आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: । दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ । दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥
नः अस्मान् क्रतवः अग्निष्टोमादयो महायज्ञाः विश्वतः सर्वस्मादपि दिग्भागात् आ यन्तु आगच्छन्तु । कीदृशाः क्रतवः । भद्राः समीचीनफलसाधनत्वेन कल्याणाः भजनीया वा अदब्धासः असुरैरहिंसिताः अपरीतासः शत्रुभिरपरिगताः अप्रतिरुद्धा इत्यर्थः । उद्भिदः शत्रूणामुद्भेतारः । ईदृशाः क्रतवः अस्मांस्तथा आगच्छन्तु । अप्रायुवः अप्रगच्छन्तः स्वकीयं रक्षितव्यमपरित्यजन्तः अत एव दिवेदिवे प्रतिदिवसं रक्षितारः रक्षां कुर्वन्तः एवंगुणविशिष्टाः सर्वे देवाः नः अस्माकं सदमित् सदैव वृधे वर्धनाय यथा असन् भवेयुस्तथा आगच्छन्तु इति संबन्धः ॥ अदब्धासः । ‘ दम्भु दम्भे'। दम्भो हिंसा । निष्ठायां ‘ यस्य विभाषा' इति इट्प्रतिषेधः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरीतासः । ‘ इण् गतौ । पूर्ववत् कर्मणि निष्ठा । उभयत्र ‘ आज्जसेरसुक् । वृधे । ‘ वृध वृद्धौ '। संपदादिलक्षणो भावे क्विप् । सावेकाचः' इति विभक्तेरुदात्तत्वम् । असन् । ‘ अस भुवि '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । तस्य अङित्त्वात् ‘ असोरल्लोपः' इति अकारलोपाभावः । अप्रायुवः । ‘ इण् गतौ । अस्मात् प्रपूर्वात् छन्दसीणः' इति उण्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जसि जसादिषु च्छन्दसि वावचनम् ' इति गुणस्य विकल्पितत्वादभावे तन्वादित्वात् उवङ् ॥
“May auspicious works, unmolested, unimpeded, and subversive (of foes), come to us from every quarter; may the gods, turning not away from us, but granting us protection day by day, be ever with us for our advancement.”
MAY powers auspicious come to us from every side, never deceived, unhindered, and victorious,
That the Gods ever may be with us for our gain, our guardians day by day unceasing in their care.
Let auspicious ideas come here to us from all sides—undeceivable, uncircumscribable, bursting out—
so that the gods will be (ready) to increase us always, will be our
unfaltering protectors every day.
Uns mögen heilvoll Kräfte nahn von jedem Ort, vorsprudelnd, unversehrt und ungehemmt, Damit die Götter immer uns zum Heile sein und uns beschirmen unablässig Tag für Tag.
Gute Gedanken sollen uns von allen Seiten kommen, unbeirrte, unerreichte, durchschlagende, auf daß die Götter uns immerdar zum Segen seien und unablässige Beschützer Tag für Tag.
Да придут к нам со всех сторон прекрасные силы духа,
Что нельзя обмануть, нельзя обойти, что бьют ключом, -
Чтобы боги всегда помогали нам возрастать,
(Чтоб были) защитниками изо дня в день!
दे॒वानां॑ भ॒द्रा सु॑म॒तिॠ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् । दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयु॒: प्र ति॑रन्तु जी॒वसे॑ ॥
दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् । दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥
भद्रा सुखयित्री भजनीया वा देवानां सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः । कीदृशानाम्। ऋजूयताम् ऋजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम्। तथा देवानां रातिः दानं नः अस्मानाभिमुख्येन नितरां वर्तताम् । तदभिमतफलप्रदानमप्यस्माकं भवत्वित्यर्थः। वयं च तेषां देवानां सख्यं सखित्वं सख्युः कर्म वा उप सेदिम प्राप्नुवाम। तादृशाः देवाः नः अस्माकम् आयुः जीवसे जीवितुं प्र तिरन्तु वर्धयन्तु ॥ भद्रा । ‘ भदि कल्याणे सुखे च' । 'ऋजेन्द्राग्र' (उ. सू. २. १८६ ) इत्यादौ रन्प्रत्ययान्तो निपातितः । ऋजूयताम् । ऋजुमात्मन इच्छति ऋजूयति । ‘ सुप आत्मनः क्यच् । तदन्तात् लटः शतृ। ‘शतुरनुमः० इति अजादिविभक्तेरुदात्तत्वम् । रातिः । ‘रा दाने'। ‘ मन्त्रे वृष° ' इति क्तिन उदात्तत्वम् । सख्यम् । 'सख्युर्यः' इति भावे कर्मणि वा यप्रत्ययः । सेदिम । ‘षद्लृ विशरणगत्यवसादनेषु । ‘ छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लिट् । सत्वस्यानैमित्तिकत्वेन लिटि परत आदेशादित्वाभावात् “ अत एकहल्मध्ये ' इति एत्वाभ्यासलोपौ । ‘ अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । प्र तिरन्तु । प्रपूर्वस्तिरतिर्वर्धनार्थः। तथा च यास्को व्यचख्यौ-’ देवानां सख्यमुपसीदेम वयं देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय' (निरु. १२. ३९ ) इति ।
“May the benevolent favour of the gods (be ours); may the bounty of the gods, ever approving of the upright, light upon us; may we obtain the friendship of the gods, and may the gods extend our days to longevity.”
May the auspicious favour of the Gods be ours, on us descend the bounty of the righteous Gods.
The friendship of the Gods have we devoutly sought: so may the Gods extend our life that we may live.
The auspicious benevolence of the gods is for those who aim straight; let the generosity of the gods roll down toward us.
We have reverently approached the fellowship of the gods: let the gods lengthen our lifetime for us to live.
Der rechtgesinnten Götter segensreiche Huld, der Götter Gabe wende sich zu uns herab; Der Götter Freundschaft haben wir erworben uns, die Götter mögen mehren unsers Lebens Zeit.
Der Götter Wohlwollen kommt den Rechtschaffenden zugute; der Götter Gunst soll bei uns einkehren. Der Götter Freundschaft haben wir umworben; die Götter sollen unsere Zeit zum Leben verlängern.
Прекрасная милость богов – для идущих прямо:
Дар богов да обратится к нам!
Дружбы богов мы добились.
Боги да продлят наш срок – чтобы мы жили!
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् । अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥
तान् विश्वान् देवान् पूर्वया पूर्वकालीनया नित्यया निविदा वेदात्मिकया वाचा । निविदिति वाङ्नाम । यद्वा निविदा ' विश्वे देवाः सोमस्य मत्सन् ' इत्यादिकया वैश्वदेव्या निविदा वयं हूमहे आह्वयामः । देवानिति यत्सामान्येनोक्तं तदेव विव्रियते । भगं भजनीयं द्वादशानामादित्यानामन्यतमं मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम् । ' मैत्रं वा अहः' (तै. ब्रा. १. ७. १०. १) इति श्रुतेः । अदितिम् अखण्डनीयामदीनां वा देवमातरं दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम् । यद्वा । प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम् । ‘प्राणो वै दक्षः' ( तै. सं. २. ५. २. ४) इति श्रुतेः । अस्रिधं शोषणरहितं सर्वदैकरूपेण वर्तमानं मरुद्गणम् । अर्यमणम् । अरीन् मन्देहादीनसुरान् यच्छति नियच्छतीति अर्यमा सूर्यः। ‘असौ वा आदित्योऽर्यमा'(तै. सं. २. ३.४. १) इति श्रुतेः । तम्। वरुणम्। वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः । श्रूयते च- वारुणी रात्रिः ' (तै. ब्रा. १. ७. १०.१) इति । सोमं द्वेधा' आत्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चन्द्रात्मना देवतारूपेण वर्तमानम् । अश्विना अश्ववन्तौ । यद्वा सर्वं व्याप्नुवन्तौ । तथा च याकः- अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः (निरु. १२. १ ) इति । एवंभूतान् सर्वान् देवान् अस्मद्रक्षणार्थमाह्वयामः इति पूर्वत्र संबन्धः । अस्माभिराहूता सुभगा शोभनधनोपेता सरस्वती नः अस्मभ्यं मयः सुखं करत् करोतु ॥ हूमहे । ह्वेञो लटि ‘ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वे ‘हलः ' इति दीर्घत्वम् । बहुलं छन्दसि ' इति शपो लुक् । अस्रिधम् । ‘ स्त्रिधु शोषणे'। संपदादिलक्षणोभावे क्विप् । बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मयस्करत् । करोतेर्लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । अतः कृकमि इति विसर्जनीयस्य' सत्वम् ॥
“We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.”
We call them hither with a hymn of olden time, Bhaga, the friendly Daksa, Mitra, Aditi,
Aryaman, Varuna, Soma, the Asvins. May Sarasvati, auspicious, grant felicity.
Them do we call upon with our age-old formal invocation
[=nivid]: Bhaga, Mitra, Aditi, Skill unfailing,
Aryaman, Varuṇa, Soma, the Aśvins. May well-portioned Sarasvatī
create joy for us.
Nach alter Vorschrift rufen wir die Götter an, den holden Dakscha, Bhaga, Mitra, Aditi, Die Ritter, Soma, Arjaman und Varuna, die selige Sarasvati verschaff' uns Lust.
Diese rufen wir mit altem Spruch an: Bhaga, Mitra, Aditi, Daksa, den Unfehlbaren, Aryaman, Varuna, Soma, die Asvin. Die holde Sarasvati möge uns Glück bescheren.
К ним обращаемся мы с обычным призывом:
К Бхаге, Митре, Адити, Дакше не ошибающемуся,
Арьяману, Варуне, Соме, Ашвинам.
Сарасвати благодатная да создаст нам счастье!
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः । तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥
वातः वायुः तत् भेषजम् औषधं नः अस्मान् वातु प्रापयतु । यद्भेषजं मयोभु मयसः सुखस्य भावयितृ । माता सर्वेषां जननी पृथिवी भूमिरपि तत् भेषजम् अस्मान् प्रापयतु । पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौः द्युलोकोऽपि तत् भेषजम् अस्मान् प्रापयतु । सोमसुतः सोमाभिषवं कृतवन्तः मयोभुवः मयसः यागफलभूतस्य सुखस्य भावयितारः ग्रावाणः अभिषवसाधनाः पाषाणाश्च तत् भेषजम् अस्मान प्रापयन्तु । हे धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ युवं युवां तत् भेषजं शृणुतं आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ‘ ह्रस्वो नपुंसके प्रातिपदिकस्य ' ( पा. सू. १. २. ४७ ) इति ह्रस्वत्वम् । वातु ।' वा गतिगन्धनयोः । अन्तर्भावितण्यर्थात् प्रार्थनायां लोट् । सोमसुतः । ‘ सोमे सुञः ' ( पा. सू. ३. २. ९० ) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दात् अह्वार्थे ' छन्दसि च' इति यः । वर्णलोपश्छान्दसः । ‘ सुपां सुलुक्' इति आकारः ॥
“May the wind waft to us the grateful medicament; may mother earth, may father heaven, (convey) it (to us); may the stones that express Soma, and are productive of plural asure (bring) it (to us); Aśvins, who are to be meditated upon, hear (our submission).”
May the Wind waft to us that pleasant medicine, may Earth our Mother give it, and our Father Heaven,
And the joy-giving stones that press the Soma's juice. Asvins, may ye, for whom our spirits long, hear this.
At this let the Wind blow us a remedy that is joy itself. At this (let) Mother Earth, at this (let) Father Heaven,
at this (let) the soma-pressing stones (be) joy itself. To this, o holy
Aśvins, give ear.
Dies Labemittel wehe uns der Wind herbei, die Mutter Erde und der Vater Himmel dies, Die Steine dies, die somapressenden zum Heil, vernehmet dies, o gabenreiche Ritter ihr.
Diese beglückende Arzenei soll uns der Wind zuwehen, diese die beglückenden somapressenden Steine. Ihr weisen Asvin, höret das!
Да навеет нам ветер лекарство, приносящее счастье,
(Да ниспошлет) его Мать-Земля, его – Отец-Небо,
Его-давильные камни, выжимающие сому, приносящие счастье!
Услышьте это, о Ашвины, вы, возбуждающие вдохновение!
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् । पू॒षा । नः॒ । यथा॑ । वेद॑सम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥
पूर्वार्धेनेन्द्रः स्तूयते अपरार्धेन पूषा । ईशानम् ऐश्वर्यवन्तं अत एव जगतः जङ्गमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीभिः कर्मभिः प्रीणयितव्यं एवंभूतं तम् इन्द्रम् अवसे रक्षणाय वयं हूमहे आह्वयामः । पूषा नः अस्माकं वेदसां धनानां वृधे वर्धनाय रक्षिता यथा असत् येन प्रकारेण भवति तेनैव प्रकारेण अदब्धः केनाप्यहिंसितः पूषा स्वस्तये अस्माकमविनाशाय पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । ‘शासिवसिघसीनां च ' इति षत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । ‘ कृत्यल्युटो बहलम् ' इति बहुलवचनात् खच् । ‘इच एकाचोऽम् प्रत्ययवच्च ' ( पा. सू. ६. ३. ६८ ) इति अमागमः । असत् । अस भुवि '। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । पायुः । ‘ पा रक्षणे '। ‘कृवापाजि' इति उण् । स्वस्तये । सुपूर्वात् अस्तेः भावे क्तिन् । 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वात् “ अस्तेर्भूः' (पा. सू. २. ४. ५२) इति भूभावाभावः' इति वृत्तावुक्तम्॥१५॥
“We invoke that lord of living beings, that protector of things immoveable, Indra, who is to be propitiated by pious rites, for our protection; as Pūṣan has ever been our defender for the increase of our riches, so may he (continue) the unmolested guardian of our welfare.”
Him we invoke for aid who reigns supreme, the Lord of all that stands or moves, inspirer of the soul,
That Pusan may promote the increase of our wealth, our keeper and our guard infallible for our good.
The one who holds sway, the lord of the moving and the still, who quickens insight, do we call upon for help,
so that Pūṣan will be (ready) to increase our possessions, will be a
guardian, an undeceivable protector for our well-being.
Ihn, der als Herr beherrschet, was da geht und steht, den Andachtfördrer rufen wir um Hülfe an, Den Puschan, dass zur Mehrung unsrer Habe er ein treuer Schützer und Behüter sei zum Heil.
Den mächtigen Herrn dessen, was geht und steht, den Gedankenwecker rufen wir zur Gunsterweisung, auf daß Pusan zur Mehrung unseres Besitzes helfe als ein unbeirrter Schützer und Behüter zum Glück.
Этого правящего (всем) движущимся (и) неподвижным, господина,
Вдохновляющего мысль, мы призываем на помощь,
Чтобы Пушан помог увеличить наше достояние,
Как защитник, охранитель, не терпящий обмана – (нам) на благо.
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः । स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥
वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः इन्द्रः नः अस्माकम् । ‘स्वस्तीत्स्यविनाशनाम ' ( निरु. ३. २१)। स्वस्ति अविनाशं दधातु विदधातु करोतु । विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः । यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः पूषा पोषको देवः नः अस्माकं स्वस्ति विदधातु । अरिष्टनेमिः । नेमिः इति आयुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा रथचक्रस्य धारा नेमिः । यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं स्वस्ति अविनाशं विदधातु । तथा बृहस्पतिः बृहतां देवानां पालयिता नः अस्माकं स्वस्ति अविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । ‘ विद ज्ञाने', ‘ विद्लृ लाभे'। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्यो यञ्' (पा. सू. ४. १. १०५ )। ञित्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टा अरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योः०' (पा. सू. ६. १. १५७. ग. ) इति सुट्तलोपौ ।' उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
“May Indra, who listens to much praise, guard our welfare; may Pūṣan, who knows all things, guard our welfare; may Tārkṣya, with unblemished weapons, guard our welfare.”
Illustrious far and wide, may Indra prosper us: may Pusan prosper us, the Master of all wealth.
May Tarksya with uninjured fellies prosper us: Brhaspati vouchsafe to us prosperity.
Well-being for us (may) Indra of strengthened fame (establish);
well-being for us (may) Pūṣan of all possessions;
well-being for us (may) Tārkṣya of indestructible wheel-rims; well-being for us may Br̥haspati establish.
Heil schenke uns Indra, der hochberühmte, Heil uns Puschan der alles besitzende, Heil uns Tārkschja [das Sonnenross], dessen Radkranz unversehrt bleibt, Heil schenke uns Brihaspati.
Glück soll uns Indra von hohem Ruhme, Glück uns Pusan, der alle Güter hat, Glück uns Tarksya mit unversehrtem Radkranz , Glück soll uns Brihaspati bringen.
Благо – нам Индра с возросшей славой,
Благо – нам Пушан, у кого все достояние,
Благо – вам Таркшья с невредимым ободом,
Благо пусть даст нам Брихаспати!
पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः । अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥
पृषदश्वः । पृषद्भिः श्वेतबिन्दुभिर्युक्ता अश्वा येषां ते तथोक्ताः । पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम्। शुभंयावानः । शुभं शोभनं यान्ति गच्छन्तीति शुभंयावानः। शोभनगतय इत्यर्थः । विदथेषु यज्ञेषु जग्मयः गन्तारः अग्निजिह्वाः अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तन्ते । तात्स्थ्यात् ताच्छब्द्यम् । मनवः सर्वस्य मन्तारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां ते एवंभूताः मरुतः मरुत्संज्ञकाः विश्वे देवाः सर्वे देवाः नः अस्मान् इह अस्मिन्काले अवसा रक्षणेन सह आ गमन् आगच्छन्तु ॥ शुभंयावानः । ‘ या प्रापणे '। ‘ आतो मनिन्' इति वनिप् । तत्पुरुषे कृति बहुलम्' इति बहुलवचनात् द्वितीयाया आप अलुक् । गमन् । गमेः प्रार्थनायां लेटि अडागमः । इतश्च लोपः° ' इति इकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् ॥
“May the Maruts, whose coursers are spotted deer, who are the sons of Pṛśni, gracefully-moving frequenters of sacrifices, (seated) on the tongue of Agni, regarders (of all), and radiant as the sun, may all the gods come hither for our preservation.”
The Maruts, Sons of Prsni, borne by spotted steeds, moving in glory, oft visiting holy rites,
Sages whose tongue is Agni, brilliant as the Sun,--hither let all the Gods for our protection come.
The Maruts having dappled horses, having Pr̥śni as mother, charging to beauty, coming regularly to the rites,
the men having Agni as tongue and the Sun as eye: may all the gods come here to us with help.
Mit Hirschen fahrend, Priçni's Stamm, die Marutschar, zum Prunke eilend, die zu Opferfesten kommt; Die Schar mit Agni's Zunge trinkend, sonnengleich, die Götter alle mögen huldvoll kommen her.
Die Marut mit scheckigen Rossen, die Söhne der Mutter Prisni, die prunkvoll ausfahrenden, die gern zu den weisen Reden kommen, die Manusöhne, die Agni zur Zunge und die Sonne zum Auge haben, alle Götter mögen hierher zu uns mit ihrer Gnade kommen.
Маруты с пестрыми конями, (они,) чья мать Пришни,
Выезжающие для блеска, спешащие на жертвенные раздачи,
(Эти) люди с Агни-языком, солнцем-глазом,
Все-Боги да придут сюда нам на помощь!
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑: ॥
भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ । स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥
हे देवाः दानादिगुणयुक्ताः सर्वे देवाः कर्णेभिः अस्मदीयैः श्रोत्रैः भद्रं भजनीयं कल्याणं वचनं शृणुयाम युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्राः योगेषु चरुपुरोडाशादिभिर्यष्टव्या देवाः अक्षभिः अक्षिभिरात्मीयैश्चक्षुर्भिः भद्रं शोभनं पश्येम द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् ( ' इत्यस्यानन्तरं ‘ श्रोत्रचक्षुषोः भद्राभद्रविषयश्रवणदर्शने प्रतिनियते । अतो नित्यं भद्रविषयश्रवणदर्शने स्यातामिति प्रार्थ्यते ' इत्यधिकम् )। स्थिरैः दृढैः अङ्गैः हस्तपादादिभिरवयवैः तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसः युष्मान् स्तुवन्तः यत् आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तत् व्यशेम प्राप्नुयाम ॥ कर्णेभिः ‘ बहुलं छन्दसि ' इति भिसः ऐसभावः । अक्षभिः । छन्दस्यपि दृश्यते ' इति अनङ् स च उदात्तः । यजत्राः । ‘ अमिनक्षि° ' इत्यादिना यजे: अत्रन्प्रत्ययः । तुष्टुवांसः । ‘ ष्टुञ् स्तुतौ । लिटः क्वसुः । ‘ शर्पूर्वाः खयः' इति तकारः शिष्यते । अशेम । अशू व्याप्तौ ' । लिङ्याशिष्यङ्'। यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“Let us hear, gods, with our ears, what is good; objects of sacrifice, let us see with our eyes what is good; let us, engaged in your praises, enjoy, with firm limb and (sound) bodies, the term of life granted by the gods.”
Gods, may we with our ears listen to what is good, and with our eyes see what is good, ye Holy Ones.
With limbs and bodies firm may we extolling you attain the term of life appointed by the Gods.
Might we hear (only what is) auspicious with our ears, o gods; might we see (only what is) auspicious with our eyes, o you who are worthy of the sacrifice.
Having praised (you?), with sturdy limbs and bodies might we traverse the lifetime that has been established by the gods.
Heilvolles lasst uns mit den Ohren hören, heilvolles schaun mit Augen, hehre Götter, Mit festen Gliedern stehend, festen Leibern, das gottgesetzte Lebensziel erreichen.
Gutes wollen wir mit Ohren hören, ihr Götter, Gutes mit Augen sehen, ihr Opferwürdige. Mit festen Gliedern und Leibern wollen wir, die wir lobgesungen haben, das gottgesetzte Alter erreichen.
Прекрасное да услышим мы ушами, о боги!
Прекрасное да увидим мы глазами, о достойные жертв!
Восхвалив вас, с крепкими членами и телами
Мы хотим достигнуть срока жизни, что положен (нам) богами!
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑: ॥
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् । पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥
हे देवाः अन्ति अन्तिके मनुष्याणां समीपे आयुष्ट्वेन भवद्भिः कल्पिताः शरदः संवत्सराः शतम् इत् नु शतं खलु । यस्मात् सृष्टिकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मात् नः अस्मान् आयुर्गन्तोः क्लृप्तस्यायुषो गमनात्पूर्वं मध्या मध्ये मा रीरिषत मा हिंसिष्ट । कीदृशान् । नः अस्माकं तनूनां शरीराणां जरसं जरां यत्र यस्यामवस्थायां चक्र कृतवन्तो यूयं यत्र च पुत्रासः पुत्राः पितरः अस्माकं रक्षितारः ”भवन्ति(यद्वा । यत्र यस्यामवस्थायां पुत्रासः अस्माकं पुत्राः स्वपुत्राणां पितरो भवन्ति । अस्माकं यदा पौत्रा भवन्ति')। ईदृग्दशापन्नानित्यर्थः ॥ अन्ति । अन्तिकशब्दस्य - कादिलोपो बहुलमिति वक्तव्यम्' इति कलोपः। यत्र । ‘ ऋचि तुनुघमक्षुतङ्कुत्र' इति संहितायां दीर्घः । चक्र। लिटि मध्यमबहुवचनस्य कित्त्वात् गुणाभावे यणादेशः । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम्। जरसम्। जराया जरसन्यतरस्याम्' (पा. सू. ७. २. १०१ ) इति जरसादेशः । मध्या । 'सुपां सुलुक्' इति सप्तम्या डादेशः । रीरिषत ।' रिष रुष हिंसायाम् । अस्मात् ण्यन्तात् माङि लुङि मध्यमबहुवचने च्लेः चङि णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः(पाठभेदः --णिलोपोपधाहस्वचर्त्वद्विवचनहलादिशेषसन्वद्भावेत्वदीर्घाः )। छान्दसः पदकालीनो ह्रस्वः । गन्तोः । ‘ भावलक्षणे स्थेण्° ' ( पा. सू. ३. ४. १६ ) इति गमेः तोसुन्प्रत्ययः ॥
“Since a hundred years were appointed (for the life of man), interpose not, gods, in the midst of our passing existence, by inflicting infirmity in our bodies so that our sons become our sires (i.e. let us not become so feeble and firm as to be, infants and to require the paternal care of our own sons].”
A hundred autumns stand before us, O ye Gods, within whose space ye bring our bodies to decay;
Within whose space our sons become fathers in turn. Break ye not in the midst our course of fleeting life.
A hundred autumns are now in front (of us), o gods, where you have made old age for our bodies,
where sons become fathers. Do not harm our lifetime in the midst of our progress.
Lasst hundert Herbste, Götter, uns bevorstehn, eh ihr dem Leibe Altersschwäche zutheilt, In denen unsre Söhne Väter werden, brecht unser Leben nicht in seinem Lauf ab.
Ihr Götter, hundert Jahre liegen vor uns, in denen ihr uns das Alter der Leiber bestimmt habt, in denen die Söhne zu Vätern werden. Tut uns mitten auf dem Lebensweg am Leben keinen Schaden!
Да, впереди сто осеней, о боги,
В которые вы заключили старость (наших) тел,
В которые сыновья станут отцами.
Не повредите наш век посреди пути!
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः । विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥
अदितिः अदीना अखण्डनीया वा पृथिवी देवमाता वा सैव द्यौः द्योतनशीलो नाकः । सैव अन्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम । सैव माता निर्मात्री जगतो जननी। सैव पिता उत्पादकः । ततश्च सः पुत्रः मातापित्रौर्जातः पुत्रोऽपि सैव । विश्वे देवाः सर्वेऽपि देवाः अदितिः एव। पञ्च जनाः निषादपञ्चमाश्चत्वारो वर्णाः । यद्वा गन्धर्वाः पितरो देवा असुरा रक्षांसि। तदुक्तं यास्केन- गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः । ( निरु. ३. ८) इति । ब्राह्मणे त्वेवमाम्नातं-’ सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च ' ( ऐ. ब्रा. ३. ३१ ) इति । तत्र गन्धर्वाप्सरसामैक्यात्पञ्चजनत्वम् । एवंविधाः पञ्च जना अपि अदितिः एव ।"जातं जननं प्रजानामुत्पत्तिः सा अपि अदितिः एव । जनित्वं जन्माधिकरणं तदपि अदितिः एव । एवं सकलजगदात्मनादितिः स्तूयते । उक्तं यास्केन-' इत्यदितेर्विभूतिमाचष्टे ' ( निरु. ४. २३) इति ॥ अदितिः । दो अवखण्डने ' । अस्मात् कर्मणि क्तिनि ' द्यतिस्यतिमास्थाम् ' ( पा. सू. ७. ४. ४० ) इति इत्वम् । यास्कपक्षे तु • दीङ् क्षये ' इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पिता । निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गतामुपाददते इत्युद्देश्यलिङ्गतया पुंलिङ्गत्वम् । जनित्वम् । जनेरौणादिकः त्वन्प्रत्ययः ॥ ॥ १६ ॥
“Aditi is heaven; Aditi is the firmament; Aditi is mother, father and son; Aditi is all the gods; Aditi is the five classes of people; Aditi is genitive ration and birth.”
Aditi is the heaven, Aditi is mid-air, Aditi is the Mother and the Sire and Son.
Aditi is all Gods, Aditi five-classed men, Aditi all that hath been born and shall be born.
Aditi is heaven. Aditi is the midspace. Aditi is the mother; she is the father, she the son.
Aditi is the All Gods, the five peoples. Aditi is what has been born,
Aditi what is to be born.
Aditi ist der Himmel, Aditi die Luft; Aditi ist Mutter, ist Vater, ist Sohn; Aditi sind alle Götter, Aditi die fünf Menschenstämme, Aditi ist was geboren ist, Aditi was geboren werden wird.
Aditi ist der Himmel, Aditi das Luftreich, Aditi die Mutter, dieselbe auch Vater und Sohn, Aditi alle Götter, die fünf Völker, Aditi das Geborene, Aditi das Zukünftige.
Адити – небо, Адити – воздушное пространство,
Адити – мать, она – отец, она – сын.
Все-Боги – Адити, Адити – пять родов (людей),
Адити – то, что рождено, Адити – то, что должно родиться.