आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः । आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः । आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥
हे मरुतः मितं निर्मितमन्तरिक्षं प्राप्य रुवन्ति शब्दं कुर्वन्तीति मरुतः । यद्वा । अमितं भृशं शब्दकारिणः । अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः । अथवा महत्यन्तरिक्षे द्रवन्तीति मरुतः । ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुतः आख्यायन्ते । तथा चाहुः-- ‘ सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः । गणश्च सर्वे मरुत इति वृद्धानुशासनम् ' इति । पौराणिकास्त्वाचक्षते- ‘ मारीचात्कश्यपात्सप्तगणामका एकोनपञ्चाशत्संख्याका मरुतो जज्ञिरे ' इति । एवंभूता हे मरुतः रथेभिः आत्मीयैः रथैः आ यात अस्मदीयं यज्ञमागच्छत । कीदृशैः रथैः ॥ विद्युन्मद्भिः । विद्योतनं विद्युत् । विशिष्टदीप्तियुक्तैः स्वर्कैः स्वञ्चनैः शोभनगमनयुक्तैः । यद्वा । शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः । अथवा शोभनदीप्तियुक्तैः । ऋष्टिमद्भिः । ऋष्टयः शक्तिरूपाण्यायुधानि । स्थूणा इत्यन्ये । तद्वद्भिः । अश्वपर्णैः । अश्वानां पतनं गमनं येषामस्ति तादृशैः । यद्वा । रंहणशीला मेघा रथाः । तैः सह अन्तरिक्षे वर्षणार्थमागच्छत । कीदृशैः । विद्युन्मद्भिः । विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्टिमद्भिः । अर्षणं गमनम्। तत्स्वभावनीरयुक्तैः । अश्वपर्णैः । अश्वं व्याप्तं पर्णं पतनं गमनं येषाम् । अन्तरिक्षं व्याप्य वर्तमानैरित्यर्थः । हे सुमायाः । माया इति कर्मणो ज्ञानस्य च नामधेयम् । शोभनकर्माणः शोभनप्रज्ञा वा मरुतः वर्षिष्ठया प्रवृद्धतरया इषा अस्मभ्यं दातव्येनान्नेन सह नः अस्मान्प्रति वयो न पक्षिण इव शीघ्रम् आ पप्तत आपतत आगच्छतेत्यर्थः । अत्र निरुक्तम् - ‘ अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवन्ति । मरुतो मितराविणो वा मितरोचिनो वा महद्द्रवन्तीति वा ' इति, विद्युन्मद्भिर्मरुतः स्वर्कैः स्वञ्चनैरिति वा स्वर्चनैरिति वा स्वर्चिभिरिति वा रथैरायात ऋष्टिमद्भिरश्वपर्णैश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याणप्रज्ञा वा ' ( निरु. ११. १३-१४ ) इति ॥ विद्युन्मद्भिः । यवादेराकृतिगणत्वेन विद्युच्छब्दस्य यवाद्यन्तर्भावात् अयवादिभ्यः ' इत्यत्र अनुवृत्तेः ‘झयः' ( पा. सू. ८. २. १० ) इति मतुपो वत्वं न प्रवर्तते । ऋष्टिमद्भिः । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । अश्वपर्णैः । अशू व्याप्तौ । अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्षिष्ठया । वृद्धशब्दात् आतिशायनिके इष्टनि ‘प्रियस्थिर इत्यादिना वर्षादेशः । पप्तत । ‘ पत्लृ गतौ ' । लङि लृदित्त्वात् च्लेः अङादेशः । ‘ पतः पुम्' (पा. सू. ७. ४. १९ ) इति पुमागमः ॥
“Come, Maruts, with your brilliant light-moving, well-weaponed, steed-harnessed chariots; doers of good deeds, descend like birds, (and bring us) abundant food.”
COME hither, Maruts, on your lightning laden cars, sounding with sweet songs, armed with lances, winged with steeds.
Fly unto us with noblest food, like birds, O ye of mighty power.
With your chariots fitted with lightning bolts and with spears, whose wings are horses, accompanied by lovely chants, drive here, o Maruts. Fly here like birds, with highest refreshment for us, you masters of
artifice.
Kommt her, o Maruts, auf blitzbeladenen, schön glänzenden, speerversehenen, mit Rossen fliegenden Wagen; fliegt her wie Vögel mit sehr reichlichem Labetrunk, schöne Pläne verfolgend.
Kommet her, Marut, auf blitzenden, von schönem Gesang begleiteten, speerestarrenden, rossebeschwingten Wagen! Flieget gleich den Vögeln zu uns mit dem höchsten Labsal, ihr Zauberkünstler!
О Маруты, приезжайте на молниеносных
Колесницах, сопровождаемых напевами,
С копьями, с конями-крыльями!
С самым лучшим подкреплением,
Прилетайте к нам, как птицы, о благие повелители колдовской силы!
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गै॑: शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वै॑: । रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ । रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥
ते पूर्वोक्ता मरुतः अरुणेभिः अरुणवर्णैः पिशङ्गैः पिङ्गलवर्णैरुभयवर्णोपेतैः रथतूर्भिः रथस्य प्रेरयितृभिः अश्वैः वरं देवानां वरीतारं कं शब्दयितारं स्तुवन्तं यजमानम् आ यान्ति आगच्छन्ति । किमर्थम्। शुभे तस्य शोभां कर्तुम् । अथवा शुभे उदकाय । वृष्ट्यर्थमित्यर्थः । तेषां मरुतां गणः रुक्मो न रोचमानं सुवर्णमिव चित्रः अतिशयेन दर्शनीयः स्वधितीवान् । स्वधितिः इति वज्रनाम । शत्रूणां खण्डकेनायुधेनोपेतः । एवंविधगणरूपास्ते मरुतः रथस्य पव्या चक्रधारया भूम भूमिं जङ्घनन्त अत्यर्थं घ्नन्ति । स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः ॥ वरम् । व्रियन्ते देवाः अनेनेति वरः । ‘ ग्रहवृदृनिश्चि° ' इति करणे अप् । कम्। ‘ कै गै शब्दे । कायतीति कः । बहुलवचनात् कप्रत्ययः । रथतूर्भिः । ‘ तुर वरणे'। रथं तुतुरति त्वरा युक्तं कुर्वन्तीति रथतुरः । ‘क्विप् च ' इति क्विप् । भिसि ‘हलि च' इति दीर्घत्वम् । पव्या । ‘ पवी रथनेमिर्भवति' (निरु. ५. ५) इति यास्कः । ‘ पृङ् पवने । अस्मात् अच इः' इति इप्रत्ययः । ‘ उदात्तयणः० ' इति विभक्तेरुदात्तत्वम् । जङ्घनन्त । हन्तेर्यङन्तात् वर्तमाने छान्दसो लङ् । 'छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् अतोलोपयलोपौ । भूम। भूमिशब्दादुत्तरस्य अमः ‘सुपां सुलुक् इति डादेशः । छान्दसं ह्रस्वत्वम् ।
“To what glorifier (of the gods) do they repair with their ruddy, tawny, car-bearing horses for his advantage? bright as burnished (gold), and armed with the thunderbolt, they furrow the earth with their chariot-wheels.”
With their red-hued or, haply, tawny coursers which speed their chariots on, they come for glory.
Brilliant like gold is he who holds the thunder. Earth have they smitten with the chariot's felly.
With the ruddy, tawny horses they drive at will for beauty, with their horses that outstrip chariots—
provided with hatchets (the Marut flock) is sparkling like a brilliant. They keep pounding the earth with the wheel-rim of their chariot.
Sie kommen mit den röthlichen, goldfarbenen, Wagen beeilenden Rossen nach eigner Lust zur Pracht herbei; wie Gold glänzend, mit Aexten versehen ist ihr Wagen; mit dessen Schienen erschüttern sie die Erde.
Nach Wunsch fahren sie mit ihren rötlichen, gelbroten, andere Wagen überholenden Rossen zum Prunke. Wie ein Goldschmuck die Augen auf sich ziehend, mit Äxten versehen, zerstampfen sie mit der Radschiene des Wagens den Erdboden.
В свое удовольствие они ездят на алых,
Золотистых конях, обгоняющих колесницы – для блеска.
Сверкает, как золотая пластинка (их колесница) с топорами.
Они прибивают землю ободом колесницы.
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा । यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥
हे मरुतः वः युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकम् आराख्यमायुधं श्रिये कम् ऐश्वर्यार्थं वर्तते इति शेषः । कम् इत्येतत् पादपूरणम् । तदुक्तम्- अथापि पादपूरणाः कमीमिद्विति' इति । तादृशा मरुतः वना न उच्छ्रितान् वृक्षसमूहानिव मेधा मेधान् यज्ञान ऊर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितान् कृणवन्ते यजमानैः कारयन्ति । हे सुजाताः शोभन जननयुक्ताः मरुतः युष्मभ्यं युष्मदर्थं कं सुखकरम् अद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमानाः धनयन्ते धनं कुर्वन्ति युष्माकं यागाय ग्रावभिरभिषुण्वन्तीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततः छन्दसीवनिपौ' ' इति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । ‘ सुपां सुलुक् ' इति शसो डादेशः । वना । ‘ शेश्छन्दसि बहुलम् इति शेर्लोपः । कृणवन्ते । कृवि हिंसाकरणयोश्च'। लटि व्यत्ययेन आत्मनेपदम् । ‘धिन्विकृण्व्योर च' इति उप्रत्ययः । पुनरपि व्यत्ययेन अन्तादेशः । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वेन झस्य अङित्वात् गुणे अवादेशः । ऊर्ध्वा । पूर्ववत् डादेशः । धनयन्ते । धनशब्दात् तत्करोति' इति णिच् ॥
“Maruts, the threatening (weapons) are upon your person ns, (able to win) dominion; (to you) they praise lofty sacrifices, like (tall) trees; well-born Maruts, for you do wealthy worshippers enrich the stone (that grinds the Soma)].”
For beauty ye have swords upon your bodies. As they stir woods so may they stir our spirits.
For your sake, O ye Maruts very mighty and well-born, have they set the stone, in motion.
For splendor you have axes on your bodies; (the poets) will make their wise thoughts erect like trees
for you, well-born Maruts. The powerfully brilliant ones [=Maruts] are running to the (pressing) stone.
Streitäxte sind zum Schmuck an euren Leibern, sie lassen ihre Schäfte wie Bäume hervorragen; die opferreichen [Priester] setzen euch, o schöngeborne Maruts, den Pressstein in Bewegung.
Zur Zierde habt ihr die Äxte an euren Leibern. Sie sollen die dichterischen Gedanken erheben wie die Bäume. Für euch, ihr edlen Marut, setzen erlauchte Opferherren den Preßstein in Bewegung.
Для блеска – топоры на ваших телах.
Высоко, как деревья, пусть вздымают они (свои) силы вдохновения.
Только для вас, о Маруты прекраснорожденные,
(Жрецы) с могучим озарением приводят в движение давильный камень.
अहा॑नि॒ गृध्रा॒: पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् । ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् । ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥
तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशान्तरे वर्तमानं कूपमुत्खायानीय प्रददुः। एतत् दृष्ट्वा कश्चिदृषिर्रूरेते । हे गोतमाः गृध्राः जलाभिकाङ्क्षायुक्तान् वः युष्मान् अहानि शोभनोदकोपेतानि दिनानि परि आ अगुः पर्यागतानि परितः आभिमुख्येन प्राप्तानि । प्राप्य च वार्कार्याँ वार्भिः उदकैर्निष्पाद्यां धियं ज्योतिष्टोमादिलक्षणं कर्म च देवीं द्योतमानमकुर्वन् । येष्वहःसु ब्रह्म हविर्लक्षणमन्नम् अर्कैः मन्त्रसाध्यैः स्तोत्रैः सह कृण्वन्तः मरुद्यःिन कुर्वन्तः गोतमासः गौतमा ऋषयः उत्सधिम् । उत्सो जलप्रवाहोऽस्मिन्धीयते इत्युत्सधिः कूपः तं पिबध्यै स्वकीयपानाय ऊर्ध्वं नुनुद्रे नुनुदिरे देशान्तरे वर्तमानं कूपमुत्खातवन्तः । एतदीयस्तोत्रैः स्तुता मस्तः कूपमुत्खातवन्त इति यत् तदेतदीयस्तोत्रकारितमिति एतेषूपचर्यते ॥ गृध्राः । ‘ गृधु अभिकाङ्क्षायाम्।' सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । ‘ सुपां सुपो भवन्ति ' इति शसो जस् । नित्त्वादाद्युदात्तत्वम् । अगुः । एतेर्लुङि • इणो गा लुङि' इति गादेशः । आतः' इति झेः जुस् । वार्कार्याम् । ‘डुकृञ् करणे'। ‘ ऋहलोर्ण्यत् । वार्भिः कार्या वार्कार्या । त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम् । नुनुद्रे । ‘ णुद प्रेरणे'। इरयो रे' इति रेआदेशः । उत्सधिम् । कर्मण्यधिकरणे च ' इति दधातेरधिकरणे किप्रत्ययः । पिबध्यै । ‘ पा पाने । तुमर्थे सेसेन्” ' इति शध्यैन्प्रत्ययः । ‘ पाघ्रा ' इत्यादिना पिबादेशः ॥
“Fortunate days have befallen you, (sons of Gotama), when thirsty, and have given lustre to the rite for which water was essential; the sons of Gotama, (offering) oblations with sacred hymns, have raised aloft the well (provided) for their dwelling.”
The days went round you and came back O yearners, back, to this prayer and to this solemn worship.
The Gotamas making their prayer with singing have pushed the well's lid up to drink the water.
For days, (like) vultures they have been wheeling around this insight for you, and around the goddess “Water-Maker” [=penis =vīṇā].
Making a sacred formulation, with their chants the Gotamas have
pushed the fountainhead erect, for drinking.
Viele Tage hindurch betrieben die begierigen [Gotamer] dies an euch gerichtete Gebet und das wasserschaffende Götteropfer; mit Liedern Gebet verrichtend haben die Gotamer den Wasserborn emporgetrieben, um zu trinken.
Tagelang hatten sie wie Geier für euch diese Dichtung und die Göttin Varkarya umkreist. Mit Preisliedern eine feierliche Beschwörung machend hoben die Gotama´s den Brunnen nach oben zum Trinken.
(Целые) дни коршунами они кружили около вас,
(Охраняя) эту мысль и богиню Варкарью.
Творя молитву, люди из рода Готамы (своими) песнями
Высоко вытолкнули вместилище источника, чтобы пить (из него).
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः । पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
ए॒तत् । त्यत् । न । योज॑नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत॑मः । वः॒ । पश्य॑न् । हिर॑ण्यऽचक्रान् । अयः॑ऽदंष्ट्रान् । वि॒ऽधाव॑तः । व॒राहू॑न् ॥
हे मरुतः एतत् योजनं युज्यतेऽनेन देवतेति योजनम् एतत्सूक्तसाध्यं स्तोत्रम् । त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिव अचेति सर्वैर्ज्ञायते । वः युष्मदर्थं यत् यदेतत्सूक्तरूपं स्तोत्रं गोतमः ‘ ऋषिः सस्वर्ह उच्चारितवान् खलु। किं कुर्वन् । हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान् वा अयोदंष्ट्रान् । दशतीति दंष्ट्रा चक्रधारा । अयोमयीभिश्चक्रधाराभिर्युक्तान् । यद्वा दंशनसाधना ऋष्टयो दंष्ट्राः । अयोमया ऋष्टयो येषाम् । तान् विधावतः विविधमितस्ततः प्रवर्तमानान् वराहून् । वरस्योत्कृष्टस्य शत्रोर्हन्तॄन् । यद्वा उत्कृष्टस्य वृष्ट्युदकस्याहर्तॄन् । अथवा उत्कृष्टानां देवतानामाह्वातॄन वरस्य हविषो भक्षयतॄन् वा । एवंभूतान् मरुतः पश्यन् सम्यग्जानन् गोतमः यत्स्तोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सत् अस्माभिः सर्वैरुपलभ्यते इत्यर्थः । अत्र निरुक्तम् - अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन्हिरण्यचक्रान्' (निरु. ५, ४ ) इति । अचेति । ‘ चिती संज्ञाने । छान्दसो वर्तमाने कर्मणि लुङ् । सस्वः । स्वृ शब्दोपतापयोः । लङि तिपि ‘ बहुलं छन्दसि ' इति शपः श्लुः । गुणे ‘ हल्ङ्याब्भ्यः० ' इति तलोपः । धातुस्वरेण अन्तोदात्तत्वम् । वराहून्। वरशब्दोपपदात् आङ्पूर्वात् हन्तेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थात् वा हु इत्येतस्य निष्पत्तिः इति स्कन्दस्वामी । अस्य पृषोदरादित्वात् अभिमतसिद्धिः॥
“This hymn is known to be the same as that which Gotama recited Maruts, in your (praise) when he beheld you seated in your chariots with golden wheels, armed with weapons, hurrying hither and thither, and destroying your mightiest foes.”
No hymn way ever known like this aforetime which Gotama sang forth for you, O Maruts,
What time upon your golden wheels he saw you, wild boars rushing about with tusks of iron.
Just now it has appeared, not (even) a wagon-trek away—the
(formulation) that Gotama (has made) in private for you, Maruts,
upon seeing your golden-wheeled (chariots) and (you) copper-tusked boars streaking across (the sky).
Nie hat ein Lied-gespann sich wie dies erwiesen, was euch, o Maruts, Gotama sang, als er sah die mit goldnen Rädern [Wagen], mit eisernem Gebiss versehenen einherstürmenden Eber [die Maruts].
Nicht war das bekannte Gespann sichtbar, als Gotama euch, ihr Marut, heimlich erspähte, der die goldrädrigen, eisenzahnigen Eber weglaufen sah.
Эта самая упряжка не была заметна,
Когда тайно, о Маруты, вас (разглядел) Готама,
Видя убегающих кабанов
С золотыми колесами, с железными клыками.
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ । अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ । अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥
हे मरुतः स्या सा एषा अस्मदीया स्तुतिः वः युष्माकम् अनुभर्त्री युष्माननुहरन्ती युष्मद्गुणसदृशी प्रति ष्टोभति प्रत्येकं स्तौति । स्तोभतिः स्तुतिकर्मा । तथा वाघतो न वाणी । नशब्दः संप्रत्यर्थे । तदुक्तं यास्केन - अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ' ( निरु. ७. ३१ ) इति । इदानीम् ऋत्विक्संबन्धिनी वागपि वृथा अनायासेन आसाम् आभिः ऋग्भिः अस्तोभयत् अस्तौत् । इदानीमित्युक्ते कदेत्याह । गभस्त्योः अस्मदीययोर्बाह्वोः स्वधाम् । अन्ननामैतत् । यदा बहुविधमन्नं मरुतः स्थापयन्ति । तामनुलक्ष्येत्यर्थः ॥ अनुभर्त्री । ‘ हृञ् हरणे ' । तृच् । ऋन्नेभ्यः' इति ङीप् । ‘ उदात्तयणो हल्पूर्वात्' इति नद्या उदात्तत्वम् ॥ ॥ १४ ॥
“This is that praise, Maruts, which, suited (to your merits) glorifies every one of you. The speech of the priest has now glorified you, without difficulty, with sacred verses, since (you have plural ced) food in our hands.”
To you this freshening draught of Soma rusheth, O Maruts, like the voice of one who prayeth.
It rusheth freely from our hands as these libations wont to flow.
Just now this “lady hornsman” [=penis-wielder =vīṇā] sounds in response to you, Maruts, like the voice of a cantor.
(The player) has made (her) sound by the power of his hands, the way women like it.
Hier dieser kräftigende dargereichte Soma rauscht euch, o Maruts, entgegen, wie das Lied eines Beters; ohne Mühe liess er [der Priester] die Tränke rauschen nach ihrer Weise in seinen Armen.
Diese eure Stimme, ihr Marut, hallt nachtönend wider wie die des Sängers. Er ließ nach Lust den Ton dieser Lieder, nach eigenem Belieben den der Hände erschallen.
Такова ваша музыка, о Маруты,
Несясь вслед, она отдается, как (голос) певца.
(Готама) легко вызвал звуки этих (песен),
Руками (отбивая такт) по обычаю.