मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑: ॥
मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ । सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥
हे विमहसः विशिष्टप्रकाशाः मरुतः दिवः अन्तरिक्षलोकादागत्य यस्य हि यस्य खलु यजमानस्य क्षये यज्ञगृहे पाथ सोमं पिबथ सः जनः जातो यजमानः सुगोपातमः शोभनैः पालकैरत्यन्तं युक्तो भवति ॥ पाथ। ‘ पा पाने । लटि ‘बहुलं छन्दसि ' इति शपो लुक् । यद्वृत्तयोगादनिघातः । विमहसः । विशिष्टं महस्तेजो येषां ते तथोक्ताः । सुगोपातमः । शोभनो गोपा रक्षको यस्य स सुगोपाः । अतिशयेन सुगोपाः सुगोपातमः । तमपः पित्त्वादनुदात्तत्वे सति बहुव्रीहौ ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वमेव शिष्यते ॥
“The man in whose mansion, resplendent Maruts, descending from the sky, you drink (the libation), is provided with most able protectors.”
THE best of guardians hath that man within whose dwelling place ye drink,
O Maruts, giants of the sky.
O Maruts of extensive might, certainly the man over whose dwelling place you keep protective watch from heaven,
he has the best protector.
In wessen Haus o Maruts ihr, des Himmels hohe Helden, trinkt, Der Mann geniesst den besten Schutz.
Denn in wes Haus ihr Marut wachet, ihr ausgezeichneten Mannen des Himmels, der Mann ist am besten bewacht.
О Маруты, у кого в доме
Вы стоите на страже, о могучие (мужи) неба,
Тот человек самый защищенный.
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हव॑म् ॥
य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् । मरु॑तः । शृ॒णु॒त । हव॑म् ॥
हे यज्ञवाहसः यज्ञस्य वोढारः मरुतः यूयं यज्ञैर्वा । वाशब्दः समुच्चये । यज्ञैश्च यजमानस्य मतीनां स्तुतीनां संबन्धिनः विप्रस्य वा अयजमानस्य मेधाविनश्च हवम् आह्वानं शृणुत । यज्ञवतो यजमानस्य यागरहितस्य स्तोतुश्चाह्वानमवश्यं भवद्भिः श्रोतव्यं यतः भवन्तो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति भावः ॥ यज्ञवाहसः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् ‘ वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वात् वहतेरसुन्। ‘णित्' इत्यनुवृत्तेः उपधावृद्धिः। मतीनाम् । ‘ मन ज्ञाने'। अस्मात् करणे क्तिन् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । शृणुत। ‘ श्रुवः शृ च' इति श्नुः । ‘सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् तिङ एव स्वरः शिष्यते । मरुत इत्यस्य आमन्त्रितस्य आमन्त्रितं पूर्वमविद्यमानवत् ' इति अविद्यमानवत्त्वेन पदादपरत्वात् निघाताभावः । हवम् । भावेनुपसर्गस्य ' इति ह्वयतेरप् संप्रसारणं च ॥
“Maruts, bearers of oblations, hear the invocation of the praises of the worshipper with or (without) sacrifices.”
Honoured with sacrifice or with the worship of the sages' hymns,
O Maruts, listen to the call.
Or he by whose sacrifices (you were attracted), o you whose vehicle is the sacrifice, or of the thoughts of which inspired poet
you heard the call, o Maruts—
Durch Opfer, opferholde, kommt, o Maruts, oder hört den Ruf Der Lieder, die der Sänger singt.
Die Ihr durch das Opfer angezogen werdet oder von den Liedern des Redekundigen anzurufen seid, höret auf den Ruf, ihr Marut!
О вы, передвигающиеся вместе с жертвой, жертвами ли,
Молитвами ли вдохновенного (привлеченные),
Услышьте, о Маруты, (наш) зов!
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत । स गन्ता॒ गोम॑ति व्र॒जे ॥
उ॒त । वा॒ । यस्य॑ । वा॒जिनः॑ । अनु॑ । विप्र॑म् । अत॑क्षत । सः । गन्ता॑ । गोऽम॑ति । व्र॒जे ॥
उत वा अपि च यस्य यजमानस्य वाजिनः हविर्लक्षणान्नोपेता ऋत्विजः विप्रं मेधाविनं मरुद्गणम् अनु अतक्षत हविष्प्रदानादिना तीक्ष्णीकुर्वन्ति सः यजमानः गोमति बहुभिर्गोंभिर्युक्ते व्रजे गोष्ठे गन्ता गमनशीलो भवति । अतक्षत। ‘ तक्षु त्वक्षू तनूकरणे'। छान्दसो लङ् । व्यत्ययेन मध्यमः । गन्ता । गमेस्ताच्छीलिकः तृन् ।
“And may he for whom ministrant priests have sharp-ended the sapient (troop of the Maruts), walk among pastures crowded with cattle.”
Yea, the strong man to whom ye have vouchsafed to give a sage, shall move
Into a stable rich in kine.
Or for which prize-seeker you fashioned an inspired poet to follow, he will go to a pen full of cattle.
Und welches reichen Opferherrn Lobsänger ihr erkoren habt, Der kommt zu rinderreichem Stall.
Oder welchem Preiskämpfer ihr einen Redekundigen zur Seite gabt, der gelangt zu rinderreicher Herde.
Или же, какому (жертвователю-) завоевателю наград
Вы создали на помощь вдохновенного,
Тот достигает загона, полного коров.
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु । उ॒क्थं मद॑श्च शस्यते ॥
अ॒स्य । वी॒रस्य॑ । ब॒र्हिषि॑ । सु॒तः । सोमः॑ । दिवि॑ष्टिषु । उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥
दिविष्टिषु यजनीयदिवसेषु बर्हिषि यज्ञे वीरस्य शत्रुक्षेपणकुशलस्य अस्य मरुद्गणस्य यागाय सोमः सुतः । ऋत्विग्भिरभिषुतो भवति । उक्थं मरुद्देवताकं शस्त्रं मदश्च मदिधातुना युक्ता ‘ मरुतो देवाः सोमस्य मत्सन्' इत्यादिका मारुती निवित् च अस्य मरुद्गणस्य हर्षाय शस्यते होत्रा पठ्यते ॥ अस्य । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । दिविष्टिषु । इष्टय एषणानि गमनानि । दिवो द्योतमानस्य सूर्यस्येष्टयो येषु दिवसेषु ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेन उत्वाभावः ॥
“The libation is poured out for the hero at the sacrifice, on the appointed days, and the hymn is repeated, and their (is excited).”
Upon this hero's sacred grass Soma is poured in daily rites:
Praise and delight are sung aloud.
Of that hero here the soma has been pressed at the rituals of day(break) on his ritual grass;
his solemn speech and exhilarating drink are being announced.
᳓
Und solches Mannes Somasaft, der auf der Streu bei Festen steht, Sein Spruch und Trank wird hochgerühmt.
Auf dem Barhis dieses Mannes ist der Soma ausgepreßt bei den Opfern des heutigen Tages. Lobgedicht und Trunkfreude wird verkündigt.
На жертвенной соломе этого мужа
Выжат сома для жертвоприношений (этого) дня,
Произносится гимн и (пьется) хмельной напиток.
अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । सूरं॑ चित्स॒स्रुषी॒रिष॑: ॥
अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः॑ । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । सूर॑म् । चि॒त् । स॒स्रुषीः॑ । इषः॑ ॥
अस्य यजमानस्य स्तुतिं मरुतः आ आभिमुख्येन श्रोषन्तु शृण्वन्तु । यः मरुद्गणः विश्वाः चर्षणीः सर्वान् शत्रुभूतान्मनुष्यान् अभि भुवः अभिभवति । तादृग्गणाकारा मरुतः शृण्वन्त्वित्यर्थः। सूरं चित् स्तुतेः प्रेरयितारं यजमानमपि इषः मरुद्भिः प्रत्तान्यन्नानि सस्रुषीः प्राप्तानि भवन्तु ॥ श्रोषन्तु । श्रु श्रवणे '। लोटि • सिब्बहुलं लेटि' इति बहुलवचनात् सिप् । भुवः । भवतेर्लेटि तिपः ‘ तिङां तिङो भवन्ति' इति सिप् । ‘लेटोऽडाटौ ' इति अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' भूसुवोस्तिङि' इति गुणप्रतिषेधः । सूरम् । षू प्रेरणे'। “ सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । सस्रुषीः । ‘ स्रु गतौ ' । अस्मात् लिटः क्वसुः । ‘ उगितश्च ' इति ङीप् । भसंज्ञायां ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् ॥ ॥ ११ ॥
“May the Maruts, victorious over all men, hear (the praises) of this (their worshipper), and may (abundant) food be obtained by him who praises them.”
Let the strong Maruts hear him, him surpassing all men: strength be his
That reaches even to the Sun.
To him let the beings listen attentively, to him who dominates all the separate peoples.
His are the refreshing drinks that have run even to the sun.
Ihm muss gehorchen alle Welt, der über alle Menschen ragt, Sein Opfer dringt zur Sonne selbst.
Ihm sollen alle Lande gehorchen, der die Völker überschattet wie die fließenden Labsale die Sonne.
Пусть слушаются его (все) страны,
(Того,) кто пре(восходит) все народы,
(Пусть будут послушны) жертвенные услады, восходящие до самого солнца.
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । अवो॑भिश्चर्षणी॒नाम् ॥
पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् । अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥
हे मरुतः पूर्वीभिः बह्वीभिः शरद्भिः संवत्सरैः चर्षणीनां सर्वस्य द्रष्टॄणां सर्वज्ञानां भवतां संबन्धिभिः अवोभिः रक्षणैर्युक्ताः सन्तः वयं ददाशिम युष्मभ्यं हवींषि दत्तवन्तः । हि यस्मादर्थे । यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छत इत्यर्थः ॥ पूर्वीभिः । पुरुशब्दात् 'वोतो गुणवचनात्' इति ङीष् । यणादेशे ‘ हलि च' इति दीर्घत्वम् । ददाशिम ।' दाशृ दाने '। लिटि इडागमः । ‘ हि च' इति निघातप्रतिषेधः । चर्षणीनाम्। 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
“Enjoying the protection of you who behold all things, we have offered you, Maruts, (oblations) for many years.”
For, through the swift Gods' loving help, in many an autumn, Maruts, we
Have offered up our sacrifice.
For through many autumns we have done pious work, o Maruts, with the help of the separate peoples.
Wir haben viele Jahre durch euch Maruts ja gehuldiget, Euch mit der Menschen Labungen.
Denn viele Herbste lang haben wir euch aufgewartet, ihr Marut, mit der Zuneigung der Völker.
Ведь в течение многих осеней
Мы почитали (вас,) о Маруты,
Благодаря поддержкам народов.
सु॒भग॒: स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्य॑: । यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ । यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥
हे प्रयज्यवः प्रकर्षेण यष्टव्याः मरुतः सः मर्त्यः मनुष्यो यजमानः सुभगः अस्तु शोभनधनो भवतु । यस्य यजमानस्य प्रयांसि हविर्लक्षणान्यन्नानि पर्षथ आत्मनि सिञ्चथ स्वीकुरुथ . इत्यर्थः ॥ सुभगः । भग इति धननाम । शोभनो भगो यस्य । ‘क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । पर्षथ। ‘ पृषु वृषु मृषु सेचने' । भौवादिकः । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः ॥
“Maruts, who are to be especially worshipped, may the man whose offering you accept be ever prosperous.”
Fortunate shall that mortal be, O Maruts most adorable,
Whose offerings ye bear away.
O Maruts who receive the first of the sacrifice, let that mortal be well-portioned
whose pleasurable offerings you will guide.
Glückselig sei der Sterbliche, o Maruts, kräftig schreitende, Dess Opfer ihr begünstiget.
Glücklich soll, ihr opfersamen Marut, der Sterbliche sein, dessen Freuden ihr voll machen werdet.
Да будет счастлив тот смертный,
О Маруты, прежде всего почитаемые,
Чьи радости вы захотите сделать полными.
श॒श॒मा॒नस्य॑ वा नर॒: स्वेद॑स्य सत्यशवसः । वि॒दा काम॑स्य॒ वेन॑तः ॥
श॒श॒मा॒नस्य॑ । वा॒ । न॒रः॒ । स्वेद॑स्य । स॒त्य॒ऽश॒व॒सः॒ । वि॒द । काम॑स्य । वेन॑तः ॥
हे सत्यशवसः अवितथबलाः नरः नेतारो मरुतः शशमानस्य युष्मान् स्तुतिभिः संभजमानस्य स्वेदस्य स्तावकमन्त्रोच्चारणजनितेन श्रमेण स्विद्यमानगात्रस्य वेनतः । वेनतिः कान्तिकर्मा । कामयमानस्य । वाशब्दः समुच्चये। एवंभूतस्य स्तोतुश्च कामस्य काममभिलाषं विद लम्भयत प्रयच्छतेत्यर्थः ॥ शशमानस्य । ‘शश प्लुतगतौ । ताच्छीलिकः चानश् । स्वेदस्य । ‘ ञिष्विदा गात्रप्रक्षरणे । अन्तर्भावितण्यर्थात् कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । विद्लृ लाभे'। लोटि मध्यमपुरुषबहुवचनस्य व्यत्ययेन झादेशः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । झस्य अदादेशः । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । प्रत्ययाद्युदात्तत्वम् । पादादित्वात् निघाताभावः । ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । कामस्य । वृषादिषु पाठादाद्युदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ॥
“Possessors of true vigour, be cognizant of the wishes of him who praises you, and toils in your service, desirous of (your favour).”
O Heroes truly strong, ye know the toil of him who sings your praise,
The heart's desire of him who loves.
You superior men whose strength is real, you know the sweat of the one laboring to exhaustion,
or the desire of the one who seeks the (ritual) track.
Ihr, wahrhaft kräftige, gewahrt den Schweiss des emsig opfernden, Den Wunsch dess, der euch Männer liebt.
Ihr kennt ja wohl, ihr Männer von wahrhafter Stärke, den Schweiß des Diensteifrigen, den Wunsch des nach euch Ausschauenden.
О мужи, чья сила истинна,
Вы же знаете пот усердно трудящегося (при обряде),
Желание (глубоко) смотрящего.
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना । विध्य॑ता वि॒द्युता॒ रक्ष॑: ॥
यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना । विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥
हे सत्यशवसः सत्यबला अन्यैरप्रधृष्यबला मरुतः यूयं तत् वृत्रवधादिषु प्रसिद्धं युष्मदीयं माहात्म्यम् आविष्कर्त आविष्कुरुत प्रकाशयत । विद्युता विद्योतमानेन महित्वना तेन महत्त्वेन माहात्म्येन रक्षः अस्माकमुपद्रवकारिणं राक्षसादिकं विध्यत ताडयत नाशयतेत्यर्थः ॥ कर्त । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्। ‘ तप्तनप्तनथनाश्च' इति तबादेशः । गुणः । इदुदुपधस्य चाप्रत्ययस्य ' ( पा. सू. ८. ३. ४१ ) इति आविःशब्दे विसर्जनीयस्य षत्वम् । महित्वना । भावप्रत्ययादुत्तरस्य आङः व्यत्ययेन नाभावः उदात्तत्वं च । यद्वा । ‘ सुपां सुलुक्° ' इति तृतीयाया आजादेशो नकारोपजनश्च। विध्यत । ‘ व्यध ताडने ' । श्यनि ग्रहिज्यादिना संप्रसारणम् । तशब्दस्य ‘सार्वधातुकमपित्' इति ङित्त्वे सति ऋचि तुनुघमक्षुतङ्' इति संहितायां दीर्घः ॥
“Possessors of true vigour, you have displayed your might, with the lustre (of which) you have destroyed the rākṣasas.”
O ye of true strength, make this thing manifest by your greatness: strike
The demon with your thunderbolt.
You whose strength is real—make it [=strength] manifest by your greatness.
Smite the demon with your lightning.
Auch das, o wahrhaft kräftige, macht offenbar durch eure Macht, Dass ihr mit Blitz den Dämon schlagt.
Von wahrhafter Stärke, offenbart diese Stärke in ganzer Größe! Treffet mit dem Blitz den Dunkelgeist!
О вы, чья сила истинна,
Проявите ее (своим) величием!
Пронзите молнией ракшаса!
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् । ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् । ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥
हे मरुतः गुह्यं गुहायां स्थित सर्वत्र व्याप्य वर्तमानं तमः अन्धकारं गूहत संवृतं कुरुत । यथा अस्माभिर्न दृश्यते तथा अदर्शनं प्रापयत विनाशयतेत्यर्थः । विश्वं सर्वम् अत्रिणम् अत्तारं राक्षसादिकं वि यात विविधं यापयत अस्मत्सकाशात् निर्गमयत । यत् ज्योतिः सूर्यादिकं वयम् उश्मसि कामयामहे तत् कर्त कुरुत । यद्वा । गुह्यं गुहायां शरीरान्तर्गतगुहारूपे हृदये भवं तमो भावरूपाज्ञानं तद्गूहत विनाशयत । अत्रिणं पुरुषार्थस्यात्तारं कामक्रोधादिकं सर्वं विनिर्गमयत । यज्ज्योतिः परतत्त्वसाक्षात्काररूपं ज्ञानं कामयामहे प्राणापानादिपञ्चवृत्तिरूपा हे मरुतस्तत्कर्त कुरुत ॥ गूहत । ‘गुहू संवरणे' । शपि लघूपधगुणे ‘ ऊदुपधाया गोहः' (पा. सू. ६. ४. ८९ ) इति उपधाया ऊकारः । यात । ‘ या प्रापणे ' । अस्मात् अन्तर्भावितण्यर्थात् लोट् । अत्रिणम् । अदेस्त्रिनि च' ( उ. सू. ४. ५०८) इति त्रिनिप्रत्ययः । उश्मसि । ‘ वश कान्तौ । इदन्तो मसिः ॥ अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् ॥ ॥ १२ ॥
“Dissipate the concealing darkness; drive away every devouring (foe); show us the light we long for.”
Conceal the horrid darkness, drive far from us each devouring fiend.
Create the light for which we long.
Conceal the concealable darkness. Run over every rapacious one. Make the light that we desire.
Verbergt die grause Finsterniss, zerfahret jede Fresserbrut Und schaffet Licht nach unserm Wunsch.
Verstecket das zu versteckende Dunkel, durchfahret jeden Atrin! Machet das Licht, das wir wünschen!
Скройте мрак, который надо скрыть!
Переедьте любого атрина!
Создайте свет, которого мы хотим!