहोत्रः । वी गत्यादिषु । अस्मात् कर्मणि ' मन्त्रे वृष ' इत्यादिना क्तिन् स चोदात्तः । होत्रं होमः । ‘ हुयामाश्रुभसिभ्यस्त्रन् ' ( उ. सू. ४. ६०७ ) इति त्रन्प्रत्ययः। वीतिः प्राप्तो होमो येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुदेवः । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्॥
“Who praises the (sacrificial) fire, (lighted for Indra), or worships him with the oblation of clarified butter, presented in the ladle, according to the constant seasons? To whom do the gods quickly bring (the wealth) that has been called for? What sacrificer, engaged in offering oblations and favoured by the gods, thoroughly knows Indra?”
Who with poured oil and offering honours Agni, with ladle worships at appointed seasons?
To whom to the Gods bring oblation quickly? What offerer, God-favoured, knows him thoroughly?
Who reverently invokes Agni with oblation and ghee? (Who)
will perform sacrifice with a ladle according to the fixed ritual
sequences?
For whom will the gods swiftly convey the offering here? Who might think himself a man whose oblations are worth pursuing, who has
gods well on his side?
Wer ehrt mit fettem Opferguss den Agni, mit Löffeln opfernd zu den festen Zeiten? Wem führen starke Tränke zu die Götter? wer gilt den Göttern lieb zum Mahl sie ladend?
Wer ruft den Agni mit Schmalzopfer an und will mit dem Löffel zu den bestimmten Zeiten opfern? Für wen werden die Götter rasch zu dem Opfer fahren? Wer, der das Hotri-Amt besorgt, darf sich für einen Götterliebling halten?
Кто призывает Агни жертвенным возлиянием, жиром?
Кто будет ложкой приносить жертву в урочное время?
К кому на жертвоприношение быстро будут приезжать боги?
Кто, принеся жертву, будет считать себя любимцем богов?
त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वच॑: ॥
त्वम् । अ॒ङ्ग । प्र । शं॒सि॒षः॒ । दे॒वः । श॒वि॒ष्ठ॒ । मर्त्य॑म् । न । त्वत् । अ॒न्यः । म॒घ॒ऽव॒न् । अ॒स्ति॒ । म॒र्डि॒ता । इन्द्र॑ । ब्रवी॑मि । ते॒ । वचः॑ ॥
अङ्ग इति अभिमुखीकरणे । अङ्ग शविष्ठ हे बलवत्तमेन्द्र देवः द्योतमानः त्वं मर्त्यं मरणधर्माणं त्वां स्तुतवन्तं पुरुषं प्र शंसिषः । सम्यगनेन स्तुतम् इति प्रशंस । हे मघवन् धनवन इन्द्र त्वदन्यः त्वत्तोऽन्यः कश्चित् 'मर्डिता सुखयिता न अस्ति । अतः कारणात् ते तुभ्यमिदं स्तुतिलक्षणं वचः ब्रवीमि उच्चारयामि ॥ शंसिषः । ‘ शंसु स्तुतौ '। लेटि सिपि अडागमः । ‘ सिब्बहुलं लेटि' इति विकरणश्च सिप् । तस्य अर्धधातुकत्वात् इडागमः। शविष्ठ । अतिशयेन शवस्वी शविष्ठः । इष्ठनि ‘ विन्मतोर्लुक्'। ‘ टेः ' इति टिलोपः । मर्ङिता । ‘मृड सुखने '। तृचः इडागमः ॥
“Powerful, Indra, be present and be favourable to the mortal (who adores you); there is no other giver of felicity, Maghavan, than you; hence, Indra, I recite your praise.”
Thou as a God, O Mightiest, verily blessest mortal man.
O Maghavan, there is no comforter but thou: Indra, I speak my words to thee.
Surely you, (though) a god, will solemnly praise the mortal, o
strongest one.
There is no other dispenser of mercy than you, bounteous one. Indra, I say this speech to you:
Ermuntern mögest stärkster du, der Gott du bist, den Sterblichen; Kein andrer übt Erbarmen als du, mächtiger; dir Indra sage ich dies Wort.
Du allein, der Gott, wirst den Sterblichen beloben, du Mächtigster. Nicht ist ein anderer Erbarmer außer dir, du Freigebiger. Dir, Indra, sage ich das Wort:
Это ведь ты должен прославить
Смертного, (ты-) бог, о сильнейший!
Нет другого, кто пожалеет, как ты, о щедрый.
О Индра, я говорю тебе это слово.
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् । विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
मा । ते॒ । राधां॑सि । मा । ते॒ । ऊ॒तयः॑ । वसो॒ इति॑ । अ॒स्मान् । कदा॑ । च॒न । द॒भ॒न् । विश्वा॑ । च॒ । नः॒ । उ॒प॒ऽमि॒मी॒हि । मा॒नु॒ष॒ । वसू॑नि । च॒र्ष॒णिऽभ्यः॑ । आ ॥
हे वसो निवासयितरिन्द्र ते तव संबन्धीनि राध्नोत्येभिरिति राधांसि भूतानि अस्मान् कदा चन कदाचिदपि मा दभन् मा विनाशयन्तु। तथा ऊतयः गन्तारः । यद्वा । धूतयः' इत्यत्र वर्णलोपः । धूतयः कम्पयितारः ते त्वदीया मरुतश्च मा दभन् । हे मानुष मनुष्यहितेन्द्र चर्षणिभ्यः मन्त्रद्रष्टृभ्यः नः अस्मभ्यं विश्वा विश्वानि सर्वाणि वसूनि धनानि च आ उपमिमीहि सर्वत आहृत्यास्मत्समीपे कुरु। सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ कदा । किंशब्दात् ‘सर्वैकान्यकिंयत्तदः काले दा' (पा.सू. ५.३, १५) इति दाप्रत्ययः। ‘किमः कः' इति कादेशः। व्यत्ययेन आद्युदात्तत्वम्। दभन्। ‘ दम्भु दम्भे'। लोडर्थे छान्दसे लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘न माङ्योगे ' इति अडभावः । मिमीहि । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । हेर्ङित्त्वात् घुमास्था' इति ईत्वम् ॥ ८॥ ॥ १३ ॥
“Granter of dwellings, let not your treasury, let not your benefits, ever be detrimental to us. Friend of mankind, bring to us, who are acquainted with prayers, all sorts of riches.”
Let not thy bounteous gifts, let not thy saving help fail us, good Lord, at any time;
And measure out to us, thou lover of mankind, all riches hitherward from men.
Let not your benefits, nor your help, good one, ever cheat us.
And mete out to us all goods coming from the settled domains, you who belong to the descendants of Manu.
Nie mögen deine Gaben, deine Hülfen nie im Stich uns lassen, gütiger! Und alle Güter miss, o menschenfreundlicher, uns und der ganzen Menschheit zu.
Nicht sollen uns deine Gaben, nicht deine Hilfen jemals täuschen, du Guter. Und weise uns von allen Völkern alle Güter zu, du Menschenfreund!
Ни твои дары, ни поддержки твои, о Васу,
Никогда нас не обманут.
И надели нас, о дружелюбный к людям, всем
Достоянием (других) народов!