प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नव॑: सु॒दंस॑सः । रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
प्र । ये । शुम्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रु॒द्रस्य॑ । सू॒नवः॑ । सु॒ऽदंस॑सः । रोद॑सी॒ इति॑ । हि । म॒रुतः॑ । च॒क्रि॒रे । वृ॒धे । मद॑न्ति । वी॒राः । वि॒दथे॑षु । घृष्व॑यः ॥
ये मरुतः यामन् यामनि गमने निमित्तभूते सति प्र शुम्भन्ते प्रकर्षेण स्वकीयान्यङ्गानि अलंकुर्वन्ति जनयो न जाया इव । यथा योषितः स्वकीयान्यङ्गान्यलंकुर्वन्ति तद्वत् । कीदृशा मरुतः । सप्तयः सर्पणशीलाः रुद्रस्य सूनवः । रोदयति सर्वमन्तकाले इति रुद्रः परमेश्वरः । तस्य पुत्राः । सुदंससः शोभनकर्माणः । एतदेवोपपादयति । हि यस्मात् मरुतः रोदसी द्यावापृथिव्यौ वृधे वृष्टिप्रदानादिना वर्धनाय चक्रिरे कृतवन्तः । अतः सुदंसस इत्यर्थः । वीराः विशेषेण शत्रुक्षेपणशीलाः घृष्वयः घर्षणशीलाः । महीरुहशिलोच्चयादेर्भञ्जका इत्यर्थः । एवंभूतास्ते मरुतः विदथेषु । विदन्त्येषु यष्टव्यतया देवानिति विदथा यज्ञाः। तेषु मदन्ति सोमपानेन हृष्यन्ति ॥ शुम्भन्ते । शुभ शुम्भ दीप्तौ' । भौवादिकः । जनयः । जायन्ते आस्वपत्यानीति जनयो जायाः। ‘ इन्सर्वधातुभ्यः इति इन्प्रत्ययः । यामन् । ‘ या प्रापणे ' । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् “ आतो मनिन्’ इति भावे मनिन् ।' सुपां सुलुक्° ' इति सप्तम्याः लुक् । सुदंससः । दंसः इति कर्मनाम । शोभनं दंसो येषाम् । सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । चक्रिरे । ‘ हि च' इति निघातप्रतिषेधः । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाचः' इति विभक्तेरुदात्तत्वम् । मदन्ति । मदी हर्षे '। श्यनि प्राप्त व्यत्ययेन शप् । पादादित्वात् निघाताभावः । विदथेषु । ‘ विद ज्ञाने । ‘ रुविदिभ्यां कित्' इति अथप्रत्ययः । घृष्वयः । ‘ घृषु संघर्षे '। ‘ कृविघृष्वि° । इत्यादिना विन्प्रत्ययान्तो निपात्यते ॥
“The Maruts who are going forth decorate themselves like feminine les; they are gliders (through the air), the sons of Rudra, and doers of good works by which they promote the welfare of earth and heaven; heroes, who grind (solid rocks), they delight in sacrifices.”
THEY who are glancing forth, like women, on their way, doers of mighty deeds, swift racers, Rudra's Sons,
The Maruts have made heaven and earth increase and grow: in sacrifices they delight, the strong and wild.
Those who go forth in beauty like wives, spanned together on their journey, the sons of Rudra, possessing wondrous power—
for the Maruts made the two world-halves grow strong—the heroes reach exhilaration, eager at the rites.
Des Rudra Söhne, die an Wunderthaten reich auf ihrer Fahrt schön prangen wie gescharte Fraun, Die Maruts sind's, die Erd' und Himmel segneten, die lust'gen Helden freuen bei den Festen sich.
Die sich wie Frauen schön machen, die Gespanne auf der Fahrt, die guteswirkenden Rudrasöhne - denn die Marut haben beide Welten hochgebracht - die Männer berauschen sich an den weisen Reden, darauf begierig.
Те, кто украшает себя, как женщины, (как) упряжки
В дорогу, сыновья Рудры, совершающие прекрасные деяния, -
Ведь это Маруты создали оба мира, чтобы они крепли -
(Эти) мужи опьяняются на жертвенных собраниях, дрожа (от нетерпения).
त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सद॑: । अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥
ते । उ॒क्षि॒तासः॑ । म॒हि॒मान॑म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः॑ । अधि॑ । च॒क्रि॒रे॒ । सदः॑ । अर्च॑न्तः । अ॒र्कम् । ज॒नय॑न्तः । इ॒न्द्रि॒यम् । अधि॑ । श्रियः॑ । द॒धि॒रे॒ । पृश्नि॑ऽमातरः ॥
ये पूर्वोक्तगुणविशिष्टाः ते मरुतः उक्षितासः देवैरभिषिक्ताः सन्तः महिमानं महत्त्वम् आशत आप्नुवन् । रुद्रासः रुद्रस्य पुत्राः । उपचारज्जन्ये जनकशब्दः । ते रुद्रपुत्रा मरुतः दिवि द्योतमाने नभसि सदः सदनं स्थानम् अधि चक्रिरे अधिकं सर्वोत्कृष्टं कृतवन्तः । अर्कम् अर्चनीयमिन्द्रम् अर्चन्तः पूजयन्तः इन्द्रियम् इन्द्रस्य लिङ्गं वीर्यं जनयन्तः । प्रहर भगवो जहि वीरयस्व' ( ऐ. ब्रा. ३. २०) इत्येवंरूपेण वाक्येनोत्पादयन्तः । पृश्निमातरः पृश्नेर्नानारूपाया भूमेः पुत्रा मरुतः श्रियः ऐश्वर्याणि अधि दधिरे आधिक्येनाधारयन् ॥ उक्षितासः । उक्ष सेचने '। कर्मणि निष्ठा । ‘ आज्जसेरसुक्'। महिमानम्। महच्छब्दात् पृथ्वादिलक्षण इमनिच् । ‘टेः' इति टिलोपः । आशत । अशू व्याप्तौ । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । इन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टम् ' (पा. सू. ५, २. ९३ ) इति घच्प्रत्ययान्तो निपात्यते । पृश्निमातरः । प्राश्नुते सर्वाणि रूपाणीति पृश्निर्भूमिः । श्रूयते च - ‘ इयं वै पृश्निः ' ( तै. ब्रा. १. ४. १. ५) इति । ‘ घृणिः पृश्निः' इत्यादौ निपातनात् अभिमतरूपसिद्धिः । पृश्निर्माता येषां ते तथोक्ताः । ‘ ऋतश्छन्दसि' (पा. सू. ५. ४. १५८ ) इति समासान्तस्य कपः प्रतिषेधः ॥
“They, inaugurated by the gods, have attained majesty; the sons of Rudra have established their dwelling above the sky; glorify him (Indra) who merits to be glorified, they have inspired him with vigour; the sons of Pṛśni have acquired dominion.”
Grown to their perfect strength greatness have they attained; the Rudras have established their abode in heaven.
Singing their song of praise and generating might, they have put glory on, the Sons whom Prsni bare.
Once grown, they attained greatness: the Rudras made their seat in heaven. Chanting their chant, generating Indra’s strength, they whose mother is Pr̥śni put on their splendors.
Erwachsen haben hohe Grösse sie erreicht, am Himmel schufen sich die Rudra's ihren Sitz; Der Priçni Söhne legten schönen Schmuck sich an, Gesänge singend und erzeugend Indrakraft.
Herangewachsen sind sie zur Größe gelangt; die Rudrasöhne haben sich im Himmel einen Sitz erworben. Ihren Preisgesang singend und die indrische Kraft weckend haben die Söhne der Prisnimutter ihre Prunkstücke angelegt.
Возмужав, они достигли величия.
На небе создали себе сидение Рудры.
Поющие песню, порождающие силу Индры,
Они, чья мать – Пришни, надели на себя украшения.
गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः । बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥
गोऽमा॑तरः॑ । यत् । शु॒भय॑न्ते । अ॒ञ्जिऽभिः॑ । त॒नूषु॑ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म॑तः । बाध॑न्ते । विश्व॑म् । अ॒भि॒ऽमा॒तिन॑म् । अप॑ । वर्त्मा॑नि । ए॒षा॒म् । अनु॑ । री॒य॒ते॒ । घृ॒तम् ॥
गोमातरः गोरूपा भूमिर्माता येषां ते मरुतः अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः यत् यदा शुभयन्ते स्वकीयान्यङ्गानि शोभायुक्तानि कुर्वन्ति तदानीं शुभ्राः दीप्ता मरुतः तनूषु स्वकीयेषु शरीरेषु विरुक्मतः विशेषेण रोचमानानलंकारान् दधिरे धारयन्ति । अपि च विश्वं सर्वम् अभिमातिनं शत्रुम् अप बाधन्ते हिंसन्ति । एषां मरुतां वर्त्मनि मार्गाननुसृत्य घृतं क्षरणशीलमुदकं रीयते स्रवति । यत्र मरुतो गच्छन्ति वृष्ट्युदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः ॥ शुभयन्ते। संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः । अञ्जिभिः। ‘ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ।' खनिकषिकस्यञ्ज्यसिवसिध्वनिस्तनिवनिसनिग्रन्थिचरिभ्यश्च ' ( उ. सू. ४.५७९ ) इति इप्रत्ययः । शुभ्राः । ‘ शुभदीप्तौ ।' स्फायितञ्चि° ' इत्यादिना रक् । विरुक्मतः । विशिष्ट रुक् विरुक् । तद्वन्तो विरुक्मन्तः । मतुपि अयस्मयादित्वेन पदत्वात् कुत्वम् । भत्वात् जश्त्वाभावः। रीयते। ‘री स्रवणे' । दैवादिकः ॥
“When the sonf of earth embellish themselves with ornaments, they shine resplendent in their person ns with (brilliant) decorations; they keep aloof every adversary; the waters follow their path.”
When, Children of the Cow, they shine in bright attire, and on their fair limbs lay their golden ornaments,
They drive away each adversary from their path, and, following their traces, fatness floweth down,
When those whose mother is a cow beautify themselves with unguents, the beautiful ones put radiant (ornaments) on their bodies.
They thrust away every antagonist. Ghee flows along their tracks.
Wenn sich mit Schmuck die kuhentsprossenen versehn dann legen glänzend sie sich helle Waffen an Und stossen jeden Widersacher von sich fort, und fette Butter strömet ihren Pfaden nach.
Wenn sich die Kuhgeborenen mit ihrem Zierrat schön machen, dann haben die Schönen strahlende Geschmeide an ihre Leiber gesteckt. Jeden Feind treiben sie hinweg. Schmalz fließt ihre Bahnen entlang.
Когда те, чья мать – корова, украшают себя блестящими драгоценностями,
Сверкающие, они надевают на себя искрящиеся (украшения).
Они гонят прочь любого преследователя.
Жир струится вслед за ними на (их) пути.
वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभि॑: प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा । म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातास॒: पृष॑ती॒रयु॑ग्ध्वम् ॥
वि । ये । भ्राज॑न्ते । सुऽम॑खासः । ऋ॒ष्टिऽभिः॑ । प्र॒ऽच्य॒वय॑न्तः । अच्यु॑ता । चि॒त् । ओज॑सा । म॒नः॒ऽजुवः॑ । यत् । म॒रु॒तः॒ । रथे॑षु । आ । वृष॑ऽव्रातासः । पृष॑तीः । अयु॑ग्ध्वम् ॥
सुमखासः शोभनयज्ञाः ये मरुतः ऋष्टिभिः आयुधैः वि भ्राजन्ते विशेषेण दीप्यन्ते ते मरुतः अच्युता चित् च्यावयितुमशक्यानि दृढानि पर्वतादीन्यपि ओजसा स्वकीयेन बलेन प्रच्यावयन्तः प्रकर्षेण च्यावयितारः प्रेरयितारो भवन्ति । उत्तरार्धः प्रत्यक्षकृतः । हे मरुतः मनोजुवः मनोवद्वेगगतयः वृषव्रातासः वृष्ट्युदकसेचनसमर्थसप्तसंघात्मका यूयं रथेषु आत्मीयेषु पृषतीः । पृषत्यः इति मरुद्वाहनानां संज्ञा ‘पृषत्यो मरुताम् ' ( नि. १. १५. ६ ) इत्युक्तत्वात् । पृषद्भिः श्वेतबिन्दुभिर्युक्ताः मृगीः यत् यदा आ अयुग्ध्वं आभिमुख्येन नियुक्ता अकृढ्वम् । तदानीं पर्वतादिकं प्रच्यवते इत्यर्थः ॥ सुमखासः । सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति नञ्सुभ्याम्' इत्यस्य प्रवृत्त्यभावे बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अच्युता । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । मनोजुवः । जु इति सौत्रो धातुर्गत्यर्थः । ‘ क्विब्वचि° ' इत्यादिना क्विब्दीर्घौ । अयुग्ध्वम् । ‘ युजिर योगे' । लुङि ‘धि च ' (पा. सू. ८. २. २५) इति सकारलोपः ॥
“They who are worthily worshipped shine with various weapons; incapable of being overthrown, they are the over-throwers (of mountains); Maruts, swift as thought, entrusted with the duty of sending rain, yoke the spotted deer to your cars.”
When, mighty Warriors, ye who glitter with your spears, o'erthrowing with your strength e'en what is ne'er o'erthrown,
When, O ye Maruts, ye the host that send the rain, had harnessed to your cars the thought-fleet spotted deer.
Those good battlers who flash out with their spears, stirring forth even the unstirrable by their power—
When, o Maruts, in a bullish troop you have yoked the mind-swift
dappled mares to your chariots,
Die kühnen Kämpfer funkeln mit den Speeren rings, mit Kraft erschütternd auch das Unerschütterte, Wenn die gedankenschnellen Hirsche, Maruts ihr, geschart als Stiere, an die Wagen euch geschirrt.
Die Freigebigen, die mit ihren Speeren funkeln, die mit Kraft selbst das Unbewegliche bewegen, wenn ihr Marut die gedankenschnellen Antilopen an die Wagen geschirrt habt, in mächtigen Geschwadern ziehend.
Прекрасные воины, которые ярко сверкают копьями,
Силой сотрясающие даже несотрясаемое...-
Когда вы, Маруты, мощною толпой
Запрягли в колесницы пестрых (антилоп,) быстрых, как мысль.
प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः । उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥
प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः । उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्दन्ति॑ । भूम॑ ॥
हे मरुतः पृषतीः यत् यदा रथेषु प्र अयुग्ध्वं प्रायूयुजत । किं कुर्वन्तः । वाजे अन्ने निमित्तभूते सति अद्रिं मेघं रंहयन्तः वर्षणार्थं प्रेरयन्तः । उत तदानीम् अरुषस्य आरोचमानस्य सूर्यस्य वैद्युताग्नेर्वा सकाशात् वृष्ट्युदकधाराः भवन्तः वि ष्यन्ति विमुञ्चन्ति । विमुक्तास्ताश्च धाराः उदभिः उदकैः चर्मेव परिमितमल्पं चर्म यथा अप्रयत्नेन क्लेद्यते एवं भूम सर्वां भूमिं व्युन्दन्ति विशेषणार्रां्य कुर्वन्ति ॥ रंहयन्तः । ‘ रहि गतौ । वि ष्यन्ति । षो अन्तकर्मणि । दैवादिकः । ‘ ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः । ‘ उपसर्गात्सुनोति । इति षत्वम् । उदभिः। ‘पद्दन ' इत्यादिना उदकशब्दस्य उदन्नादेशः । व्युन्दन्ति । ‘ उन्दी क्लेदने । भूम। ‘ सुपां सुलुक्° ' इति भूमिशब्दात् उत्तरस्य अमः डादेशः । छान्दसं ह्रस्वत्वम् ॥
“When, Maruts, urging on the cloud, for the sake of (providing) food, you have yoked the deer to your chariots, the drops fall from the radiant (sun), and moisten the earth, like a hide, with water.”
When ye have harnessed to your cars the spotted deer, urging the thunderbolt, O Maruts, to the fray,
Forth rush the torrents of the dark red stormy cloud, and moisten, like a skin, the earth with water-floods.
When you have yoked the dappled mares to your chariots, speeding the stone at the prize-contest, o Maruts—
they unloose the streams of the ruddy one and inundate the earth with waters like a skin.
Wenn an die Wagen ihr die Hirsche schirrtet, im Kampf, o Maruts, schleudernd euren Wurfstein, Dann fliesst herab der rothen Wolke Strömung, mit Flut die Erd' wie einen Schlauch benetzend.
Wenn ihr an den Wagen die Antilopen geschirrt habt, während ihr Marut im Wettlauf den Stein mitlaufen lasset, dann entfesseln sie auch die Strahlen des rötlichen Rosses. Wie ein Fell begießen sie die Erde mit Wasser.
Когда вы запрягли в колесницы пестрых (антилоп),
В состязании поторапливая скалу, о Маруты. . .
И вот они развязывают потоки алого (жеребца),
Как кожаный мешок (для воды); они заливают землю водой.
आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑न॒: प्र जि॑गात बा॒हुभि॑: । सीद॒ता ब॒र्हिरु॒रु व॒: सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥
आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभिः॑ । सीद॑ता । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ । कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥
हे मरुतः वः युष्मान् सप्तयः सर्पणशीला अश्वाः आ वहन्तु अस्मद्यज्ञं प्रापयन्तु । कीदृशाः सप्तयः । रघुष्यदः लघु शीघ्रं स्यन्दमानाः । वेगेन गच्छन्त इत्यर्थः । रघुपत्वानः लघु शीघ्रं पतन्तो गच्छन्तो यूयं बाहुभिः स्वकीयैर्हस्तैः अस्मभ्यं दातव्यं धनमाहृत्य प्र जिगात प्रकर्षेण गच्छत । हे मरुतः वः युष्माकं सदः सदनं वेदिलक्षणं स्थानम् उरु विस्तीर्णं कृतम् । तत्र यदास्तीर्णं बर्हिः तत् आ सीदत तस्मिन्बर्हिष्युपविशत । उपविश्य च मध्वः मधुरस्य अन्धसः सोमलक्षणस्यान्नस्य पानेन मादयध्वं तृप्ता भवत॥ रघुष्यदः । रघु स्यन्दन्ते इति रघुष्यदः। ‘ स्यन्दू प्रस्रवणे'। क्विप् च इति क्विप् ।' अनिदिताम्' इति नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रघुपत्वानः । ‘ पत्लृ गतौ ‘ अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । जिगात । ‘गा स्तुतौ ' । जौहोत्यादिकः । ‘ जिगाति' (नि. २.१४.११३ ) इति गतिकर्मसु पाठादत्र गत्यर्थः । लोण्मध्यमबहुवचनस्य ‘तप्तनप्तनथनाश्च' इति तबादेशः । तस्य पित्वेन ङित्त्वाभावात् ई हल्यघोः ' इति ईत्वाभावः । सदः । अतः कृकमि° (पा. सू. ८. ३. ४६ ) इति विसर्जनीयस्य सत्वम् । मादयध्वम् । ‘मद तृप्तियोगे' । चुरादिरात्मनेपदी ॥ ॥ ९ ॥
“Let your quick-paced, smooth-gliding coursers bear you (hither); and moving swiftly, come with your hands (filled with good things); sit, Maruts, upon the broad seat of sacred grass, and regale yourselves with the sweet sacrificial food.”
Let your swift-gliding coursers bear you hitherward with their fleet pinions. Come ye forward with your arms.
Sit on the grass; a wide seat hath been made for you: delight yourselves, O Maruts, in the pleasant food.
Let the quick-streaming spans convey you hither; quickly flying with your arms, go forth.
Sit on the ritual grass: a broad seat has been made for you. Make
yourselves exhilarated, Maruts, on the honeyed stalk.
Euch fahre her das hurtig laufende Gespann, schnellfliegend kommet her zu uns mit starkem Arm, Setzt auf die Streu euch, weit ist euch der Sitz gemacht, berauschet euch, o Maruts, an dem süssen Trank.
Euch sollen die schnellaufenden Gespanne herfahren; mit den Armen schnellfliegend gehet vorwärts! Setzet euch auf das Barhis; ein breiter Sitz ist euch bereitet. Berauschet euch, ihr Marut, am süßen Somatrank!
Да привезут вас быстро мчащиеся упряжки!
Быстро летя, продвигайтесь с помощью рук!
Садитесь на жертвенную солому: приготовлено широкое место!
Опьяняйтесь, Маруты, сладким соком (сомы)!
ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सद॑: । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥
ते । अ॒व॒र्ध॒न्त॒ । स्वऽत॑वसः । म॒हि॒ऽत्व॒ना । आ । नाक॑म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ । विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒ऽच्युत॑म् । वयः॑ । न । स्द॒न् । अधि॑ । ब॒र्हिषि॑ । प्रि॒ये ॥
ते मरुतः अवर्धन्त वृद्धिं गताः । कीदृशाः । स्वतवसः स्वाश्रयबलाः। नान्यस्य कस्यचिद्बलमपेक्षन्ते । वृद्धिं प्राप्य च महित्वना महिम्ना महत्त्वेन नाकं स्वर्गम् आ तस्थुः आस्थितवन्तः। सदः सदनं नभोलक्षणं स्थानं च स्वकीयनिवासाय उरु विस्तीर्णं चक्रिरे । यत् येभ्यो मरुद्भ्यो यदर्थं वृषणं कामाभिवर्षकं मदच्युतं मदस्य हर्षस्य आसेक्तारं यज्ञं विष्णुः ह आवत् विष्णुरेवागत्य रक्षति ते मरुतः वयो न पक्षिणो यथा शीघ्रमागच्छन्ति एवं शीघ्रमागत्य बर्हिषि अधि अस्मदीये यज्ञे प्रिये प्रीतिकरे सीदन् सीदन्तु उपविशन्तु ॥ तेऽवर्धन्त । स्वरितो वानुदात्ते पदादौ ' (पा. सू. ८. २. ६) इति एकादेशस्य स्वरितत्वम् । महित्वना । भावप्रत्ययादुत्तरस्य आङः व्यत्ययेन नाभावः उदात्तत्वं च । यद्वा । सुपां सुलुक्° ' इति आजादेशो नकारोपजनश्च । तस्थुः । नाकमातस्थुश्च सदश्च विस्तीर्णं चक्रिरे इति चार्थप्रतीतेः 'चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । यत् । ‘सुपां सुलुक्° ' इति चतुर्थ्या लुक् । आवत्। छान्दसो वर्तमाने लङ्। वृषणम् । ‘वा षपूर्वस्य निगमे' इति उपधादीर्घाभावः । मदच्युतम् । मदं च्योततीति मदच्युत् । ‘ च्युतिर् आसेचने '। ‘ क्विप् च' इति क्विप् । सीदन् । लिङर्थे लेटि अडागमः ॥
“Confiding in their own strength, they have increased in (power); they have attained heaven by their greatness, and have made (for themselves) a spacious abode; may they, for whom Viṣṇu defends (the sacrifice) that bestows all desires and confers delight, come (quickly), like birds, and sit down upon the plural asant and sacred grass.”
Strong in their native strength to greatness have they grown, stepped to the firmament and made their dwelling wide.
When Visnu saved the Soma bringing wild delight, the Maruts sate like birds on their dear holy grass.
Those self-powerful ones strengthened themselves in their greatness. They mounted the vault; they made themselves a broad seat.
When Viṣṇu rinsed the bull [=soma] arousing exhilaration,
[and/or] When Viṣṇu aided the bull [=Indra], stirred by the
exhilarating drink,
they settled like birds on the dear ritual grass.
Sie nehmen zu an Grösse die urkräftigen, zum Himmel steigend machten weit sie ihren Sitz, Als Vischnu dann dem rauscherregten Stiere half, da sassen sie wie Vögel auf der lieben Streu.
Sie wuchsen von selbst stark an Größe; sie haben den Himmel erstiegen und sich einen weiten Sitz erworben. Als Vishnu dem rauscherregten Bullen Indra beistand, setzten sie sich gleich Vögeln auf das geliebte Barhis.
Они выросли, сильные сами по себе, {своим) величием
Взобрались на небосвод, создали себе широкое сиденье.
Когда же Вишну помог быку, возбужденному опьянением
Как птицы, сидели они на излюбленной жертвенной соломе.
शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे । भय॑न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नर॑: ॥
शूराः॑ऽइव । इत् । युयु॑धयह् । न । जग्म॑यः । श्र॒व॒स्यवः॑ । न । पृत॑नासु । ये॒ति॒रे॒ । भय॑न्ते । विश्वा॑ । भुव॑ना । म॒रुत्ऽभ्यः॑ । राजा॑नःऽइव । त्वे॒षऽस॑न्दृशः । नरः॑ ॥
इत् इत्येतत्समुच्चये। शूराइवेत् शौर्योपेता युयुत्सवः पुरुषा इव च युयुधयः शत्रुभिर्बुध्यमानाः पुरुषा इव च जग्मयः शीघ्रं गच्छन्तो मरुतः श्रवस्यवो न श्रवोऽन्नमात्मन इच्छन्तः पुरुषा इव पृतनासु संग्रामेषु येतिरे प्रयतन्ते वृत्रादिभिर्युद्धे व्याप्रियन्ते । तादृशेभ्यः मरुद्भ्यः विश्वा भुवना सर्वाणि भूतजातानि भयन्ते बिभ्यति। ये नरः वृष्ट्यादेर्नेतारो मरुतः राजानइव राजमाना नृपतय इव त्वेषसंदृशः दीप्तसंदर्शना उग्ररूपतया द्रष्टुमशक्या भवन्ति तेभ्य इत्यर्थः ॥ युयुधयः । ‘ युध संप्रहारे । आदृगमहनजनः० ' इत्यत्र ‘ उत्सर्गश्छन्दसि ( पा. सू. ३. २. १७१. २) इति वचनात् किन्प्रत्ययः । लिङवद्भावात् द्विर्भावादि । कित्त्वात् गुणाभावः । नित्त्वादाद्युदात्तत्वम् । जग्मयः । तेनैव सूत्रेण किन्प्रत्ययः । ‘ गमहन' इत्यादिना उपधालोपः । स्थानिवद्भावात् द्विर्भावादि। श्रवस्यवः । श्रव इच्छति श्रवस्यति । ‘ क्याच्छन्दसि' इति उप्रत्ययः । येतिरे। यती प्रयत्ने' । ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । भयन्ते । ‘ ञिभी भये । बहुलं छन्दसि ' इति शपः श्लोरभावः । त्वेषसंदृशः । ‘ त्विष दीप्तौ । पचाद्यच् । 'दृशिर प्रेक्षणे '। संपूर्वादस्मात् संपदादिलक्षणो भावे क्विप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Like heroes, like combatants, like men anxious for food, the swift-moving (Maruts) have engaged in battles; all beings fear the Maruts, who are the leaders (of the rain), and awful of aspect, like princes.”
In sooth like heroes fain for fight they rush about, like combatants fame-seeking have they striven in war.
Before the Maruts every creature is afraid: the men are like to Kings, terrible to behold.
Like champions, like oncoming fighters, like those seeking fame in battles, they have marshaled themselves.
All creatures fear the Maruts—the superior men glittering in appearance like kings.
Kampflust'gen Helden gleich sind eilend sie, wie ruhmbegier'ge gehn in Schlachten sie geschart, Es fürchten alle Wesen vor den Maruts sich, die Männer zeigen prächtig sich wie Könige.
Wie tapfere Krieger ausziehend, haben sie wie Ruhmbegierige in den Kämpfen gewetteifert. Es fürchten sich alle Wesen vor den Marut. Wie die Könige sind die Männer von funkelndem Anblick.
Быстро шагая, как герои, как воины,
Как ищущие славы, встали они строем в сражениях.
Все существа боятся Марутов.
Подобны царям эти мужи внушительной внешности.
त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् । ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥
त्वष्टा॑ । यत् । वज्र॑म् । सुऽकृ॑तम् । हि॒र॒ण्यय॑म् । स॒हस्र॑ऽभृष्टिम् । सु॒ऽअपाः॑ । अव॑र्तयत् । ध॒त्ते । इन्द्रः॑ । नरि॑ । अपां॑सि । कर्त॑वे । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥
स्वपाः शोभनकर्मा त्वष्टा विश्वनिर्माता यद्वज्रम् अवर्तयत् इन्द्रं प्रत्यगमयत् दत्तवानित्यर्थः । कीदृशम् । सुकृतं सम्यङ्निष्पादितं हिरण्ययं सुवर्णमयं सहस्रभृष्टिम् अनेकाभिर्धाराभिर्युक्तम् । तद्वज्रम् इन्द्रः धत्ते धारयति । किमर्थम् । नरि । अत्र नृसंबन्धात् नृशब्देन संग्रामोऽभिधीयते । संग्रामे अपांसि शत्रुहननादिलक्षणानि कर्माणि कर्तवे कर्तुम् । एवं वज्रं धृत्वा तेन वज्रेण वृत्रं वृष्ट्युदकस्यावरकम् अर्णवम् अर्णसोदकेन युक्तं मेघम् अहन् अवधीत् । अपां तेन निरुद्धा अपश्च सः निः औब्जत् निःशेषेणाधोमुखमपातयत् प्रवृष्टा अकरोदित्यर्थः ॥ सुकृतम् । सुपूर्वात् करोतेः कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । हिरण्ययम् । हिरण्यशब्दादुत्तरस्य मयटो मकारस्य लोपः ऋत्व्यवास्त्व्यवास्त्व इत्यादौ निपात्यते । स्वपाः । ‘ सौर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । कर्तवे । “ तुमर्थे सेसेन् ' इति करोतेः तवेन्प्रत्ययः । अपाम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । औब्जत् । ‘ उब्ज आर्जवे । अर्णवम् । अर्णसो लोपश्च' ( का. ५, २. १०९. २ ) इति मत्वर्थीयो वः 'सलोपश्च ॥
“Indra, wields the well-made, golden, many-bladed thunderbolt, which the skillful Tvaṣṭā has framed for him, that he may achieve great exploits in war. He has slain Vṛtra and sent forth an ocean of water.”
When Tvastar deft of hand had turned the thunderbolt, golden, with thousand edges, fashioned more skilfully,
Indra received it to perform heroic deeds. Vrtra he slew, and forced the flood of water forth.
When Tvaṣṭar the good craftsman had turned the well-made golden mace with its thousand spikes,
Indra took it to do the manly works: he smashed Vr̥tra, he forced out the flood of waters.
Als Tvaschtar kunstreich drechselte den goldnen Blitz, den schöngefügten, welcher tausend Zacken hat, Da nahm ihn Indra, Mannesthaten zu vollziehn, erschlug den Vritra und ergoss der Wasser Flut.
Als Tvastri, der Künstler, die wohlgearbeitete, goldene, tausendzackige Keule gedreht hatte, nimmt sie Indra, um Manneswerke zu tun. Er erschlug den Drachen, ließ die Flut der Gewässer heraus.
Когда Тваштар обточил дубину, хорошо сделанную,
Золотую, тысячезубую, (он,) искусный мастер,
(Ее) берет Индра для свершения героических деяний.
Он убил Вритру, он выпустил поток вод.
ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् । धम॑न्तो वा॒णं म॒रुत॑: सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज॑सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व॑तम् । धम॑न्तः । वा॒णम् । म॒रुतः॑ । सु॒ऽदान॑वह् । मदे॑ । सोम॑स्य । रण्या॑नि । च॒क्रि॒रे॒ ॥
अत्रेयमाख्यायिका । गोतम ऋषिः पिपासया पीडितः सन् मरुत उदकं ययाचे । तदनन्तरं मरुतोऽदूरस्थं कूपमुद्धृस्य यत्र स गोतम ऋषिस्तिष्ठति तां दिशं नीत्वा ऋषिसमीपे कूपमवस्थाप्य तत्पार्श्वे आहावं च कृत्वा तस्मिन्नाहावे कूपमुत्सिच्य तमृषिं तेनोदकेन तर्पयांचक्रुः । अयमर्थोऽनयोत्तरया च प्रतिपाद्यते ॥ ते मरुतः अवतम् । अवस्तात्ततो भवतीति अवतः कूपः । कूपनामसु च ‘ अवतः अवटः ' ( नि. ३. २३.७ ) इति पठितम् । तम् ऊर्ध्वम् उपरि यथा भवति तथा ओजसा स्वकीयेन बलेन नुनुद्रे प्रेरितवन्तः उत्खातवन्त इत्यर्थः । एवं कूपमुत्खाय ऋषेराश्रमं प्रति नयन्तः मरुतः मार्गमध्ये ददृहाणं प्रवृद्धं गतिनिरोधकं पर्वतं चित् पर्ववन्तं शिलोच्चयमपि वि बिभिदुः विशेषेण बभञ्जुः। सुदानवः शोभनदानास्ते मरुतः वाणं शतसंख्याभिः तन्त्रीभिर्युक्तं वीणाविशेषं धमन्तः वादयन्तः सोमस्य मदे सोमपानेन हर्षे सति रण्यानि स्तुत्यानि रमणीयानि धनानि चक्रिरे स्तोतृभ्यः कुर्वन्ति ॥ नुनुदे । ‘णुद प्रेरणे'। लिटि ‘इरयो रे ' इति रेआदेशः । ददृहाणम् । ‘ दृह दृहि वृद्धौ । लिटः कानच् । धमन्तः । ‘ ध्मा शब्दाग्निसंयोगयोः' । ‘ पाघ्रा इत्यादिना धमादेशः । वाणम् । ‘ अण रण वण शब्दार्थाः'। कर्मणि घञ् । कर्षात्वतः०' इत्यन्तोदात्तत्वम् । रण्यानि । रणतेर्भावे ' वशिरण्योरुपसंख्यानम् ' ( पा. सू. ३. ३. ५८, ३) इति अप् । ततः ‘ भवे छन्दसि ' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् ॥
“By their power, they bore the well aloft, and clove asunder the mountain that obstructed their path; the munificent Maruts, blowing upon their pipe, have conferred, when exhilarated by the Soma, desirable (gifts upon the sacrificer).”
They with their vigorous strength pushed the well up on high, and clove the cloud in twain though it was passing strong.
The Maruts, bounteous Givers, sending forth their voice, in the wild joy of Soma wrought their glorious deeds.
They pushed the well upward with their power; they split apart the mountain, though it was firmly fixed.
Blowing their music, the Maruts of good drops performed these joyous (deeds) in the exhilaration of soma.
Sie stiessen hoch den Brunnen mit Gewalt empor, zerschmetterten den festgefügten Wolkenberg; Des Sturmes Pfeife blasend hat im Somarausch die reiche Schar der Maruts Herrliches vollbracht.
Sie stießen den Brunnen mit Kraft nach oben; sogar den festen Fels spalteten sie. Ihre Musik blasend haben die freigebigen Marut im Rausche des Soma erfreuliche Dinge verrichtet.
(Своей) силой они заставили забить вверх колодец.
Они раскололи даже твердую гору.
Дуя в дудку, Маруты щедродарящие
В опьянении сомой совершили радостные деяния.
जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒: कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥
जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ । आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥
मरुतः अवतम् उद्धृतं कूपं यस्यां दिशि ऋषिर्वसति तया दिशा जिह्मं वक्रं तिर्यञ्चं नुनुद्रे प्रेरितवन्तः । एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य तृष्णजे तृषिताय गोतमाय ऋषये तदर्थम् उत्सं जलप्रवाहं कूपादुद्धत्य असिञ्चन् आहावेऽवानयन्। एवं कृत्वा ईम् एनं स्तोतारमृषिं चित्रभानवः विचित्रदीप्तयस्ते मरुतः अवसा ईदृशेन रक्षणेन सह आ गच्छन्ति तत्समीपं प्राप्नुवन्ति । प्राप्य च विप्रस्य मेधाविनो गोतमस्य कामम् अभिलाषं धामभिः आयुषो धारकैरुदकैः तर्पयन्त अतर्पयन् ॥ तया। न गोश्वन्साववर्ण° ' इति ‘सावेकाचः० ' इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः । दिशा । ‘ सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । तृष्णजे । ‘ ञितृषा पिपासायाम् । स्वपितृषोर्नजिङ्' (पा. सू. ३. २. १७२ )। प्रत्ययाद्युदात्तत्वम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः। अन्येष्वपि दृश्यते' इति दृशिग्रहणात् केवलादपि जनेर्डप्रत्ययः । तृष्णा जाता यस्य स तथोक्तः । ‘ ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति ह्रस्वत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धामभिः । दधातेः ‘आतो मनिन् ' इति मनिन् ।
“They brought the crooked well to the plural ce (where the Muni was), and sprinkled the water upon the thirsty Gotama; the variously-radiant (Maruts) come to his succour, gratifyinng the desire of the sage with life-sustaining (waters).”
They drave the cloud transverse directed hitherward, and poured the fountain forth for thirsting Gotama.
Shining with varied light they come to him with help: they with their might fulfilled the longing of the sage.
They pushed the well aslant in this way. They poured out the wellspring for the thirsting Gotama.
They come hither to him with help—they of bright radiance. They
satisfy the desire of the inspired poet through their own essential
qualities.
Zur Seite stossend gossen sie den Brunnen aus, auf diese Art als Born dem durst'gen Gotama; Hellleuchtend kommen huldvoll sie zu ihm herbei, des Sängers Wunsch erfüllten sie nach ihrem Brauch.
Sie stürzten den Brunnen schräg nach dieser Seite um und gossen den Quell für den durstigen Gotama aus. Sie kommen zu ihm mit Beistand, die prächtigstrahlenden; sie befriedigen in eigener Person den Wunsch des Redekundigen.
Они заставили забить колодец вкось, в эту сторону,
Они вылили источник для жаждущего Готамы.
Они приближаются к нему о помощью, ярко сверкающие.
Они удовлетворяют желание прозорливца по (своим) обычаям.
या व॒: शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥
या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒ऽधातू॑नि । दा॒शुषे॑ । य॒च्छ॒त॒ । अधि॑ । अ॒स्मभ्य॑म् । तानि॑ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒ऽवीर॑म् ॥
हे मरुतः वः युष्माकं संबन्धीनि या यानि शर्म शर्माणि सुखानि गृहाणि वा । कीदृशानि ॥ त्रिधातूनि पृथिव्यादिषु त्रिषु स्थानेष्ववस्थितानि शशमानाय युष्मान् स्तुतिभिर्भजमानाय दातुं संपादितानि । पूर्वोक्तलक्षणानि शर्माणि यानि सन्ति यानि च दाशुषे हविर्दत्तवते यजमानाय अधि यच्छत अधिकं प्रयच्छथ हे मरुतः तानि सर्वाणि शर्माणि अस्मभ्यं वि यन्त विशेषेण प्रयच्छत । किंच हे वृषणः कामानां वर्षितारो मरुतः नः अस्मभ्यं सुवीरं शोभनैर्वीरैः पुत्रादिभिर्युक्तं रयिं धनं धत्त दत्त ॥ या । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । शर्म । सुपां सुलुक् ' इति जसो लुक् । शशमानाय । ‘शश प्लुतगतौ । ताच्छीलिकः चानश् । यच्छत । छान्दसे लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । यन्त । यमेर्लोटि ‘ बहुलं छन्दसि' इति शपो लुक् । 'तप्तनप्तनथनाश्च ' इति तस्य तबादेशः । अतस्तस्य पित्त्वेन ङित्त्वाभावात् १ अनुदात्तोपदेश° " इत्यादिना अनुनासिकलोपो न भवति । वृषणः । ‘ वा षपूर्वस्य निगमे ' इति उपधादीर्घाभावः । सुवीरम् । बहुव्रीहौ ‘ वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १० ॥
“Whatever blessings (are diffused) through the three worlds, and are in your gift, do you bestow upon the donor (of the oblation), who addressed you with praise; bestow them, also, Maruts, upon us, and grant us, bestowers of all good, riches, whence springs prosperity.”
The shelters which ye have for him who lauds you, bestow them threefold on the man who offers.
Extend the same boons unto us, ye Maruts. Give us, O Heroes, wealth with noble offspring.
The protections which ye have for the earnest worshipper,
Threefold do ye grant them to the generous giver,
To us, O Maruts, do ye accord them;
O strong ones, give us wealth rich in heroes.
The shelters you have for the one who performs ritual labor—hold these out threefold to the pious man.
Extend these to us, Maruts; establish for us wealth in good heroes,
o bulls.
Den Schutz, der für den Opfrer euch bereit ist, der dreifach schirmt, den reichet dem Verehrer, Den mögt auch uns, o Maruts, ihr gewähren, ihr Helden, schenkt uns männerreiche Habe.
Welche Schilde ihr für den Diensteifrigen habt, die gewähret dreifach dem Spender! Haltet diese über uns, ihr Marut, bringt uns einen Schatz an Meistern, ihr Bullen.
Те щиты, что есть у вас для усердного (в жертвоприношении), -
Трижды предоставьте (их) почитающему (вас)!
Над нами поднимите их, о Маруты!
О быки, дайте нам сокровище, состоящее из прекрасных героев!