त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑: ॥
त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अनु॑ । ने॒षि॒ । पन्था॑म् । तव॑ । प्रऽनी॑ती । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न॑म् । अ॒भ॒ज॒न्त॒ । धीराः॑ ॥
हे सोम त्वं मनीषा मनीषयास्मदीयया बुद्ध्या प्र चिकितः प्रकर्षेण ज्ञातोऽसि वयं त्वां स्तुतिभिरज्ञासिष्मेत्यर्थः । अतः त्वं रजिष्ठम् ऋजुतममकुटिलं पन्थां पन्थानं कर्मफलावाप्तिहेतुभूतं मार्गम् अनु नेषि अस्माननुक्रमेण प्रापयसि । किंच हे इन्दो उन्दनशील सर्वं जगदमृतेन क्लेदयित: सोम तव प्रणीती प्रणीत्या त्वत्कर्तृकेण प्रकृष्टनयनेन धीराः धीमन्तः कर्मवन्तः प्रज्ञावन्तो वा नः अस्माकं पितरः देवेषु इन्द्रादिषु रत्नं रमणीयं धनम् अभजन्त असेवन्त प्राप्नुवन् । अतोऽस्मानपि तादृशं धनं प्रापयेत्यर्थः ॥ प्र चिकितः । ‘ कित ज्ञाने ' । अस्मात् कर्मणि निष्ठा । छान्दसं द्विर्वचनम् । यद्वा । यङ्लुगन्तात् निष्ठा । संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ गुणो यङ्लुकोः' इति अभ्यासस्य गुणाभावः । यद्वा । ‘ छन्दस्युभयथा ' इति निष्ठायाः सार्वधातुकसंज्ञायां शप् । जुहोत्यादिवत् तस्य श्लुः । श्लौ ' इति द्विर्वचनम् । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । मनीषा। सुपां सुलुक् ' इति तृतीयाया डादेशः । रजिष्ठम् । ऋजुशब्दात् इष्ठनि ' विभाषर्जोश्छन्दसि ' ( पा. सू. ६. ४. १६२ ) इति रत्वम् । ‘टेः' इति टिलोपः । नेषि । नयतेर्लटि ‘ बहुलं छन्दसि ' इति शपो लुक् । पन्थाम् । “ पथिमथ्यृभुक्षामात् ' ( पा. सू. ७. १. ८५ ) इति असावपि व्यत्ययेन आत्वम् । पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । प्रणीती । ‘ तादौ च इति गतेः प्रकृतिस्वरत्वम् । ‘ सुपां सुलुक् ' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ॥
“You, Soma, are thoroughly apprehended by our understanding; you lead us along a straight path; by your guidance, Indra, our righteous fathers obtained wealth among the gods.”
Thou, Soma, art preeminent for wisdom; along the straightest path thou art our leader.
Our wise forefathers by thy guidance, Indu, dealt out among the Gods their share of treasure.
You, Soma, have become conspicuous through our inspired thought. You—lead along the straightest path.
Through your guidance, o drop, our insightful forefathers had their
share in the treasure among the gods.
Du ragst, o Soma, hoch hervor an Weisheit, du führst, o Indu, auf dem gradsten Wege; Durch deine Leitung haben unsre Väter, die weisen, Schutz empfangen bei den Göttern.
Du, Soma, offenbare dich durch dichterische Gedanken, führe du uns den richtigsten Weg! Unter deiner Führung, du Saft, empfingen unsere weisen Väter von den Göttern das Kleinod.
Ты, Сома, проявись через сознание!
Ты веди (нас) самым прямым путем!
Под твоим предводительством отцы наши, о сок,
Получили долю в богатстве у богов, (они,) мудрые.
त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षै॑: सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षा॑: ॥
त्वम् । सो॒म॒ । क्रतु॑ऽभिः । सु॒ऽक्रतुः॑ । भूः॒ । त्वम् । दक्षैः॑ । सु॒ऽदक्षः॑ । वि॒श्वऽवे॑दाः । त्वम् । वृषा॑ । वृ॒ष॒ऽत्वेभिः॑ । म॒हि॒ऽत्वा । द्यु॒म्नेभिः॑ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒ऽचक्षाः॑ ॥
हे सोम त्वं क्रतुभिः त्वत्संबन्धिभिरग्निष्टोमादिकर्मभिः आत्मीयैर्ज्ञानैर्वा सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा भूः भवसि । तथा विश्ववेदाः सर्वधनः त्वं दक्षैः आत्मीयैर्बलैः सुदक्षः शोभनबलो भवसि । तथा त्वं वृषत्वेभिः वृषत्वैः कामाभिवर्षणैः महित्वा महत्त्वेन माहात्म्येन च वृषा कामानां वर्षिता महांश्च भवसि । तथा त्वं नृचक्षाः नृणां यज्ञस्य नेतॄणां यजमानानामभिमतफलस्य दर्शयिता सन् द्युम्नेभिः द्युम्नैः तैर्दत्तैर्हविर्लक्षणैरन्नैः द्युम्नी अभवः प्रभूतान्नो भवसि ॥ सुक्रतुः । बहुव्रीहौ ‘ क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । सुदक्षः । दक्ष वृद्धौ'। दक्ष्यतेऽनेनेति दक्षो बलम् । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुशब्देन बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम्। विश्ववेदाः। विश्वानि वेदांसि यस्यासौ । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम्। वृषत्वेभिः । वृष्णो भावो वृषत्वम् । ‘ बहुलं छन्दसि ' इति भिसः ऐसभावः । महित्वा । महेरौणादिक इन्प्रत्ययः । भावप्रत्ययान्तात् “ सुपां सुलुक्° ' इति विभक्तेः आकारः ॥
“You, Soma, are the doer of good by holy acts; you are powerful by your energies, and know all things; you are the showerer (of benefits) by your bounties, and (are great) by your greatness; you, the guide of men, has been well nourished by sacrificial offerings.”
Thou by thine insight art most wise, O Soma, strong by thine energies and all possessing,
Mighty art thou by all thy powers and greatness, by glories art thou glorious, guide of mortals.
You, Soma, become very intent through your intentions; very skillful with your skills, all-knowing.
You are a bull through your bullish powers, your greatness. You became brilliant through your brilliancies, drawing the gaze of men.
Durch Einsicht bist du einsichtsvoll, o Soma, durch Kräfte kräftig, du der Allbesitzer; Ein Stier bist du durch Stiereskraft und Grösse, durch Reichthum wurdest reich du Männerschauer.
Du, Soma, bist an Einsicht wohleinsichtig, an Verstand wohlverständig, du der Allwissende. Du bist ein Bulle an Bullenstärke, an Größe; du mit dem Herrenauge wardst glanzreich an Glanz.
Ты, Сома, по силам духа, прекрасен силой духа,
Ты по силам действия, прекрасен силой действия, всеведущ.
Ты по качествам быка бык, по мощи.
По сверканиям ты стал сверкающим, (ты,) со взглядом героя.
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ । शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥
हे सोम राज्ञः ब्राह्मणानां स्वामिनः । ‘ सोमोऽस्माकं ब्राह्मणानां राजा ' ( तै. सं. ३. ८, १०, २) इति श्रुतेः । वरुणस्य । यागार्थमाहृतः क्रीतो वस्त्रेणावृतः सोमो वरुणः । ‘ वरुणोऽसि धृतव्रतः' ( तै. सं. १, २. १०. २) इति मन्त्रलिङ्गात् । क्रीतस्य ते नु तव संबन्धीनि हि व्रतानि सर्वाण्यग्निष्टोमादीनि कर्माणि । अतः सर्वेषु यागेषु त्वमेव करणभूतः भवसीत्यर्थः । अतः तव धाम त्वदीयं तेजः बृहत् महत् विस्तीर्णं गभीरं गाम्भीर्योपेतं च । यद्वा । नु इत्येतदुपमार्थे । तदुक्तं यास्केन -“अथाप्युपमर्थे भवति वृक्षस्य नु ते पुरुहूत वया: ' ( निरु. १. ४ ) इति । राज्ञः राजमानस्य वरुणस्य नु वरुणस्येव हे सोम ते तव व्रतानि कर्माणि लोकहितकारीणि । शिष्टं समानम्। हे सोम त्वं शुचिः सर्वेषां शोधकः असि । तत्र दृष्टान्तः । प्रियो न मित्रः । यथा सर्वेषामनुकूलोऽहरभिमानी मित्रो देवः शोधयिता भवति तद्वत् । तथा त्वम् अर्यमेव अस्माभिर्दृश्यमानः सूर्य इव दक्षाय्यः असि सर्वेषां वर्धको भवसि । यथाहनि सूर्यः प्रकाशेन सर्वं वर्धयति एवं निशि अमृतमयैः सोमकिरणैरप्यायमानं सत् स्थावरजङ्गमात्मकं सर्वं जगद्वर्धते । शुचिष्ट्ठम् । ‘युष्मत्ततक्षुःष्वन्तःपादम्' इति विसर्जनीयस्य षत्वम् । दक्षाय्यः । दक्ष वृद्धौ'। ‘ श्रुदक्षिस्पृहिग्रहिभ्य आय्यः ' उ, सू. ३. ३७६ ) इति आय्यप्रत्ययः ॥
“Your acts are (like those) of the royal Varuṇa; your glory, Soma, is great and profound; you are the purifier (of all), like the beloved Mitra; you are the augmenter of all, like Aryaman.”
Thine are King Varuna's eternal statutes, lofty and deep, O Soma, is thy glory.
All-pure art thou like Mitra the beloved, adorable, like Aryaman, O Soma.
The commandments of King Varuṇa are yours; lofty and deep is your domain, o Soma.
You are blazing pure, like dear Mitra. You are besought for skill like Aryaman, o Soma.
Dein sind des Königs Varuna Gesetze, hoch ist und tief, o Soma, deine Stätte, Du strahltest hell so wie der liebe Mitra, du Soma bist wie Arjaman zu ehren,
Deine Gebote sind wie die des Königs Varuna; hoch und tief ist dein Wesen, o Soma. Du bist lauter wie der liebe Mitra; wie Aryaman bist du zu Gunst geneigt, o Soma.
У тебя ведь заветы царя Варуны.
Высока, глубока твоя суть, о Сома.
Ты чистый, как милый Митра;
Ты, как Арьяман, кому надо умело служить.
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वै॑: सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । तेभिः॑ । नः॒ । विश्वैः॑ । सु॒ऽमनाः॑ । अहे॑ळन् । राज॑न् । सो॒म॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥
हे सोम ते तव दिवि द्युलोके या यानि धामानि तेजांसि वर्तन्ते । तथा पृथिव्यां भूमौ यानि वर्तन्ते । तथा पर्वतेषु पर्ववत्सु शिलोच्चयेषु यानि वर्तन्ते । तथा व्रीह्याद्योषधीषु अप्सु च यानि वर्तन्ते । तेभिः विश्वैः तैः सर्वैस्तेजोभिर्युक्तः सुमनाः शोभनमनाः अहेळन् अक्रुध्यन् हे राजन सोम राजमान सोम एवंभूतस्त्वं हव्या अस्माभिः प्रत्तानि हवींषि प्रति गृभाय प्रतिगृहाण ॥ या । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । पृथिव्याम् । ‘ उदात्तयणः० ' इति विभक्तेरुदात्तत्वम् । ओषधीषु । ‘ औषधेश्च विभक्तावप्रथमायाम् ( पा. सू. ६. ३. १३२) इति दीर्घः । अप्सु । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । सुमनाः। ‘ सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । गृभाय । ग्रह उपादाने ' । छन्दसि शायजपि ' इति हौ श्नाप्रत्ययस्य शायजादेशः ॥
“Endowed with all the glories (that are displayed) by you in heaven, on earth, in the mountains, in the plural nts, in the waters, do you, illustrious Soma, well-disposed towards us, and devoid of anger, accept our oblations.”
With all thy glories on the earth, in heaven, on mountains, in the plants, and in the waters,--
With all of these, well-pleased and not in anger, accept, O royal Soma, our oblations.
Your domains that are in heaven, that are on the earth, that are in the mountains, in the plants, in the waters—
with all those, being well-disposed and not angry, King Soma, accept our oblations.
In alle Stätten, die du hast im Himmel, auf Erden und in Bergen, Kräutern, Wassern, In die nimm huldvoll auf, o König Soma, und ohne Zürnen unsre Opfertränke.
Deine Formen im Himmel, auf Erden, die auf den Bergen, in den Pflanzen, im Wasser sind, mit allen diesen nimm wohlgesinnt, nicht übelnehmend, unsere Opfer an, o König Soma!
Те твои формы, что на небе, что на земле,
Что в горах, в растениях, в водах, –
Во всех них благожелательный, не раздражающийся,
О царь Сома, прими жертвенные возлияния!
त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतु॑: ॥
त्वम् । सो॒म॒ । अ॒सि॒ । सत्ऽप॑तिः । त्वम् । राजा॑ । उ॒त । वृ॒त्र॒ऽहा । त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥
हे सोम त्वं सत्पतिः असि सतां कर्मसु वर्तमानानां ब्राह्मणानामधिपतिर्भवसि । ‘ तस्मात्सोमराजानो ब्राह्मणाः' ( तै. ब्रा. १. ७. ४. २) इति श्रुतेः । यद्वा । सन्तः स्वानादयः पतयः पालका यस्य सोमस्य तादृशो भवसि । तथा चाम्नायते- ‘ स्वान भ्राजेत्याहैते वा अमुष्मिन् लोके सोममरक्षन ' ( तै. सं. ६. १. १०. ५) इति । उत अपि च राजा राजमानः त्वं वृत्रहा वृत्रस्यासुरस्य शत्रोर्वा हन्तासि । भद्रः शोभनः क्रतुः योऽयमग्निष्टोमादियागः त्वम् एव तद्रूपो भवसि । त्वत्साध्यत्वाद्यागानाम् ॥ सत्पतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्पुरुषपक्षे तु ‘ पत्यावैश्वर्ये । इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १९ ॥
“You, Soma, are the protector, the soverign of the pious, or even the slayer of Vṛtra; you are holy sacrifice..”
Thou, Soma, art the Lord of heroes, King, yea, Vrtra-slayer thou:
Thou art auspicious energy.
You, Soma, are lord of the settlements; you are king and Vr̥tra-smasher. You are auspicious intention.
Du Soma bist der starke Herr, bist König, Vritratödter du, Du bist die Kraft, die Glück verleiht.
Du, Soma, bist der rechtmäßige Gebieter, du der König und Vritratöter; du bist die gute Einsicht.
Ты, Сома, истинный господин,
Ты также царь, убийца Вритры,
Ты – счастливая сила духа.
त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो॑त्रो॒ वन॒स्पति॑: ॥
त्वम् । च॒ । सो॒म॒ । नः॒ । वशः॑ । जी॒वातु॑म् । न । म॒रा॒म॒हे॒ । प्रि॒यऽस्तो॑त्रः । वन॒स्पतिः॑ ॥
हे सोम नः अस्माकं स्तोतॄणां जीवातुं जीवनौषधं त्वं च त्वं चेत् वशः कामयेथाः तदानीं वयं न मरामहे न म्रियामहे । कीदृशस्त्वम् । प्रियस्तोत्रः । प्रियाणि स्तोत्राणि यस्य स तथोक्तः । बहुभिः स्तोतव्य इत्यर्थः । वनस्पतिः वनानामोषधिवनस्पतिरूपाणां पतिः पालयितासि । ‘ सोमो वा ओषधीनां राजा ' ( तै. सं. ६, ७, ९, १ ) इति श्रुतेः ॥ वशः । वश कान्तौ । लेटि सिपि अडागमः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । त्वं चेति चशब्दश्चणिति निपातान्तरं चेदर्थम् । तद्योगात् ‘ निपातैर्यद्यदिहन्त° ' इति निघातप्रतिषेधः । जीवातुम् । ‘ जीव प्राणधारणे । ‘ जीवेरातुः ( उ. सू. १. ७९ ) । मरामहे ।' मृङ् प्राणत्यागे । व्यत्ययेन शप् ॥
“You, Soma, fond of praise, the lord of plural nts, are life to us; if you will, we shall not die.”
And, Soma, let it be thy wish that we may live and may not die:
Praise-loving Lord of plants art thou.
And if you will wish us to live, Soma, we will not die.
(You are) the lord of the forest to whom praise is dear.
Wenn du uns, Soma, leben heisst, so fall'n wir nicht dem Tod anheim, O Waldesfürst, dem Lob gefällt.
So du, Soma, willst, daß wir leben, so sterben wir nicht. Du bist der preisliebende Baumfürst.
Если ты, Сома, захочешь, чтобы мы
Жили, мы не умрем.
(Ты) любитель хвалы, господин деревьев.
त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते । दक्षं॑ दधासि जी॒वसे॑ ॥
त्वम् । सो॒म॒ । म॒हे । भग॑म् । त्वम् । यूने॑ । ऋ॒त॒ऽय॒ते । दक्ष॑म् । द॒धा॒सि॒ । जी॒वसे॑ ॥
हे सोम त्वं महे महते वृद्धाय ऋतायते ऋतं यज्ञमात्मन इच्छते पुरुषाय जीवसे जीवितुं दक्षम् उपभोगसमर्थं भगं धनं दधासि विदधासि करोषि तथा त्वं यूने तरुणाय च ऋतायते जीवितुं धनं करोषि ॥ महे । महते। अच्छब्दलोपश्छान्दसः । बृहन्महतोल्पसंख्यानम् ' इति विभक्तेरुदात्तत्वम् । यूने । ‘ श्वयुवमघोनामतद्धिते' इति संप्रसारणम् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । ‘ अन्येषामपि दृश्यते ' इति सांहितिको दीर्घः। क्यजन्तात् लटः शतृ । ‘शतुरनुमो नद्यजादी ' इति विभक्तेरुदात्तत्वम् । जीवसे । ‘ जीव प्राणधारणे । ‘ तुमर्थे सेसेन्° ' इति असेप्रत्ययः ॥
“You bestow, Soma, upon him who worships, you, whether old or young, wealth, what he may enjoy and live.”
To him who keeps the law, both old and young, thou givest happiness,
And energy that he may live.
You, Soma, (establish) good fortune for the great man, you, for the youth who pursues the truth;
you establish skill for living.
Du, Soma, gibst dem Alten Glück, dem Jüngling, der rechtschaffen ist, Verleihest du zum Leben Kraft.
Du, Soma, schaffst dem Erwachsenen Glück, du dem Jungem, der rechtschaffen wandelt, die Kraft zum Leben.
Ты, Сома, – доля для старого,
Ты (также) – для юного праведного:
Ты даешь силу действия, чтобы жить.
त्वं न॑: सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑त॒: सखा॑ ॥
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । रक्ष॑ । रा॒ज॒न् । अ॒घ॒ऽय॒तः । न । रि॒ष्ये॒त् । त्वाऽव॑तः । सखा॑ ॥
हे सोम राजन् राजनशील त्वम् अघायतः । अघं पापम् । तद्धेतुकं दुःखमस्माकं कर्तुमिच्छतः .विश्वतः सर्वस्मादपि पुरुषात् नः अस्मान् रक्ष पालय । त्वावतः त्वत्सदृशस्य सखा सख्यं प्राप्तः पुरुषः न रिष्येत् नहि विनश्येत् किमु वक्तव्यं त्वत्सखा न विनश्यतीति ॥ अघायतः । अघं पापं परेषामिच्छतीत्यघायन् । 'छन्दसि परेच्छायामपि ' इति क्यच् । अश्वाघस्यात्' इति आत्वम् । रिष्येत् । रुष रिष हिंसायाम् ' । त्वावतः । ‘ वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘ आ सर्वनाम्नः इति आत्वम् ॥
“Defend us, royal Soma, from every one seeking to harm us; the friend of one like you can never perish.”
Guard us, King Soma, on all sides from him who threatens us: never let
The friend of one like thee be harmed.
You, King Soma—guard us on all sides from the one who bears malice. No comrade of one such as you could suffer harm.
Beschütz uns, Soma, überall, o König, vor dem Bösewicht, Nicht treffe deinen Freund ein Leid.
Du König Soma, beschütze uns vor jedem Böswilligen! Der Freund von einem, wie du bist, sollte nicht zu Schaden kommen.
Ты нас, Сома, со всех сторон
Защити, о царь, от злонамеренного!
Да не потерпит ущерба друг такого, как ты!
सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒: सन्ति॑ दा॒शुषे॑ । ताभि॑र्नोऽवि॒ता भ॑व ॥
सोम॑ । याः । ते॒ । म॒यः॒ऽभुवः॑ । ऊ॒तयः॑ । सन्ति॑ । दा॒शुषे॑ । ताभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
हे सोम ते तव संबन्धिन्यः दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयोभुवः मयसः सुखस्य भावयित्र्यः याः ऊतयः रक्षाः सन्ति विद्यन्ते ताभिः रक्षाभिः नः अस्माकम् अविता रक्षिता भव ॥ मयोभुवः । अस्य ऊतिविशेषणत्वेन स्त्रीलिङ्गत्वे ‘भुवश्च' (पा. सू. ४, १. ४७ ) इति ङीष् प्राप्नोति । तत् ‘वोतो गुणवचनात् ' इत्यस्मात् उतः इति तपरकरणस्यानुवर्तनात् न भवति ॥
“Soma, be our protector with those assistances which are sources of happiness to the donor (of oblations).”
With those delightful aids which thou hast, Soma, for the worshipper,--
Even with those protect thou us.
Soma, your forms of help that are joy itself for the pious man,
with those become our helper.
O Soma, welche Hülfen du, heilbringend für den Frommen hast, Mit denen sei ein Helfer uns.
Soma! Mit den heilsamen Hilfen, die du für den Opferspender hast, mit denen sei uns ein Helfer!
О Сома, те приносящие счастье
Поддержки, что есть у тебя для почитающего (тебя), -
Ими помоги нам!
इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि । सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥
इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि । सोम॑ । त्वम् । नः॒ । वृ॒धे । भ॒व॒ ॥
हे सोम त्वम् इमम् अस्माभिः क्रियमाणं यज्ञम् इदं वचः इदानीं क्रियमाणं स्तुतिलक्षणं वचनं जुजुषाणः सेवमानः सन् उपागहि उपागच्छ प्राचीनवंशलक्षणं गृहं प्राप्नुहि । प्राप्य च नः अस्माकं वृधे यज्ञस्य वर्धनाय भव ॥ जुजुषाणः । ‘ जुषी प्रीतिसेवनयोः । छन्दसि लिट् । लिटः कानच् । चितः' इत्यन्तोदात्तत्वम् । उपागहि । गमेर्लोटि ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘ अनुदात्तोपदेश°? इत्यादिना मकालोपः । ‘ असिद्धवदत्रा भात्' इति अस्य असिद्धत्वात् हेः लुगभावः । ‘ गतिर्गतौ ' (पा. सू. ८. १. ७० ) इति पूर्वस्य गतेर्निघातः ॥॥ २० ॥
“Accepting this our sacrifice, and this our praise, approach, Soma, and be to us as the augmenter of our rite.”
Accepting this our sacrifice and this our praise, O Soma, come,
And be thou nigh to prosper us.
This sacrifice here—having delighted in this speech, come near to it. Soma, be (ready) to strengthen us.
Lass dieses Opfer, dieses Lied gefallen dir und komm herbei, O Soma, du sei uns zum Heil.
An diesem Opfer, an dieser Rede dich erfreuend komm herbei! Sei du, Soma, uns zum Gedeihen!
Приди, наслаждаясь
Этой жертвой, этой речью!
О Сома, помоги ты нам, возрасти!
सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विद॑: । सु॒मृ॒ळी॒को न॒ आ वि॑श ॥
सोम॑ । गीः॒ऽभिः । त्वा॒ । व॒यम् । व॒र्धया॑मः । व॒चः॒ऽविदः॑ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥
हे सोम त्वा त्वां वचोविदः स्तुतिलक्षणानां वचसां वेदितारः वयम् अनुष्ठातारः गीर्भिः स्तुतिलक्षणैर्वचोभिः वर्धयामः प्रवृद्धं कुर्मः । तादृशस्त्वं च नः अस्माकं सुमृळीकः शोभनं सुखं कुर्वन् सन् आ विश आगच्छ । सुमृळीकः । ‘ मृड सुखने ' । ‘ मृडेः कीकन्ककनौ ' ( उ. सू. ४. ४६४ ) इति भावे कीकन्प्रत्ययः । शोभनं मृडीकं यस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ।
“Acquainted with hymns, we elevate you with praises; do you, who are benignant, approach.”
Well-skilled in speech we magnify thee, Soma, with our sacred songs:
Come thou to us, most gracious One.
Soma, we who know speech strengthen you with our hymns.
Very compassionate to us, enter us.
᳓
Wir redekund'gen stärken dich, o Soma, durch der Lieder Schall, Komm reich an Gnade her zu uns.
Wir erbauen dich, Soma, mit Lobesworten, der Rede kundig. Mildtätig geh in uns ein!
О Сома, хвалебными песнями неба
Мы усиливаем тебя, сведущие в речи.
Сочувственный войди в нас!
ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥
ग॒य॒ऽस्फानः॑ । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः । सु॒ऽमि॒त्रः । सो॒म॒ । नः॒ । भ॒व॒ ॥
गयस्फानः । गयः इति धननाम । धनस्य वर्धयिता अमीवहा अमीवानां रोगाणां हन्ता वसुवित् स्तोतॄणां धनस्य लम्भयिता प्रापयिता पुष्टिवर्धनः पुष्टेः संपदो वर्धयिता सुमित्रः । शोभनानि मित्राणि सखायो यस्य स तथोक्तः । हे सोम त्वं नः अस्माकम् एवंगुणविशिष्टः भव ॥ गयस्फानः । ‘ स्फायी वृद्धौ ' । अन्तर्भावितण्यर्थात् ल्युटि व्यत्ययेन यलोपः । इदमादिषु चतुर्षु पदेषु कृदुत्तरपदप्रकृतिस्वरत्वम् । सुमित्रः । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥
“Be unto us, Soma, the bestower of wealth, the remover of disease, the cognizant of riches, the augmenter of nutriment, an excellent friend.”
Enricher, healer of disease, wealth-finder, prospering our store,
Be, Soma, a good Friend to us.
Fattening the livestock, smiting afflictions, finding goods, increasing prosperity,
Soma, be a good ally to us.
᳓
Den Hausstand mehr', vertreibe Leid, die Nahrung mehre, schenke Gut, Sei, Soma, uns ein lieber Freund.
Den Hausstand vergrößernd, Krankheit vertreibend, Schätze findend, Wohlstand mehrend, halte, o Soma, gute Freundschaft mit uns!
Умножающий хозяйство, убивающий болезни,
Находящий добро, усиливающий процветание,
Будь ты нам, Сома, добрым другом!
सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा । मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥
सोम॑ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः॑ । न । यव॑सेषु । आ । मर्यः॑ऽइव स्वे । ओ॒क्ये॑ ॥
हे सोम त्वं नः अस्माकं हृदि हृदये ररन्धि रमस्व । तत्र निदर्शनद्वयमुच्यते। गावो न । यथा गावः यवसेषु शोभनतृणेषु आ आभिमुख्येन रमन्ते । मर्यइव । यथा वा मर्यो मरणधर्मा मनुष्यः स्वे ओक्ये स्वकीये ओकसि गृहे पुत्रादिभिः सह रमते तद्वदस्माभिर्दत्तेन हविषा तृप्तः सन् अस्मास्वेवावतिष्ठस्व । नान्यत्र गच्छेति निदर्शनद्वयस्य तात्पर्यार्थः । ररन्धि । रमु क्रीडायाम् । व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ छन्दस्युभयथा' इति हेः आर्धधातुकत्वेन ङित्त्वाभावात् ' अङितश्च ' इति हेर्धिः । अत एव अङित्त्वात् अनुनासिकलोपाभावः । ‘ सेर्ह्यपिञ्च । इति हेः अपित्त्वात् तस्यैव स्वरः शिष्यते । छान्दसमभ्यासदीर्घत्वम् । आमन्त्रितं पूर्वमविद्यमानवत्’ इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्त्वात् पदादपरत्वेन निघाताभावः। मर्यइव। ‘ छन्दसि निष्टर्क्य०' इत्यादौ मर्यशब्दो यत्प्रत्ययान्तो निपात्यते । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । ओक्ये । ‘ उच समवाये । उच्यते समवेयते प्राप्यते इति ओक्यं गृहम् । ऋहलोर्ण्यत् । ‘ चजोः कु घिण्ण्यतोः' इति कुत्वम् । तित्स्वरितः ॥
“Soma, dwell happy in our hearts, like cattle in fresh pastures, like men in their own abodes.”
Soma, be happy in our heart, as milch-kine in the grassy meads,
As a young man in his own house.
Soma, take pleasure in our heart, as cows do in pastures,
as a young man in his prime does in his own home.
Erquick an unserm Herzen dich, o Soma, wie die Kuh am Gras, Und wie der Mann am eignen Haus.
Soma! Verweile gern in unserem Herzen wie die Kühe auf der Weide, wie ein junger Mann im eigenen Heim!
О Сома, найди себе радость в нашем сердце,
Как коровы на пастбищах,
Как юноша в своем доме!
यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्य॑: । तं दक्ष॑: सचते क॒विः ॥
यः । सो॒म॒ । स॒ख्ये । तव॑ । र॒रण॑त् । दे॒व॒ । मर्त्यः॑ । तम् । दक्षः॑ । स॒च॒ते॒ । क॒विः ॥
हे देव द्योतमान सोम तव सख्ये त्वदीये सखित्वे निमित्तभूते सति यः मर्त्यः मरणधर्मा यजमानः रारणत् रणति एतत्सूक्तरूपेण स्तोत्रेण त्वां स्तौति तं यजमानं कविः क्रान्तदर्शी दक्षः सर्वकार्यसमर्थस्त्वं सचते सेवसे । अनुगृह्णासीत्यर्थः । ररणत् । रण शब्दार्थः । लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ इतश्च लोपः० ' इति इकारलोपः। ‘ छन्दस्युभयथा - इति आर्धधातुकत्वात् अचि अनिटि लसार्वधातुके विधीयमानस्य अभ्यस्ताद्युदात्तत्वस्याभावे धातुस्वरः शिष्यते । सचते । षच समवाये । पुरुषव्यत्ययः ॥
“The experienced sage commends the mortal who, through affection, divine Soma, praises you.”
O Soma, God, the mortal man who in thy friendship hath delight,
Him doth the mighty Sage befriend.
O Soma, the mortal who will take pleasure in your comradeship, o god, him does skill accompany, him does the sage poet.
Welch Sterblicher, o Gott, sich freut, o Soma, deiner Brüderschaft, Dem ist der starke Seher hold.
Welcher Sterbliche, o Gott Soma, in deiner Gesellschaft gern verweilt, dem steht der wirksame Seher zur Seite.
(Тот) смертный, о Сома, кто находит себе
Радость в дружбе твоей, о бог, –
За ним следует мудрая сила действия.
उ॒रु॒ष्या णो॑ अ॒भिश॑स्ते॒: सोम॒ नि पा॒ह्यंह॑सः । सखा॑ सु॒शेव॑ एधि नः ॥
उ॒रु॒ष्य । नः॒ । अ॒भिऽश॑स्तेः । सोम॑ । नि । पा॒हि॒ । अंह॑सः । सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥
हे सोम त्वं नः अस्मान् अभिशस्तेः अभिशंसनात् अभिशापरूपान्निन्दनात् उरुष्य रक्ष । ‘ उरुष्यती रक्षाकर्मा ' ( निरु. ५. २३ ) इति यास्कः । तथा अंहसः अस्मत्कृतात् पापाच्च नि पाहि नितरां पालय । एवमस्मदीयं पापं परिहृत्य सुशेवः अस्मभ्यं दातव्येन शोभनेन सुखेन युक्तः सन् सखा एधि हितकारी भव ॥ अभिशस्तेः । ‘शंसु स्तुतौ' । अस्मात् भावे क्तिन् । ‘ तादौ च । इति गतेः प्रकृतिस्वरत्वम् । एधि । ‘ अस भुवि '। लोटि सेहिः । तस्य ङित्त्वात् श्नसोरल्लोप: इति अकारलोपः । ‘ ध्वसोरेद्धावभ्यासलोपश्च' इति सकारस्य एत्वम् । तस्य असिद्धवदत्रा भात इति असिद्धत्वात् हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः ॥॥ २१ ॥
“Protect us, Soma, from calumny, preserve us from sin; plural ased with our service, be our friend.”
Save us from slanderous reproach, keep us., O Soma, from distress:
Be unto us a gracious Friend.
Make a broad space for us against imprecation; Soma, protect us from narrow straits.
Be a comrade well disposed to us.
Beschirme Soma uns vor Fluch und schütze vor Bedrängniss uns, Sei uns ein holdgesinnter Freund.
Sichere uns, o Soma, vor übler Nachrede; schütz uns vor Not; sei uns ein wohlwollender Freund!
Создай нам широкий простор от наговора!
О Сома, защити (нас) от узости!
Будь нам милосердным другом!
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥
आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् । भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥
हे सोम त्वम् आ प्यायस्व वर्धस्व। ते तव वृष्ण्यं वृषत्वं वीर्यं सामर्थ्यं विश्वतः सर्वतः समेतु संगच्छतां त्वया संयुक्तं भवतु । एवंभूतस्त्वं वाजस्य अन्नस्य संगथे संगमने भव । अस्माकमन्नप्रदो भवेत्यर्थः ॥ वृष्ण्यम् । वृष सेचने । ‘ कनिन्युवृषि° इत्यादिना कनिन् । वृष्णिभवं वृष्ण्यम् । भवे छन्दसि ' इति यत् । ‘ अल्लोपोऽनः' इति अकारलोपः । ‘ ये चाभावकर्मणोः । इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । यतोऽनावः' इत्याद्युदात्तत्वम् । भव । द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम् । संगथे। ‘ पातॄतुदिवचि°' इत्यादिना विधीयमानः थक्प्रत्ययो बहुलवचनात् गमेरपि भवति । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“Increase, Soma, may vigour come to you from every side; be diligent in the supply of food (to us).”
In thee be juicy nutriments united, and powers and mighty foe-subduing vigour,
Waxing to immortality, O Soma: win highest glories for thyself in heaven.
Swell up! Let your bullish power come together from all sides, Soma. Be there at the gathering for the prize.
Schwill an von Saft, in dich geh ein, o Soma, alle Stieresmacht, Sei da, wo Kraft zusammenströmt.
Quill auf! Von allen Seiten soll deine Bullenstärke zusammenkommen, o Soma! Sei dabei, wo der Gewinn sich anhäuft.
Набухай! Пусть соберется
Со всех сторон твоя бычья сила!
Будь (всегда), где собирается добыча!
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिरं॒शुभि॑: । भवा॑ नः सु॒श्रव॑स्तम॒: सखा॑ वृ॒धे ॥
आ । प्या॒य॒स्व॒ । म॒दि॒न्ऽत॒म॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः । सखा॑ । वृ॒धे ॥
हे मदिन्तम अतिशयेन मद्वन् सोम विश्वेभिः सर्वैः अंशुभिः लतावयवैः आ प्यायस्व आ समन्तात् वृद्धो भव । स त्वं सुश्रवस्तमः अतिशयेन शोभनान्नयुक्तः सन् नः अस्माकं वृधे वर्धनाय सखा भव मित्रीभव ॥ मदिन्तम । मदो हर्षः। तद्वान् मदी। अतिशयेन मदी मदिन्तमः । ‘ नाद्धस्य ' ( पा. सू. ८, २. १७) इति तमपो नुट् । सुश्रवस्तमः । ‘ श्रवः इत्यन्ननाम श्रूयत इति सतः ' ( निरु. १०. ३) इति यास्कः । शोभनं श्रवो यस्य स तथोक्तः । अतिशयेन सुश्रवाः सुश्रवस्तमः । तमपः पित्त्वादनुदात्तत्वे ‘ सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वमेव शिष्यते ॥
“Exulting Soma, increase with all twining plural nts; be to us a friend; well supplied with food, we may prosper.”
Wax, O most gladdening Soma, great through all thy rays of light, and be
A Friend of most illustrious fame to prosper us.
Swell up, most exhilarating Soma, with all your shoots.
Become our comrade of best fame, to strengthen us.
Schwill an von Saft, berauschendster, in allen Fasern, Soma du, Sei uns der hochberühmteste, ein Freund zum Heil.
Quill auf, berauschender Soma, mit allen Stengeln; sei du der gern erhörende Freund uns zum Gedeihen!
Набухай, о самый пьянящий
Сома, всеми стеблями!
Будь для нашего возрастания другом, самым чутким!
सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजा॒: सं वृष्ण्या॑न्यभिमाति॒षाह॑: । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
सम् । ते॒ । पयां॑सि । सम् । ऊँ॒ इति॑ । य॒न्तु॒ । वाजाः॑ । सम् । वृष्ण्या॑नि । अ॒भि॒मा॒ति॒ऽसहः॑ । आ॒ऽप्याय॑मानः । अ॒मृता॑य । सो॒म॒ । दि॒वि । श्रवां॑सि । उ॒त्ऽत॒मानि॑ । धि॒ष्व॒ ॥
हे सोम अभिमातिषाहः अभिमातीनां शत्रूणां हन्तुः ते तव एवंभूतं त्वां पयांसि श्रयणार्थानि क्षीराणि सं यन्तु संगच्छन्ताम् । तथा वाजाः उ हविर्लक्षणान्यन्नानि च त्वां संगच्छन्ताम् । वृष्ण्यानि वीर्याणि च संगच्छन्ताम् । हे सोम त्वम् अमृताय अस्माकममृतत्वाय अमरणत्वाय आप्यायमानः आ समन्तात् वर्धमानः सन् दिवि नभसि स्वर्गे उत्तमानि उद्गततमान्युत्कृष्टानि श्रवांसि अन्नानि अस्माभिर्भोक्तव्यानि हविर्लक्षणानि वा धिष्व धारय । ते। ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । अभिमातिषाहः । ‘ षह अभिभवे । ‘ छन्दसि सहः' इति ण्विप्रत्ययः । सुषामादित्वात् षत्वम् । अमृताय । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । उत्तमानि । उच्छब्दात् ससाधनक्रियावचनात् आतिशायनिकस्तमप् । ‘ उत्तमशश्वत्तमौ सर्वत्र (पा. सू. ६.१. १६०. ग.) इति उञ्छादिषु पाठात् अन्तोदात्तत्वम्। धिष्व । सुधित वसुधित नेमधित धिष्व धिषीय च ' ( पा. सू. ७. ४, ४५) इति धिभावो निपात्यते ॥
“May the milky juices flow around you; may sacrificial offerings and vigour be concentrated in the destroyer of foes; and, being fully nourished, do you provide, Soma, excellent viands in heaven for our immortality.”
सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
Let your milk-drinks come together and together your prizes, together the bullish powers of you who vanquish hostility.
Swelling up for the immortal, Soma, establish your own highest
measures of fame in heaven.
Dir mögen zugehn alle Tränk' und Speisen und Stiereskräfte, dir, dem Feindbezwinger, Zum Göttertrank, o Soma, kräftig schwellend, nimm in Besitz den höchsten Ruhm im Himmel.
Deine Milchsäfte, deine Siegesgewinne sollen sich vereinigen, deine Bullenkräfte, die den Feind bezwingen. Zum Lebensbalsam aufquellend, o Soma, erwirb dir im Himmel höchsten Ruhm!
Да сольются твои струи молока, да со(льются) также и награды,
Да со(льются) бычьи силы, одолевающие злоумышленника!
Набухая для бессмертия, о Сома,
Добудь высшие проявления славы на небе!
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॒य॒स्फान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥
या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् । ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥
हे सोम ते त्वदीयानि या यानि धामानि द्युप्रभृतिष्ववस्थितानि तेजांसि हविषा चरुपुरोडाशादिना यजन्ति यजमानाः पूजयन्ति ता ते विश्वा त्वदीयानि तानि सर्वाणि धामानि यज्ञम् अस्मदीयमध्वरं परिभूरस्तु परितो भावयितॄणि परितः प्राप्तानि सन्तु । यद्वा । त्वदीयानां तेषां सर्वेषां धाम्नामस्मदीयो यजमानः परिभूर्यज्ञं प्रति परिग्रहीता यागेन स्वीकर्ता अस्तु भवतु । परिपूर्वो भवतिः परिग्रहार्थः। तादृशैर्धामभिरुपेतस्त्वं दुर्यान् प्राचीनवंशादिलक्षणानस्मदीयान् गृहान्। ‘ गृहा वै दुर्याः ' ( तै. सं. ६. २. ९. १ ) इति श्रुतेः । प्र चर प्रकर्षेण गच्छ। कीदृशस्त्वम् । गयस्फानः गयस्य गृहस्य धनस्य वा वर्धयिता प्रतरणः प्रकर्षेण दुरितात् तारयिता सुवीरः शोभनैः वीरैरुपेतः अवीरहा । वीर्यात् जायन्ते इति वीराः पुत्राः । तेषामहन्ता ॥ परिभूः । ‘ भू प्राप्तौ' । अस्मात् ' क्विप् च ' इति क्विप् । ‘ व्यत्ययो बहुलम् ' ( पा. सू. ३. १. ८५ ) इति लिङ्गवचनव्यत्ययौ । अस्तु । व्यत्ययेन एकवचनम् । गयस्फानः । गय इति गृहस्य धनस्य च नामधेयम् । तेषां स्फायिता वर्धयिता । ‘ कृत्यल्युटो बहुलम् ' इति कर्तरि ल्युटि छान्दसो यलोपः। अवीरहा। वीराणां हन्ता वीरहा। न वीरहा अवीरहा ॥
“Whichever of your glories (men) worship with oblations, may our sacrifice be invested with them all; come to our mansions, Soma, who are the bestower of wealth, the transporter (over difficulties); attended by valiant heroes, the non-destroyer of progeny.”
Such of thy glories as with poured oblations men honour, may they all invest our worship.
Wealth-giver, furtherer with troops of heroes, sparing the brave, come, Soma, to our houses.
Those domains of yours that they sacrifice to with oblation, let all these of yours be encompassing the sacrifice.
Fattening the livestock, furthering (us), bringing good heroes, not
smiting heroes, o Soma, advance to our doorways.
Die Stätten, die man dir durch Opfer heiligt, die alle mög' das Opfer rings umfangen; Den Hausstand mehrend, helfend, reich an Helden, der Männer schonend komm ins Haus, o Soma.
Deine Formen, die sie mit dem Opfer verehren, die sollen alle das Opfer zusammenhalten. Den Hausstand vergrößernd, leben verlängernd, gute Söhne gebend, nicht die Söhne tötend, zieh, o Soma, ins Haus ein!
(Те) твои формы, что почитают жертвенным возлиянием,
Все они у тебя пусть окружают жертву!
Умножающий хозяйство, продлевающий (срок жизни), дающий прекрасных мужей,
Не убивающий мужей, войди, о Сома, в (наши) дома!
सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥
सोमः॑ । धे॒नुम् । सोमः॑ । अर्व॑न्तम् । आ॒शुम् । सोमः॑ । वी॒रम् । क॒र्म॒ण्य॑म् । द॒दा॒ति॒ । स॒द॒न्य॑म् । वि॒द॒थ्य॑म् । स॒भेय॑म् । पि॒तृ॒ऽश्रव॑णम् । यः । ददा॑शत् । अ॒स्मै॒ ॥
यः यजमानः ददाशत् सोमाय हविर्लक्षणान्यन्नानि दद्यात् तस्मै यजमानाय सोमः धेनुं सवत्सां दोग्ध्रीं गां ददाति । तथा आशु शीघ्रगामिनम् अर्वन्तम् अश्वं ददाति प्रयच्छति । तथा वीरं पुत्रम् अस्मै यजमानाय ददाति । कीदृशं पुत्रम् । कर्मण्यं लौकिककर्मसु कुशलं सदन्यम् । सदनं गृहम् । तदर्हम् । ग्रृहकार्यकुशलमित्यर्थः । विदथ्यम् । विदन्त्येषु देवानिति विदथाः यज्ञाः । तदर्हम् । दर्शपूर्णमासादियागानुष्ठानपरमित्यर्थः । सभेयं सभायां साधुम् । सकलशास्त्राभिज्ञमित्यर्थः । पितृश्रवणं पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशम् ॥ कर्मण्यम् । कर्मसु साधुः कर्मण्यः ।
' तत्र साधुः '( पा. सू. ४. ४. ९८) इति यत् । ' ये चाभावकर्मणोः ' इति प्रकृतिभावः । ' तित्स्वरितम् ' इति स्वरितत्वम् । एवमुत्तरत्रापि यत्प्रत्ययः । सभेयम् । ' ढश्छन्दसि ' ( पा. सू. ४. ४. १०६) इति तत्र साधुः इत्यर्थे डप्रत्ययः । ददाशत् । ' दाशृ दाने ' । लेटि अडागमः । ' बहुलं छन्दसि ' इति शपः श्लुः । । । । २२ । ।
“To him who present (offerings), Soma gives a cow, a swift horse, and a son who is able in affairs, skilful in domestic concerns, assiduous in worship, eminent in society, and who is an honour to his father.”
To him who worships Soma gives the milch-cow, a fleet steed and a man of active knowledge,
Skilled in home duties, meet for holy synod, for council meet, a glory to his father.
Soma gives a milk-cow, Soma a swift steed, Soma a hero fit for action— one fit for the residence, for the rite, for the assembly, one who brings fame to the forefathers—(gives these to the man) who will do ritual service to him.
Die Kuh schenkt Soma, schnelle Rosse Soma, er schenkt den Sohn, der tüchtig ist im Werke, Im Hause tüchtig, in dem Fest, im Rathe, den Vätern ruhmvoll, der dem Soma huldigt.
Soma schenkt dem, der ihm opfert, eine Milchkuh, Soma ein rasches Streitroß, Soma einen werktüchtigen Sohn, der im Haus, im Rat der Weisen, in der Versammlung tüchtig ist, der dem Vater Ruhm bringt.
Сома – дойную корову, Сома – быстрого скакуна,
Сома дарует мужа, искусного в делах,
Искусного в доме, искусного в жертвоприношении, искусного в собрании,
Приносящего славу отцу, – (тому,) кто почитает этого (Сому).
अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥
अषा॑ह्ळम् । यु॒त्ऽसु । पृत॑नासु । पप्रि॑म् । स्वः॒ऽसाम् । अ॒प्साम् । वृ॒जन॑स्य । गो॒पाम् । भ॒रे॒षु॒ऽजाम् । सु॒ऽक्षि॒तिम् । सु॒ऽश्रव॑सम् । जय॑न्तम् । त्वाम् । अनु॑ । म॒दे॒म॒ । सो॒म॒ ॥
युत्सु युद्धेषु अषाह्ढं शत्रुभिरनभिभवनीयं तथा पृतनासु सेनासु पप्रिं जयस्य पूरयितारं स्वर्षां स्वर्गस्य सनितारं दातारं 'अप्साम् अपां वृष्टिलक्षणानामुदकानां दातारम् । यद्वा अप्साम् अप्सातृकं भक्षकरहितम्। सर्वेषामनुग्राहकमित्यर्थः । वृजनस्य गोपाम् । वृज्यतेऽनेनेति वृजनं बलम् । तस्य गोपां गोपयितारं रक्षितारं भरेषुजाम् । भ्रियन्ते एषु हवींषीति भराः यागाः । तेषु प्रादुर्भवन्तं सुक्षितिं शोभननिवासस्थानं सुश्रवसं शोभनयशस्कं जयन्तं शत्रूनभिभवन्तम् । हे सोम ईदृग्भूत त्वाम् अनुलक्ष्य मदेम हर्षयुक्ता भवेम ॥ अषाह्ढम् । षह अभिभवे । साढ्यै साढ़्वा साढेति निगमे ' ( पा. सू. ६. ३. ११३ ) इति निपातनात् ‘सहिवहोरोदवर्णस्य ' ( पा. सू. ६. ३.११२) इति ओत्वाभावः । ‘ सहेः साडः सः' इति षत्वम् । पप्रिम् । पॄ पालनपूरणयोः ‘ आदृगमहनजनः इति किन्प्रत्ययः । स्वर्षाम् । स्वः स्वर्गं सनोतीति स्वर्षाः। ‘ षणु दाने । ‘ जनसनखन° ' इति विट् । विड्वनोरनुनासिकस्यात्' इति आत्वम् । अप्साम् । अप्शब्दोपपदात् सनोतेः पूर्ववत् विट् । यद्वा । प्सा भक्षणे'। प्साति भक्षयतीति प्साः । ‘ क्विप् च ' इति क्विप् । न विद्यते प्सा अस्येति बहुव्रीहौ ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । भरेषुजाम् । जनी प्रादुर्भावे । पूर्ववत् विद् आत्वं च । मदेम । मदी हर्षे ' । व्यत्ययेन शप् ॥
“We rejoice, Soma, contemplating you, invincible in battle, triumphant amongst hosts, the granter of heaven, the giver of rain, the preserver of strength, born amidst sacrifices, occupying a brilliant dwelling, renowned and victorious.”
Invincible in fight, saver in battles, guard of our camp, winner of light and water,
Born amid hymns, well-housed, exceeding famous, victor, in thee will we rejoice, O Soma.
Invincible in combats, in battles a deliverer, winning the sun, winning the waters, herdsman of the community,
born at raids, granting good dwelling and good fame, conquering—you would we celebrate, o Soma.
Dich der du beistehst unbesiegt in Schlachten, verschaffend Glanz und Wasser, Wohnung schirmend, Zum Kampf geboren, schön an Ruhm und Wohnsitz, dich Sieger, Soma, wollen wir begrüssen.
Wir möchten dir, Soma, zujubeln als dem Sieger, der in den Kämpfen unbezwungen, in den Schlachten heraushilft, der das Himmelslicht gewinnt, das Wasser gewinnt, dem Hirten der Opferpartei, dem Kampfgeborenen, der gute Wohnsitze, guten Ruhm erwirbt.
Неодолимого в битвах, спасающего в сражениях,
Завоевывающего солнце, завоевывающего воды, охранителя общины,
Рожденного в боях, с прекрасными поселениями, прекрасной славой,
Побеждающего – тебя мы хотим приветствовать, о Сома!
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्व१॒॑न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥
त्वम् । इ॒माः । ओष॑धीः । सो॒म॒ । विश्वाः॒ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः । त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । त्वम् । ज्योति॑षा । वि । तमः॑ । व॒व॒र्थ॒ ॥
हे सोम त्वम् इमाः भूम्यां वर्तमानाः विश्वाः सर्वाः ओषधीः अजनयः उत्पादितवानसि । तथा त्वम् अपः तासामोधीनां कारणभूतानि वृष्टयुदकानि अजनयः । तथा त्वं गा: सर्वान् पशूनुदपादयः । उरु विस्तीर्णम् अन्तरिक्षं त्वम् आ ततन्थ विस्तारितवानसि । तस्मिन्नन्तरिक्षे यत् तमः निरोधकमन्धकारं तदपि त्वं ज्योतिषा आत्मीयेन प्रकाशेन वि ववर्थ विवृतं विश्लिष्टं विनष्टं कृतवानसि ॥ ततन्थ । तनु विस्तारे । ववर्थ । वृञ् वरणे । उभयत्र लिटस्थलि • बभूथा ततन्थ जगृभ्म ववर्थेति निगमे ' ( पा. सू. ७. २. ६४ ) इति निपात्यते ॥
हे सोम त्वं विश्वाः सर्वा इमा ओषधीः अजनयः उत्पादितवानसि । तथा त्वमपो जलान्यजनयः । तथा त्वं गाः गवादिपशूनजनयः ।
तथा त्वमुरु विस्तीर्णमन्तरिक्षं आततन्थ विस्तारितवानसि । तथा त्वं ज्योतिषा तेजसा तमोऽन्धकारं ववर्थ निवारितवानसि ॥
“You, Soma, have genitive rated all these herbs, the water and the kine; you have spread out the spacious firmament; you have scattered darkness with light.”
These herbs, these milch-kine, and these running waters, all these, O Soma, thou hast generated.
The spacious firmament hast thou expanded, and with the light thou hast dispelled the darkness.
You, Soma, begot all these plants here; you the waters, you the cows. You have stretched across the wide midspace; you have uncovered the darkness with your light.
Du hast, o Soma, alle diese Pflanzen, die Rinder du erzeugt und die Gewässer, Hast ausgespannt den weiten Raum der Lüfte, und hast enthüllt die Finsterniss durch Lichtglanz.
Du hast alle diese Pflanzen, o Soma, du die Gewässer, du die Kühe hervorgebracht. Du hast den weiten Luftraum ausgespannt; du hast mit dem Lichte das Dunkel aufgedeckt.
Ты, о Сома, – все эти растения,
Ты – воды породил, ты – коров.
Ты протянул широкое воздушное пространство.
Светом ты раскрыл мрак.
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्य॒: प्र चि॑कित्सा॒ गवि॑ष्टौ ॥
दे॒वेन॑ । नः॒ । मन॑सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒ऽव॒न् । अ॒भि । यु॒ध्य॒ । मा । त्वा । त॒न॒त् । ईशि॑षे । वी॒र्य॑स्य । उ॒भये॑भ्यः । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ ॥
हे देव द्योतमान सहसावन् बलवन् सोम देवेन मनसा द्योतमानया त्वदीयया बुद्ध्या रायो भागं धनस्यांशं नः अस्मानभिलक्ष्य युध्य प्रेरय । यद्वा । नोऽस्माकं रायो धनस्य भागं भक्तारमपहर्तारं शत्रुम् अभि युध्य आभिमुख्येन सम्यक् प्रहर । त्वा तादृशं त्वां कश्चिदपि शत्रुः मा आ तनत् क्लेशेन आततं मा कार्षीत् । मा हिंसीदित्यर्थः । उभयेभ्यः उभयेषां युध्यमानानां संबन्धिनः वीर्यस्य बलस्य त्वम् ईशिषे ईश्वरो भवसि । स त्वं गविष्टौ संग्रामे प्र चिकित्स अस्मदीयमुपद्रवं परिहर ॥ रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । भागम् । भजतेः कर्मणि घञ्; ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् कर्तरि वा । ‘ कर्षात्वतः' इत्यन्तोदात्तत्वम् । सहसावन् । सहःशब्दात् मतुपि छान्दस आकारोपजनः । युध्य । युध संप्रहारे । व्यत्ययेन परस्मैपदम् । तनत् । ‘ तनु विस्तारे । व्यत्ययेन शप् । ‘ न माङ्योगे ' इति अडभावः । ईशिषे । ‘ ईशः से (पा. सू. ७. २. ७७ ) इति इडागमः । चिकित्स। ‘ कित ज्ञाने'। गुप्तिज्किद्यः“र सन्' (पा. सू. ३. १, ५) । गविष्टौ । गवां बाणानामिष्टयः एषणानि गमनानि येष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ।२३॥
“Divine and potent Soma, bestow upon us, with your brilliant mind, a portion of wealth; may no (adversary) annoy you; you are supreme over the valour of (any) two (mutual) opponents; defend us (from our enemies) in battle.”
Do thou, God Soma, with thy Godlike spirit, victorious, win for us a share of riches.
Let none prevent thee: thou art Lord of valour. Provide for both sides in the fray for booty.
With your god(like) mind, god Soma, battle for a share of wealth for us, mighty one.
Don’t let it hold out on you. You are master of heroism. On behalf of both (men and gods? / singers and patrons?) be on the lookout in the quest for cattle.
Mit Göttersinn, Gott Soma, kraftbegabter, erkämpf uns unsern Antheil an dem Reichthum, Nichts hemme dich; denn Heldenkraft ist dein ja, im Kampf zeig hülfreich Fürsten dich und Sängern.
Mit deinem göttlichen Geist, o Soma, erkämpfe uns den Anteil am Reichtum, du Gewaltiger! Nicht soll er dich davon abhalten; du besitzest die Kraft. Sei du für beide Teile beim Rindererwerb der Pfadfinder!
Божественным разумом, о бог Сома,
Завоюй нам долю в богатстве, о обладатель силы!
Да не помешает он тебе: ты владеешь героической силой!
Прояви себя на стороне обоих при добывании коров!