इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः । म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः । म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥
हे इन्द्र एहि अस्मिन् कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः सोमपर्वभिः सोमरसरूपैः अन्धसः अन्धोभिः अन्नैः मत्सि माद्य हृष्टो भव । तत ऊर्ध्वम् ओजसा बलेन महान् भूत्वा अभिष्टिः शत्रूणामभिभविता भव इति शेषः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ओजः पाजः' (नि. २. ९. १ ) इति पठितम् ॥ आ इहि । ' आद्गुणः ' (पा. सू. ६. १. ८७) । इन्द्र एहि । यो ह्युभयोः स्थाने लभतेऽसावन्यतरव्यपदेशमिति आङ्माङोः एकादेशस्य आङ्व्यपदेशात् ' ओमाङोश्च' (पा.सू. ६. १. ९५ ) इति पररूपम् । मत्सि माद्य। ‘मदी हर्षग्लेपनयोः'। लोटः सिप् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५ ) इति सेर्हिरादेशः (पा. सू. ३, ४, ८७ ) न भवति ।' दिवादिभ्यः श्यन् ' ( पा. सू. ३. १. ६९ ) इति श्यन् । बहुलं छन्दसि ( पा. सू. २, ४, ७३ ) इति श्यनो लुक् । 'न लुमताङ्गस्य' (पा. सू. १. १. ६३ ) इति प्रत्ययलक्षणप्रतिषेधात् ‘शमामष्टानां दीर्घः श्यनि' (पा. सू. ७. ३. ७४ ) इति उपधादीर्घो न भवति । सिपः पित्त्वात् धातुस्वर एव । अन्धसः । अदेर्नुम् धश्च ' ( उ. सू. ४. ६४५) इति असुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । ‘ अशिप्रुषि°' (उ, सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशः ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणन्ति पूरयन्तीति सोमपर्वाणः सोमरसाः । ‘ पॄ पालनपूरणयोः । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वात् धातुस्वर एव । उपपदसमासे कृदुत्तरपद प्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिः अभिगन्ता। ‘इष गतौ । ‘ मन्त्रे वृष° ' ( पा. सू. ३. ३. ९६ ) इत्यादिना क्तिन् उदात्तः। स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वात् लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडागमो न भवति । अभिशब्दस्य इकारे ‘एमनादिषु पररूपं वक्तव्यम्' (पा. सू. ६. १. ९४. ६ ) इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। ओजसा। ‘उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥
“Come, Indra, and be regaled with all viands libations, and thence, mighty in strength, be victorious (over your foes).”
COME, Indra, and delight thee with the juice at all the Soma feasts,
Protector, mighty in thy strength.
Indra, come! Reach exhilaration from the stalk with all its soma-joints. (You are) the great one, superiority (itself) by reason of your power.
Komm, Indra, und berausche dich am Kraut bei jedem Somafest, An Kraft ein grosser Helfer du.
Indra! Komm herbei, berausche dich am Trank an allen Somafesttagen, du der Große, an Stärke überlegen!
О Индра, приди! Опьяняйся напитком
Все дни приношения сомы,
Великий, превосходящий (всех) силой!
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ । चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ । चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥
ईम् इत्यनर्थकः पादपूरणीय प्रयुक्तः । हे अध्वर्यवः सुते अभिषुते चमसस्थे सोमे एनं सोमम् इन्द्राय इन्द्रार्थम् आ सृजत पुनरभ्युन्नयत । शुक्रामन्थिचमसगणे पुनरभ्युन्नयनम् आपस्तम्बेनोक्तं ‘ होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति' ( आप. श्रौ. १२. २३.४) इति । कीदृशम् एनम् । मन्दिं हर्षहेतुं चक्रिं साधुकरणशीलम् । कीदृशाय इन्द्राय । मन्दिने हर्षयुक्ताय विश्वानि सर्वाणि कर्माणि चक्रये कृतवते । सर्वकर्मनिष्पादनशीलायेत्यर्थः । ईम् इत्यस्य पादपूरणार्थत्वं यास्क आह - ‘ अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १.९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छन्दोराहित्येन परिमिताक्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्था द्रष्टव्याः । मिताक्षरेषु छन्दोयुक्तेषु ग्रन्थेषु पादपूरणार्थाः। ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्याय एतामृचमुदाजहार- एमेनं सृजता सुते । आसृजतैनं सुते' ( निरु. १. १० ) इति ॥ एनम् । इदमो द्वितीयायां • द्वितीयाटौःस्वेनः ' (पा. सू. २. ४. ३४ ) इति एनादेशः ‘ °अनुदात्तः०' (पा. सू. २. ४. ३२) इत्यनुवृतेः सर्वानुदात्तः । सृजत । संहितायाम् ‘ अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः । मन्दिं प्रमोदहेतुम्। ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'। ‘इदितो नुम् धातोः ' (पा. सू. ७. १. ५८) इति नुम् । मन्दमानं प्रयुङ्क्ते इत्यर्थे ' हेतुमति च' (पा. सू. ३. १. २६ ) इति णिच् । ण्यन्तस्य अजन्तत्वात् ‘अच इः' ( उ. सू. ४. ५७८ ) इति इकारप्रत्ययः । ‘णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । मन्दिने । मन्देः पूर्ववत्। चतुर्थ्येकवचनेऽनपुंसकस्यापि व्यत्ययेन नुमागमः (पा. सू. ७. १. ७३ )। चक्रिम् । ‘डुकृञ् करणे' । 'आदृगमहनजनः किकिनौ लिट् च ' (पा. सू. ३. २. १७१ ) इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वात् गुणाभावः । यणादेशः । लिङवद्भावात् द्विर्वचनम् । 'द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति यणादेशस्य स्थानिवद्भावात् कृशब्दो द्विरुच्यते । अभ्यासस्य उरत्त्व-रपरत्व- श्चुत्व-हलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रये इति कृदन्तेन योगेऽपि ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति षष्ठी न भवति । ‘ °किकिनौ लिट् च ' इति किनो लिङ्वद्भावेन ' न लोकाव्ययनिष्ठाखलर्थतृनाम् ' (पा. सू. २. ३. ६९ ) इति निषेधात् ॥
“The libation being prepared, present the exhilaratina and efficacious (draught) to the rejoicing Indra, the accomplisher of all things.”
To Indra pour ye forth the juice, the active gladdening juice to him
The gladdening, omnific God.
Send him [=Indra] surging to the pressed soma, and (send) the
exhilarator [=soma] (surging) to Indra, who seeks exhilaration,
the doer to him who does all things.
Beim Feste giesst dem Indra zu den wirkenden, erfreuenden, Dem freudigen, der alles wirkt.
Lasset ihn los auf den Preßtrank, lasset den berauschenden für den rauschliebenden Indra strömen, den wirksamen für den alles Wirkenden!
Напустите же его на выжатого (сому).
(Лейте) пьянящего опьяняющемуся Индре,
Действенного – деятельному во всем!
मत्स्वा॑ सुशिप्र म॒न्दिभि॒: स्तोमे॑भिर्विश्वचर्षणे । सचै॒षु सव॑ने॒ष्वा ॥
मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ । सचा॑ । ए॒षु । सव॑नेषु । आ ॥
हे सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्केनोक्तत्वात्। तादृश हे इन्द्र मन्दिभिः हर्षहेतुभिः स्तोमेभिः स्तोत्रैः मत्त्व हृष्टो भव । हे विश्वचर्षणे सर्वमनुष्ययुक्त सर्वैर्यजमानैः पूज्य इत्यर्थः । तादृशेन्द्र त्वम् एषु यागगतेषु त्रिषु सवनेषु सचा देवैरन्यैः सह आ गच्छेति शेषः ॥ ‘मदि स्तुति' इत्यस्य लोटि “ अनित्यमागमशासनम् ' (परिभा. ९३. २ ) इति कृत्वा इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुम् न भवति । अनुदात्तेत्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' (पा. सू. ६. १. १८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६.३. १३५) इति दीर्घत्वम् । सुशिप्रेत्यामन्त्रितनिघातः । मन्दिभिः । गतमन्त्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु ।' ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥
“Indra with the handsome chin, be plural ased with these animating praises; do your, who are to be reverenced by all mankind, (come) to these rites (with the gods).”
O Lord of all men, fair of cheek, rejoice thee in the gladdening lauds,
Present at these drink-offerings.
O you of the lovely lips who govern all domains, reach exhilaration through the exhilarating praise songs
here at these soma-pressings.
Erfreu bei diesen Opfern dich am Freudetrunk, an Liedern auch, O Menschenhort, o Trinkermund.
Berausche dich du Schönlippiger, an den berauschenden Lobliedern, du Allvolkstümlicher, bei diesen Somaopfern!
Опьяняйся, о прекрасногубый, пьянящими
Восхвалениями, о принадлежащий всем народам,
На этих выжиманиях (сомы)!
असृ॑ग्रमिन्द्र ते॒ गिर॒: प्रति॒ त्वामुद॑हासत । अजो॑षा वृष॒भं पति॑म् ॥
असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उद् । अ॒हा॒स॒त॒ । अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥
हे इन्द्र ते गिरः त्वदीयाः स्तुतीः असृग्रं सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं त्वां प्रति उदहासत उद्गत्य प्राप्नुवन् । तादृशीर्गिरः त्वम् अजोषाः सेवितवानसि । कीदृशं त्वाम् । वृषभं कामानां वर्षितारं पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा' (निरु. ४. २६) इति यास्केनोक्तत्वात् ॥ असृग्रम् असृजम् । ‘ सृज विसर्गे '। लङो मिप् । ‘तुदादिभ्यः शः' (पा. सू. ३. १. ७७ )। ‘बहुलं छन्दसि' (पा. सू. ७. १.८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' ( पा. सू. ६. ४. ७१ ) इति अडागम उदात्त: । सति शिष्टत्वात् स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्य अदादेशः (पा. सू. ७. १. ५)। च्लेः सिच् ' (पा. सू. ३. १. ४४ ) । अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन ङित्त्वाभावात् लघूपधगुणः । थासः थकारलोपश्छान्दसः ॥ सवर्णदीर्घः । अडागमः । सति शिष्टत्वात् उदात्तः शिष्यते । वृषभम् । ‘ पृषु वृषु मृषु सेचने '। ‘ अभच् ' ( उ. सू. ३. ४०२ ) इत्यनुवृत्तौ ‘ऋषिवृषिभ्यां कित्' ( उ. सू. ३. ४०३) इति अभच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । पतिम् । ‘पा रक्षणे'। ‘ पातेर्डतिः' ( उ. सू. ४. ४९७ )। डित्त्वात् टिलोपः । प्रत्ययाद्युदात्तत्वम् ॥
“I have addressed to you, Indra, the showerer (of blessings), the protector (of your worshipers), praises which have reached you, and of which you have approved.”
Songs have outpoured themselves to thee, Indra, the strong, the guardian Lord,
And raised themselves unsatisfied.
Our songs have been sent surging to you, Indra. They have reared up toward you—
not (yet) pleasured, they (have reared up) toward the bull, their
husband.
Ergossen sind die Lieder dir und steigen, Indra, zu dir auf, Zum Herrn und Gatten nimmer satt.
Die Loblieder auf dich, Indra, sind jetzt losgelassen, sie sind dir entgegengeeilt, die unbefriedigten dem Stiergemahl.
Выпущены, о Индра, к тебе хвалебные песни.
Они бросились к тебе навстречу,
Ненасытные – к супругу-быку.
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् । अस॒दित्ते॑ वि॒भु प्र॒भु ॥
सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् । अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥
हे इन्द्र वरेण्यं श्रेष्ठं राधः धनं चित्रं मणिमुक्तादिरूपेण बहुविधम् अर्वाक् अस्मदभिमुखं यथा भवति तथा सं चोदय सम्यक् प्रेरय । भोगाय यावत् पर्याप्तं तावत् विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं ते तवैव असदित् अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । 'मघम्' इत्यादिषु अष्टाविंशतिधननामसु ‘रायः राधः' (नि. २. १०. १७) इति पठितम् ॥ चोदय । ‘चुद प्रेरणे' । ण्यन्तात् लोट् । तिङ्ङतिङः' इति निघातः । राधः । राध्नुवन्ति अनेनेति राधो धनम् । 'सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) । नित्त्वादाद्युदात्तः । वरेण्यम् । वृञ एण्यः । वृषादित्वादाद्युदात्तः । असत् । अस भुवि '। लेट् । तिप् । ‘इतश्च लोपः° ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४) इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आगमा अनुदात्ताः' (पा. म. ३.१.३.७.) इति अटोऽनुदात्तत्वात् धातुस्वर एव । विभु । विभवतीति विभु ।' भुवः° ' (पा. सू. ३. २. १७९) इत्यनुवृत्तौ ' विप्रसंभ्यो ड्वसंज्ञायाम्' (पा. सू. ३. २. १८० ) इति डुप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरेण उकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । एवं प्रभु ॥ ॥ १७ ॥
“plural ce before us, Indra, precious and multiform riches, for enough and more than enough are assuredly yours.”
Send to us bounty manifold, O Indra, worthy of' our wish,
For power supreme is only thine.
Spur on your bright benefit entirely in our direction, o Indra—the benefit worth wishing for:
just yours will be the farmost and foremost.
Uns treib, o Indra, glänzende, begehrungswerthe Gaben her, Denn du allein bist stark und reich.
Treib deine ansehnliche, auserwählte Ehrengabe her, o Indra! Sie sei ausreichend, reichlich.
Подгони к нам прекрасный
Желанный дар, о Индра!
Пусть будет он обильным, богатым!
अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः । तुवि॑द्युम्न॒ यश॑स्वतः ॥
अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः । तुवि॑ऽद्युम्न । यश॑स्वतः ॥
हे तुविद्युम्न प्रभूतधन इन्द्र राये धनसिद्ध्यर्थम् अस्मान् अनुष्ठातॄन् तत्र कर्मणि सु चोदय सुष्ठु प्रेरय। कीदृशानस्मान् । रभस्वतः उद्योगवतः यशस्वतः कीर्तिमतः ॥ तत्र । तच्छब्दात् ‘ सप्तम्यास्त्रल् ' (पा. सू. ५. ३. १०)। लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । इन्द्र । आमन्त्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः। राये। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । रभस्वतः । ‘ रभ राभस्ये' । राभस्यं कार्योपक्रमः। ‘ सर्वधातुभ्योऽसुन् ( उ. सू. ४. ६२८)। नित्त्वादाद्युदात्तः । मतुपः पित्वादनुदात्तत्वम् । स्वादिष्वसर्वनामस्थाने ' (पा. सू. १. ४. १७) इति न पदत्वं तसौ मत्वर्थे' (पा. सू. १. ४. १९) इति भसंज्ञया बाधितत्वात्; ‘आ कडारादेका संज्ञा' (पा. सू. १.४. १) इति नियमात् । तुविद्युम्न । तुवि बहु द्युम्नं धनं यस्य । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । यशस्वतः। यशोऽस्यास्तीति मतुप् । अस्मायामेधास्रजो विनिः (पा. सू. ५. २. १२१ ) इति विनिना न बाध्यते, मतुपः सर्वत्र समुच्चयात्। यशस्शब्दो ‘नब्विषयस्यानिसन्तस्य ' इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते ॥
“Opulent Indra, encourage us in this rite for the acquirement of wealth, for we are diligent and renowned.”
O Indra, stimulate thereto us emulously fain for wealth,
And glorious, O most splendid One.
Spur us on then for wealth, so that we acquire vehemence
and glory, o powerfully brilliant one.
Zu Reichthum treibe schnell uns hin, o Indra, die verlangenden, O reicher, uns, die glänzenden.
Eifer uns dabei fein zum Reichtum an, Indra, uns Ungeduldige, Ehrenwerte, du Glanzvoller!
(И) нас тут подгони хорошенько,
К богатству, о Индра, нетерпеливых,
О ты мощью сверкающий, (нас,) достойных почета.
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् । वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् । वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥
हे इन्द्र श्रवः धनम् अस्मे सं धेहि अस्मभ्यं सम्यक् प्रयच्छ । कीदृशं श्रवः । गोमत् बह्वीभिर्गोंभिरुपेतं वाजवत् प्रभूतेनान्नेनोपेतं पृथु परिमाणेनाधिकं बृहत् गुणैरधिकं विश्वायुः कृत्स्नायुष्यकारणम् अक्षितं विनाशरहितम् ॥ गोमत् । वाजवत् । उभयत्र मतुपोऽनुदात्तत्वात् प्रातिपदिकस्वर एव । वाजशब्दो वृषादिः आद्युदात्तः । अस्मे । अस्मच्छब्दात् चतुर्थीबहुवचनस्य ‘सुपां सुलुक्' इत्यादिना शे आदेशः । शित्त्वात् सर्वादेशः । प्रातिपदिकस्वरेण अन्तोदात्तत्वम् । ‘ शेषे लोपः ' ( पा. सू. ७. २. ९० ) टिलोप इति पक्षे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अन्त्यलोपपक्षे ‘ अतो गुणे' इति पररूपे एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । पृथु । ‘प्रथ प्रख्याने '। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' ( उ. सू. १. २८) इति कुप्रत्ययः । रेफस्य संप्रसारणम् ऋकारः । परपूर्वत्वम् । कोः कित्त्वात् न लघूपधगुणः । श्रूयते इति श्रवो धनम् । असुन्प्रत्ययः । नित्त्वादाद्युदात्तः । बृहत् । प्रातिपदिकस्वरः। विश्वायुः । विश्वमायुर्यस्मिन् धने। विश्वशब्दः क्वन्प्रत्ययान्तः । तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति पूर्वपदान्तोदात्तत्वम् । “ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । अक्षितम् । ‘क्षि क्षयं' इत्यस्मात् अन्तर्णीतण्यर्थात् कर्मणि निष्ठा । तेन ण्यदर्थत्वात् ‘निष्ठायामण्यदर्थे' (पा. सू. ६.४.६० ) इति न दीर्घत्वम् । अत एव ‘क्षियो दीर्घात्' (पा. सू. ८. २. ४६) इति न निष्ठानत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
“Grant us, Indra, wealth beyond measure or calculation, inexhaustible, the source of cattle, of food, of all life.”
Give, Indra, wide and lofty fame, wealthy in cattle and in strength,
Lasting our life-time, failing not.
Place in us, o Indra, broad and lofty fame, accompanied by cattle and victory prizes,
lifelong and imperishable.
Verleih uns, Indra, hohes Gut, das reich an Rind und Nahrung sei, Und, Allerquicker, nie versiegt.
Häuf auf uns, Indra, den Ruhm vieler Rinder und Belohnungen, der breit, hoch, fürs ganze Leben, unerschöpflich ist.
Создай нам, о Индра, славу (многих) коров
(И) наград, широкую, высокую,
На всю жизнь, нерушимую!
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् । इन्द्र॒ ता र॒थिनी॒रिष॑: ॥
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् । इन्द्र॑ । ताः । र॒थिनिः॑ । इषः॑ ॥
हे इन्द्र बृहत् श्रवः महतीं कीर्तिम् अस्मे धेहि अस्मभ्यं प्रयच्छ । तथा सहस्रसातमम् अतिशयेन सहस्रसंख्यादानोपेतं द्युम्नं धनम् अस्मे धेहि । तथा ताः व्रीहियवादिरूपेण प्रसिद्धाः रथिनीः बहुरथोपेताः इषः अन्नानि अस्मे धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इत्यादिना शे आदेशः । धेहि ।' घ्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९) इति एत्वाभ्यासलोपौ । श्रूयते इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सनुते ददातीति सहस्रसाः। षणु दाने'। जनसनखनक्रमगमो विट्' (पा. सू. ३. २. ६७ )। ‘ विड्वनोरनुनासिकस्यात् ' ( पा. सू. ६. ४. ४१ ) इति आकारादेशः । धातुस्वरेणान्तोदात्तः । पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां सन्तीति रथिन्य इति प्रत्ययस्याद्युदात्तत्वम्। ऋन्नेभ्यो ङीप् ' (पा. सू. ४. १. ५)। स च पित्त्वादनुदात्तः । इषः । यौगिकत्वे धातुस्वरः; रूढत्वे प्रातिपदिकस्वरः ॥
“Indra, grant us great renown and wealth acquired in a thousand ways, and those (articles) of food (which are brought from the field) in carts.”
Grant us high fame, O Indra, grant riches bestowing thousands, those
Fair fruits of earth borne home in wains.
Place in us lofty fame and brilliance that best wins a thousand,
and refreshments by the cartload.
Verleih uns, Indra, hohen Ruhm und Schatz, der tausend Freuden schenkt, Und Nahrung, die den Wagen füllt.
Den Herrn des Guts, den preiswürdigen Indra mit Reden lobend, der auf den Ruf kommt, um Gunst zu erweisen -
Воздвигни нам славу высокую,
Блеск, добывающий тысячи,
О Индра, тех подкреплений полные колесницы!
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् । होम॒ गन्ता॑रमू॒तये॑ ॥
वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् । होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥
वसोः वसुनोऽस्मदीयस्य धनस्य ऊतये रक्षार्थम् इन्द्रं होम वयमाह्वयामः । किं कुर्वन्तः । गीर्भिः स्तुतिभिः गृणन्तः स्तुवन्तः । कीदृशमिन्द्रम् । वसुपतिं धनपालकं ऋग्मियं ऋचां मातारं गन्तारं यागदेशे गमनशीलम् ॥ वसोः। ‘वस निवासे' । ‘ श्रृस्वृस्निहि' (उ. सू. १. १० ) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वसुपतिम् । समासान्तोदात्तत्वे प्राप्ते ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । गीर्भिः। 'सावेकाचः । (पा. सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वम् । गृणन्तः । गॄ शब्दे'। लटः शतृ। ‘ क्र्यादिभ्यः श्ना ' ( पा. सू. ३. १. ८१ )। शतुः ‘ सार्वधातुकमपित्' (पा. सू. १. २. ४) इति ङित्त्वात् ‘ श्नाभ्यस्तयोरातः ' ( पा. सू. ६. ४. ११२ ) इति आकारलोपः । शतुः अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । ऋग्मियम्। ऋचो मिमीते इति ऋग्मीः, तमृग्मियम् । 'माङ् माने शब्दे च '।' क्विप् च । (पा. सू. ३. २. ७६ ) इति क्विप् । घुमास्था°' ( पा. सू. ६. ४. ६६ ) इत्यादिना ईत्वम् । चकारस्य ‘चोः कुः'।'झलां जशोऽन्ते' (पा. सू. ८. २. ३९) इति जश्त्वं गकारः। द्वितीयैकवचने ‘ अचिश्नुधातु' (पा. सू. ६. ४. ७७ ) इत्यादिना इयङादेशः। ‘एरनेकाचः' (पा. सू. ६. ४. ८२ ) इति यणादेशः सर्वे विधयश्छन्दसि विकल्प्यन्ते ' ( परिभा. ३५ ) इति न भवति । कृदुत्तरपदप्रकृतिस्वरेण इकार उदात्तः । होम आह्वयामः । ‘ ह्वेञ् स्पर्धायां शब्दे च' । लट् । तस्य अस्मदो बहुत्वेऽपि व्यत्ययेन मिप् । इकारस्य व्यत्ययेन अकारः । शपः ‘बहुलं छन्दसि' इति लुक् । ‘ बहुलं छन्दसि' ( पा. सू. ६. १. ३४ ) इति ह्वः संप्रसारणं परपूर्वत्वं गुणः। ‘ धातोः ' ( पा. सू. ६. १. १६२) इति ओकार उदात्तः । मिपः पित्स्वरेणानुदात्तत्वम् । गन्तारम् । गम्लृ सृप्लृ गतौ । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । ऊतये । ‘ ऊतियूति' ( पा. सू. ३. ३. ९७ ) इत्यादिना क्तिन् उदात्तो निपातितः ॥
“We invoke for the preservation of our property, Indra, the lord of wealth, the object of sacred verses, the repairer (to the plural ce of sacrifice), praising him with our praises.”
Praising with songs the praise-worthy who cometh to our aid, we call
Indra, the Treasure-Lord of wealth.
(We are) singing with songs to Indra, the goods-master of goods, the one worthy of verses,
who will come to the call for help.
Den Indra, ihn, den Güterherrn, der kommt zu helfen, rufen wir, Besingend ihn, der Sang verdient.
Verschaff uns hohen Ruhm, Glanz, der Tausende einbringt, die Labsale wagenvoll, o Indra!
Воспевая хвалебными песнями достойного гимнов
Повелителя благ Индру,
Приходящего на зов, чтобы помочь...
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः । इन्द्रा॑य शू॒षम॑र्चति ॥
सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः । इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥
आकार इच्छब्दश्च पादपूरणौ । यद्वा । व्याप्तिवचन आकारः । ‘ आङीषदर्थेऽभिव्याप्तौ ' ( अमर. ३. २३८ ) इत्यभिधानात् । इच्छब्दोऽपिशब्दार्थः । इयर्ति गच्छति अनुष्ठेयं कर्म प्राप्नोति इति अरिर्यजमानः । एदरिः सर्वोऽपि यजमानः इन्द्राय सुतेसुते इन्द्रार्थमभिषुते तत्तत्सोमे शूषं बलम् अर्चति स्तौति । इन्द्रस्य पराक्रमं प्रशंसतीत्यर्थः । कीदृशं शूषम् । बृहत् प्रौढम् । कीदृशायेन्द्राय। न्योकसे नियतस्थानाय बृहते प्रौढाय ॥ सुतेसुते । षुञ् अभिषवे' । क्तप्रत्ययः प्रत्ययस्वरेणोदात्तः । नित्यवीप्सयोः ' ( पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम्' ( पा. सू. ८. १. २ ) इति द्वितीयस्य आम्रेडितत्वेन “ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । न्योकसे। नियतमोको यस्य तस्मै । निशब्दो ‘निपाता आद्युदात्ताः' (फि. सू. ८०) इत्युदात्त: । तस्य यणादेशे ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा. सू. ८. २. ४) इति ओकारः स्वरितः । बृहते। बृहन्महतोरुपसंख्यानम्' (पा. सू. ६.१. १७३.१) इति अजादिविभक्तेरुदात्तत्वम् । अरिः। ‘ऋ गतौ ।' अच इः '(उ. सू. ४.५७८) इति इकारप्रत्ययः । गुणो रपरत्वम् । प्रत्ययस्वरेण इकार उदात्तः । इन्द्राय । ऋजेन्द्र० ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्यय इकार उदात्तः । शूषम् । प्रातिपदिकस्वरः । अर्चति । निघातस्वरः ॥ ॥ १८ ॥
“With libations repeatedly effused, the sacrificer glorifies the vast prowess of Indra, the mighty, the dweller in (an eternal mansion).”
To lofty Indra, dweller by each libation, the pious man
Sings forth aloud a strengthening hymn.
To him who is at home at every soma-pressing, to the lofty one, the stranger himself chants a lofty,
lusty (chant) to Indra.
Der Fromme singt ein hohes Lied dem hohen Indra, welcher sich An jedem Somatrank erlabt.
Der sich bei jedem Preßtrank zu Hause fühlt, auf den hohen Indra singt sogar der Standesherr ein hohes Lied als Ansporn.
Радующемуся при каждом выжимании сомы
Индре высокому, благородный человек
Высоко возносит громкую песнь.