ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् । अ॒र्य॒मा दे॒वैः स॒जोषा॑: ॥
ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् । अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥
अहरभिमानी देवः मित्रः, वरूणः रात्र्यभिमानी। मित्रश्च वरुणश्च विद्वान् नेतव्यमुत्तमं स्थानं जानन् नः अस्मान् ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन नयतु अभिमतं फलं प्रापयतु । तथा देवैः अन्यैरिन्द्रादिभिः सजोषाः समानप्रीतिः अर्यमा अहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । ‘ सुपां सुलुक्°' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ।
“May Varuṇa and the wise Mitra lead us, by straight paths, (to our desires) and Aryaman, rejoicing with the gods.”
MAY Varuna with guidance straight, and Mitra lead us, he who knows,
And Aryaman in accord with Gods.
With straight guidance let Varuṇa, let Mitra the knowing guide us; let Aryaman jointly with the gods.
Graden Weges mög' uns leiten Varuna und Mitra kundig, Arjaman vereint den Göttern.
Mit richtiger Führung sollen uns Varuna, Mitra, der Kundige, führen und Aryaman im Verein mit den Göttern.
Прямо ведущий Варуна,
Митра-знаток пусть поведет нас,
(А также) Арьяман вместе с богами!
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः । व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः । व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥
ते हि पूर्वोक्ता मित्रादयः वस्वः वसुनो धनस्य वसवानाः वासका आच्छादयितारः सर्वं जगद्धनेनाच्छादयन्तीत्यर्थः । अतः ते मित्रादयः अप्रमूराः अप्रमूर्च्छिता अमूढाः प्राज्ञाः सन्तः महोभिः आत्मीयैस्तेजोभिः विश्वाहा सर्वाण्यहानि । अत्यन्तसंयोगे द्वितीया । सर्वेष्वप्यहःसु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षन्ते पालयन्ति ॥ वस्वः । आगमानुशासनस्य अनित्यत्वात् नुमभावे ‘ जसादिषु च्छन्दसि वावचनम् ' इति: घेर्ङिति' इति गुणस्य विकल्पनादभावे यणादेशः । वसवानाः । ‘ वस आच्छादने । अस्मात् अन्तर्भावितण्यर्थात् लटः शानच् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । ‘ मुर्छा मोहसमुच्छ्राययोः ' । अस्मात् संपदादिलक्षणो भावे क्विप् । राल्लोपः' इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीयो रः । ‘ रो रि ' ( पा. सू. ८. ३. १४ ) इति रेफलोपः। न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षन्ते । ‘ रक्ष पालने । व्यत्ययेन तङ् ॥
“For they are the distributors of wealth (over the world); and never heedless, discharge their functions every day.”
For they are dealers forth of wealth, and, not deluded, with their might
Guard evermore the holy laws.
For they are goods-possessors of goods; unerring, they with their mighty powers
guard the commandments everywhere.
Sie ja alles Guts Besitzer, unbethört, voll Macht und Grösse, Schützen ewig die Gesetze.
Denn sie sind die Bewahrer der Schätze; sie wachen durch ihre Macht allezeit unbeirrt über die Gebote.
Ведь эти богатые повелители богатства,
Эти неодолимые благодаря (своим) силам (боги)
Все дни охраняют заветы.
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः । बाध॑माना॒ अप॒ द्विष॑: ॥
ते । अ॒स्मभ्यम् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः । बाध॑मानाः । अप॑ । द्विषः॑ ॥
अमृताः अमरणधर्माणः ते विश्वे देवाः मर्त्येभ्यः मरणधर्मभ्यः अस्मभ्यम् अनुष्ठातृभ्यः शर्म अमृतलक्षणं सुखं यंसन् यच्छन्तु प्रयच्छन्तु । किं कुर्वन्तः । द्विषः अस्मदीयान् पापलक्षणान् शत्रून् अप बाधमानाः विनाशं प्रापयन्तः ॥ यंसन् । यम उपरमे '। लेटि अडागमः । सिब्बहुलं लेटि' इति सिप् । अमृताः । मृतं मरणं येषां नास्तीति अमृताः । ‘ नञो जरमरमित्रमृताः । इत्युत्तरपदाद्युदात्तत्वम् ॥
“May they, who are immortal, bestow upon us mortals, happiness, annihilating our foes.”
Shelter may they vouchsafe to us, Immortal Gods to mortal men,
Chasing our enemies away.
They will extend shelter to us, the immortals to the mortals,
thrusting away hatreds.
Mögen sie uns Schutz gewähren, uns vergänglichen die ew'gen, Alle Hasser von uns treibend.
Sie mögen uns Schutz gewähren, die Unsterblichen den Sterblichen, indem sie die Anfeindungen vertreiben.
Да воздвигнут они нам защиту,
Бессмертные – смертным,
Прогоняя прочь враждебность!
वि न॑: प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुत॑: । पू॒षा भगो॒ वन्द्या॑सः ॥
वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ । पू॒षा । भगः॑ । वन्द्या॑सः ॥
वन्द्यासः सर्वैर्वन्दनीयाः स्तोतव्या नमस्कर्तव्या वा इन्द्रादयो देवाः नः अस्माकं पथः मार्गान् वि चियन्तु विचिन्वन्तु अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुर्वन्तु । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टेर्लोपः' इति टिलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतौ ' इत्यस्मात् कर्मणि निष्ठा ।' तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' इति उवङ्। ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् कः' इति उत्तरपदान्तोदात्तत्वम् । चियन्तु । चिञ् चयने । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । इयङ् । पादादित्वात् निघाताभावः । वन्द्यासः । ‘ वदि अभिवादनस्तुत्योः'। ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः' इति आद्युदात्तत्वम् । आज्जसेरसुक् ॥
“May the adorable Indra, the Maruts, Pūṣan, and Bhaga, so direct our paths, (that they may lead) to the attainment of good gifts.”
May they mark out our paths to bliss, Indra, the Maruts, Pusan,
and Bhaga, the Gods to be adored.
Let them clear out paths for us for easy passage—Indra, the Maruts, Pūṣan, Bhaga, (all those) to be extolled.
Mögen Indra und die Maruts uns zum Glück die Wege bahnen, Puschan, Bhaga, werth des Rühmens.
Indra, die Marut sollen uns zu guter Fahrt die Wege aussuchen, Pusan, Bhaga, die Löblichen.
Да отыщут нам пути
Для счастливого путешествия Индра, Маруты,
Пушан, Бхага, достойные почитания!
उ॒त नो॒ धियो॒ गोअ॑ग्रा॒: पूष॒न्विष्ण॒वेव॑यावः । कर्ता॑ नः स्वस्ति॒मत॑: ॥
उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ उति॑ । एव॑ऽयावः । कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥
हे पूषन् पोषक देव हे विष्णो व्यापनशील देव हे एवयावः । एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं नः अस्माकं धियः अप्तोर्यामलक्षणानि कर्माणि गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशात् भ्रष्टैः पशुभिर्युक्तानि कर्त कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते - ‘ यस्मात्पशवः प्रप्रेव भ्रंशेरन स एतेन यजेत ' ( तै. ब्रा. २. ७. १४. २ ) इति । उत अपि च नः अस्मान् स्वस्तिमतः अविनाशिनः कुरुत ॥ एवयावः । ‘ इण् गतौ । ‘ इण्शीङ्भ्यां वन्' इति वन्प्रत्ययः । अस्मिन्नुपपदे ' या प्रापणे ' इत्यस्मात् ‘ आतो मनिन् ' इति वनिप् । संबुद्धौ ‘ वन उपसंख्यानम् ' ( पा. सू. ८. ३. १. १ ) इति नकारस्य रुत्वम् ॥ ॥ १७ ॥
“Pūṣan, Viṣṇu, Maruts, make our rites restorative of our cattle; make us prosperous”
Yea, Pusan, Visnu, ye who run your course, enrich our hymns with kine;
Bless us with all prosperity.
And (make) our poetic insights tipped with cows, o Pūṣan and Viṣṇu traveling your ways;
make us possessed of well-being.
Und macht heilvoll unsre Lieder, Puschan, Vischnu, rasch hinschreitend, Macht durch Rindbesitz sie herrlich.
Und machet unsere Dichtungen kuhgekrönt, Pusan und du raschgehender Vishnu! Machet uns glückbegabt!
А также (увенчайте) наши поэтические мысли коровами,
О Пушан (и) Вишну, быстро идущий!
Сделайте нас счастливыми!
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
मधु॑ । वाताः॑ । ऋ॒त॒य॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥
ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाताः वायवः मधु माधुर्योपेतं कर्मफलं क्षरन्ति वर्षन्ति प्रयच्छन्तीत्यर्थः । तथा सिन्धवः स्यन्दनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरन्ति । एवं नः अस्मभ्यम् ओषधीः फलपाकान्ता ओषधयस्ताश्च माध्वीः माधुर्योपेताः सन्तु भवन्तु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य: लुगकारेकाररेफाश्च वक्तव्याः । ( पा. सू. ४, ४. १२८. २ ) इति लुक् । ऋतायते । ऋतमात्मन इच्छति । 'सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य' इति ईत्वदीर्घयोर्निषेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च ‘ ( पा. सू. ४. ४. १२९) इति मत्वर्थीयः अञ्प्रत्ययः । ‘ ऋत्व्यवास्त्व्य ' इत्यादौ अञि यणादेशो निपात्यते । ‘ वा छन्दसि । इति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाकः आसु धीयते इति ओषधयः । ‘ कर्मण्यधिकरणे च " इति किप्रत्ययः । ‘ कृदिकारादक्तिनः' इति ङीष् । जसि पूर्ववत् पूर्वसवर्णदीर्घः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञन्तमाद्युदात्तम् ॥
“The winds bring sweet (rewards) to the sacrificer; the rivers bring sweet (waters); may the herbs yield sweetness to us.”
The winds waft sweets, the rivers pour sweets for the man who keeps the Law
So may the plants be sweet for us.
Honey do the winds (blow) to the one who follows truth; honey do the rivers stream.
Honeyed be the plants for us.
Dem frommen Mann ergiessen Meth die Winde, und die Ströme Meth, Uns sein die Kräuter reich an Meth.
Süßigkeit wehen die Winde für den Gesetzestreuen, Süßigkeit strömen die Flüsse. Voll Süßigkeit sollen uns die Pflanzen sein!
Мед (навевают) ветры благочестивому,
Мед струят реки.
Медовыми для нас да будут растения!
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रज॑: । मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ । मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
नक्तं रात्रिः नः अस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु। उत अपि च उषसः उषःकालोपलक्षितान्यहानि च मधुमन्ति भवन्तु । पार्थिवं रजः पृथिव्याः संबन्धी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । पिता वृष्टिप्रदानेन सर्वेषां पालयिता द्यौः द्युलोकोऽपि मधु मधुयुक्तः भवतु ॥ पार्थिवम् । ‘ पृथिव्या ञाञौ ' (पा. सू. ४. १. ८५. २ ) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । लोका रजांस्युच्यन्ते ' (निरु. ४. १९) इति यास्कः । रजन्त्यस्मिन् जना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति रञ्जेर्नलोपः ॥
“May night and moring be sweet; may the region of the earth (lokā rajāṃsyucyate-Nirukta 4.19) be full of sweetness; may the protecting heaven be sweet to us.”
Sweet be the night and sweet the dawns, sweet the terrestrial atmosphere;
Sweet be our Father Heaven to us.
Honey by night and at dawn; honeyed is the earthly realm.
Honey be Father Heaven for us.
Die Nacht sei Meth, die Morgen Meth, und reich an Meth der Erde Raum, Der Himmel, unser Vater, auch.
Süßigkeit sei uns bei Nacht und des Morgens, Süßes spendend der irdische Raum; Süßigkeit sei uns der Vater Himmel.
Мед – ночью и на утренней заре!
Медоносным (пусть будет) земное пространство!
Медом пусть будет Небо – наш отец!
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्य॑: । माध्वी॒र्गावो॑ भवन्तु नः ॥
मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ । माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥
नः अस्माकं वनस्पतिः वनानां पालयिता यूपाभिमानी देवः मधुमान् माधुर्योपेतफलवान् अस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः। सूर्यः सर्वस्य प्रेरकः सविता च मधुमान् अस्तु । गावः अग्निहोत्राद्यर्था धेनवश्च नः अस्माकं माध्वीः माधुर्योपेतेन पयसा युक्ताः भवन्तु ॥ वनस्पतिः । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् । वनपतिशब्दावाद्युदात्तौ ।' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
“May Vanaspati be possessed of sweetness towards us; may the sun be imbued with sweetness; may the cattle be sweet to us.”
May the tall tree be full of sweets for us, and full of sweets the Sun:
May our milch-kine be sweet for us.
Honeyed be the tree for us, honeyed the sun.
Honeyed be the cows for us.
Uns sei der Waldbaum reich an Meth, und reich an Meth die Sonne uns, Die Kühe reich an süssem Meth.
Voll Süßigkeit sei uns der Baum, voll Süßigkeit die Sonne, voll Süßigkeit sollen uns die Kühe sein.
Медоносным (пусть будет) нам лесное дерево!
Медоносным пусть будет солнце!
Медовыми пусть станут нам коровы!
शं नो॑ मि॒त्रः शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः ॥
शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः॒ । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा । शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥
अहरभिमानी मित्रः देवः नः अस्माकं शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । राज्यभिमानी वरुणः च शं सुखकरः भवतु । अर्यमा अहोरात्रयोः ख्यापयिता सूर्यश्च नः अस्माकं शं सुखकरो भवतु । बृहस्पतिः बृहतां देवानां पालयिता इन्द्रः च नः अस्माकं शं सुखकरो भवतु । उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीति उरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान् पदत्रयरूपेणाक्रान्तवान् । अतः उरुक्रमः विष्णुः च नः अस्माकं शं सुखकरः उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । ‘ क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीति उरुक्रमः । कर्मणि अण् । ‘नोदात्तोपदेशस्य मान्तस्य' इति वृद्धिप्रतिषेधः ॥ ॥१८॥
“May Mitra be propitious to us; may Varuṇa, may Aryaman, be propitious to us; may Indra and Bṛhaspati be propitious to us; may the wide-stepping Viṣṇu be propitious to us.”
Be Mitra gracious unto us, and Varuna and Aryaman:
Indra, Brhaspati be kind, and Visnu of the mighty stride.
Luck for us Mitra, luck Varuṇa; luck be Aryaman for us—
Luck for us Indra and Br̥haspati; luck for us Viṣṇu of the wide strides.
Zum Heile sei uns Mitra, zum Heile Varuna, zum Heile uns Arjaman, zum Heil uns Indra und Brihaspati, zum Heil uns Vischnu, der weitschreitende.
Zum Glück soll uns Mitra, zum Glück uns Varuna, zum Glück uns Aryaman sein, zum Glück soll uns Indra und Brihaspati, zum Glück uns der weitschreitende Vishnu sein.
На счастье нам – Митра, на счастье – Варуна!
На счастье да будет нам Арьяман!
На счастье нам – Индра, Брихаспати!
На счастье нам – Вишну, широко шагающий!