प्रत्व॑क्षस॒: प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिण॑: । जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभि॑: ॥
प्रऽत्व॑क्षसः । प्रऽत॑वसः । वि॒ऽर॒प्शिनः॑ । अना॑नताः । अवि॑थुराः । ऋ॒जी॒षिणः॑ । जुष्ट॑ऽतमासः । नृऽत॑मासः । अ॒ञ्जिऽभिः॑ । वि । आ॒न॒ज्रे॒ । के । चि॒त् । उ॒स्राइ॑व॒ स्तृभिः॑ ॥
प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः शत्रुघातिन इत्यर्थः । यतः प्रतवसः प्रकृष्टबलोपेताः अत एव विरप्शिनः विविधेन जयघोषेणोपेताः । यद्वा । महन्नामैतत् । महान्तो हि विविधैः शब्दैः प्रशस्यन्ते । अत एव अनानताः आनतिरहिताः सर्वोत्कृष्टा इत्यर्थः । अविथुराः अवियुक्ताः । सप्तगणरूपेण संघीभूता इत्यर्थः । ऋजीषिणः । तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयन्ते इति तेषामृजीषित्वम् । यद्वा । ऋजीषिणः प्रार्जयितारो रसानाम् । जुष्टतमासः अतिशयेन यष्टृभिः सेविताः नृतमासः अतिशयेन मेघादेर्नेतारः एवंभूता मरुतः स्तृभिः स्वशरीरस्याच्छादकैः अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः व्यानज्रे नभसि व्यक्ता दृश्यन्ते । तत्र दृष्टान्तः । के चित् उस्राइव। ये केचन सूर्यरश्मयो यथा नभसि दीप्यन्ते तद्वत् ॥ प्रत्वक्षसः । प्रकर्षेण त्वक्षन्ते तनूकुर्वन्तीति प्रत्वक्षसः । ‘ तक्षु त्वक्षू तनूकरणे । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । प्रतवसः । तवः इति बलनाम । प्रकृष्टं तवो येषाम् । बहुव्रीहौ पूर्वेपदप्रकृतिस्वरत्वम् । विरप्शिनः । ‘ रप लप व्यक्तायां वाचि' । विरपणं विरप्शः । औणादिकः शक्प्रत्ययः । तद्वन्तो विरप्शिनः । अनानताः । आनता अवनताः प्रह्वीभूताः । न आनता अनानताः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अविथुराः । ‘ व्यथ भयचलनयोः । ‘ व्यथेः संप्रसारणं धः किञ्च । ( उ. सू . १, ३९ ) इति उरच्प्रत्ययः । अत्र तु बहुलवचनात् धत्वं न क्रियते । पूर्ववत् समासस्वरौ । जुष्टतमासः । ‘ नित्यं मन्त्रे ' इति जुष्टशब्दः आद्युदात्तः। तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते । आनज्रे ।' अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ' । कर्मणि ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट्। ‘ अत आदेः' इति अभ्यासस्य आत्वम् । तस्मान्नुड् द्विहलः । ( पा. सू. ७, ४, ७१ ) इति नुट् । व्यत्ययेन उपधालोपः। ‘ इरयो रे ' । स्तृभिः । ‘ स्तृञ् आच्छादने ' । क्विप् । आगमानुशासनस्यानित्यत्वात् तुगभावः ॥
“Annihilators (of adversaries) endowed with great strength, loud-shouting, unbending inseparable partakers of the evening oblation, constantly worshipped, and leaders (of the clouds), (the Maruts), by their person nal decorations,a re conspicuous (in the sky) like certain rays of the sun.”
LOUD Singers, never humbled, active, full of strength, immovable, impetuous, manliest, best-beloved,
They have displayed themselves with glittering ornaments, a few in number only, like the heavens with stars.
Projecting power and strength, copious, unbowable, unfaltering,
possessing the silvery drink,
most delightful, most manly, with their unguents they have anointed themselves—whoever they are—like the ruddy (dawns) with stars.
Die mächtigen, die kräftigen, die strotzenden, die ungebeugt und ohne Wanken vorwärts gehn, Die höchst willkommnen männlichsten, sie schmückten sich, wie Morgenhimmel oft noch mit der Sterne Schmuck.
Von besonderer Kraft und Stärke, überreich, unbeugsam, ungeschwächt, Trestersoma trinkend, sehr beliebt und mannhaft haben sich gewisse Männer mit Zierraten herausgeputzt wie die Sternenbilder mit den Sternen.
Очень бодрые, страшно сильные, брызжущие (энергией),
Несгибаемые, непоколебимые, пьющие сому из выжимок,
Самые любимые, самые мужественные, сверкающие украшениями
Украсились некие (мужи), словно зори – звездами.
उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुत॒: केन॑ चित्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥
उ॒प॒ऽह्व॒रेषु॒ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था । श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥
हे मरुतः उपह्वरेषु उपह्वर्तव्येषु गन्तव्येष्वस्माकं संनिकृष्टेषु नभसः प्रदेशेषु यत् यदा ययिं गतिमन्तं मेघम् अचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ । किं कुर्वन्तः । वयइव पक्षिण इव केन चित् पथा केनचिदाकाशमार्गेण शीघ्रं गच्छन्तः । नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेघा उपचीयन्ते इत्यर्थः । तदानीं कोशाः । मेघनामैतत् । वः युष्माकं रथेषु आसक्ता मेघाः श्चोतन्ति जलं मुञ्चन्ति । यस्मादेवं तस्मात् हे मस्तो यूयम् अर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय मधुवर्णं मधुसदृशरूपं स्वच्छं घृतं वृष्ट्युदकम् आ समन्तात् उक्षत सिञ्चत । अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः ॥ उपहृरेषु । ‘ ह्वृ कौटिल्ये '। उपह्वरन्ति कौटिल्येन तिर्यग्गच्छन्त्येष्विति उपह्वरा नभःप्रदेशाः। ‘पुंसि संज्ञायां घः प्रायेण ' इति अधिकरणे घः। अचिध्वम् । चिनोतेः वर्तमाने लङ् । ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ययिम् । ' या प्रापणे '। ‘ आदृगमहनजनः । इति किप्रत्ययः । पथा । आङि ‘ भस्य टेर्लोपः' इति दिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । श्चोतन्ति । श्च्युतिर् क्षरणे ' । छान्दसो यलोपः । उक्षत । उक्ष सेचने '। लोटि तशब्दस्य ङित्त्वे सति ऋचि तुनुघ' ' इत्यादिना सांहितिको दीर्घः ॥
“When, Maruts, flying like birds along a certain path (of the sky), you collect the moving passing (clouds) in the nearest portions (of the firmament), then, coming into collision with your cars, they pour forth (the waters); therefore, do you shower upon your worshipper the honey-coloured rain.”
When, Maruts, on the steeps ye pile the moving cloud, ye are like birds on whatsoever path it be.
Clouds everywhere shed forth the rain upon your cars. Drop fatness, honey-hued, for him who sings your praise.
When you have set your mind on journeying on the byways like birds, o Maruts, along who knows what path,
the casks on your chariots drip. Sprinkle ghee the color of honey for the one who chants.
Wenn ihr die Wetterwolke häuft am Niederhang, die, Maruts, ihr auf jedem Pfad wie Vögel fliegt, Dann träufeln Eimer, die auf euren Wagen stehn, dann giesst dem Sänger honigfarbne Butter zu.
Wenn ihr Marut in euren Verstecken die Fahrt beschlossen habt auf jedwedem Wege wie die Vögel, so triefen die Eimer auf euren Wagen. Träufet honigfarbenes Schmalz für den Sänger!
Когда в извилинах (горы) вы решили (отправиться) в поход
Словно птицы на каком-нибудь пути, о Маруты, –
То протекают по каплям бочки на ваших колесницах.
Кропите жиром медового цвета для вашего певца!
प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
प्र । ए॒षा॒म् । अज्मे॑षु । वि॒थु॒राऽइ॑व । रे॒ज॒ते॒ । भूमिः॑ । यामे॑षु । यत् । ह॒ । यु॒ञ्जते॑ । शु॒भे । ते । क्री॒ळयः॒ । धुन॑यः । भ्राज॑त्ऽऋष्टयः । स्व॒यम् । म॒हि॒ऽत्वम् । प॒न॒य॒न्त॒ । धूत॑यः ॥
यद्ध यदा खलु एते मरुतः शुभे शोभनाय वृष्ट्युदकाय युञ्जते मेघान् सज्जीकुर्वन्ति तदानीम् अज्मेषु मेघानामुत्क्षेपकेषु एषां मरुतां संबन्धिषु यामेषु मेघानां नियमनेषु सत्सु भूमिः पृथिवी प्र रेजते प्रकर्षेण कम्पते । यद्वा । यदा खलु मरुतः स्वकीयान् रथान् युञ्जते अश्वैर्योजयन्ति तदानीमेषां रथानां संबन्धिषु पर्वतादेरुत्क्षेपकेषु यामेषु गमनेषु भूमिर्भीत्या कम्पते । तत्र दृष्टान्तः। विथुरेव । यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालम्बा सती कम्पते तद्वत् । ते तादृशाः क्रीळयः विहारशीलाः धुनयः चलनस्वभावाः भ्राजदृष्टयः दीप्यमानायुधाः एवंभूता मरुतः धूतयः पर्वतादीन् धुन्वन्तः सन्तः महित्वं स्वकीयं महिमानं स्वयमेव पनयन्त व्यवहरन्ति प्रकटयन्तीत्यर्थः ॥ अज्मेषु ।“ अज गतिक्षेपणयोः'। अर्तिस्तुसु° ' इत्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः । ‘ वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४, ५६. २) इति वचनात् ‘ अजेर्व्यघञपोः' इति वीभावाभावः । नित्त्वादाद्युदात्तत्वम् । रेजते । रेजृ कम्पने '। भ्यसते रजत इति भयवेपनयोः ' (निरु. ३. २१) इति यास्कः । यामेषु । ‘यम उपरमे' । भावे घञ् । 'कर्षात्वतः इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । यद्वा । ‘ या प्रापणे ' इत्यस्मात् 'अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः । शुभे । 'शुभ दीप्तौ । संपदादिलक्षणः कर्मणि क्विप् । 'सावेकाचः । इति विभक्तेरुदात्तत्वम् । पनयन्त । “ पन व्यवहारे' । गुपूधूपविच्छि°' (पा. सू. ३. १. २८) इति आयः । अस्मात् छान्दसो लङ् । व्यत्ययेन ह्रस्वत्वम् ॥
“When they assemble (the clouds) for the good work, earth trembles at their impetuous movements, like a wife (whose husband is away); sportive, capricious, armed with bright weapons, and agitating (the solid rocks) they manifest their inherent might.”
Earth at their racings trembles as if weak and worn, when on their ways they yoke their cars for victory.
They, sportive, loudly roaring, armed with glittering spears, shakers of all, themselves admire their mightiness.
At their drives, at their journeys the earth trembles like one with faltering step, when they hitch up, for beauty.
Playful, boisterous, with glinting spears, the shakers admire their own greatness.
Die Erde bebt bei ihrem Zug wie zitternd Laub, wenn sie zur Pracht auf ihren Fahrten rüsten sich; Sie, springend, brausend, funkelnd mit der Speere Schein, verkünden selbst, die Stürmer, ihre Herrlichkeit.
Unter ihren Anläufen zittert die Erde wie eine schwache Frau, bei ihren Ausfahrten, wenn sie zur Prunkfahrt anspannen. Die Tändelnden, Lärmenden mit funkelnden Speeren posaunen selbst ihre Grüße aus, die Schüttler.
При их походах, при выездах сотрясается земля,
Словно трепещущая (жена), когда они запрягают для блеска.
Эти шумные баловни со сверкающими копьями
Сами трубят о своем величии, сотрясатели.
स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः । असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥
सः । हि । स्व॒ऽसृत् । पृष॑त्ऽअश्वः । युवा॑ । ग॒णः । अ॒या । ई॒शा॒नः । तवि॑षीऽभिः॑ । आऽव् ऋतः । असि॑ । स॒त्यः । ऋ॒ण॒ऽयावा॑ । अने॑द्यः । अ॒स्याः । धि॒यः । प्र॒ऽअ॒वि॒ता । अथ॑ । वृषा॑ । ग॒णः ॥
स हि स खलु मरुद्गणः अया अस्य सर्वस्य जगतः ईशानः ईशनशीलः भवति। कीदृशः । स्वसृत् स्वयमेव सरन् । न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति । पृषदश्वः । पृषत्यः श्वेतबिन्द्वङकिताः मृग्यः अश्वस्थानीयाः यस्य स तथोक्तः । युवा नित्यतरुणः तविषीभिः अन्येषामसाधारणैर्बलैः आवृतः परिवेष्टितः सत्यः सत्कर्मार्हः ऋणयावा स्तोतॄणामृणस्यापगमयिता बहुलस्य धनस्य दातेत्यर्थः । अनेद्यः । प्रशस्यनामैतत् । सर्वैरनिन्दितः वृषा जलानां वर्षिता । एवंभूतो मरुद्गणः अस्याः धियः अस्मदीयस्यास्य कर्मणः अथ अनन्तरं प्राविता असि प्रकर्षेण रक्षिता भवति ॥ अया। ‘सुपां सुलुक् ' इति षष्ठ्याः याजादेशः । ‘ हलि लोपः' ( पा. सू. ७. २. ११३ ) इति इदम इद्रूपस्य लोपः । ईशानः । ‘ ईश ऐश्वर्ये' इत्यस्मात् ताच्छीलिकः चानश् । तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणान्तोदात्तत्वम् । अया ईशान इत्यत्र ईषाअक्षादित्वात् प्रकृतिभावः । असि । पुरुषव्यत्ययः । ऋणयावा । ‘ या प्रापणे ' इत्यस्मात् अन्तर्भावितण्यर्थात् “ आतो मनिन् । इति वनिप् । अनेद्यः । ‘ णिदि कुत्सायाम् । ऋहलोर्ण्यत्' इति ण्यत् । आगमानुशासनस्यानित्यत्वात् नुमभावे लघूपधगुणः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“The troop of Maruts is self-moving deer-borne, ever young, lords of this (earth), and invested with vigour; you, who are sincere liberators from debt, irreproachable, and shedders of rain, are the protectors of this our rite.”
Self-moving is that youthful band, with spotted steeds; thus it hath lordly sway, endued with power and might.
Truthful art thou, and blameless, searcher out of sin: so thou, Strong Host, wilt be protector of this prayer.
For such is the flock: youthful, self-propelling, possessing dappled horses, irrepressible, showing mastery, swathed in powers.
And you are a real, irreproachable requiter of debts, a furtherer of
this insight here. Therefore you [=Gotama Rāhūgaṇa] are (also) a
bullish flock.
Denn selbst sich treibend, Hirsche lenkend, mühelos, mit Kraft gerüstet, herrschend ist die junge Schar; Du bist getreu, schuldtilgend und untadelig, und dieser Andacht Schützer, o gewalt'ge Schar.
Denn diese jugendliche Schar läuft aus eigenem Antrieb mit den gefleckten Rossen, unverzagt, mächtig, von den Stärken umgeben. Du bist ein wahrhafter, untadeliger Vergelter; darum ist die bullenhafte Schar ein Gönner dieser Dichtung.
Ведь это юная стая, мчащаяся по своей воле, на пестрых конях,
Неутомимая, властная, окруженная силами...
Ты истинный безупречный погаситель долгов.
Потому толпа мужей и содействует этой молитве.
पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा । यदी॒मिन्द्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥
पि॒तुः । प्र॒त्नस्य॑ । जन्म॑ना । व॒दा॒म॒सि॒ । सोम॑स्य । जि॒ह्वा । प्र । जि॒गा॒ति॒ । चक्ष॑सा । यत् । ई॒म् । इन्द्र॑म् । शमि॑ । ऋक्वा॑णः । आश॑त । आत् । इत् । नामा॑नि । य॒ज्ञिया॑नि । द॒धि॒रे॒ ॥
प्रत्नस्य चिरंतनस्य पितुः अस्माकं जनकस्य रहूगणस्य सकाशात् यत् जन्म तेन वयं वदामसि ब्रूमः । वक्ष्यमाणं वृत्तान्तम् अस्माकं पितोपदिष्टवान् अतो वयं ब्रूम इत्यर्थः । कोऽसौ वृत्तान्तः इति चेत् उच्यते । सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य चक्षसा प्रकाशमानयाहुत्या सहिता जिह्वा स्तुतिरूपा वाक् प्र जिगाति मरुद्गणं प्रकर्षेण गच्छति । यज्ञेषु सोमाहुतिः स्तुतिश्च मरुद्भ्यः क्रियते । यस्मात् ईम् एनम् इन्द्रं शमि वृत्रवधादिरूपे कर्मणि ऋक्वाणः ‘ प्रहर भगवो जहि वीरयस्व ' इत्येवंरूपया स्तुत्या युक्ताः सन्तः आशत प्राप्नुवन् न पर्यत्याक्षुः । आदित् एवमिन्द्रप्राप्त्यनन्तरमेव यज्ञियानि यज्ञार्हाणि ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादीनि नामानि इन्द्रसकाशात् लब्ध्वा दधिरे धृतवन्तः तस्मादेषां यज्ञे सोमाहुतिः स्तुतिश्च क्रियते ॥ शमि । शमी इति कर्मनाम। सप्तम्येकवचने छान्दसः ईकारलोपः । ऋक्वाणः । ‘ ऋच स्तुतौ '। संपदादिलक्षणो भावे क्विप् । छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । अन्त्यविकारश्छान्दसः । यद्वा । अयस्मयादिषु क्वचिदुभयं भवति ( का. १. ४. २० ) इत्युक्तत्वात् ‘स सुष्टुभा स ऋक्वता' इत्यादाविव पदत्वात् कुत्वं भत्वात् जश्त्वाभावः । आशत । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यज्ञियानि । ‘ यज्ञर्त्विग्यां घखञौ ' इति अर्हार्थे घः ॥
“We declare by our birth from our ancient sire, that the tongue (of praise) accompanies the manifesting (invocation of the Maruts) at the libations of the Soma; for, inasmuch as they stood by encouraging Indra in the conflict, they have acquired names that are to be recited at sacrifices.”
We speak by our descent from our primeval Sire; our tongue, when we behold the Soma, stirs itself.
When, shouting, they had joined Indra in toil of fight, then only they obtained their sacrificial names.
We speak by virtue of our kinship with our primordial father; the tongue advances with the eye of soma. When, equipped with chant, they [=Maruts] reached Indra by their labor, just after that they acquired names worthy of the sacrifice.
Nach unsres alten Ahnen Weise singen wir; beim Schaun des Soma strecken sie die Zunge vor; Als jubelnd sie zu Indra drangen eifervoll, da haben opferswerthe Namen sie erreicht.
Durch unsere Abstammung von dem alten Vater führen wir das Wort; die Zunge bewegt sich von dem Auge des Soma geleitet! Da sie mit Dienst als Barden zu Indra gekommen sind, haben sie opferwürdige Namen erworben.
Мы говорим благодаря происхождению от древнего отца.
Язык движется благодаря глазу сомы.
Ведь они, певцы, трудом достигли Индры,
Они приобрели имена, достойные жертв.
श्रि॒यसे॒ कं भा॒नुभि॒: सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दय॑: । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्न॑: ॥
श्रि॒यसे॑ । कम् । भा॒नुऽभिः॑ । सम् । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिऽभिः॑ । ते । ऋक्व॑ऽभिः । सु॒ऽखा॒दयः॑ । ते । वाशी॑ऽमन्तः । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥
ते पूर्वोक्ता मरुतः भानुभिः भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह कं वृष्ट्युदकं श्रियसे श्रयितुं प्राणिभिः सेवितुं सं मिमिक्षिरे सम्यग्मेढुमिच्छन्ति । पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति । एवं वृष्टिमुत्पाद्य ते मरुतः ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह सुखादयः शोभनस्य हविषो भक्षयितारो भवन्ति । वाशीमन्तः । वाशी इति वाङ्नाम। शोभनया स्तुतिलक्षणया वाचोपेताः इष्मिणः गतिमन्तः अभीरवः भयरहिताः ते मरुतः प्रियस्य सर्वाभिमतस्य मारुतस्य मरुत्संबन्धिनः धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं विद्रे लब्धवन्तः ॥ श्रियसे । ‘तुमर्थे सेसेन्” इति कसेन्प्रत्ययः । मिमिक्षिरे । ‘मिह सेचने'। अस्मात् इच्छासनन्तात् लिटि °अमन्त्रे' इति निषेधात् आमभावः । व्यत्ययेन आत्मनेपदम् । सुखादयः । खादृ भक्षणे'। औणादिकः इप्रत्ययः । शोभना खादिर्भक्षणं येषाम् । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । इष्मिणः। इष गतौ' । इषियुधीन्धि ' इत्यादिना मक् । ततो मत्वर्थीय इनिः । विद्रे । ‘ विद्लृ लाभे '। लिटि द्विर्वचनप्रकरणे ‘ छन्दसि वेति वक्तव्यम्' इति द्विर्वचनाभावः । ‘ इरयो रे ' इति इरयो रेभावः ॥ ॥ १३ ॥
“Combing with the solar rays, they have willingly poured down (rain) for the welfare (of mankind), and, hymned by the priests, have been plural ased partakers of the (sacrificial food); addressed with praises, moving swiftly, and exempt from fear they have become possessed of a station agreeable and suitable to the Maruts.”
Splendours they gained for glory, they who wear bright rings; rays they obtained, and men to celebrate their praise.
Armed with their swords, impetuous and fearing naught, they have possessed the Maruts' own beloved home.
For splendor they join themselves with radiant beams, with rays, with those equipped with chant—the well-spangled ones,
possessing axes and arrows, fearless. They know their own dear Marut nature.
Zur Zierde haben sie mit Glanz sich ausgeschmückt, die schönberingten sich mit lichtem Strahlenschein; Versehn mit Aexten, vorwärts stürmend ohne Furcht vereinten sie sich zur geliebten Marutschar.
Um damit zu prunken, haben sie sich mit Lichtglanz, mit Strahlen, mit den Sängern zusammengetan, die Träger schöner Ringe, die Axt- und Pfeilbewehrten, die Furchtlosen. Sie sind sich ihres lieben marutischen Wesens bewußt.
Для блеска они соединились с лучами,
Они – с поводьями (колесницы), они – с певцами, (Маруты), с прекрасными кольцами,
Они, носящие топоры, снабженные стрелами, бесстрашные.
Они (сами) сознают (свою) славную суть (Марутов).